ऋग्वेदः सूक्तं ४.५०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.४९ ऋग्वेदः - मण्डल ४
सूक्तं ४.५०
वामदेवो गौतमः
सूक्तं ४.५१ →
दे. बृहस्पतिः, १०-११ इन्द्राबृहस्पती। त्रिष्टुप्, १० जगती


यस्तस्तम्भ सहसा वि ज्मो अन्तान्बृहस्पतिस्त्रिषधस्थो रवेण ।
तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥
धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे ।
पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥२॥
बृहस्पते या परमा परावदत आ त ऋतस्पृशो नि षेदुः ।
तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥३॥
बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥४॥
स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।
बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥५॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।
बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥
स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येण ।
बृहस्पतिं यः सुभृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥७॥
स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् ।
तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति ॥८॥
अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या ।
अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः ॥९॥
इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू ।
आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥१०॥
बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर्भूत्वस्मे ।
अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥११॥


सायणभाष्यम्

‘ यस्तस्तम्भ ' इत्येकादशर्चं पञ्चमं सूक्तं वामदेवस्यार्षं त्रैष्टुभम् । दशमी जगती । दशम्येकादश्याविन्द्राबृहस्पतिदेवताके शिष्टा नव बार्हस्पत्यः। अत्रानुक्रमणिका--- यस्तस्तम्भैकादश बार्हस्पत्यमन्त्ये ऐन्द्र्यौ चोपान्त्या जगती' । आभिप्लविकेषूक्थेषु तृतीयसवने ब्राह्मणाच्छंसिनः स्तोमवृद्धाविदं सूक्तमावापार्थम् । तथा च सूत्रं - ‘ यस्तस्तम्भ यो अद्रिभित् ' ( आश्व. श्रौ. ७. ९ ) इति । आद्ये बृहस्पतिसवे मरुस्वतीयनिष्केवल्ययोः सूक्तमुखीये । सूत्रितं च -- 'यस्तस्तम्भ धुनेतय इति सूक्तमुखीये' ( आश्व. श्रौ. ९. ५) इति ॥


यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो अन्ता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे॑ण ।

तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या॑नाः पु॒रो विप्रा॑ दधिरे म॒न्द्रजि॑ह्वम् ॥१

यः । त॒स्तम्भ॑ । सह॑सा । वि । ज्मः । अन्ता॑न् । बृह॒स्पतिः॑ । त्रि॒ऽस॒ध॒स्थः । रवे॑ण ।

तम् । प्र॒त्नासः॑ । ऋष॑यः । दीध्या॑नाः । पु॒रः । विप्राः॑ । द॒धि॒रे॒ । म॒न्द्रऽजि॑ह्वम् ॥१

यः । तस्तम्भ । सहसा । वि । ज्मः । अन्तान् । बृहस्पतिः । त्रिऽसधस्थः । रवेण ।

तम् । प्रत्नासः । ऋषयः । दीध्यानाः । पुरः । विप्राः । दधिरे । मन्द्रऽजिह्वम् ॥१

यः ”बृहस्पतिः बृहतो देवस्य यज्ञस्य वा पालयिता देवः “सहसा बलेन "ज्मः पृथिव्याः “अन्तान् । दश दिश इत्यर्थः । तान् “वि “तस्तम्भ विविधं स्तम्भितवान् नियमितवान् । “त्रिषधस्थः त्रिषु स्थानेषु वर्तमानः “रवेण एवं तिष्ठतेत्यनेन शब्देन "तं देवं “प्रत्नासः पुराणाः “ऋषयः अतीन्द्रियद्रष्टारः “दीध्यानाः दीप्यमानाः “विप्राः मेधाविनो यजमानादयः “पुरः “दधिरे पुरस्तात् स्थापितवन्तः स्तुत्यादिना । “मन्द्रजिह्वं मादनजिह्वं मोदनजिह्वम् ॥


धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे ।

पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥२

धु॒नऽइ॑तयः । सु॒ऽप्र॒के॒तम् । मद॑न्तः । बृह॑स्पते । अ॒भि । ये । नः॒ । त॒त॒स्रे ।

पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑तात् । अ॒स्य॒ । योनि॑म् ॥२

