ऋग्वेदः सूक्तं ७.५६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.५६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ७.५५ ऋग्वेदः - मण्डल ७
सूक्तं ७.५६
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५७ →
दे. मरुतः। त्रिष्टुप् , १-११ द्विपदा विराट्।


क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥१॥
नकिर्ह्येषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥२॥
अभि स्वपूभिर्मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥३॥
एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार ॥४॥
सा विट् सुवीरा मरुद्भिरस्तु सनात्सहन्ती पुष्यन्ती नृम्णम् ॥५॥
यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः ॥६॥
उग्रं व ओज स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान् ॥७॥
शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः ॥८॥
सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः ॥९॥
प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः ॥१०॥
स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ॥११॥
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः ।
ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ॥१२॥
अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः ।
वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः ॥१३॥
प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम् ।
सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम् ॥१४॥
यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् ।
मक्षू रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदरावा ॥१५॥
अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः ।
ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥१६॥
दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके ।
आरे गोहा नृहा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम् ॥१७॥
आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः ।
य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥१८॥
इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति ।
इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥१९॥
इमे रध्रं चिन्मरुतो जुनन्ति भृमिं चिद्यथा वसवो जुषन्त ।
अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे ॥२०॥
मा वो दात्रान्मरुतो निरराम मा पश्चाद्दघ्म रथ्यो विभागे ।
आ न स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति ॥२१॥
सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु ।
अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ॥२२॥
भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित् ।
मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा ॥२३॥
अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता ।
अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम ॥२४॥
तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥२५॥


सायणभाष्यम्

अथ चतुर्थेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘ क ईं व्यक्ताः ' इति पञ्चविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं मरुद्देवताकम् । आद्या एकादश द्विपदा विंशत्यक्षरा विराजः शिष्टाश्चतुर्दश त्रिष्टुभः । तथा चानुकान्तं-- क ईं पञ्चाधिका मारुतं हाद्या एकादश द्विपदा ' इति । दशरात्रे चतुर्थेऽहन्याग्निमारुते शस्त्र इदं मारुतनिविद्धानम् । सूत्र्यते हि -- वैश्वानरस्य सुमतौ क ईं व्यक्ता नरः ' ( आश्व. श्रौ. ८. ८) इति ।।


क ईं॒ व्य॑क्ता॒ नर॒ः सनी॑ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वा॑ः ॥१

के । ई॒म् । विऽअ॑क्ताः । नरः॑ । सऽनी॑ळाः । रु॒द्रस्य॑ । मर्याः॑ । अध॑ । सु॒ऽअश्वाः॑ ॥१

के । ईम् । विऽअक्ताः । नरः । सऽनीळाः । रुद्रस्य । मर्याः । अध । सुऽअश्वाः ॥१

“व्यक्ताः कान्तियुक्ताः "नरः नेतारः "सनीळाः समानौकसः "रुद्रस्य महादेवस्य पुत्राः "मर्याः मर्येभ्यो नृभ्यो हिताः "अध अपि च “स्वश्वाः शोभनवाहाः "ईम् इमे एवंभूताः "के भवन्तीति रूपातिशयादृषिराश्चर्येणाह ॥


नकि॒र्ह्ये॑षां ज॒नूंषि॒ वेद॒ ते अ॒ङ्ग वि॑द्रे मि॒थो ज॒नित्र॑म् ॥२

नकिः॑ । हि । ए॒षा॒म् । ज॒नूंषि॑ । वेद॑ । ते । अ॒ङ्ग । वि॒द्रे॒ । मि॒थः । ज॒नित्र॑म् ॥२

नकिः । हि । एषाम् । जनूंषि । वेद । ते । अङ्ग । विद्रे । मिथः । जनित्रम् ॥२

“एषां मरुतां “जनूंषि जन्मानि “नकिर्हि “वेद कश्चिदपि न खलु जानाति । "ते तादृशा मरुतः “मिथः परस्परं "जनित्रं रुद्रपृश्निभ्यां सकाशात् प्रादुर्भूतं स्वकीयं जन्म "अङ्ग "विद्रे स्वयमेव विदन्ति ।


अ॒भि स्व॒पूभि॑र्मि॒थो व॑पन्त॒ वात॑स्वनसः श्ये॒ना अ॑स्पृध्रन् ॥३

अ॒भि । स्व॒ऽपूभिः॑ । मि॒थः । व॒प॒न्त॒ । वात॑ऽस्वनसः । श्ये॒नाः । अ॒स्पृ॒ध्र॒न् ॥३

