ऋग्वेदः सूक्तं १०.४२
← सूक्तं १०.४१ | ऋग्वेदः - मण्डल १० सूक्तं १०.४२ कृष्ण आङ्गिरसः |
सूक्तं १०.४३ → |
दे. इन्द्रः। त्रिष्टुप् |
अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै ।
वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥१॥
दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् ।
कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥२॥
किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।
अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥३॥
त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके ।
अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥४॥
धनं न स्यन्द्रं बहुलं यो अस्मै तीव्रान्सोमाँ आसुनोति प्रयस्वान् ।
तस्मै शत्रून्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥५॥
यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे ।
आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥६॥
आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन ।
अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥७॥
प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम् ।
नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥८॥
उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले ।
यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान् ॥९॥
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥*
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥
सायणभाष्यम्
‘ अस्तेव' इत्येकादशर्च त्रयोदशं सूक्तमाङ्गिरसस्य कृष्णाख्यस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च – अस्तेवैकादश कृष्णः' इति । आभिप्लविकेषूक्थ्येषु स्तोमवृद्धाविदं सूक्तं ब्राह्मणाच्छंसिन आवापार्थम् । सूत्रितं च -- यज्ञे दिव इति सूक्ते अस्तेव सु प्रतरम्' (आश्व. श्रौ. ७. ९ ) इति ॥
अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै ।
वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरित॒ः सोम॒ इन्द्र॑म् ॥१
अस्ता॑ऽइव । सु । प्र॒ऽत॒रम् । लाय॑म् । अस्य॑न् । भूष॑न्ऽइव । प्र । भ॒र॒ । स्तोम॑म् । अ॒स्मै॒ ।
वा॒चा । वि॒प्राः॒ । त॒र॒त॒ । वाच॑म् । अ॒र्यः । नि । र॒म॒य॒ । ज॒रि॒त॒रिति॑ । सोमे॑ । इन्द्र॑म् ॥१
अस्ताऽइव । सु । प्रऽतरम् । लायम् । अस्यन् । भूषन्ऽइव । प्र । भर । स्तोमम् । अस्मै ।
वाचा । विप्राः । तरत । वाचम् । अर्यः । नि । रमय । जरितरिति । सोमे । इन्द्रम् ॥१
“प्रतरं प्रवृद्धतरं “लायं संश्लेषणं हृदयवेधिनं शरं “सु सुष्ठु “अस्यन् क्षिपन् “अस्तेव यथा क्षेप्ता धानुष्कः “भूषन्निव यथा च अलंकारमलंकुर्वन् अलंकर्ता तद्वत् “स्तोममस्मै इन्द्राय “प्र “भर प्रापय । हे अन्तरात्मन् त्वमिति शेषः । किंच हे "विप्राः मेधाविनः यूयं “वाचा स्तुत्या “अर्यः अरेः शत्रोः “वाचं “तरत नितरां तरत । निराकुरुतेत्यर्थः।। हे “जरितः स्तोतः त्वं “सोमे सोमयागे “इन्द्रं “नि “रमय क्रीडय ॥
दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिन्द्र॑म् ।
कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूर॑म् ॥२
दोहे॑न । गाम् । उप॑ । शि॒क्ष॒ । सखा॑यम् । प्र । बो॒ध॒य॒ । ज॒रि॒तः॒ । जा॒रम् । इन्द्र॑म् ।
कोश॑म् । न । पू॒र्णम् । वसु॑ना । निऽऋ॑ष्टम् । आ । च्य॒व॒य॒ । म॒घ॒ऽदेया॑य । शूर॑म् ॥२