धुनऽइतयः । सुऽप्रकेतम् । मदन्तः । बृहस्पते । अभि । ये । नः । ततस्रे ।

पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षतात् । अस्य । योनिम् ॥२

हे "बृहस्पते “धुनेतयः । धुना शत्रूणां कम्पयित्रीतिर्गतिर्येषां ते । तादृशाः "सुप्रकेतं शोभनप्रज्ञं त्वां “मदन्तः मादयन्तः “नः अस्मत्संबन्धिनः “ये ऋत्विजः “अभि “ततस्रे आत्मानमुपक्षिपन्ति स्तुवन्ति वा “अस्य एषां “योनिं कारणं यज्ञं यजमानं वा मां रक्षतात् रक्ष । योनिर्विशेष्यते । “पृषन्तं फलानि सिञ्चन्तं "सृप्रं सर्पणस्वभावम् अदब्धम् अहिंसितम् “ऊर्वम् उरुम् ॥


'बृहस्पते या' इत्यादिके द्वे बार्हस्पत्ये पशौ वपापुरोडाशयोरनुवाक्ये । ‘बृहस्पते या परमा परावदिति द्वे' (आश्व. श्रौ. ३. ७) इति हि सूत्रितम् ॥

बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे॑दुः ।

तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्व॑ः श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥३

बृह॑स्पते । या । प॒र॒मा । प॒रा॒ऽवत् । अतः॑ । आ । ते॒ । ऋ॒त॒ऽस्पृशः॑ । नि । से॒दुः॒ ।

तुभ्य॑म् । खा॒ताः । अ॒व॒ताः । अद्रि॑ऽदुग्धाः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥३

बृहस्पते । या । परमा । पराऽवत् । अतः । आ । ते । ऋतऽस्पृशः । नि । सेदुः ।

तुभ्यम् । खाताः । अवताः । अद्रिऽदुग्धाः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥३

हे "बृहस्पते “या प्रसिद्धा "परमा उत्कृष्टा “परावत् अत्यन्तं दूरभूता वसतिः स्वर्गाख्यास्ति । यद्वा लिङ्गव्यत्ययः । परमं स्थानमस्ति । “अतः अस्माद्देशात् । आ इत्यर्वागर्थे । अधस्तात् “ते तव संबन्धिनः “ऋतस्पृशः यज्ञं स्पृशन्तोऽश्वाः "नि “षेदुः निषण्णा भवन्ति । “तुभ्यं “खाता अवता:। लुप्तोपमैषा । यथा खाताः कूपाः “अभितः “श्चोतन्ति तद्वत् “अद्रिदुग्धाः ग्रावभिरभिषुताः सोमा: “विरप्शं विशेषेण शब्देन स्तोत्रं यथा भवति तथा “मध्वः मधुररसं श्चोतन्ति स्रवन्ति ।।


बृह॒स्पति॑ः प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो॑मन् ।

स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ॥४

बृह॒स्पतिः॑ । प्र॒थ॒मम् । जाय॑मानः । म॒हः । ज्योति॑षः । प॒र॒मे । विऽओ॑मन् ।

स॒प्तऽआ॑स्यः । तु॒वि॒ऽजा॒तः । रवे॑ण । वि । स॒प्तऽर॑श्मिः । अ॒ध॒म॒त् । तमां॑सि ॥४

बृहस्पतिः । प्रथमम् । जायमानः । महः । ज्योतिषः । परमे । विऽओमन् ।

सप्तऽआस्यः । तुविऽजातः । रवेण । वि । सप्तऽरश्मिः । अधमत् । तमांसि ॥४

अयं “बृहस्पतिः मन्त्राभिमानी देवः "महः महतः “ज्योतिषः दीप्तस्य आदित्यस्य "परमे निरतिशये “व्योमन् व्योमनि “प्रथमं “जायमानः प्रादुर्भवन् “सप्तास्यः सप्तच्छन्दोमयमुखः "तुविजातः बहुप्रकारं संभूतः “रवेण शब्देन “सप्तरश्मिः सर्पणस्वभावतेजोयुक्तः “तमांसि “वि “अधमत् ।' धमतिर्गतिकर्मा ' ( निरु. ६. २ ) इति निरुक्तम् । विविधं गच्छति । नाशयतीत्यर्थः ॥