अभि । स्वऽपूभिः । मिथः । वपन्त । वातऽस्वनसः । श्येनाः । अस्पृध्रन् ॥३

मरुतः "स्वपूभिः स्वकीयैः पवनैः संचरणैः स्वयमेव संचरन्तः "मिथः परस्परम् "अभि “वपन्त संगच्छन्ते । अपि च "वातस्वनसः वायुवत् स्वनन्तः शब्दायमानाः “श्येनाः । श्यैङ् गतौ ' इति धातो रूपम् । गमनशीलाः । यद्वा श्येना इति लुप्तोपममेतत् । श्येनाः पक्षिणः । तद्वद्गच्छन्तः । “अस्पृधन् । परस्परं रूपसौन्दर्यादिभिः स्पर्धन्ते ॥


ए॒तानि॒ धीरो॑ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो॑ म॒ही ज॒भार॑ ॥४

ए॒तानि॑ । धीरः॑ । नि॒ण्या । चि॒के॒त॒ । पृश्निः॑ । यत् । ऊधः॑ । म॒ही । ज॒भार॑ ॥४

एतानि । धीरः । निण्या । चिकेत । पृश्निः । यत् । ऊधः । मही । जभार ॥४

“धीरः धीमान् शास्त्रज्ञो जनः “निण्या निण्यानि श्वेतवर्णानि "एतानि मरुदात्मकानि भूतानि “चिकेत जानीयात् । किंतु न सर्वे जना जानन्तीत्यर्थः । “मही महती “पृश्निः मरुतां जननी यत् यानि मरुदात्मकानि भूतानि “ऊधः ऊधन्यन्तरिक्षे स्वकीये जठरे वा “जभार बभार । एतानि चिकेतेति पूर्वेण संवन्धः ॥


सा विट् सु॒वीरा॑ म॒रुद्भि॑रस्तु स॒नात्सह॑न्ती॒ पुष्य॑न्ती नृ॒म्णम् ॥५

सा । विट् । सु॒ऽवीरा॑ । म॒रुत्ऽभिः॑ । अ॒स्तु॒ । स॒नात् । सह॑न्ती । पुष्य॑न्ती । नृ॒म्णम् ॥५

सा । विट् । सुऽवीरा । मरुत्ऽभिः । अस्तु । सनात् । सहन्ती । पुष्यन्ती । नृम्णम् ॥५

“सा “विट् सा प्रजा मरुतः परिचरति । सा प्रजा “मरुद्भिः हेतुभिः "सनात् चिरात् "सहन्ती शत्रूनभिभवन्ती "नृम्णं धनं बलं वा "पुष्यन्ती लभन्ती "सुवीरा शोभनपुत्रयुक्ता “अस्तु भवतु ।।


यामं॒ येष्ठा॑ः शु॒भा शोभि॑ष्ठाः श्रि॒या सम्मि॑श्ला॒ ओजो॑भिरु॒ग्राः ॥६

याम॑म् । येष्ठाः॑ । शु॒भा । शोभि॑ष्ठाः । श्रि॒या । सम्ऽमि॑श्लाः । ओजः॑ऽभिः । उ॒ग्राः ॥६

यामम् । येष्ठाः । शुभा । शोभिष्ठाः । श्रिया । सम्ऽमिश्लाः । ओजःऽभिः । उग्राः ॥६

मरुतः "यामं यातव्यं गन्तव्यं प्रदेशं "येष्ठाः यातृतमा अतिशयेन गन्तारः “शुभा अलंकारेण “शोभिष्ठाः अतिशयेन शोभायुक्ताः "श्रिया कान्त्या "संमिश्लाः संगच्छमानाः “ओजोभिः बलैः "उग्राः उद्गूर्णाः । एवंभूता भवन्तीति शेषः ॥


उ॒ग्रं व॒ ओज॑ः स्थि॒रा शवां॒स्यधा॑ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ॥७

उ॒ग्रम् । वः॒ । ओजः॑ । स्थि॒रा । शवां॑सि । अध॑ । म॒रुत्ऽभिः॑ । ग॒णः । तुवि॑ष्मान् ॥७

उग्रम् । वः । ओजः । स्थिरा । शवांसि । अध । मरुत्ऽभिः । गणः । तुविष्मान् ॥७

हे मरुतः '“वः युष्माकम् "ओजः तेजः "उग्रम् उद्गूर्णं भवतु । “शवांसि युष्मदीयानि बलानि “स्थिरा स्थिराणि कैश्चिदनपहर्तव्यानि भवन्तु । “अध अपि च "मरुद्भिर्गणः मरुतां संघः “तुविष्मान् वृद्धिमान् भवतु ॥


शु॒भ्रो व॒ः शुष्म॒ः क्रुध्मी॒ मनां॑सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ॥८

शु॒भ्रः । वः॒ । शुष्मः॑ । क्रुध्मी॑ । मनां॑सि । धुनिः॑ । मुनिः॑ऽइव । शर्ध॑स्य । धृ॒ष्णोः ॥८

