ऋग्वेदः सूक्तं ७.६३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.६३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ७.६२ ऋग्वेदः - मण्डल ७
सूक्तं ७.६३
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.६४ →
दे. १-४ सूर्यः, ५ सूर्य-मित्रावरुणाः, ६ मित्रावरुणौ अर्यमा च। त्रिष्टुप्।


उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् ।
चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि ॥१॥
उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य ।
समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः ॥२॥
विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः ।
एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥३॥
दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः ।
नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि ॥४॥
यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः ।
प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ॥५॥
नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु ।
सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥६॥


सायणभाष्यम्

‘उद्वेति' इति षडृचमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभम्। आद्याश्चतस्रः पञ्चम्याः पूर्वार्धश्च सूर्यदेवत्या अवशिष्टास्त्रयोऽर्धर्चा मित्रावरुणदेवत्याः । तथा चानुकान्तम् - उद्वेतीति चार्धपञ्चमाः ' इति । विनियोगो लैङ्गिकः ॥


उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षा॒ः साधा॑रण॒ः सूर्यो॒ मानु॑षाणाम् ।

चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ यः स॒मवि॑व्य॒क्तमां॑सि ॥१

उत् । ऊं॒ इति॑ । ए॒ति॒ । सु॒ऽभगः॑ । वि॒श्वऽच॑क्षाः । साधा॑रणः । सूर्यः॑ । मानु॑षाणाम् ।

चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । दे॒वः । चर्म॑ऽइव । यः । स॒म्ऽअवि॑व्यक् । तमां॑सि ॥१

उत् । ऊं इति । एति । सुऽभगः । विश्वऽचक्षाः । साधारणः । सूर्यः । मानुषाणाम् ।

चक्षुः । मित्रस्य । वरुणस्य । देवः । चर्मऽइव । यः । सम्ऽअविव्यक् । तमांसि ॥१

“उद्वेति उद्गच्छत्ययं “सूर्यः “सुभगः शोभनभाग्यः सुष्ठु भजनीयो का “विश्वचक्षाः सर्वस्य द्रष्टा “मानुषाणां सर्वेषां मनुष्याणां “साधारणः । साधारणत्वप्रतिपादकश्रुतिः पूर्वमुदाहृता । “मित्रस्य “वरुणस्य च “चक्षुः प्रकाशकः “देवः द्योतमानः। “यः देवः “चर्मेव चर्माणीय “तमांसि “समविव्यक् सह विचति संवेष्टयति स महानुभावो देव उद्वेति ।।


उद्वे॑ति प्रसवी॒ता जना॑नां म॒हान्के॒तुर॑र्ण॒वः सूर्य॑स्य ।

स॒मा॒नं च॒क्रं प॑र्या॒विवृ॑त्स॒न्यदे॑त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥२

उत् । ऊं॒ इति॑ । ए॒ति॒ । प्र॒ऽस॒वि॒ता । जना॑नाम् । म॒हान् । के॒तुः । अ॒र्ण॒वः । सूर्य॑स्य ।

स॒मा॒नम् । च॒क्रम् । प॒रि॒ऽआ॒विवृ॑त्सन् । यत् । ए॒त॒शः । वह॑ति । धूः॒ऽसु । यु॒क्तः ॥२

उत् । ऊं इति । एति । प्रऽसविता । जनानाम् । महान् । केतुः । अर्णवः । सूर्यस्य ।

समानम् । चक्रम् । परिऽआविवृत्सन् । यत् । एतशः । वहति । धूःऽसु । युक्तः ॥२

अयं “सूर्यस्य सूर्यः । विभक्तिव्यत्ययः । "उद्वेति उद्गच्छति । कीदृशोऽयम् । “जनानां सर्वेषां “प्रसविता सर्वेषु कर्मस्वनुज्ञाता “महान् पूज्यः “केतुः सर्वस्य प्रज्ञापकः “अर्णवः उदकप्रदः । किं कुर्वन्नुदेतीति उच्यते । “समानं सर्वेषामेकरूपमेकमेव “चक्रं रथाङ्गं चरणशीलं रथं वा “पर्याविवृत्सन् पर्यावर्तयितुमिच्छन् । “यत् रथचकं “धूर्षु रथस्य "युक्तः “एतशः एतशवर्णो हरितवर्णोऽश्वः "वहति । ‘एको अश्वो वहति सप्तनामा' (ऋ. सं. १. १६४. २) इत्युक्तम् ।।


वि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द्रे॒भैरुदे॑त्यनुम॒द्यमा॑नः ।

ए॒ष मे॑ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥३

वि॒ऽभ्राज॑मानः । उ॒षसा॑म् । उ॒पऽस्था॑त् । रे॒भैः । उत् । ए॒ति॒ । अ॒नु॒ऽम॒द्यमा॑नः ।

