सामग्री पर जाएँ

ऋग्वेदः सूक्तं ७.१९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.१९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.१८ ऋग्वेदः - मण्डल ७
सूक्तं ७.१९
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.२० →
दे. इन्द्रः। त्रिष्टुप्।


यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः ।
यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥
त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।
दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥
त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।
प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥
त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।
त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥
तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।
निवेशने शततमाविवेषीरहञ्च वृत्रं नमुचिमुताहन् ॥५॥
सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥
मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै ।
त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥७॥
प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः ।
नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥८॥
सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था ।
ये ते हवेभिर्वि पणीँरदाशन्नस्मान्वृणीष्व युज्याय तस्मै ॥९॥
एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।
तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥
नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।
उप नो वाजान्मिमीह्युप स्तीन्यूयं पात स्वस्तिभिः सदा नः ॥११॥


सायणभाष्यम्

‘यस्तिग्मशृङ्गः' इत्येकादशर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं’ यस्तिग्मशृङ्ग एकादश' इति । आभिप्लविके पञ्चमेऽहन्येतन्निविद्धानम् । सूत्रितं च---‘कया शुभा यस्तिग्मशृङ्ग इति मध्यंदिनः ' ( आश्व. श्रौ. ७. ७ ) इति । विषुवति निष्केवल्यशस्त्रेऽप्येतत्सूक्तम् । सूत्रितं च--’ यस्तिग्मशृङ्गोऽभि त्यं मेषम् ' (आश्व. श्रौ. ८. ६) इति । महाव्रते निष्केवल्येऽप्येतत् सूक्तम् । सूत्रितं च-’ यस्तिग्मशृङ्गो वृषभो न भीम उग्रो जज्ञे वीर्याय स्वधावान्' (ऐ. आ. ५. २. २ ) इति । आयुष्कामेष्ट्यां ‘मा ते अस्याम्' इतीन्द्रस्य त्रातुर्याज्या । सूत्रितं च – ' मा ते अस्यां सहसावन्परिष्टौ पाहि नो अग्ने पायुभिः' (आश्व. श्रौ. २. १०) इति ॥


यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एक॑ः कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वा॑ः ।

यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेद॑ः ॥१

यः । ति॒ग्मऽशृ॑ङ्गः । वृ॒ष॒भः । न । भी॒मः । एकः॑ । कृ॒ष्टीः । च्य॒वय॑ति । प्र । विश्वाः॑ ।

यः । शश्व॑तः । अदा॑शुषः । गय॑स्य । प्र॒ऽय॒न्ता । अ॒सि॒ । सु॒स्वि॑ऽतराय । वेदः॑ ॥१

यः । तिग्मऽशृङ्गः । वृषभः । न । भीमः । एकः । कृष्टीः । च्यवयति । प्र । विश्वाः ।

यः । शश्वतः । अदाशुषः । गयस्य । प्रऽयन्ता । असि । सुस्विऽतराय । वेदः ॥१

“यः इन्द्रः “तिग्मशृङ्गः तीक्ष्णशृङ्गः “वृषभो “न वृषभ इव “भीमः भयंकरः सन् “एकः असहाय एव “विश्वाः सर्वान् “कृष्टीः शत्रुजनान् स्थानात् “प्र “च्यावयति । “यः चेन्द्रः “अदाशुषः अयजमानस्य “शश्वतः बहोः “गयस्य गृहस्य धनस्य वा । अपहर्ता भवतीति शेष: । हे इन्द्र स त्वं "सुष्वितराय अतिशयेन सोमाभिषवं कुर्वते जनाय "वेदः धनं “प्रयन्ता प्रदाता "असि ॥ तृन्नन्तत्वादत्र षष्ठ्या अभावः । असि इत्यस्याख्यातस्यानुदात्तत्वात् यद्वृत्तयोगाच्चानुदात्तत्वासंभवात् यद्वृत्तयुक्तमाख्यातान्तरमध्याहृत्य योजना कृता ।।


त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑माव॒ः शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।

दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥२

त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स॑म् । आ॒वः॒ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये ।

दास॑म् । यत् । शुष्ण॑म् । कुय॑वम् । नि । अ॒स्मै॒ । अर॑न्धयः । आ॒र्जु॒ने॒याय॑ । शिक्ष॑न् ॥२