शुभ्रः । वः । शुष्मः । क्रुध्मी । मनांसि । धुनिः । मुनिःऽइव । शर्धस्य । धृष्णोः ॥८

हे मरुतः "वः युष्माकं “शुष्मः बलं "शुभ्रः सर्वतः शोभमानम्। किंच वः "मनांसि “क्रुध्मी संग्रामेषु शत्रुहननार्थं क्रोधनशीलानि । “धृष्णोः धर्षणशीलस्य “शर्धस्य बलवतो युष्मदीयस्य गणस्य “धुनिः वृक्षादीनां कम्पयितु(? तृ)वेगः “मुनिरिव । मननात् मुनिः स्तोता । स यथा बहुविधं शब्दमुत्पादयति एवं बहुविधशब्दस्योत्पादक इत्यर्थः ।।


सने॑म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो॑ दुर्म॒तिरि॒ह प्रण॑ङ्नः ॥९

सने॑मि । अ॒स्मत् । यु॒योत॑ । दि॒द्युम् । मा । वः॒ । दुः॒ऽम॒तिः । इ॒ह । प्रण॑क् । नः॒ ॥९

सनेमि । अस्मत् । युयोत । दिद्युम् । मा । वः । दुःऽमतिः । इह । प्रणक् । नः ॥९

[हे मरुतः "सनेमि पुराणं "दिद्युम् आयुधम् "अस्मत् अस्मत्तः "युयोत पृथक्कुरुत । "वः युष्मदीया “दुर्मतिः क्रूरमतिः "इह अस्मिन् कर्मणि "नः अस्मान् "मा "प्रणक् मा व्याप्नोतु ।।]


प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ॥१०

प्रि॒या । वः॒ । नाम॑ । हु॒वे॒ । तु॒राणा॑म् । आ । यत् । तृ॒पत् । म॒रु॒तः॒ । वा॒व॒शा॒नाः ॥१०

प्रिया । वः । नाम । हुवे । तुराणाम् । आ । यत् । तृपत् । मरुतः । वावशानाः ॥१०

[हे "मरुतः “तुराणां शत्रूणां हिंसकानां त्वरावतां वा "वः युष्माकं "प्रिया प्रियेण "नाम नाम्ना “आ “हुवे आह्वयामि। "यत् येनानेन "वावशानाः कामयमानाः सन्तः “तृपत् तृप्तिं गच्छन्ति ॥] ॥२३॥


स्वा॒यु॒धास॑ इ॒ष्मिण॑ः सुनि॒ष्का उ॒त स्व॒यं त॒न्व१॒॑ः शुम्भ॑मानाः ॥११

सु॒ऽआ॒यु॒धासः॑ । इ॒ष्मिणः॑ । सु॒ऽनि॒ष्काः । उ॒त । स्व॒यम् । त॒न्वः॑ । शुम्भ॑मानाः ॥११

सुऽआयुधासः । इष्मिणः । सुऽनिष्काः । उत । स्वयम् । तन्वः । शुम्भमानाः ॥११

“स्वायुधासः स्वायुधाः शोभनास्त्राः “इष्मिणः गन्तारः “सुनिष्काः शोभनालंकाराः “उत अपि च "तन्वः स्वकीयानि शरीराणि "शुम्भमानाः स्वयमेव शोभयन्तो मरुत एवंभूता भवन्तीत्यर्थः ॥


मारुते पशौ ‘शुची वो हव्या ' इति वपाया अनुवाक्या । सूत्रितं च -- शुची वो हव्या मरुतः शुचीनां नू ष्ठिरं मरुतः' (आश्व. श्रौ. ३. ७) इति ॥

शुची॑ वो ह॒व्या म॑रुत॒ः शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः ।

ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मान॒ः शुच॑यः पाव॒काः ॥१२

शुची॑ । वः॒ । ह॒व्या । म॒रु॒तः॒ । शुची॑नाम् । शुचि॑म् । हि॒नो॒मि॒ । अ॒ध्व॒रम् । शुचि॑ऽभ्यः ।

ऋ॒तेन॑ । स॒त्यम् । ऋ॒त॒ऽसापः॑ । आ॒य॒न् । शुचि॑ऽजन्मानः । शुच॑यः । पा॒व॒काः ॥१२

शुची । वः । हव्या । मरुतः । शुचीनाम् । शुचिम् । हिनोमि । अध्वरम् । शुचिऽभ्यः ।

ऋतेन । सत्यम् । ऋतऽसापः । आयन् । शुचिऽजन्मानः । शुचयः । पावकाः ॥१२

हे "मरुतः "शुचीनां शुद्धानां “वः युष्माकं "शुची शुचीनि "हव्या हव्यानि हवींषि भवन्तु । “शुचिभ्यः प्रकाशमानेभ्यो युष्मभ्यं "शुचिं शुद्धम् "अध्वरं यागं “हिनोमि अहं प्रेरयामि। "ऋतसापः ऋतमुदकं स्पृशन्तो मरुतः “ऋतेन सत्येनैव "सत्यम् "आयन् गच्छन्ति । कीदृशाः । “शुचिजन्मानः शोभनजननाः “शुचयः दीप्यमानाः "पावकाः शोधकाः । एवंभूता गच्छन्तीत्यर्थः ॥


