ऋग्वेदः सूक्तं ७.३१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.३१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ७.३० ऋग्वेदः - मण्डल ७
सूक्तं ७.३१
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.३२ →
दे. इन्द्रः। गायत्री, १०-१२ विराट्।


प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
सखायः सोमपाव्ने ॥१॥
शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः ।
चकृमा सत्यराधसे ॥२॥
त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो ।
त्वं हिरण्ययुर्वसो ॥३॥
वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।
विद्धी त्वस्य नो वसो ॥४॥
मा नो निदे च वक्तवेऽर्यो रन्धीरराव्णे ।
त्वे अपि क्रतुर्मम ॥५॥
त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।
त्वया प्रति ब्रुवे युजा ॥६॥
महाँ उतासि यस्य तेऽनु स्वधावरी सहः ।
मम्नाते इन्द्र रोदसी ॥७॥
तं त्वा मरुत्वती परि भुवद्वाणी सयावरी ।
नक्षमाणा सह द्युभिः ॥८॥
ऊर्ध्वासस्त्वान्विन्दवो भुवन्दस्ममुप द्यवि ।
सं ते नमन्त कृष्टयः ॥९॥
प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
विशः पूर्वीः प्र चरा चर्षणिप्राः ॥१०॥
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
तस्य व्रतानि न मिनन्ति धीराः ॥११॥
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
हर्यश्वाय बर्हया समापीन् ॥१२॥

सायणभाष्यम्

‘प्र व इन्द्राय' इति द्वादशर्चं चतुर्दशं सूक्तं वसिष्ठस्यार्षं गायत्रमैन्द्रम् । दशम्याद्यास्तिस्रो विराजः शिष्टा गायत्र्यः । तथा चानुक्रान्तं - ’ प्र वो द्वादश गायत्रं त्रिविराळन्तम्' इति । सूक्तविनियोगो लैङ्गिकः । प्रथमे रात्रिपर्याये मैत्रावरुणशस्त्रे ‘प्र व इन्द्राय' इत्याद्यस्तृचः स्तोत्रियः । सूत्रितं च - ‘प्र व इन्द्राय मादनं प्र कृतान्यृजीषिणः' (आश्व. श्रौ. ६. ४) इति । अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिशस्त्रे वयमिन्द्र वायवोऽभि' इत्यनुरूपस्तृचः । तथा च सूत्रितं - ’ वयमिन्द्र त्वायवोऽभि वार्त्रहत्यायेत्युत्तमामुद्धरेत्' (आश्व. श्रौ. ६. ४) इति । चतुर्थेऽहनि माध्यदिनसवने होत्रकशस्त्र आरम्भणीयाभ्य ऊर्ध्वं वैराज एकस्तृच आहवनीयः। तदर्थाः ‘प्र वो महे महिवृधे भरध्वम्' इत्याद्यास्तिस्रः । सूत्रितं च - ' प्र वो महे महिवृधे भरध्वमिति चतस्रस्तिस्रश्च विराजः । (आश्व. श्रौ. ७. ११) इति ॥


प्र व॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत ।

सखा॑यः सोम॒पाव्ने॑ ॥१

प्र । वः॒ । इन्द्रा॑य । माद॑नम् । हरि॑ऽअश्वाय । गा॒य॒त॒ ।

सखा॑यः । सो॒म॒ऽपाव्ने॑ ॥१

प्र । वः । इन्द्राय । मादनम् । हरिऽअश्वाय । गायत ।

सखायः । सोमऽपाव्ने ॥१

हे "सखायः "वः यूयं "हर्यश्वाय "सोमपाव्ने सोमानां पात्रे “इन्द्राय "मादनं मदकरं स्तोत्रं “प्र “गायत ॥


शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नर॑ः ।

च॒कृ॒मा स॒त्यरा॑धसे ॥२

शंस॑ । इत् । उ॒क्थम् । सु॒ऽदान॑वे । उ॒त । द्यु॒क्षम् । यथा॑ । नरः॑ ।

च॒कृ॒म । स॒त्यऽरा॑धसे ॥२

शंस । इत् । उक्थम् । सुऽदानवे । उत । द्युक्षम् । यथा । नरः ।

चकृम । सत्यऽराधसे ॥२

“उत अपि च हे स्तोतः "सुदानवे शोभनदानाय "सत्यराधसे सत्यधनायेन्द्राय "उक्थं स्तोमं “यथा "नरः अन्ये स्तोतारः “द्युक्षं दीप्तेः साधनभूतं स्तोत्रं शंसन्ति तद्वत्वमपि “शंस उच्चारय । “इत् इति पूरणः । वयं च "चकृम स्तोत्रं करवाम ॥


त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो ।

त्वं हि॑रण्य॒युर्व॑सो ॥३

त्वम् । नः॒ । इ॒न्द्र॒ । वा॒ज॒ऽयुः । त्वम् । ग॒व्युः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

त्वम् । हि॒र॒ण्य॒ऽयुः । व॒सो॒ इति॑ ॥३

त्वम् । नः । इन्द्र । वाजऽयुः । त्वम् । गव्युः । शतक्रतो इति शतऽक्रतो ।

त्वम् । हिरण्यऽयुः । वसो इति ॥३

हे “इन्द्र “त्वं “नः अस्माकं “वाजयुः अन्नकामो भव । हे “शतक्रतो “त्वं नोऽस्माकं “गव्युः गोकामो भव । हे “वसो वासयितरिन्द्र “त्वं हिरण्ययुः हिरण्यकामोऽपि भव । छन्दसि परेच्छायामपि दृश्यते क्यच् ' इति क्यच् ॥


व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् ।

वि॒द्धी त्व१॒॑स्य नो॑ वसो ॥४

व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । अ॒भि । प्र । नो॒नु॒मः॒ । वृ॒ष॒न् ।

वि॒द्धि । तु । अ॒स्य । नः॒ । व॒सो॒ इति॑ ॥४

वयम् । इन्द्र । त्वाऽयवः । अभि । प्र । नोनुमः । वृषन् ।

विद्धि । तु । अस्य । नः । वसो इति ॥४

हे "वृषन् कामानां वर्षितः "इन्द्र “त्वायवः त्वत्कामाः "वयं वसिष्ठास्त्वाम् "अभि "प्र “णोनुमः प्रकर्षेण स्तुमः । हे “वसो वासयितरिन्द्र "अस्य इदमस्मदीयं स्तोत्रं "तु क्षिप्रं "विद्धि अवधारय ।।


मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे ।

त्वे अपि॒ क्रतु॒र्मम॑ ॥५

मा । नः॒ । नि॒दे । च॒ । वक्त॑वे । अ॒र्यः । र॒न्धीः॒ । अरा॑व्णे ।

त्वे इति॑ । अपि॑ । क्रतुः॑ । मम॑ ॥५

मा । नः । निदे । च । वक्तवे । अर्यः । रन्धीः । अराव्णे ।

त्वे इति । अपि । क्रतुः । मम ॥५

हे इन्द्र "अर्यः स्वामी त्वं "वक्तवे परुषवाक्यानां वक्त्रे “निदे निन्दित्रे “अराव्णे अदात्रे "नः अस्मान् “मा "रन्धीः वशं मा कार्षीः। “अपि अपि च “त्वे त्वयि "मम "क्रतुः मदीयं स्तोत्रलक्षणं कर्म गच्छत्विति शेषः । अस्मदीयं स्तोत्रं भवच्चित्ते प्रविशत्वित्यर्थः ॥