दोहेन । गाम् । उप । शिक्ष । सखायम् । प्र । बोधय । जरितः । जारम् । इन्द्रम् ।
कोशम् । न । पूर्णम् । वसुना । निऽऋष्टम् । आ । च्यवय । मघऽदेयाय । शूरम् ॥२
हे “जरितः त्वं "दोहेन कामानां दोहनार्थं “गां गोरूपं “सखायं प्रियम् “इन्द्रम् “उप “शिक्ष वशं नय । किंच “जारं भूतानां जरयितारमिन्द्रं “प्र "बोधय स्तुतिभिः प्रबुद्धं कुरु । किंच “पूर्णम् उदकेन पूरितं "कोशं “न पात्रमिव “वसुना हिरण्यादिना धनेन “न्यृष्टं नीचैर्गतं “शूरं वीरमिन्द्रं “मघदेयाय धनदानाय “आ “च्यवय । अभिमुखं कुर्वित्यर्थः ॥
किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।
अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥३
किम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हुः॒ । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ।
अप्न॑स्वती । मम॑ । धीः । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । नः॒ ॥३
किम् । अङ्ग । त्वा । मघऽवन् । भोजम् । आहुः । शिशीहि । मा । शिशयम् । त्वा । शृणोमि ।
अप्नस्वती । मम । धीः । अस्तु । शक्र । वसुऽविदम् । भगम् । इन्द्र । आ । भर । नः ॥३
अङ्गेति सामान्याह्वानम् । “अङ्ग हे “मघवन् धनवन् “शक्र इन्द्र “त्वा त्वां “किं किमर्थं “भोजं स्तोतॄणां भोजकमभीष्टम् “आहुः सर्वे विद्वांसः । यदि न ददासीत्यध्याहारः । तस्माद्ददास्येव स्तोतृभ्यो धनानीत्यर्थः । तथा सति “मा स्तोतारं “शिशीहि धनदानेन तीक्ष्णीकुरु । “त्वा त्वां “शिशयं स्तोतॄणां संस्कर्तारं “शृणोमि । किंच “मम “धीः बुद्धिः अप्नस्वती कर्मवती “अस्तु भवतु । किंच “नः अस्माकं वसुविदं धनस्य लम्भकं “भगं भाग्यम् “आ “भर आहर ॥
त्वां जना॑ ममस॒त्येष्वि॑न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के ।
अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥४
त्वाम् । जनाः॑ । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒नाः । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के ।
अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । यः । ह॒विष्मा॑न् । न । असु॑न्वता । स॒ख्यम् । व॒ष्टि॒ । शूरः॑ ॥४
त्वाम् । जनाः । ममऽसत्येषु । इन्द्र । सम्ऽतस्थानाः । वि । ह्वयन्ते । सम्ऽईके ।
अत्र । युजम् । कृणुते । यः । हविष्मान् । न । असुन्वता । सख्यम् । वष्टि । शूरः ॥४
हे “इन्द्र “त्वां “जनाः “ममसत्येषु संग्रामेषु “वि “ह्वयन्ते विविधमाह्वयन्ति साहाय्यार्थम् । एतदेव दर्शयति । “समीके युद्धे "संतस्थानाः सह तिष्ठन्तो जना वि ह्वयन्त इति । “अत्र अस्मिन्नाह्वाने सः “शूरः वीर इन्द्रः तं “युजं सखायं “कृणुते कुरुते “यो “हविष्मान् भवति । “असुन्वता सोमाभिषवमकुर्वता पुरुषेण सह "सख्यं सखित्वं “न “वष्टि न कामयते ॥
धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् ।
तस्मै॒ शत्रू॑न्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥५
धन॑म् । न । स्य॒न्द्रम् । ब॒हु॒लम् । यः । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् ।
तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒तः । अह्नः॑ । नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥५
धनम् । न । स्यन्द्रम् । बहुलम् । यः । अस्मै । तीव्रान् । सोमान् । आऽसुनोति । प्रयस्वान् ।
तस्मै । शत्रून् । सुऽतुकान् । प्रातः । अह्नः । नि । सुऽअष्ट्रान् । युवति । हन्ति । वृत्रम् ॥५