अंसे॒ष्वा म॑रुतः खा॒दयो॑ वो॒ वक्ष॑स्सु रु॒क्मा उ॑पशिश्रिया॒णाः ।

वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒ना अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ॥१३

अंसे॑षु । आ । म॒रु॒तः॒ । खा॒दयः॑ । वः॒ । वक्षः॑ऽसु । रु॒क्माः । उ॒प॒ऽशि॒श्रि॒या॒णाः ।

वि । वि॒ऽद्युतः॑ । न । वृ॒ष्टिऽभिः॑ । रु॒चा॒नाः । अनु॑ । स्व॒धाम् । आयु॑धैः । यच्छ॑मानाः ॥१३

अंसेषु । आ । मरुतः । खादयः । वः । वक्षःऽसु । रुक्माः । उपऽशिश्रियाणाः ।

वि । विऽद्युतः । न । वृष्टिऽभिः । रुचानाः । अनु । स्वधाम् । आयुधैः । यच्छमानाः ॥१३

हे "मरुतः “अंसेषु युष्मदीयेषु स्कन्धप्रदेशेषु “खादयः अलंकारविशेषाः "आ मुक्ता भवन्तीति शेषः । सुरुक्माः सुष्ठु रोचमाना हाराः “वः युष्मदीयं वक्ष उरःप्रदेशम् "उपशिश्रियाणाः आश्रिता भवन्ति । किंच हे मरुतः “वृष्टिभिः वर्षैः सार्धं "विद्युतो "न तडितो यथा "रुचानाः रोचमानाः तादृग्भूता यूयम् "आयुधैः मेघताडनैः "स्वधाम् उदकम् "अनु “यच्छमानाः प्रयच्छन्तः "वि चरथेति शेषः ॥


गृहमेधीये ‘प्र बुध्न्या वः' इति प्रधानस्य याज्या। सूत्रितं च - प्र बुध्न्या व ईरते महांसीति पुष्टिमन्तौ विराजौ संयाज्ये' (आश्व. श्रौ. २. १८) इति ॥

प्र बु॒ध्न्या॑ व ईरते॒ महां॑सि॒ प्र नामा॑नि प्रयज्यवस्तिरध्वम् ।

स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो जुषध्वम् ॥१४

प्र । बु॒ध्न्या॑ । वः॒ । ई॒र॒ते॒ । महां॑सि । प्र । नामा॑नि । प्र॒ऽय॒ज्य॒वः॒ । ति॒र॒ध्व॒म् ।

स॒ह॒स्रिय॑म् । दम्य॑म् । भा॒गम् । ए॒तम् । गृ॒ह॒ऽमे॒धीय॑म् । म॒रु॒तः॒ । जु॒ष॒ध्व॒म् ॥१४

प्र । बुध्न्या । वः । ईरते । महांसि । प्र । नामानि । प्रऽयज्यवः । तिरध्वम् ।

सहस्रियम् । दम्यम् । भागम् । एतम् । गृहऽमेधीयम् । मरुतः । जुषध्वम् ॥१४

हे मरुतः "वः युष्मदीयानि “बुध्न्या बुध्न्यान्यन्तरिक्षे भवानि "महांसि तेजांसि “प्र “ईरते प्रकर्षेण गच्छन्ति। किंच हे “प्रयज्यवः प्रकर्षेण यष्टव्या मरुतः यूयं "नामानि। पांसून् नमयन्तीति नामान्युदकानि । “प्र “तिरध्वं वर्धयत । हे “मरुतः यूयं सहस्रियं सहस्रसंख्याकं “दम्यं दमे गृहे भवं “गृहमेधीयं गृहमेधिगुणेभ्यो युष्मभ्यं देयम् “एतम् एतादृशं “भागं “जुषध्वं सेवध्वम्। एकं भागं सहस्रियमिति कथमाह । तथा च श्रूयते – ' यावदेका देवता कामयते यावदेका तावदाहुतिः प्रथते न हि तदस्ति यत्तावदेव स्याद्यावज्जुहोति ' (तै. ब्रा. ३. २. ६. ४) इति ॥