त्वं वर्मा॑सि स॒प्रथ॑ः पुरोयो॒धश्च॑ वृत्रहन् ।

त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥६

त्वम् । वर्म॑ । अ॒सि॒ । स॒ऽप्रथः॑ । पु॒रः॒ऽयो॒धः । च॒ । वृ॒त्र॒ऽह॒न् ।

त्वया॑ । प्रति॑ । ब्रु॒वे॒ । यु॒जा ॥६

त्वम् । वर्म । असि । सऽप्रथः । पुरःऽयोधः । च । वृत्रऽहन् ।

त्वया । प्रति । ब्रुवे । युजा ॥६

हे "वृत्रहन् शत्रूणां हिंसकेन्द्र “त्वं "वर्म अस्माकं कवचम् "असि । कवचवद्रक्षकोऽसीत्यर्थः । "सप्रथः सर्वतः पृथुश्चासि । "पुरोयोधश्च पुरो योद्धा चासि । "त्वया "युजा त्वया सहायेन "प्रति “ब्रुवे शत्रून् प्रतिब्रवीमि । प्रतिहन्मीत्यर्थः ॥ ॥ १५ ॥


म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सह॑ः ।

म॒म्नाते॑ इन्द्र॒ रोद॑सी ॥७

म॒हान् । उ॒त । अ॒सि॒ । यस्य॑ । ते॒ । अनु॑ । स्व॒धाव॑री॒ इति॑ स्व॒धाऽव॑री । सहः॑ ।

म॒म्नाते॒ इति॑ । इ॒न्द्र॒ । रोद॑सी॒ इति॑ ॥७

महान् । उत । असि । यस्य । ते । अनु । स्वधावरी इति स्वधाऽवरी । सहः ।

मम्नाते इति । इन्द्र । रोदसी इति ॥७

“उत अपि च हे “इन्द्र त्वं "महान् "असि सर्वाधिकोऽसि । हे इन्द्र "यस्य “ते तव "सहः बलं "स्वधावरी अन्नवत्यौ "रोदसी द्यावापृथिव्यौ “अनु “मम्नाते अनुमन्येते । त्वदीयं सहः सर्वाधिकमित्यत्रोभावपि लोकौ विसंवादं न कुरुत इत्यर्थः ॥


तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री ।

नक्ष॑माणा स॒ह द्युभि॑ः ॥८

तम् । त्वा॒ । म॒रुत्व॑ती । परि॑ । भुव॑त् । वाणी॑ । स॒ऽयाव॑री ।

नक्ष॑माणा । स॒ह । द्युऽभिः॑ ॥८

तम् । त्वा । मरुत्वती । परि । भुवत् । वाणी । सऽयावरी ।

नक्षमाणा । सह । द्युऽभिः ॥८

हे इन्द्र “तम् उक्तगुणविशिष्टं “त्वा त्वां “सयावरी त्वया सह गन्त्री । यत्र यत्र त्वं यासि तत्र तत्र यान्तीत्यर्थः । “द्युभिः तेजोभिः "नक्षमाणा व्याप्नुवती "मरुत्वती । मरुतः स्तोतारः । तद्वती “वाणी स्तुतिः "परि "भुवत् परिभवतु । परिभवतिरत्र परिग्रहार्थीयः । परिगृह्णात्वित्यर्थः ।।


ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑ ।

सं ते॑ नमन्त कृ॒ष्टय॑ः ॥९

ऊ॒र्ध्वासः॑ । त्वा॒ । अनु॑ । इन्द॑वः । भुव॑न् । द॒स्मम् । उप॑ । द्यवि॑ ।

सम् । ते॒ । न॒म॒न्त॒ । कृ॒ष्टयः॑ ॥९

ऊर्ध्वासः । त्वा । अनु । इन्दवः । भुवन् । दस्मम् । उप । द्यवि ।

सम् । ते । नमन्त । कृष्टयः ॥९

हे इन्द्र “उप “द्यवि द्युलोकसमीपे स्थितं "दस्मं दर्शनीयं "त्वा त्वाम् "अनु उद्दिश्य “ऊर्ध्वासः ऊर्ध्वाः "इन्दवः अस्मदीयाः सोमाः "भुवन् भवन्ति। “कृष्टयः प्रजाश्च "ते तुभ्यं "सं "नमन्त । भुवि सोमास्त्वदर्थमेव जायन्ते प्रजाश्च त्वामेव प्रणमन्तीतीन्द्रस्तुतिः ॥