“प्रयस्वान् हविष्मान् “यः यजमानः “स्पन्द्रं स्पन्दनशीलं गवाश्वादिकं “बहुलं प्रभूतं “धनं “न यथा धनं दरिद्राय पात्रभूताय दातुं संस्करोति तद्वत् “अस्मै इन्द्राय “तीव्रान् तीव्ररसान् “सोमान् “आसुनोति अभिषुणोति । अभिषवाख्येन संस्कारेण संस्करोतीत्यर्थः । “तस्मै यजमानाय “प्रातरह्नः पूर्वाह्णे “सुतुकान् सुप्रेरणान् शोभनपुत्रसहितान् वा “स्वष्ट्रान् शोभनायुधान् “शत्रून् “नि “युवति स इन्द्रः पृथक्करोति । किंच “वृत्रं तदीयमुपद्रवं "हन्ति हिनस्ति ॥ ॥ २२ ॥
यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे ।
आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥६
यस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । यः । शि॒श्राय॑ । म॒घऽवा॑ । काम॑म् । अ॒स्मे इति॑ ।
आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रुः॑ । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥६
यस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । यः । शिश्राय । मघऽवा । कामम् । अस्मे इति ।
आरात् । चित् । सन् । भयताम् । अस्य । शत्रुः । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम् ॥६
“यस्मिन् “इन्द्रे “वयं घौषेयाः सुहस्त्याः “शंसं स्तुतिं “दधिम विदध्मः । “यः च “मघवा धनवानिन्द्रः “अस्मे अस्मासु “कामम् अभिलाषं “शिश्राय श्राययति । “अस्य इन्द्रस्य “शत्रुः “आरात् दूर एव “सन् “चित् सन्नपि “भयतां बिभेतु। किंच “अस्मै इन्द्राय “जन्या जन्यानि शत्रुजनपदभवानि "द्युम्ना द्युम्नान्यन्नानि “नि "नमन्तां प्रह्वीभवन्तु । भोजनीयानि भवन्त्वित्यर्थः ॥
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ ।
अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥७
आ॒रात् । शत्रु॑म् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्रः । यः । शम्बः॑ । पु॒रु॒ऽहू॒त॒ । तेन॑ ।
अ॒स्मे इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥७
आरात् । शत्रुम् । अप । बाधस्व । दूरम् । उग्रः । यः । शम्बः । पुरुऽहूत । तेन ।
अस्मे इति । धेहि । यवऽमत् । गोऽमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजऽरत्नाम् ॥७
हे “पुरुहूत बहुभिराहूत “इन्द्र तव “यः “उग्रः उद्गूर्णः “शम्बः वज्रः। तथा च यास्कः-- ‘ शम्ब इति वज्रनाम शमयतेर्वा शातयतेर्वा' (निरु. ५, २४ ) इति । “तेन वज्रेण “शत्रुम् अस्मदरिम् “आरात् अस्मत्समीपात् "दूरम् "अप “बाधस्व त्वमपगमय। किंच “अस्मे अस्मासु “यवमत यवयुक्तं “गोमत् गोयुक्तं च धनं “धेहि निधेहि। किंच "जरित्रे स्तोत्रे मह्यं “वाजरत्नां रमणीयान्नं “धियं कर्म “कृधि कुरु ॥
प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् ।
नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥८
प्र । यम् । अ॒न्तः । वृ॒ष॒ऽस॒वासः॑ । अग्म॑न् । ती॒व्राः । सोमाः॑ । ब॒हु॒लऽअ॑न्तासः । इन्द्र॑म् ।
न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥८
प्र । यम् । अन्तः । वृषऽसवासः । अग्मन् । तीव्राः । सोमाः । बहुलऽअन्तासः । इन्द्रम् ।
न । अह । दामानम् । मघऽवा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम् ॥८