स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण ।

बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूद॒ः कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥५

सः । सु॒ऽस्तुभा॑ । सः । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒ऽगम् । रवे॑ण ।

बृह॒स्पतिः॑ । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ । कनि॑क्रदत् । वाव॑शतीः । उत् । आ॒ज॒त् ॥५

सः । सुऽस्तुभा । सः । ऋक्वता । गणेन । वलम् । रुरोज । फलिऽगम् । रवेण ।

बृहस्पतिः । उस्रियाः । हव्यऽसूदः । कनिक्रदत् । वावशतीः । उत् । आजत् ॥५

"सः “बृहस्पतिः "सुष्टुभा शोभनस्तुतिमता “ऋक्वता दीप्तिमता "गणेन अङ्गिरसां “रवेण शब्देन च सह "फलिगम् ॥' ञिफला विशरणे ' ॥ फलिर्भेदः । तेन गच्छतीति फलिगम् । “वलं वलनामानमसुरं “रुरोज बभञ्ज । द्वितीयः सशब्दः पूरणः । स एव देवः "उस्रियाः भोगानामुत्स्राविणीः “हव्यसूदः क्षीरादिहविष्प्रेरिकाः "वावशतीः वावश्यमानाः गाः "कनिक्रदत् शब्दं कुर्वन् “उदाजत् उद्घाटयति स्म ॥ ॥ २६ ॥


‘ एवा पित्रे ' इति बार्हस्पत्ये पशौ हविषो याज्या ।' एवा पित्रे विश्वदेवाय वृष्णे विश्वे अद्य मरुतो विश्व ऊती ' ( आश्व. श्रौ. ३. ७) इति सूत्रितत्वात् । अग्निष्टोमे वैश्वदेवशस्त्रे एषैव धाय्या । तथा च सूत्रम् - ' एवा पित्रे विश्वदेवाय वृष्ण आ नो भद्राः क्रतवो यन्तु विश्वतः ' ( आश्व. श्रौ. ५. १८ ) इति ॥

ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भि॑ः ।

बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥६

ए॒व । पि॒त्रे । वि॒श्वऽदे॑वाय । वृष्णे॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ ।

बृह॑स्पते । सु॒ऽप्र॒जाः । वी॒रऽव॑न्तः । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥६

एव । पित्रे । विश्वऽदेवाय । वृष्णे । यज्ञैः । विधेम । नमसा । हविःऽभिः ।

बृहस्पते । सुऽप्रजाः । वीरऽवन्तः । वयम् । स्याम । पतयः । रयीणाम् ॥६

"पित्रे पालकाय “विश्वदेवाय सर्वदेवतारूपाय । देवानां मन्त्रप्रतिपाद्यत्वादस्य च मन्त्राभिमानित्वात् विश्वदेवत्वम् । यद्वा । अत्र देवशब्दः स्तुत्यर्थः । सर्वैः स्तुत्याय “वृष्णे वर्षकाय बृहस्पतये देवाय "एव एवमुक्तप्रकारेण “यज्ञैः तत्साधनैः "हविर्भिः आज्यचर्वादिलक्षणैः "नमसा स्तुत्या च “विधेम परिचरेम । हे “बृहस्पते "सुप्रजाः शोभनपुत्राः “वीरवन्तः वीर्योपेताः "वयं “रयीणां धनानां “पतयः “स्याम ॥


स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे॑ण तस्थाव॒भि वी॒र्ये॑ण ।

बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज॑म् ॥७

सः । इत् । राजा॑ । प्रति॑ऽजन्यानि । विश्वा॑ । शुष्मे॑ण । त॒स्थौ॒ । अ॒भि । वी॒र्ये॑ण ।

बृह॒स्पति॑म् । यः । सुऽभृ॑तम् । बि॒भर्ति॑ । व॒ल्गु॒ऽयति॑ । वन्द॑ते । पू॒र्व॒ऽभाज॑म् ॥७