त्वम् । ह । त्यत् । इन्द्र । कुत्सम् । आवः । शुश्रूषमाणः । तन्वा । सऽमर्ये ।

दासम् । यत् । शुष्णम् । कुयवम् । नि । अस्मै । अरन्धयः । आर्जुनेयाय । शिक्षन् ॥२

हे “इन्द्र “त्वं “ह त्वं खलु “त्यत् तदा "तन्वा शरीरेण “शुश्रूषमाणः उपचरन् "समर्ेा मर्यैर्मर्त्यैर्योद्धभिः सहिते युद्धे “कुत्सम् "आवः अरक्षः । कदेत्यत्राह । "यत् यदा "आर्जुनेयाय अर्जुन्याः पुत्राय “अस्मै कुत्साय "शिक्षन् धनं प्रयच्छन् "दासं दासनामकमसुरं “शुष्णं च "कुयवं च “नि "अरन्धयः नितरां वशमानयः ॥


त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभि॑ः सु॒दास॑म् ।

प्र पौरु॑कुत्सिं त्र॒सद॑स्युमाव॒ः क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ॥३

त्वम् । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । वी॒तऽह॑व्यम् । प्र । आ॒वः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । सु॒ऽदास॑म् ।

प्र । पौरु॑ऽकुत्सिम् । त्र॒सद॑स्युम् । आ॒वः॒ । क्षेत्र॑ऽसाता । वृ॒त्र॒ऽहत्ये॑षु । पू॒रुम् ॥३

त्वम् । धृष्णो इति । धृषता । वीतऽहव्यम् । प्र । आवः । विश्वाभिः । ऊतिऽभिः । सुऽदासम् ।

प्र । पौरुऽकुत्सिम् । त्रसदस्युम् । आवः । क्षेत्रऽसाता । वृत्रऽहत्येषु । पूरुम् ॥३

हे “धृष्णो शत्रूणां धर्षकेन्द्र "धृषता धर्षकेण वज्रेण बलेन वा "वीतहव्यं दत्तहविष्कं प्रजनितहविष्कं वा "सुदासं राजानं "विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः "प्रावः प्रकर्षेणारक्षः । किंच “वृत्रहत्येषु युद्धेषु "क्षेत्रसाता क्षेत्रसातौ क्षेत्रस्य भूमेर्भजने निमित्ते पौरुकुत्सिं पुरुकुत्सस्यापत्यं “त्रसदस्युं “पूरुं च “प्र “आवः ॥


त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि ।

त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥४

त्वम् । नृऽभिः॑ । नृ॒ऽम॒नः॒ । दे॒वऽवी॑तौ । भूरी॑णि । वृ॒त्रा । ह॒रि॒ऽअ॒श्व॒ । हं॒सि॒ ।

त्वम् । नि । दस्यु॑म् । चुमु॑रिम् । धुनि॑म् । च॒ । अस्वा॑पयः । द॒भीत॑ये । सु॒ऽहन्तु॑ ॥४

त्वम् । नृऽभिः । नृऽमनः । देवऽवीतौ । भूरीणि । वृत्रा । हरिऽअश्व । हंसि ।

त्वम् । नि । दस्युम् । चुमुरिम् । धुनिम् । च । अस्वापयः । दभीतये । सुऽहन्तु ॥४

हे "नृमणः नृभिर्यज्ञानां नेतृभिः स्तोतृभिर्मननीय स्तोतव्येन्द्र । नृषु मनो यस्येति बहुव्रीहिर्वा । “देववीतौ यज्ञे क्रियमाणे सति संग्रामे वा । देवा विजिगीषवो यस्मिन् वियन्ति गच्छन्तीति संग्रामो देववीतिः। "नृभिः मरुद्भिः सह "भूरीणि बहूनि "वृत्रा वृत्राणि शत्रून् "हंसि मारितवानसि । किंच हे "हर्यश्व इन्द्र “त्वं “दभीतये दभीतिनामकाय राजर्षये । तदर्थमित्यर्थः । “दस्युं “चुमुरिं च “धुनिं च "सुहन्तु सुहन्तुना वज्रेण "नि नितराम् "अस्वापयः । मारितवानसीत्यर्थः ॥


तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः ।

नि॒वेश॑ने शतत॒मावि॑वेषी॒रह॑ञ्च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥५

तव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुरः॑ । न॒व॒तिम् । च॒ । स॒द्यः ।

नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षीः॒ । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥५

तव । च्यौत्नानि । वज्रऽहस्त । तानि । नव । यत् । पुरः । नवतिम् । च । सद्यः ।

निऽवेशने । शतऽतमा । अविवेषीः । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन् ॥५