यदि॑ स्तु॒तस्य॑ मरुतो अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी॑मन् ।

म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा॑वा ॥१५

यदि॑ । स्तु॒तस्य॑ । म॒रु॒तः॒ । अ॒धि॒ऽइ॒थ । इ॒त्था । विप्र॑स्य । वा॒जिनः॑ । हवी॑मन् ।

म॒क्षु । रा॒यः । सु॒ऽवीर्य॑स्य । दा॒त॒ । नु । चि॒त् । यम् । अ॒न्यः । आ॒ऽदभ॑त् । अरा॑वा ॥१५

यदि । स्तुतस्य । मरुतः । अधिऽइथ । इत्था । विप्रस्य । वाजिनः । हवीमन् ।

मक्षु । रायः । सुऽवीर्यस्य । दात । नु । चित् । यम् । अन्यः । आऽदभत् । अरावा ॥१५

“वाजिनः हविर्लक्षणान्नवतः “विप्रस्य मेधाविनो मम संबन्धिनि “हवीमन् हविष्मति हविषा युक्ते स्तोत्रे क्रियमाणे सति हे "मरुतः यूयं "यदि यस्मात् कारणात् “स्तुतस्य स्तुतं मदीयं स्तोत्रम् “इत्था इत्थमनेन प्रकारेण “अधीथ अवगच्छथ तस्मात् कारणात् हे मरुतः यूयं “सुवीर्यस्य शोभनपुत्रोपेतस्य मस्तः रायः रायं धनम् । द्वितीयार्थे षष्ठी। “मक्षु शीघ्रं “दात दत्त । “अरावा अरातिः शत्रुभूतः “अन्यः जनः “यं रायं “नू “चित् “आदभत् नैवाभिहन्यात् । तद्धनमस्मभ्यं दत्तेति संबन्धः ॥ ॥ २४ ॥


‘मरुद्यः क्रीळिभ्यः सप्तकपालम् ' (तै. सं. १.८.४, २) इत्यस्य ‘अत्यासः' इति याज्या। सूत्रितं च – अत्यासो न ये मरुतः स्वञ्चो जुष्टो दमूनाः ' (आश्व. श्रौ. २. १८) इति ॥

अत्या॑सो॒ न ये म॒रुत॒ः स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्या॑ः ।

ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिन॑ः पयो॒धाः ॥१६

अत्या॑सः । न । ये । म॒रुतः॑ । सु॒ऽअञ्चः॑ । य॒क्ष॒ऽदृशः॑ । न । शु॒भय॑न्त । मर्याः॑ ।

ते । ह॒र्म्ये॒ऽस्थाः । शिश॑वः । न । शु॒भ्राः । व॒त्सासः॑ । न । प्र॒ऽक्री॒ळिनः॑ । प॒यः॒ऽधाः ॥१६

अत्यासः । न । ये । मरुतः । सुऽअञ्चः । यक्षऽदृशः । न । शुभयन्त । मर्याः ।

ते । हर्म्येऽस्थाः । शिशवः । न । शुभ्राः । वत्सासः । न । प्रऽक्रीळिनः । पयःऽधाः ॥१६

“अत्यासो “न अत्याः सततगामिनोऽश्वा इव “स्वञ्चः सुष्ठु गच्छन्तः “ये “मरुतः “यक्षदृशो “न “मर्याः यक्षस्योत्सवस्य द्रष्टारो मनुष्या इव “शुभयन्त शोभन्ते “हर्म्येष्ठाः हर्म्ये स्थिताः “शिशवो “न कुमारा इव “शुभ्राः शोभमानाः "वत्सासो “न वत्सा इव “प्रक्रीळिनः प्रकर्षेण क्रीडमानाः “ते मरुतः “पयोधाः पयस उदकस्य धारयितारो दातारो वा भवन्ति ॥


द॒श॒स्यन्तो॑ नो म॒रुतो॑ मृळन्तु वरिव॒स्यन्तो॒ रोद॑सी सु॒मेके॑ ।

आ॒रे गो॒हा नृ॒हा व॒धो वो॑ अस्तु सु॒म्नेभि॑र॒स्मे व॑सवो नमध्वम् ॥१७

द॒श॒स्यन्तः॑ । नः॒ । म॒रुतः॑ । मृ॒ळ॒न्तु॒ । व॒रि॒व॒स्यन्तः॑ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।

आ॒रे । गो॒ऽहा । नृ॒ऽहा । व॒धः । वः॒ । अ॒स्तु॒ । सु॒म्नेभिः॑ । अ॒स्मे इति॑ । व॒स॒वः॒ । न॒म॒ध्व॒म् ॥१७

दशस्यन्तः । नः । मरुतः । मृळन्तु । वरिवस्यन्तः । रोदसी इति । सुमेके इति सुऽमेके ।

