ऋग्वेदः सूक्तं १०.४४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.४३ ऋग्वेदः - मण्डल १०
सूक्तं १०.४४
कृष्ण आङ्गिरसः
सूक्तं १०.४५ →
दे. इन्द्रः। जगती, १-३, १०-११ त्रिष्टुप् ।


आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।
प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥१॥
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।
शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥२॥
एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् ।
प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥३॥
एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे ।
ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥४॥
गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।
त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥५॥
पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।
न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः ॥६॥
एवैवापागपरे सन्तु दूढ्योऽश्वा येषां दुर्युज आयुयुज्रे ।
इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥७॥
गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत् ।
समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥८॥
इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः ।
अस्मिन्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः ॥९॥
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥


सायणभाष्यम्

‘आ यातु ' इत्येकादशर्चं द्वितीयं सूक्तमाङ्गिरसस्य कृष्णस्यार्षमैन्द्रम् । आदितस्तिस्रस्त्रिष्टुभः । ततः षट् जगत्यः । ततो द्वे त्रिष्टुभौ । तथा चानुक्रान्तम् - ‘ आ यातु त्रित्रिष्टुबादि' इति । आभिप्लविकेषूक्थ्येषु ब्राह्मणाच्छंसिनः स्तोमवृद्धाविदमावापार्थम् । सूत्रितं च- ‘ आ यात्विन्द्रः स्वपतिरिमां धियमिति ब्राह्मणाच्छंसी ' ( आश्व. श्रौ. ७. ९) इति ॥


आ या॒त्विन्द्र॒ः स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् ।

प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥१

आ । या॒तु॒ । इन्द्रः॑ । स्वऽप॑तिः । मदा॑य । यः । धर्म॑णा । तू॒तु॒जा॒नः । तुवि॑ष्मान् ।

प्र॒ऽत्व॒क्षा॒णः । अति॑ । विश्वा॑ । सहां॑सि । अ॒पा॒रेण॑ । म॒ह॒ता । वृष्ण्ये॑न ॥१

आ । यातु । इन्द्रः । स्वऽपतिः । मदाय । यः । धर्मणा । तूतुजानः । तुविष्मान् ।

प्रऽत्वक्षाणः । अति । विश्वा । सहांसि । अपारेण । महता । वृष्ण्येन ॥१

“यः इन्द्रः “तूतुजानः त्वरमाणः “तुविष्मान् वृद्धिमान् “विश्वा विश्वानि “सहांसि शत्रुबलानि “अपारेण “महता अधिकेन “वृष्ण्येन बलेन “प्रत्वक्षाणः प्रकर्षेण तनूकुर्वन् “अति गच्छतीति शेषः । “स्वपतिः धनपतिः “इन्द्रः “मदाय मदार्थं “धर्मणा धारकेण रथेन “आ “यातु अस्मद्यज्ञं प्रत्यागच्छतु ॥


सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ ।

शीभं॑ राजन्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥२

सु॒ऽस्थामा॑ । रथः॑ । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्रः॑ । नृ॒ऽप॒ते॒ । गभ॑स्तौ ।

शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒र्वाङ् । वर्धा॑म । ते॒ । प॒पुषः॑ । वृष्ण्या॑नि ॥२

सुऽस्थामा । रथः । सुऽयमा । हरी इति । ते । मिम्यक्ष । वज्रः । नृऽपते । गभस्तौ ।

शीभम् । राजन् । सुऽपथा । आ । याहि । अर्वाङ् । वर्धाम । ते । पपुषः । वृष्ण्यानि ॥२

हे “नृपते नृणां पालकेन्द्र “ते तव “रथः “सुष्ठामा शोभनावस्थानः “हरी अश्वावपि “सुयमा सुयमौ । सुबद्धावित्यर्थः । किंच तव “गभस्तौ बाहौ "वज्रः “मिम्यक्ष संहतो भवति । तथा सति हे “राजन् सर्वस्येश्वरेन्द्र “शीभं शीघ्रं “सुपथा शोभनेन मार्गेण “अर्वाङ् अस्मदभिमुखम् "आ “याहि आगच्छ । आगत्य "पपुषः सोमं पीतवतः “ते तव “वृष्ण्यानि बलानि “वर्धाम वयं वर्धयामः ॥


एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् ।

प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥३

आ । इ॒न्द्र॒ऽवाहः॑ । नृ॒ऽपति॑म् । वज्र॑ऽबाहुम् । उ॒ग्रम् । उ॒ग्रासः॑ । त॒वि॒षासः॑ । ए॒न॒म् ।

प्रऽत्व॑क्षसम् । वृ॒ष॒भम् । स॒त्यऽशु॑ष्मम् । आ । ई॒म् । अ॒स्म॒ऽत्रा । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ॥३

आ । इन्द्रऽवाहः । नृऽपतिम् । वज्रऽबाहुम् । उग्रम् । उग्रासः । तविषासः । एनम् ।

प्रऽत्वक्षसम् । वृषभम् । सत्यऽशुष्मम् । आ । ईम् । अस्मऽत्रा । सधऽमादः । वहन्तु ॥३

“नृपतिं नृणां पालकं “वज्रबाहुं वज्रहस्तम् “उग्रम् उद्गूर्णं “प्रत्वक्षसं शत्रुबलाना प्रकर्षेण तनूकर्तारं “वृषभं कामानां वर्षितारं 'सत्यशुष्मम् अविसंवादिबलम् “एनम् इन्द्रम् । “आ “इम् इति पूरणौ । “उग्रासः उद्गूर्णाः “तविषासः प्रवृद्धाः “सधमादः सह माद्यन्तः “इन्द्रवाहः इन्द्रस्य वोढारः “अस्मत्रा अस्मासु “आ “वहन्तु ॥


ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे ।

ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥४

ए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । सऽचे॑तसम् । ऊ॒र्जः । स्क॒म्भम् । ध॒रुणे॑ । आ । वृ॒ष॒ऽय॒से॒ ।

ओजः॑ । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति॑ । अपि॑ । असः॑ । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒नः । वृ॒धे ॥४

एव । पतिम् । द्रोणऽसाचम् । सऽचेतसम् । ऊर्जः । स्कम्भम् । धरुणे । आ । वृषऽयसे ।

ओजः । कृष्व । सम् । गृभाय । त्वे इति । अपि । असः । यथा । केऽनिपानाम् । इनः । वृधे ॥४

हे इन्द्र त्वम् “एव एवं “पतिं पालकं “द्रोणसाचं द्रोणकलशस्य सेवितारं “सचेतसं सप्रज्ञम् “ऊर्जः “स्कम्भं बलस्य धारकं सोमं “धरुणे धारके जठरे “आ “वृषायसे आसिञ्चसे । धारयसीत्यर्थः । किंच मह्यम् “ओजः बलं “कृष्व कुरुष्व। “त्वे त्वयि अस्मान् “अपि “सं “गृभाय संगृहाण च । किंच “केनिपानां मेधाविनामस्माकम् ।' केनिप उशिजः' इति मेधाविनामसु पाठात् । “वृधे वर्धनाय “यथा यथावत् सर्वथा “इनः स्वामी “असः भवसि ।।


गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ ।

त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥५

गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिनः॑ ।

त्वम् । ई॒शि॒षे॒ । सः । अ॒स्मिन् । आ । स॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥५

गमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सुऽआशिषम् । भरम् । आ । याहि । सोमिनः ।

त्वम् । ईशिषे । सः । अस्मिन् । आ । सत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा ॥५

हे इन्द्र “वसूनि त्वद्देयानि धनानि “अस्मे मयि “आ “गमन् आगच्छन्तु । “हि यस्मात् त्वामहं “शंसिषं स्तौमि। किंच “सोमिनः सोमवतो मम "स्वाशिषं शोभना आशिषो यस्मिंस्तं “भरं यज्ञम् “आ “याहि त्वमागच्छ। किंच “त्वमीशिषे धनस्येश्वरोऽसि । एवंविधः “सः त्वम् “अस्मिन् अस्मदीये वेद्यास्तृते “बर्हिषि “आ “सत्सि आसीद। किंच “तव सोमपात्राणि “धर्मणा राक्षसानां कर्मणा अनाधृष्याणि धर्षयितुमशक्यानि ॥ ॥ २६ ॥


पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ ।

न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥६

पृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒माः । दे॒वऽहू॑तयः । अकृ॑ण्वत । श्र॒व॒स्या॑नि । दु॒स्तरा॑ ।

न । ये । शे॒कुः । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑यः ॥६

पृथक् । प्र । आयन् । प्रथमाः । देवऽहूतयः । अकृण्वत । श्रवस्यानि । दुस्तरा ।

न । ये । शेकुः । यज्ञियाम् । नावम् । आऽरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपयः ॥६

हे इन्द्रं तव प्रसादात् ते “पृथक् “प्रायन् देवलोकान् पृथग्गच्छन्ति ये “प्रथमाः पूर्वे मुख्या वा "देवहूतयः देवानामाह्वातारः । कर्तरि कृत् । किंच “दुष्टरा अन्यैर्दुस्तराणि “श्रवस्यानि श्रवणीयानि यशांसि “अकृण्वत अकुर्वत । किंच "ये त्वत्प्रसादरहिता जनाः “यज्ञियां यज्ञसंबन्धिनीम् । यज्ञमयीमित्यर्थः । “नावम् “आरुहम् आरोढुं “न “शेकुः न शक्नुवन्ति “ते “केपयः कुत्सितपूयकर्माणः पापकर्माणो जनाः “ईर्मैंव ऋणेनैव “न्यविशन्त नीचैरविशन्त । अधोगतिं प्राप्ता इत्यर्थः । तथा च यास्कः- ‘ पृथक् प्रायन् पृथक् प्रथतेः प्रथमा देवहूतयो ये देवानाह्वयन्ताकुर्वत श्रवणीयानि यशांसि दुरनुकरण्यन्यैर्येऽशक्नुवन्यज्ञियां नावमारोळ्हुमथ ये नाशक्नुवन्यज्ञियां नावमारोळ्हुमीर्मैव ते न्यविशन्त ऋणेनैव ते न्यविशन्तास्मिन्नेव लोक इति वा ' (निरु. ५, २५) इति ॥


ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे ।

इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥७

ए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दुः॒ऽध्यः॑ । अश्वाः॑ । येषा॑म् । दुः॒ऽयुजः॑ । आ॒ऽयु॒यु॒ज्रे ।

इ॒त्था । ये । प्राक् । उप॑रे । सन्ति॑ । दा॒वने॑ । पु॒रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥७

एव । एव । अपाक् । अपरे । सन्तु । दुःऽध्यः । अश्वाः । येषाम् । दुःऽयुजः । आऽयुयुज्रे ।

इत्था । ये । प्राक् । उपरे । सन्ति । दावने । पुरूणि । यत्र । वयुनानि । भोजना ॥७

“एवैव एवमेव “दूढ्यः दुर्बुद्धयः “अपरे अन्ये । अयज्वान इत्यर्थः । “अपाक् अपाचीना अधोगन्तारः “सन्तु भवन्तु “येषां यज्ञमकुर्वताम् “अश्वाः दुर्युजः दुर्योजाः प्रबलाः “अश्वाः “आयुयुज्रे रथेषु युज्यन्ते । ये सत्यपि सामर्थ्ये न यजन्ति ते नरकं गच्छन्तीति भावः। किंच “इत्था इत्थं ते स्वर्गगामिनो भवन्ति “ये “उपरे यज्वानः प्राक् मरणात्पूर्वमेव “दावने देवानां हविर्दानाय “सन्तिः भवन्ति । “यत्र येषु च यज्ञकारिषु “वयुनानि प्रज्ञानानि कान्तानि वा “भोजना भोग्यानि धनानि “पुरूणि बहूनि देवेभ्यो दानाय सन्ति ॥


गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत् ।

स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥८

गि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौः । क्र॒न्द॒त् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् ।

