तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ३/प्रपाठकः ३

विकिस्रोतः तः
Jump to navigation Jump to search

3.3 प्रपाठक: 3
3.3.1 अनुवाक 1 अतिग्राह्य मन्त्राः
1 अग्ने तेजस्विन् तेजस्वी त्वं देवेषु भूयास् तेजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु दीक्षायै च त्वा तपसश् च तेजसे जुहोमि तेजोविद् असि तेजो मा मा हासीन् माऽहं तेजो हासिषम् मा मां तेजो हासीत् । इन्द्रौजस्विन्न् ओजस्वी त्वं देवेषु भूया ओजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु ब्रह्मणश् च त्वा क्षत्रस्य च
2 ओजसे जुहोमि । ओजोविद् अस्य् ओजो मा मा हासीन् माऽहम् ओजो हासिषम् मा माम् ओजो हासीत् सूर्य भ्राजस्विन् भ्राजस्वी त्वं देवेषु भूया भ्राजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु वायोश् च त्वापां च भ्राजसे जुहोमि सुवर्विद् असि सुवर् मा मा हासीन् माऽहम्̇ सुवर् हासिषम् मा माम्̇ सुवर् हासीत् ।
मयि मेधाम् मयि प्रजाम् मय्य् अग्निस् तेजो दधातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियं दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो दधातु ॥

3.3.2 अनुवाक 2 स्तोत्रोपाकरणप्रतिगराङ्गमन्त्राः
1 वायुर् हिंकर्ताऽग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिर् उद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणम् मयि दधतु ।
एतद् वै सर्वम् अध्वर्युर् उपाकुर्वन्न् उद्गातृभ्य उपाकरोति ते देवाः प्राणभृतः प्राणम् मयि दधत्व् इत्य् आहैतद् एव सर्वम् आत्मन् धत्ते । इडा देवहूर् मनुर् यज्ञनीः । बृहस्पतिर् उक्थामदानि शम्̇सिषत् । विश्वे देवाः
2 सूक्तवाचः । पृथिवि मातर् मा मा हिम्̇सीः । मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचम् उद्यासम्̇ शुश्रूषेण्याम् मनुष्येभ्यस् तम् मा देवा अवन्तु शोभायै पितरो ऽनु मदन्तु ॥

3.3.3 अनुवाक 3 अदाभ्यांशुग्रह मन्त्राः
1 वसवस् त्वा प्र वृहन्तु गायत्रेण छन्दसाग्नेः प्रियम् पाथ उपेहि रुद्रास् त्वा प्र वृहन्तु त्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथ उपेहि । आदित्यास् त्वा प्र वृहन्तु जागतेन छन्दसा विश्वेषां देवानाम् प्रियम् पाथ उपेहि
मान्दासु ते शुक्र शुक्रम् आ धूनोमि भन्दनासु कोतनासु नूतनासु रेशीषु मेषीषु वाशीषु विश्वभृत्सु माध्वीषु ककुहासु शक्वरीषु
2 शुक्रासु ते शुक्र शुक्रम् आ धूनोमि शुक्रं ते शुक्रेण गृह्णाम्य् अह्नो रूपेण सूर्यस्य रश्मिभिः । आऽस्मिन्न् उग्रा अचुच्यवुर् दिवो धारा असश्चत ककुहम्̇ रूपं वृषभस्य रोचते बृहत् सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा । उशिक् त्वं देव सोम गायत्रेण छन्दसाऽग्नेः
3 प्रियम् पाथो अपीहि वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथो अपीहि । अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानाम् प्रियम् पाथो अपीहि । आ नः प्राण एतु परावत आन्तरिक्षाद् दिवस् परि । आयुः पृथिव्या अध्य् अमृतम् असि प्राणाय त्वा । इन्द्राग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तम् अश्विना ॥ दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् । परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥

3.3.4 अनुवाक 4 अदाभ्यांशुग्रहमन्त्राणां ब्राह्मणम्
1 एतद् वा अपां नामधेयं गुह्यं यद् आधावाः । मान्दासु ते शुक्र शुक्रम् आ धूनोमीत्य् आह । अपाम् एव नामधेयेन गुह्येन दिवो वृष्टिम् अव रुन्द्धे शुक्रं ते शुक्रेण गृह्णामीत्य् आह । एतद् वा अह्नो रूपं यद् रात्रिः सूर्यस्य रश्मयो वृष्ट्या ईशते । अह्न एव रूपेण सूर्यस्य रश्मिभिर् दिवो वृष्टिं च्यावयति । आऽस्मिन्न् उग्राः
2 अचुच्यवुर् इत्य् आह यथायजुर् एवैतत् ककुहम्̇ रूपं वृषभस्य रोचते बृहद् इत्य् आह । एतद् वा अस्य ककुहम्̇ रूपं यद् वृष्टिः । रूपेणैव वृष्टिम् अव रुन्द्धे यत् ते सोमादाभ्यं नाम जागृवीत्य् आह । एष ह वै हविषा हविर् यजति यो ऽदाभ्यं गृहीत्वा सोमाय जुहोति परा वा एतस्यायुः प्राण एति
3 यो ऽम्̇शुं गृह्णाति । आ नः प्राण एतु परावत इत्य् आह । आयुर् एव प्राणम् आत्मन् धत्ते । अमृतम् असि प्राणाय त्वेति हिरण्यम् अभि व्यनिति । अमृतं वै हिरण्यम् आयुः प्राणः । अमृतेनैवायुर् आत्मन् धत्ते शतमानम् भवति शतायुः पुरुषः शतेन्द्रियः । आयुष्य् एवेन्द्रिये प्रति तिष्ठति । अप उप स्पृशति भेषजं वा आपः । भेषजम् एव कुरुते ॥

3.3.5 अनुवाक 5 द्वादशाहे पृश्निग्रहाः
1 वायुर् असि प्राणो नाम सवितुर् आधिपत्ये ऽपानम् मे दाः । चक्षुर् असि श्रोत्रं नाम धातुर् आधिपत्य आयुर् मे दाः । रूपम् असि वर्णो नाम बृहस्पतेर् आधिपत्ये प्रजाम् मे दाः । ऋतम् असि सत्यं नामेन्द्रस्याधिपत्ये क्षत्रम् मे दाः । भूतम् असि भव्यं नाम पितृणाम् आधिपत्ये ऽपाम् ओषधीनां गर्भं धाः । ऋतस्य त्वा व्योमने । ऋतस्य
2 त्वा विभूमने । ऋतस्य त्वा विधर्मणे । ऋतस्य त्वा सत्याय । ऋतस्य त्वा ज्योतिषे प्रजापतिर् विराजम् अपश्यत् तया भूतं च भव्यं चासृजत ताम् ऋषिभ्यस् तिरो ऽदधात् तां जमदग्निस् तपसाऽपश्यत् तया वै स पृश्नीन् कामान् असृजत तत् पृश्नीनाम् पृश्नित्वम् । यत् पृश्नयो गृह्यन्ते पृश्नीन् एव तैः कामान् यजमानो ऽव रुन्द्धे वायुर् असि प्राणः
3 नामेत्य् आह प्राणापानाव् एवाव रुन्द्धे चक्षुर् असि श्रोत्रं नामेत्य् आहाऽऽयुर् एवाव रुन्द्धे रूपम् असि वर्णो नामेत्य् आह प्रजाम् एवाव रुन्द्धे । ऋतम् असि सत्यं नामेत्य् आह क्षत्रम् एवाव रुन्द्धे भूतम् असि भव्यं नामेत्य् आह पशवो वा अपाम् ओषधीनां गर्भः पशून् एव
4 अव रुन्द्धे । एतावद् वै पुरुषम् परितस् तद् एवाव रुन्द्धे । ऋतस्य त्वा व्योमन इत्य् आहेयं वा ऋतस्य व्योमेमाम् एवाभि जयति । ऋतस्य त्वा विभूमन इत्य् आहान्तरिक्षम् वा ऋतस्य विभूमान्तरिक्षम् एवाभि जयति । ऋतस्य त्वा विधर्मण इत्य् आह द्यौर् वा ऋतस्य विधर्म दिवम् एवाभि जयति । ऋतस्य
5 त्वा सत्यायेत्य् आह दिशो वा ऋतस्य सत्यं दिश एवाभि जयति । ऋतस्य त्वा ज्योतिष इत्य् आह सुवर्गो वै लोक ऋतस्य ज्योतिः सुवर्गम् एव लोकम् अभि जयति । एतावन्तो वै देवलोकास् तान् एवाभि जयति दश सम् पद्यन्ते दशाक्षरा विराड् अन्नं विराड् विराज्य् एवान्नाद्ये प्रति तिष्ठति ॥