“अन्तः जठरे “यम् “इन्द्रं “वृषसवासः वृषसवा अग्नौ सोमस्य वर्षितृभिरध्वर्युभिरभिषुताः “तीव्राः तीव्ररसाः “बहुलान्तासः बहुलमन्नादिकमन्ते येभ्यस्ते बहुलान्ताः “सोमाः “प्र “अग्मन् प्रगच्छन्ति स “मघवा धनवानिन्द्रः "दामानं दातारं यजमानं “नाह नैव “नि “यंसत् नियच्छति । किंतु “सुन्वते सोमाभिषवं कुर्वते यजमानाय “भूरि अधिकं “वामं वननीयं धनं “नि “वहति नितरां प्रापयति ॥
उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले ।
यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥९
उ॒त । प्र॒ऽहाम् । अ॒ति॒ऽदीव्य॑ । ज॒या॒ति॒ । कृ॒तम् । यत् । श्व॒ऽघ्नी । वि॒ऽचि॒नोति॑ । का॒ले ।
यः । दे॒वऽका॑मः । न । धना॑ । रु॒ण॒द्धि॒ । सम् । इत् । तम् । रा॒या । सृ॒ज॒ति॒ । स्व॒धाऽवा॑न् ॥९
उत । प्रऽहाम् । अतिऽदीव्य । जयाति । कृतम् । यत् । श्वऽघ्नी । विऽचिनोति । काले ।
यः । देवऽकामः । न । धना । रुणद्धि । सम् । इत् । तम् । राया । सृजति । स्वधाऽवान् ॥९
“उत अपि चेन्द्रः “प्रहां प्रहन्तारम् “अतिदीव्य । अतिरभिपूजितार्थे वर्तते । दीव्यतिर्गत्यर्थे । अभिपूजितं गमयित्वा “जयाति जयति । किंच “यत् यथा । अत्र प्रकारवचनप्रत्ययस्य लोपो द्रष्टव्यः। “श्वघ्नी कितवः “कृतं कृतसमयं प्रतिकितवं कितवानां मध्ये “विचिनोति परीक्ष्य गृह्णाति तद्वदिन्द्रः “काले युद्धकाले बलवन्तं शत्रुं परीक्ष्य वधार्थं गृह्णातीत्यर्थः । किंच “यः मनुष्यः “देवकामः देवान् यष्टुं स्तोतुं वा अभिलाषवान् भवति तस्यार्थाय “धना धनानि “न “रुणद्धि नावृणोति । नाच्छादयतीत्यर्थः । किंतु “स्वधावान् बलवानिन्द्रः “तं देवकामं “राया धनेन “सं “सृजति संयोजयत्येव ॥
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।
व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥१०
गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।
व॒यम् । राज॑ऽभिः । प्र॒थ॒मा । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥१०
गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।
वयम् । राजऽभिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम ॥१०
हे “पुरुहूत बहुभिराहूतेन्द्र तव प्रसादात “दुरेवां दुष्टागमनां दारिद्र्यादागताम् “अमतिं दुर्बुद्धिं “वयं घौषेयाः सुहस्त्याः “गोभिः पशुभिः “तरेम निस्तरेम । किंच "यवेन “विश्वां व्याप्तां “क्षुधं तरेम । किंच “प्रथमाः मुख्यानि “धनानि “राजभिः धनानामीश्वरैः । लभेमहीति शेषः । यद्वा । प्रथमा वयमिति संबन्धः। किंच “अस्माकेन अस्मदीयेन “वृजनेन बलेन “जयेम । शत्रूनिति शेषः ॥
बृह॒स्पति॑र्न॒ः परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो न॒ः सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥११
बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।
इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥११
बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।
इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥११
“पश्चात् पश्चिमतो योऽघायुरागच्छति तस्मात् “अघायोः पापकाच्छत्रोः “नः अस्मान् “बृहस्पतिः “परि “पातु रक्षतु । “उत अपि च “उत्तरस्मात् उत्तरतः “अधरात् अधस्ताच्च योऽघायुरागच्छति तस्मादघायोः नोऽस्मान् परि पातु । "उत अपि च “इन्द्रः “पुरस्तात् पूर्वतः “मध्यतः व योऽघायुरागच्छति तस्मादघायोः “नः अस्मान् परि पातु । किंच “सखा सखिभूतेन्द्रः “सखिभ्यः प्रियेभ्योऽस्मभ्यं “वरिवः धनं “कृणोतु करोतु ॥ ॥ २३ ॥ ॥ ३ ॥
भाष्यम्
मण्डल १० | ||||
---|---|---|---|---|