हे "वज्रहस्त “तव “च्यौत्नानि बलानि "तानि तादृशानि । "यत् यदा त्वं शम्बरस्य "नव “नवतिं "च “पुरः "सद्यः युगपदेव विदारितवानसीति शेषः । तदा "निवेशने निवेशनार्थं “शततमा शततमीं पुरम् "अविवेषीः व्याप्नोः । "वृत्रं "च "अहन् । "उत अपि च "नमुचिम् “अहन् ॥ ॥ २९ ॥


सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑ ।

वृष्णे॑ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा॑णि पुरुशाक॒ वाज॑म् ॥६

सना॑ । ता । ते॒ । इ॒न्द्र॒ । भोज॑नानि । रा॒तऽह॑व्याय । दा॒शुषे॑ । सु॒ऽदासे॑ ।

वृष्णे॑ । ते॒ । हरी॒ इति॑ । वृष॑णा । यु॒न॒ज्मि॒ । व्यन्तु॑ । ब्रह्मा॑णि । पु॒रु॒ऽशा॒क॒ । वाज॑म् ॥६

सना । ता । ते । इन्द्र । भोजनानि । रातऽहव्याय । दाशुषे । सुऽदासे ।

वृष्णे । ते । हरी इति । वृषणा । युनज्मि । व्यन्तु । ब्रह्माणि । पुरुऽशाक । वाजम् ॥६

हे "इन्द्र "ते तव "रातहव्याय दत्तहव्याय "दाशुषे यजमानाय "सुदासे "ता तानि त्वया दत्तानि “भोजनानि भोग्यानि धनानि “सना सनानि सनातनानि बभूवुरिति शेषः । हे "पुरुशाक बहुकर्मन्निन्द्र "वृष्णे कामानां वर्षित्रे "ते तुभ्यम् । त्वामानेतुमित्यर्थः । "वृषणा वृषणौ “हरी अश्वौ “युनज्मि रथे योजयामि । “ब्रह्माणि अस्मदीयानि स्तोत्राणि "वाजं बलिनं त्वां “व्यन्तु गच्छन्तु ॥


मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै ।

त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यास॑ः सू॒रिषु॑ स्याम ॥७

मा । ते॒ । अ॒स्याम् । स॒ह॒सा॒ऽव॒न् । परि॑ष्टौ । अ॒घाय॑ । भू॒म॒ । ह॒रि॒ऽवः॒ । प॒रा॒ऽदै ।

त्राय॑स्व । नः॒ । अ॒वृ॒केभिः॑ । वरू॑थैः । तव॑ । प्रि॒यासः॑ । सू॒रिषु॑ । स्या॒म॒ ॥७

मा । ते । अस्याम् । सहसाऽवन् । परिष्टौ । अघाय । भूम । हरिऽवः । पराऽदै ।

त्रायस्व । नः । अवृकेभिः । वरूथैः । तव । प्रियासः । सूरिषु । स्याम ॥७

हे "सहसावन् बलवन् "हरिवः हरिवन्निन्द्र "ते तव "अस्यां स्तोत्रेणास्माभिः क्रियमाणायां “परिष्टौ अन्वेषणायां "परादै परादानाय "अघाय अ(आ?)हन्त्रे वयं "मा "भूम । किंच "नः अस्मान् “अवृकेभिः अबाधैः "वरूथैः । वारयन्त्युपद्रवेभ्य इति वरूथानि रक्षणानि । तैः “त्रायस्व पाहि । “तव "सूरिषु स्तोतृषु मध्ये वयं "प्रियासः प्रियाः स्याम भूयास्म ॥


प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः ।

नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥८

प्रि॒यासः॑ । इत् । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । म॒दे॒म॒ । श॒र॒णे । सखा॑यः ।

नि । तु॒र्वश॑म् । नि । याद्व॑म् । शि॒शी॒हि॒ । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥८

प्रियासः । इत् । ते । मघऽवन् । अभिष्टौ । नरः । मदेम । शरणे । सखायः ।

नि । तुर्वशम् । नि । याद्वम् । शिशीहि । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥८

हे "मघवन् धनवन्निन्द्र “ते तव "अभिष्टौ अभ्येषणे "नरः स्तोत्राणां नेतारो वयं "सखायः समानख्यातयः “प्रियासः प्रियाश्च सन्तः “शरणे "इत् गृह एव “मदेम मोदेम । किंच “अतिथिग्वाय । पूजयातिथीन् गच्छतीत्यतिथिग्वः । तस्मै सुदासे दिवोदासाय वास्मदीयाय राज्ञे “शंस्यं शंसनीयं सुखं "करिष्यन् कुर्वन् "तुर्वशं राजानं "नि "शिशीहि वशं कुरु । "याद्वं च राजानं “नि शिशीहीत्यर्थः ॥