स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्णः॑ । पी॒त्वा । मदे॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥८

गिरीन् । अज्रान् । रेजमानान् । अधारयत् । द्यौः । क्रन्दत् । अन्तरिक्षाणि । कोपयत् ।

समीचीने इति सम्ऽईचीने । धिषणे इति । वि । स्कभायति । वृष्णः । पीत्वा । मदे । उक्थानि । शंसति ॥८

“गिरीन् मेघान “अज्रान् गमनशीलान् “रेजमानान् कम्पमानान् “अधारयत् इन्द्रो धारितवान् । निश्चलान् कृतवानित्यर्थः । किंच “द्यौः द्युलोकस्तन्निवासी वा जनोऽसुरक्षसेभ्यो भीतः सन् “क्रन्दत् क्रन्दति । इन्द्रमाह्वयत्यात्मनः परित्राणार्थम्। किंचेन्द्रः “अन्तरिक्षाणि “कोपयत्। कोपयति । संक्षोभयतीत्यर्थः । किंचेन्द्रः “समीचीने परस्परं संगते “धिषणे द्यावापृथिव्यौ “वि “ष्कभायति अन्तरिक्षेण स्तभ्नाति । स्तम्भयतीत्यर्थः। किंचेन्द्रः “वृष्णः स्वोदरस्यासेक्तॄन सोमान् “पीत्वा “मदे सति “उक्थानि प्रशस्यानि वचनानि “शंसति प्रब्रवीति ॥


इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑ ।

अ॒स्मिन्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥९

इ॒मम् । बि॒भ॒र्मि॒ । सुऽकृ॑तम् । ते॒ । अ॒ङ्कु॒शम् । येन॑ । आ॒ऽरु॒जासि॑ । म॒घ॒ऽव॒न् । श॒फ॒ऽआ॒रुजः॑ ।

अ॒स्मिन् । सु । ते॒ । सव॑ने । अ॒स्तु॒ । ओ॒क्य॑म् । सु॒ते । इ॒ष्टौ । म॒घ॒ऽव॒न् । बो॒धि॒ । आऽभ॑गः ॥९

इमम् । बिभर्मि । सुऽकृतम् । ते । अङ्कुशम् । येन । आऽरुजासि । मघऽवन् । शफऽआरुजः ।

अस्मिन् । सु । ते । सवने । अस्तु । ओक्यम् । सुते । इष्टौ । मघऽवन् । बोधि । आऽभगः ॥९

हे “मघवन् धनवन्निन्द्र "ते तव "सुकृतं संस्कृतम् “इमम् “अङ्कुशं “बिभर्मि धारयामि। अत्राङ्कुशशब्देन प्रेरकत्वगुणयोगात् स्तुतिरुच्यते । स्तुतिं धारयामीत्यर्थः । “येन स्तुतिलक्षणाङ्कुशेन स्तुतः सन् त्वं “शफारुजः आभिमुख्येन परबलानां हन्तॄनैरावतादीन् गजान् “आरुजासि आभिमुख्येन रुजसि । पीडयसीत्यर्थः। किंच “ते तव “अस्मिन् अस्मदीये "सवने “ओक्यम ओको निवासः “अस्तु भवतु । किंच हे “मघवन धनवन्निन्द्र “आभगः आभजनीयस्त्वं “सुते सुतसीमे “इष्टौ यज्ञे “बोधि अस्मदीयाः स्तुतीर्बुध्यस्व ॥


गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।

व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥१०

गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।

व॒यम् । राज॑ऽभिः । प्र॒थ॒माः । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥१०

गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।

वयम् । राजऽभिः । प्रथमाः । धनानि । अस्माकेन । वृजनेन । जयेम ॥१०


बृह॒स्पति॑र्न॒ः परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।

इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो न॒ः सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥११

बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।

इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥११

बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।

इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥११

इदमृग्द्वयं व्याख्यातचरम् ॥ ॥ २७ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४४&oldid=195084" इत्यस्माद् पुनः प्राप्तिः