आरे । गोऽहा । नृऽहा । वधः । वः । अस्तु । सुम्नेभिः । अस्मे इति । वसवः । नमध्वम् ॥१७

“मरुतः “नः अस्मभ्यं “दशस्यन्तः धनानि प्रयच्छन्तः “सुमेके सुरूपे “रोदसी द्यावापृथिव्यौ "वरिवस्यन्तः स्वमहिम्ना पूरयन्तः "मृळन्तु मृळयन्तु। अस्मान् सुखयुक्तान् कुर्वन्तु । अपि च हे “वसवः वासका मरुतः "गोहा गवां मेघस्थानामुदकानां भेदकः “नृहा नृणां शत्रूणां हन्ता “वः युष्मदीयं “वधः आयुधम् “आरे “अस्तु अस्मत्तो दूरे भवतु । यूयमपि “सुम्नेभिः सुम्नैः सुखैः सह “अस्मे अस्मासु “नमध्वं स्वयमेवाभिमुखा भवत ॥


मारुते पशौ ‘आ वो होता ' इत्येषानुवाक्या। सूत्रितं च - ' आ वो होता जोहवीति सत्तः प्र चित्रमर्कं गृणते तुराय ' ( आश्व. श्रौ. ३. ७) इति ॥

आ वो॒ होता॑ जोहवीति स॒त्तः स॒त्राचीं॑ रा॒तिं म॑रुतो गृणा॒नः ।

य ईव॑तो वृषणो॒ अस्ति॑ गो॒पाः सो अद्व॑यावी हवते व उ॒क्थैः ॥१८

आ । वः॒ । होता॑ । जो॒ह॒वी॒ति॒ । स॒त्तः । स॒त्राची॑ । रा॒तिम् । म॒रु॒तः॒ । गृ॒णा॒नः ।

यः । ईव॑तः । वृ॒ष॒णः॒ । अस्ति॑ । गो॒पाः । सः । अद्व॑यावी । ह॒व॒ते॒ । वः॒ । उ॒क्थैः ॥१८

आ । वः । होता । जोहवीति । सत्तः । सत्राची । रातिम् । मरुतः । गृणानः ।

यः । ईवतः । वृषणः । अस्ति । गोपाः । सः । अद्वयावी । हवते । वः । उक्थैः ॥१८

हे “मरुतः “सत्त: होतृषदने निषण्णोऽस्मदीयः “होता “सत्राचीं सर्वतो गमनशीलं “रातिं त्वदीयं दानं “गृणानः स्तुवन् “वः युष्मान् “आ “जोहवीति भृशमाह्वयति । हे “वृषणः कामानां वर्षितारो मरुतः “यः होता “ईवतः गच्छतः व्यापारवतो यजमानस्य “गोपाः “अस्ति युष्मदाह्वाननिमित्तेन रक्षको भवति “सः होता “अद्वयावी मायारहितः सन् “वः युष्मान् “उक्थैः स्तोत्रैः “हवते स्तौति ।।


इ॒मे तु॒रं म॒रुतो॑ रामयन्ती॒मे सह॒ः सह॑स॒ आ न॑मन्ति ।

इ॒मे शंसं॑ वनुष्य॒तो नि पा॑न्ति गु॒रु द्वेषो॒ अर॑रुषे दधन्ति ॥१९

इ॒मे । तु॒रम् । म॒रुतः॑ । र॒म॒य॒न्ति॒ । इ॒मे । सहः॑ । सह॑सः । आ । न॒म॒न्ति॒ ।

इ॒मे । शंस॑म् । व॒नु॒ष्य॒तः । नि । पा॒न्ति॒ । गु॒रु । द्वेषः॑ । अर॑रुषे । द॒ध॒न्ति॒ ॥१९

इमे । तुरम् । मरुतः । रमयन्ति । इमे । सहः । सहसः । आ । नमन्ति ।

इमे । शंसम् । वनुष्यतः । नि । पान्ति । गुरु । द्वेषः । अररुषे । दधन्ति ॥१९

“इमे ईदृशः “मरुतः “तुरं कर्मसु क्षिप्रवन्तं यजमानं “रमयन्ति क्रीडयन्ति । “इमे मरुतः "सहः सहसा बलेन “सहसः बलवतो जनान् “आ “नमन्ति । “इमे मरुतः “वनुष्यतः हिंसकात् पुरुषात् “शंसं शंसकं स्तोतारं “नि "पान्ति नितरां पालयन्ति । “अररुषे हविरप्रयच्छते जनाय "गुरु महत् “द्वेषः अप्रियं “दधन्ति कुर्वन्ति ।।