स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नर॑ः शंसन्त्युक्थ॒शास॑ उ॒क्था ।

ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥९

स॒द्यः । चि॒त् । नु । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । शं॒स॒न्ति॒ । उ॒क्थ॒ऽशासः॑ । उ॒क्था ।

ये । ते॒ । हवे॑भिः । वि । प॒णीन् । अदा॑शन् । अ॒स्मान् । वृ॒णी॒ष्व॒ । युज्या॑य । तस्मै॑ ॥९

सद्यः । चित् । नु । ते । मघऽवन् । अभिष्टौ । नरः । शंसन्ति । उक्थऽशासः । उक्था ।

ये । ते । हवेभिः । वि । पणीन् । अदाशन् । अस्मान् । वृणीष्व । युज्याय । तस्मै ॥९

हे "मघवन् धनवन्निन्द्र "ते तव “नु अद्य "अभिष्टौ अभ्येषणे "ये "नरः “उक्थशासः उक्थानां शंसितारः “उक्था उक्थानि शस्त्राणि "सद्यश्चित् सद्य एव “शंसन्ति । किंच "ते तव "हवेभिः स्तोत्रैः "पणीन् अप्रदानशीलान् वणिजोऽपि “वि “अदाशन् । धनानि विशेषेणादापयन्नित्यर्थः । तान् "अस्मान् "तस्मै "युज्याय सख्याय तत्सख्यमनुवर्तयितुं "वृणीष्व परिगृहाण ॥


ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्य॑ञ्चो॒ दद॑तो म॒घानि॑ ।

तेषा॑मिन्द्र वृत्र॒हत्ये॑ शि॒वो भू॒ः सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णाम् ॥१०

ए॒ते । स्तोमाः॑ । न॒राम् । नृ॒ऽत॒म॒ । तुभ्य॑म् । अ॒स्म॒द्र्य॑ञ्चः । दद॑तः । म॒घानि॑ ।

तेषा॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । शि॒वः । भूः॒ । सखा॑ । च॒ । शूरः॑ । अ॒वि॒ता । च॒ । नृ॒णाम् ॥१०

एते । स्तोमाः । नराम् । नृऽतम । तुभ्यम् । अस्मद्र्यञ्चः । ददतः । मघानि ।

तेषाम् । इन्द्र । वृत्रऽहत्ये । शिवः । भूः । सखा । च । शूरः । अविता । च । नृणाम् ॥१०

हे "नृतम नेतृतम "इन्द्र "तुभ्यं "नरां नेतॄणां ये “एते "स्तोमाः संघाः "मघानि मंहनीयानि - हवींषि “ददतः ददन्तः "अस्मद्र्यञ्चः अस्मदभिमुखाः अभूवन्निति शेषः । "तेषां "नृणां "वृत्रहत्ये संग्रामे "शिवः कल्याणकृत् 'भूः भव। "सखा “च भूः । “अविता' रक्षिता “च भूः ॥


नू इ॑न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व ।

उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥११

नु । इ॒न्द्र॒ । शू॒र॒ । स्तव॑मानः । ऊ॒ती । ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒ध॒स्व॒ ।

उप॑ । नः॒ । वाजा॑न् । मि॒मी॒हि॒ । उप॑ । स्तीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥११

नु । इन्द्र । शूर । स्तवमानः । ऊती । ब्रह्मऽजूतः । तन्वा । ववृधस्व ।

उप । नः । वाजान् । मिमीहि । उप । स्तीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥११

हे "शूर “इन्द्र “नु अद्य "स्तवमानः अस्माभिः स्तूयमानः “ब्रह्मजूतः ब्रह्मणा स्तोत्रेण प्रेरितः “तन्वा शरीरेण ऊत्या रक्षणेन’ “ववृधस्व । अपि च "नः अस्मभ्यं “वाजान् अन्नानि “उप “मिमीहि । प्रयच्छेत्यर्थः । "स्तीन गृहांश्च “उप मिमीहि । स्पष्टमन्यत् ॥ ॥ ३० ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥


इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये

पञ्चमाष्टके द्वितीयोऽध्यायः समाप्तः ॥


टिप्पणी

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१९&oldid=399539" इत्यस्माद् प्रतिप्राप्तम्