प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् ।

विश॑ः पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥१०

प्र । वः॒ । म॒हे । म॒हि॒ऽवृधे॑ । भ॒र॒ध्व॒म् । प्रऽचे॑तसे । प्र । सु॒ऽम॒तिम् । कृ॒णु॒ध्व॒म् ।

विशः॑ । पू॒र्वीः । प्र । च॒र॒ । च॒र्ष॒णि॒ऽप्राः ॥१०

प्र । वः । महे । महिऽवृधे । भरध्वम् । प्रऽचेतसे । प्र । सुऽमतिम् । कृणुध्वम् ।

विशः । पूर्वीः । प्र । चर । चर्षणिऽप्राः ॥१०

हे मदीयाः पुरुषाः “वः यूयं "महिवृधे महतां धनानां वर्धयित्रे "महे महते इन्द्राय “प्र “भरध्वं सोमान् प्रणयत । "प्रचेतसे प्रकृष्टमतये इन्द्राय “सुमतिं सुष्टुतिं च “प्र “कृणुध्वं प्रकुरुत । अथ प्रत्यक्षस्तुतिः । हे इन्द्र "चर्षणिप्राः कामैः प्रजानां पूरयिता त्वं "पूर्वीः हविषां पूरयित्रीः "विशः प्रजाः “प्र “चर अभिगच्छ॥


उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्रा॑ः ।

तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीरा॑ः ॥११

उ॒रु॒ऽव्यच॑से । म॒हिने॑ । सु॒ऽवृ॒क्तिम् । इन्द्रा॑य । ब्रह्म॑ । ज॒न॒य॒न्त॒ । विप्राः॑ ।

तस्य॑ । व्र॒तानि॑ । न । मि॒न॒न्ति॒ । धीराः॑ ॥११

उरुऽव्यचसे । महिने । सुऽवृक्तिम् । इन्द्राय । ब्रह्म । जनयन्त । विप्राः ।

तस्य । व्रतानि । न । मिनन्ति । धीराः ॥११

“उरुव्यचसे पृथुव्याप्तये "महिने महते यस्मै "इन्द्राय “सुवृक्तिं स्तुतिं “ब्रह्म अन्नं हविश्व ‘विप्राः प्राज्ञाः "जनयन्त जनयन्ति "तस्य इन्द्रस्य “व्रतानि रक्षणादीनि कर्माणि “धीराः प्राज्ञा देवा अपि "न "मिनन्ति न हिंसन्ति ॥


इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै ।

हर्य॑श्वाय बर्हया॒ समा॒पीन् ॥१२

इन्द्र॑म् । वाणीः॑ । अनु॑त्तऽमन्युम् । ए॒व । स॒त्रा । राजा॑नम् । द॒धि॒रे॒ । सह॑ध्यै ।

हरि॑ऽअश्वाय । ब॒र्ह॒य॒ । सम् । आ॒पीन् ॥१२

इन्द्रम् । वाणीः । अनुत्तऽमन्युम् । एव । सत्रा । राजानम् । दधिरे । सहध्यै ।

हरिऽअश्वाय । बर्हय । सम् । आपीन् ॥१२

“सत्रा "राजानं सर्वजगत ईश्वरम् “अनुत्तमन्युम् । केनाप्यनुत्तोऽबाधितो मन्युः क्रोधो यस्य सः । तम् “एव “इन्द्रं “वाणीः स्तुतयः “सहध्यै स्तोतॄणां शत्रूनभिभवितुं “दधिरे । अतो हेतोर्हे स्तोतः त्वमपि "हर्यश्वाय इन्द्राय । हर्यश्वमिन्द्रं स्तोतुमित्यर्थः। “आपीन् बन्धून् “सं “बर्हय उत्साहय ॥ ॥ १६ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३१&oldid=189830" इत्यस्माद् पुनः प्राप्तिः