सः । इत् । राजा । प्रतिऽजन्यानि । विश्वा । शुष्मेण । तस्थौ । अभि । वीर्येण ।

बृहस्पतिम् । यः । सुऽभृतम् । बिभर्ति । वल्गुऽयति । वन्दते । पूर्वऽभाजम् ॥७

इदमाद्यृक्त्रयं पुरोहितप्रशंसा इति ब्राह्मणम् ( ऐ. ब्रा. ८. २६ )। अथवा सूक्तस्य ऋग्द्वयवर्जितस्य बार्हस्पत्यत्वात् बृहस्पतेरेव स्तुतिः । “स “इत् स एव “राजा मूर्धाभिषिक्तः अन्यः वा राजमानः “प्रतिजन्यानि । जन्यं युद्धं प्रति बलानीत्यर्थः । प्रत्यर्थिजनपदानि वा तानि “विश्वा सर्वाणि “शुष्मेण बलेन “वीर्येण शरीरसामर्थ्येन वा “अभि अभिगम्याक्रम्य तस्थौ तिष्ठति । स इत्युक्तं क इत्याह । “यः “बृहस्पतिं बृहतां महतां पालयितारं देवमुक्तलक्षणं पुरोहितं वा "सुभृतं सुष्ठु हविःस्तोत्रादिनान्नाच्छादनादिना वा “बिभर्ति भरति “वल्गूयति स्तौति । “वन्दते नमस्करोति च "पूर्वभाजम् इतरेभ्यः प्रथमं संभक्तारं कृत्वा । एवं यः करोति स एव तस्थाविति ॥


स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानी॑म् ।

तस्मै॒ विश॑ः स्व॒यमे॒वा न॑मन्ते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥८

सः । इत् । क्षे॒ति॒ । सुऽधि॑तः । ओक॑सि । स्वे । तस्मै॑ । इळा॑ । पि॒न्व॒ते॒ । वि॒श्व॒ऽदानी॑म् ।

तस्मै॑ । विशः॑ । स्व॒यम् । ए॒व । न॒म॒न्ते॒ । यस्मि॑न् । ब्र॒ह्मा । राज॑नि । पूर्वः॑ । एति॑ ॥८

सः । इत् । क्षेति । सुऽधितः । ओकसि । स्वे । तस्मै । इळा । पिन्वते । विश्वऽदानीम् ।

तस्मै । विशः । स्वयम् । एव । नमन्ते । यस्मिन् । ब्रह्मा । राजनि । पूर्वः । एति ॥८

“स “इत् स एव “क्षेति निवसति । “सुधितः सुष्ठु तृप्तः सन् "स्वे स्वकीये एव "ओकसि सदने । स एव समृद्धो निर्बाधः सन् सुखेनास्ते । “तस्मा "इळा भूमिः “विश्वदानीं सर्वकालं “पिन्वते वर्धते फलैः । “तस्मै “विशः प्रजाः “स्वयमेव “नमन्ते प्रणता भवन्ति । दण्डनमन्तरेण स्वयमेव दत्तकरा भवन्ति । "यस्मिन् “राजनि "ब्रह्मा “पूर्वः प्रथमं पूज्यः सन् “एति गच्छति । वर्तत इत्यर्थः ॥ .


अप्र॑तीतो जयति॒ सं धना॑नि॒ प्रति॑जन्यान्यु॒त या सज॑न्या ।

अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ॥९

अप्र॑तिऽइतः । ज॒य॒ति॒ । सम् । धना॑नि । प्रति॑ऽजन्यानि । उ॒त । या । सऽज॑न्या ।

अ॒व॒स्यवे॑ । यः । वरि॑वः । कृ॒णोति॑ । ब्र॒ह्मणे॑ । राजा॑ । तम् । अ॒व॒न्ति॒ । दे॒वाः ॥९