ए॒षः । मे॒ । दे॒वः । स॒वि॒ता । च॒च्छ॒न्द॒ । यः । स॒मा॒नम् । न । प्र॒ऽमि॒नाति॑ । धाम॑ ॥३

विऽभ्राजमानः । उषसाम् । उपऽस्थात् । रेभैः । उत् । एति । अनुऽमद्यमानः ।

एषः । मे । देवः । सविता । चच्छन्द । यः । समानम् । न । प्रऽमिनाति । धाम ॥३

अयं सूर्यः “विभ्राजमानः विशेषेण दीप्यमानः “उषसामुपस्थात् उपस्थे मध्ये "रेभैः स्तोतृभिः “अनुमद्यमानः सन् "उदेति । किंच “एषः “देवः द्योतमानः “सविता “मे मह्यं “चच्छन्द उपच्छन्दयति कामान् । एष इत्युक्तं क इति । “यः देवः “समानं सर्वेषां प्राणिनामेकरूपं “धाम स्वीयं तेजःस्थानं न “प्रमिनाति न हिनस्ति न संकोचयति स देव उदेतीति ॥


दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।

नू॒नं जना॒ः सूर्ये॑ण॒ प्रसू॑ता॒ अय॒न्नर्था॑नि कृ॒णव॒न्नपां॑सि ॥४

दि॒वः । रु॒क्मः । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒ति॒ । दू॒रेऽअ॑र्थः । त॒रणिः॑ । भ्राज॑मानः ।

नू॒नम् । जनाः॑ । सूर्ये॑ण । प्रऽसू॑ताः । अय॑न् । अर्था॑नि । कृ॒णव॑न् । अपां॑सि ॥४

दिवः । रुक्मः । उरुऽचक्षाः । उत् । एति । दूरेऽअर्थः । तरणिः । भ्राजमानः ।

नूनम् । जनाः । सूर्येण । प्रऽसूताः । अयन् । अर्थानि । कृणवन् । अपांसि ॥४

अयं सूर्यः “रुक्मः रोचमानः “उरुचक्षाः प्रभूततेजाश्च सन् “दिवः अन्तरिक्षात् “उदेति । यद्वा दिवोऽन्तरिक्षस्य रुक्म आभरणस्थानीयः । कीदृशोऽयम्। 'दूरेअर्थः दूरे गन्ता। अर्थोऽर्तेः । दूरे प्रार्थ्यमानो वा । “तरणिः तारकः “भ्राजमानः दीप्यमानः सन्नुदेति । “नूनं निश्चयं “जनाः सर्वे प्राणिनः "सूर्येण प्रेरकेण देवेन “प्रसूताः अनुज्ञाताः प्रेरिताः सन्तः “अर्थानि गन्तव्यानि अनुष्ठेयानि “अपांसि कर्माणि 'कृणवन् कुर्वन्ति ।।


यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथ॑ः ।

प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥५

यत्र॑ । च॒क्रुः । अ॒मृताः॑ । गा॒तुम् । अ॒स्मै॒ । श्ये॒नः । न । दीय॑न् । अनु॑ । ए॒ति॒ । पाथः॑ ।

प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । वि॒धे॒म॒ । नमः॑ऽभिः । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । ह॒व्यैः ॥५

यत्र । चक्रुः । अमृताः । गातुम् । अस्मै । श्येनः । न । दीयन् । अनु । एति । पाथः ।

प्रति । वाम् । सूरे । उत्ऽइते । विधेम । नमःऽभिः । मित्रावरुणा । उत । हव्यैः ॥५

“यत्र यस्मिन्नन्तरिक्षे "अमृताः अमरणधर्माणः पूर्वे देवाः “अस्मै सूर्याय "गातुं मार्गं “चक्रुः अकुर्वन् तत् "पाथः अन्तरिक्षम् "अन्वेति अनुगच्छति । क इव। “दीयन् गच्छन् “श्येनो “न शंसनीयगमनो गृध्र इव। अयमर्धर्चः सौर्य इत्युक्तम् । हे "मित्रावरुणा मित्रावरुणौ “वां युवां “सूरे सूर्ये "उदिते सति प्रातःसवने “नमोभिः नमस्कारैः स्तुतिभिः “उत अपि च “हव्यैः हविर्भिश्व “प्रति “विधेम परिचरेम ॥


नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधन्तु ।

सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि सन्तु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

नु । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । नः॒ । त्मने॑ । तो॒काय॑ । वरि॑वः । द॒ध॒न्तु॒ ।

सु॒ऽगा । नः॒ । विश्वा॑ । सु॒ऽपथा॑नि । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

नु । मित्रः । वरुणः । अर्यमा । नः । त्मने । तोकाय । वरिवः । दधन्तु ।

सुऽगा । नः । विश्वा । सुऽपथानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

‘नू मित्रः' इति षष्ठी गता ॥ ॥५॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.६३&oldid=201043" इत्यस्माद् पुनः प्राप्तिः