इ॒मे र॒ध्रं चि॑न्म॒रुतो॑ जुनन्ति॒ भृमिं॑ चि॒द्यथा॒ वस॑वो जु॒षन्त॑ ।

अप॑ बाधध्वं वृषण॒स्तमां॑सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ॥२०

इ॒मे । र॒ध्रम् । चि॒त् । म॒रुतः॑ । जु॒न॒न्ति॒ । भृमि॑म् । चि॒त् । यथा॑ । वस॑वः । जु॒षन्त॑ ।

अप॑ । बा॒ध॒ध्व॒म् । वृ॒ष॒णः॒ । तमां॑सि । ध॒त्त । विश्व॑म् । तन॑यम् । तो॒कम् । अ॒स्मे इति॑ ॥२०

इमे । रध्रम् । चित् । मरुतः । जुनन्ति । भृमिम् । चित् । यथा । वसवः । जुषन्त ।

अप । बाधध्वम् । वृषणः । तमांसि । धत्त । विश्वम् । तनयम् । तोकम् । अस्मे इति ॥२०

“इमे “मरुतः “रध्रं “चित् समृद्धमपि जनं “जुनन्ति प्रेरयन्ति। “भृमिं “चित् भ्रमणशीलमपि दरिद्रं जुनन्ति प्रेरयन्ति । “वसवः वासका देवा युष्मान् “यथा “जुषन्त कामयेरन् हे “वृषणः कामानां वर्षितारः ते यूयं “तमांसि “अप “बाधध्वं नाशयत । अपि च "अस्मे अस्मभ्यं “विश्वं बहुलं "तोकं पुत्रं “तनयं पौत्रं च “धत्त प्रयच्छत ॥ ॥ २५॥


मा वो॑ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे ।

आ न॑ः स्पा॒र्हे भ॑जतना वस॒व्ये॒३॒॑ यदीं॑ सुजा॒तं वृ॑षणो वो॒ अस्ति॑ ॥२१

मा । वः॒ । दा॒त्रात् । म॒रु॒तः॒ । निः । अ॒रा॒म॒ । मा । प॒श्चात् । द॒घ्म॒ । र॒थ्यः॒ । वि॒ऽभा॒गे ।

आ । नः॒ । स्पा॒र्हे । भ॒ज॒त॒न॒ । व॒स॒व्ये॑ । यत् । ई॒म् । सु॒ऽजा॒तम् । वृ॒ष॒णः॒ । वः॒ । अस्ति॑ ॥२१

मा । वः । दात्रात् । मरुतः । निः । अराम । मा । पश्चात् । दघ्म । रथ्यः । विऽभागे ।

आ । नः । स्पार्हे । भजतन । वसव्ये । यत् । ईम् । सुऽजातम् । वृषणः । वः । अस्ति ॥२१

हे "मरुतः “वः युष्माकं “दात्रात् दानात् "मा “निरराम वयं मा निर्गमाम । यूयमस्मान् परित्यक्त्वान्येभ्यो धनं मा दत्तेत्यर्थः । हे “रथ्यः रथवन्तो मरुतः “विभागे युष्मदीयस्य धनस्य दाने “पश्चात् "मा “दध्म । दध्यतिर्गतिकर्मा । वयं पश्चाद्भागिनो मा भूम। यूयं प्रथममस्मभ्यमेव दत्तेति यावत् । “स्पार्हे स्पृहणीये “वसव्ये धनसमूहे यूयं “नः अस्मान् “आ “भजतन भागिनः कुरुत । हे “वृषणः वर्षितारो मरुतः “वः युष्माकं "सुजातं शोभनजनं “यत् वसव्यम् “अस्ति तस्मिन् भागिनः कुरुतेति संबन्धः । “ईम् इति पूरणः ॥


सं यद्धन॑न्त म॒न्युभि॒र्जना॑स॒ः शूरा॑ य॒ह्वीष्वोष॑धीषु वि॒क्षु ।

अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो॑ भूत॒ पृत॑नास्व॒र्यः ॥२२

सम् । यत् । हन॑न्त । म॒न्युऽभिः॑ । जना॑सः । शूराः॑ । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु ।

अध॑ । स्म॒ । नः॒ । म॒रु॒तः॒ । रु॒द्रि॒या॒सः॒ । त्रा॒तारः॑ । भू॒त॒ । पृत॑नासु । अ॒र्यः ॥२२

सम् । यत् । हनन्त । मन्युऽभिः । जनासः । शूराः । यह्वीषु । ओषधीषु । विक्षु ।

अध । स्म । नः । मरुतः । रुद्रियासः । त्रातारः । भूत । पृतनासु । अर्यः ॥२२

“यत् यदा "शूराः विक्रान्ताः "जनासः जनाः “यह्वीषु महतीषु “ओषधीषु “विक्षु प्रजासु च जेतव्यासु “मन्युभिः कोपैरभिमानैव “सं “हनन्त संगच्छन्ते “अध तदानीं हे “रुद्रियासः रुद्रपुत्रा हे "मरुतः यूयं “पृतनासु युद्धेषु “अर्यः अरेः शत्रोः सकाशात् “नः अस्माकं “ञातारः “भूत रक्षका भवत ॥