अप्रतिऽइतः । जयति । सम् । धनानि । प्रतिऽजन्यानि । उत । या । सऽजन्या ।

अवस्यवे । यः । वरिवः । कृणोति । ब्रह्मणे । राजा । तम् । अवन्ति । देवाः ॥९

स एव “अप्रतीतः अन्यैरप्रतिगतः सन् यानि धनानि “प्रतिजन्यानि प्रतिस्पर्धिजनसंबन्धीनि “उत अपि च "सजन्या जनसंबन्धीनि “धनानि “सं "जयति। "यः "राजा “अवस्यवे अवसीयसे धनरहिताय रक्षणमिच्छते “ब्रह्मणे ब्राह्मणाय वा प्रीणनमिच्छते बृहस्पतये वा “वरिवः धनं “कृणोति करोति ददाति । स उक्तप्रकारेण महान् भवति । "तम् एव "देवाः "अवन्ति रक्षन्ति ॥


‘इन्द्रश्च सोमम्' इति दशमी तृतीयसवने ब्राह्मणाच्छंसिनः प्रस्थितयाज्या । सूत्रितं च -- ‘ इन्द्रश्च सोमं पिबतं बृहस्पते आ वो वहन्तु सप्तयो रघुष्यदः ' ( आश्व. श्रौ. ५. ५) इति ॥

इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू ।

आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥१०

इन्द्रः॑ । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑वः । सु॒ऽआ॒भुवः॑ । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥१०

इन्द्रः । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषण्वसू इति वृषण्ऽवसू ।

आ । वाम् । विशन्तु । इन्दवः । सुऽआभुवः । अस्मे इति । रयिम् । सर्वऽवीरम् । नि । यच्छतम् ॥१०

हे “बृहस्पते त्वं “इन्द्रश्च "सोमं “पिबतम् । कीदृशौ युवाम् । “अस्मिन्यज्ञे “मन्दसाना हृष्यन्तौ "वृषण्वसू वर्षितृधनौ यजमानेभ्यो दीयमानधनावित्यर्थः । “वां युवां “स्वाभुवः सुष्ठु सर्वतो भवन्तः । कृत्स्नशरीरव्यापनसमर्था इत्यर्थः । तादृशाः “इन्दवः सोमाः “विशन्तु युवयोः शरीरं प्रविशन्तु । “अस्मे अस्मभ्यं "रयिं धनं “सर्ववीरं सर्वपुत्राद्युपेतं “नि "यच्छतं दत्तम् ॥


बृह॑स्पत इन्द्र॒ वर्ध॑तं न॒ः सचा॒ सा वां॑ सुम॒तिर्भू॑त्व॒स्मे ।

अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥११

बृह॑स्पते । इ॒न्द्र॒ । वर्ध॑तम् । नः॒ । सचा॑ । सा । वा॒म् । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ।

अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥११

बृहस्पते । इन्द्र । वर्धतम् । नः । सचा । सा । वाम् । सुऽमतिः । भूतु । अस्मे इति ।

अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥११

हे "बृहस्पते हे “इन्द्र युवां “नः अस्मान् “वर्धतं वर्धयतं प्रवृद्धान् कुरुतम् । “सा “सुमतिः युवयोरनुग्रहबुद्धिः “अस्मे अस्मासु "सचा सह "भूतु भवतु । “धियः कर्माणि "अविष्टं रक्षतं पारं नयतम् । “पुरंधीः । पुरं शरीरं धीयते स्थाप्यते याभिर्मतिभिस्ताः स्तुतीः “जिगृतं प्रबुध्यतम् । “वनुषां संभक्तॄणामस्माकम् “अर्यः गन्त्रीः “अरातीः । शत्रूनित्यर्थः । “जजस्तं युध्यतं क्षपयतमित्यर्थः ॥ छन्दस्यरातिशब्दः स्त्रीलिङ्गः ॥ एवं स्तुतिं निगमय्याभीष्टं प्रार्थितवान् ॥ ॥ २७ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

श्रीमत्सायणमन्त्रीशो दाशतय्यास्तृतीयके ।

अष्टके सप्तमाध्यायं व्याकार्षीदतिपेशलम् ॥


इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टके सप्तमोऽध्यायः समाप्त: ॥


[सम्पाद्यताम्]

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५०&oldid=198678" इत्यस्माद् पुनः प्राप्तिः