ऋग्वेदः सूक्तं ७.२९
← सूक्तं ७.२८ | ऋग्वेदः - मण्डल ७ सूक्तं ७.२९ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.३० → |
दे. इन्द्रः। त्रिष्टुप्। |
अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः ।
पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥१॥
ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् ।
अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥२॥
का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम ।
विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥३॥
उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोरृषीणाम् ।
अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥४॥
वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥५॥
सायणभाष्यम्
अयं सोम इन्द्र' इति पञ्चर्चं द्वादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । अयं सोमः' इत्यनुक्रान्तम् । व्यूळ्हे दशरात्रे नवमेऽहनि ‘अयं सोम इन्द्र' इति प्रउगशस्त्र ऐन्द्रस्तृचः । सूत्रितं च- अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र ब्रह्माणः' (आश्व. श्रौ. ८. ११ ) इति । षोडशिशस्त्रे ‘ ब्रह्मन्वीर' इत्येषा त्रिष्टुप् । सूत्रितं च- ’ ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति त्रिष्टुप् ' ( आश्व. श्रौ. ६. २) इति ॥
अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः ।
पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥१
अ॒यम् । सोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । सु॒न्वे॒ । आ । तु । प्र । या॒हि॒ । ह॒रि॒ऽवः॒ । तत्ऽओ॑काः ।
पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ । ददः॑ । म॒घानि॑ । म॒घ॒ऽव॒न् । इ॒या॒नः ॥१
अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । आ । तु । प्र । याहि । हरिऽवः । तत्ऽओकाः ।
पिब । तु । अस्य । सुऽसुतस्य । चारोः । ददः । मघानि । मघऽवन् । इयानः ॥१
हे 'इन्द्र "तुभ्यं त्वदर्थम् "अयम् एषः "सोमः "सुन्वे अभिषुतोऽभवत् । हे "हरिवः हरिवन्निन्द्र “तदोकाः । सवनीयो यस्यासौ तदोकाः । “तु क्षिप्रम् “आ “प्र “याहि । "सुषुतस्य सम्यगभिषुतस्य “चारोः शोभनस्य "अस्य सोमस्य । द्वितीयार्थे षष्ठी । सम्यगभिषुतं शोभनमित्यर्थः । “तु क्षिप्रं "पिब च । अपि च हे "मघवन् “इयानः उपगम्यमानो याच्यमानो वा त्वं "मघानि धनानि "ददः अस्मभ्यं देहि ॥
ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय॑म् ।
अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि शृणव इ॒मा न॑ः ॥२
ब्रह्म॑न् । वी॒र॒ । ब्रह्म॑ऽकृतिम् । जु॒षा॒णः । अ॒र्वा॒ची॒नः । हरि॑ऽभिः । या॒हि॒ । तूय॑म् ।
अ॒स्मिन् । ऊं॒ इति॑ । सु । सव॑ने । मा॒द॒य॒स्व॒ । उप॑ । ब्रह्मा॑णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ ॥२
ब्रह्मन् । वीर । ब्रह्मऽकृतिम् । जुषाणः । अर्वाचीनः । हरिऽभिः । याहि । तूयम् ।
अस्मिन् । ऊं इति । सु । सवने । मादयस्व । उप । ब्रह्माणि । शृणवः । इमा । नः ॥२
हे "ब्रह्मन् परिवृढ “वीर इन्द्र “ब्रह्मकृतिं क्रियमाणं स्तोत्रं "जुषाणः सेवमानः "अर्वाचीनः अस्मदभिमुखः सन् "हरिभिः अश्वैः "तूयं क्षिप्रं "याहि । "अस्मिन्नु अस्मिन्नेव "सवने यज्ञे "सु सुष्ठु "मादयस्व च । "नः अस्मदीयानि “इमा इमानि “ब्रह्माणि स्तोत्राणि च "उप “शृणवः उपशृणु ॥
का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवन्दाशेम ।
विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इन्द्र शृणवो॒ हवे॒मा ॥३
का । ते॒ । अ॒स्ति॒ । अर॑म्ऽकृतिः । सु॒ऽउ॒क्तैः । क॒दा । नू॒नम् । ते॒ । म॒घ॒ऽव॒न् । दा॒शे॒म॒ ।
विश्वाः॑ । म॒तीः । आ । त॒त॒ने॒ । त्वा॒ऽया । अध॑ । मे॒ । इ॒न्द्र॒ । शृ॒ण॒वः॒ । हवा॑ । इ॒मा ॥३
का । ते । अस्ति । अरम्ऽकृतिः । सुऽउक्तैः । कदा । नूनम् । ते । मघऽवन् । दाशेम ।
विश्वाः । मतीः । आ । ततने । त्वाऽया । अध । मे । इन्द्र । शृणवः । हवा । इमा ॥३
हे इन्द्र "ते तव "सूक्तैः अस्माभिः क्रियमाणैः स्तोत्रैः "अरंकृतिः अलंकृतिः "का "अस्ति कीदृशी भवति । हे "मघवन् "ते तव "कदा "नूनं कदा खलु “दाशेम प्रीतिमुत्पादयेम । “त्वाया त्वत्कामनयैव "विश्वाः “मतीः सर्वाः स्तुतीः “आ “ततने करोमि । "अध अतः कारणात् हे “इन्द्र “मे मदीयानि "इमा इमानि "हवा हवानि स्तोत्राणि “शृणवः शृणु ॥
उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒रृषी॑णाम् ।
अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥४
उ॒तो इति॑ । घ॒ । ते । पु॒रु॒ष्याः॑ । इत् । आ॒स॒न् । येषा॑म् । पूर्वे॑षाम् । अशृ॑णोः । ऋषी॑णाम् ।
अध॑ । अ॒हम् । त्वा॒ । म॒घ॒ऽव॒न् । जो॒ह॒वी॒मि॒ । त्वम् । नः॒ । इ॒न्द्र॒ । अ॒सि॒ । प्रऽम॑तिः । पि॒ताऽइ॑व ॥४
उतो इति । घ । ते । पुरुष्याः । इत् । आसन् । येषाम् । पूर्वेषाम् । अशृणोः । ऋषीणाम् ।
अध । अहम् । त्वा । मघऽवन् । जोहवीमि । त्वम् । नः । इन्द्र । असि । प्रऽमतिः । पिताऽइव ॥४
"उत अपि च । “घ इति पूरणः । हे "मघवन् "येषां "पूर्वेषाम् “ऋषीणां स्तुतीः "अशृणोः "ते पूर्व ऋषयः "पुरुष्याः "इत् पुरुषेभ्यो हिता एव "आसन् । "अध अतः "अहं "त्वा त्वां "जोहवीमि भृशं स्तौमि । अपि च हे "इन्द्र “त्वं "नः अस्माकं "पितेव जनक इव "प्रमतिः बन्धुः "असि ॥
वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५
वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।
यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
वोचेम । इत् । इन्द्रम् । मघऽवानम् । एनम् । महः । रायः । राधसः । यत् । ददत् । नः ।
यः । अर्चतः । ब्रह्मऽकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
इयं व्याख्यातचरा ॥ ॥ १३ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|