भूरि॑ चक्र मरुत॒ः पित्र्या॑ण्यु॒क्थानि॒ या व॑ः श॒स्यन्ते॑ पु॒रा चि॑त् ।

म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा॑ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा॑ ॥२३

भूरि॑ । च॒क्र॒ । म॒रु॒तः॒ । पित्र्या॑णि । उ॒क्थानि॑ । या । वः॒ । श॒स्यन्ते॑ । पु॒रा । चि॒त् ।

म॒रुत्ऽभिः॑ । उ॒ग्रः । पृत॑नासु । साळ्हा॑ । म॒रुत्ऽभिः॑ । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥२३

भूरि । चक्र । मरुतः । पित्र्याणि । उक्थानि । या । वः । शस्यन्ते । पुरा । चित् ।

मरुत्ऽभिः । उग्रः । पृतनासु । साळ्हा । मरुत्ऽभिः । इत् । सनिता । वाजम् । अर्वा ॥२३

हे "मरुतः यूयं “भूरि भूरीणि बहूनि "पित्र्याणि अस्मत्पितृसंबन्धीनि धनदानादीनि कर्माणि “चक्र कृतवन्तो भवत। “पुरा “चित् पूर्वकालेऽपि “वः युष्माकम् “उक्थानि प्रशस्यानि यानि कर्माणि प्रशस्यन्ते प्रख्यायन्ते तानि चक्रेति संबन्धः । "उग्रः ओजस्वी “पृतनासु युद्धेषु “मरुद्भिः युष्माभिर्हेतुभिः “साळ्हा शत्रूणामभिभविता भवति । “मरुद्भिरित् मरुद्भिर्युष्माभिरेव हेतुभिः “अर्वा स्तोत्रैरभिगन्ता “वाजम् अन्नं "सनिता संभक्ता भवति । यद्वा अर्वाश्वो वाजं युद्धं सनिता भवति ॥


अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना॑नां॒ यो असु॑रो विध॒र्ता ।

अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको॑ अ॒भि व॑ः स्याम ॥२४

अ॒स्मे इति॑ । वी॒रः । म॒रु॒तः॒ । शु॒ष्मी । अ॒स्तु॒ । जना॑नाम् । यः । असु॑रः । वि॒ऽध॒र्ता ।

अ॒पः । येन॑ । सु॒ऽक्षि॒तये॑ । तरे॑म । अध॑ । स्वम् । ओकः॑ । अ॒भि । वः॒ । स्या॒म॒ ॥२४

अस्मे इति । वीरः । मरुतः । शुष्मी । अस्तु । जनानाम् । यः । असुरः । विऽधर्ता ।

अपः । येन । सुऽक्षितये । तरेम । अध । स्वम् । ओकः । अभि । वः । स्याम ॥२४

हे “मरुतः “अस्मे अस्माकं “वीरः पुत्रः “शुष्मी “अस्तु बलवान् भवतु । “असुरः प्रज्ञावान् “यः “जनानां शत्रूणां “विधर्ता विधारकः । “येन पुत्रेण वयं "सुक्षितये सुष्ठु निवासाय “अपः आप्नुवतः शत्रून् “तरेम हिंसेम । स पुत्रो बलवानस्त्विति पूर्वेणान्वयः । “अध अपि च “वः युष्मदीया वयं “स्वमोकः आत्मीयं स्थानम् “अभि “स्याम आतिष्ठेम ॥


तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषन्त ।

शर्म॑न्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥२५

तत् । नः॒ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । आपः॑ । ओष॑धीः । व॒निनः॑ । जु॒ष॒न्त॒ ।

शर्म॑न् । स्या॒म॒ । म॒रुता॑म् । उ॒पऽस्थे॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥२५

तत् । नः । इन्द्रः । वरुणः । मित्रः । अग्निः । आपः । ओषधीः । वनिनः । जुषन्त ।

शर्मन् । स्याम । मरुताम् । उपऽस्थे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥२५

पूर्वं व्याख्यातेयम् । अक्षरार्थस्तु । इन्द्रादयो देवा अस्मदीयं स्तोत्रं सेवन्ताम् । मस्तामुपस्थाने वर्तमाना वयं सुखे स्याम । हे मरुतः यूयं सर्वदास्मानविनाशैः पालयत ॥ ॥ २६ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५६&oldid=201007" इत्यस्माद् पुनः प्राप्तिः