3.3.6 अनुवाक 6 गवामयने परःसंज्ञका अतिग्राह्याः
1 देवा वै यद् यज्ञेन नावारुन्धत तत् परैर् अवारुन्धत तत् पराणाम् परत्वम् । यत् परे गृह्यन्ते यद् एव यज्ञेन नावरुन्द्धे तस्यावरुद्ध्यै यम् प्रथमं गृह्णातीमम् एव तेन लोकम् अभि जयति यं द्वितीयम् अन्तरिक्षं तेन यं तृतीयम् अमुम् एव तेन लोकम् अभि जयति यद् एते गृह्यन्त एषां लोकानाम् अभिजित्यै ।
2 उत्तरेष्व् अहःस्व् अमुतो ऽर्वाञ्चो गृह्यन्ते । अभिजित्यैवेमाँल्लोकान् पुनर् इमं लोकम् प्रत्यवरोहन्ति यत् पूर्वेष्व् अहःस्व् इतः पराञ्चो गृह्यन्ते तस्माद् इतः पराञ्च इमे लोकाः । यद् उत्तरेष्व् अहःस्व् अमुतो ऽर्वाञ्चो गृह्यन्ते तस्माद् अमुतो ऽर्वाञ्च इमे लोकास् तस्माद् अयातयाम्नो लोकान् मनुष्या उप जीवन्ति ब्रह्मवादिनो वदन्ति कस्मात् सत्याद् अद्भ्य ओषधयः सम् भवन्त्य् ओषधयः
3 मनुष्याणाम् अन्नम् प्रजापतिम् प्रजा अनु प्र जायन्त इति परान् अन्व् इति ब्रूयात् । यद् गृह्णाति । अद्भ्यस् त्वौषधीभ्यो गृह्णामीति तस्माद् अद्भ्य ओषधयः सम् भवन्ति यद् गृह्णाति । ओषधीभ्यस् त्वा प्रजाभ्यो गृह्णामीति तस्माद् ओषधयो मनुष्याणाम् अन्नम् । यद् गृह्णाति प्रजाभ्यस् त्वा प्रजापतये गृह्णामीति तस्मात् प्रजापतिम् प्रजा अनु प्र जायन्ते ॥

3.3.7 अनुवाक 7 आश्रावयेत्यादिः मन्त्रविधिः
1 प्रजापतिर् देवासुरान् असृजत तद् अनु यज्ञो ऽसृज्यत यज्ञं छन्दाम्̇सि ते विष्वञ्चो व्यक्रामन् । सो ऽसुरान् अनु यज्ञो ऽपाक्रामद् यज्ञं छन्दाम्̇सि ते देवा अमन्यन्त । अमी वा इदम् अभूवन् यद् वयम्̇ स्म इति ते प्रजापतिम् उपाधावन् । सो ऽब्रवीत् प्रजापतिः । छन्दसां वीर्यम् आदाय तद् वः प्र दास्यामीति स छन्दसां वीर्यम्
2 आदाय तद् एभ्यः प्रायच्छत् तद् अनु छन्दाम्̇स्य् अपाक्रामञ् छन्दाम्̇सि यज्ञस् ततो देवा अभवन् परासुराः । य एवं छन्दसां वीर्यं वेदा श्रावयास्तु श्रौषड् यज ये यजमाहे वषट्कारो भवत्य् आत्मना पराऽस्य भ्रातृव्यो भवति ब्रह्मवादिनो वदन्ति कस्मै कम् अध्वर्युर् आ श्रावयतीति छन्दसां वीर्यायेति ब्रूयात् । एतद् वै
3 छन्दसां वीर्यम् आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कारः । य एवं वेद सवीर्यैर् एव छन्दोभिर् अर्चति यत् किं चार्चति यद् इन्द्रो वृत्रम् अहन्न् अमेध्यं तद् यद् यतीन् अपावपद् अमेध्यं तद् अथ कस्माद् ऐन्द्रो यज्ञ आ सम्̇स्थातोर् इत्य् आहुः । इन्द्रस्य वा एषा यज्ञिया तनूर् यद् यज्ञस् ताम् एव तद् यजन्ति य एवं वेदोपैनं यज्ञो नमति ॥
 
3.3.8 अनुवाक 8 अवभृथाङ्गहोमादि
1 आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिर् एधि । घृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रम् अभि रक्षताद् इमम् ॥ आ वृश्च्यते वा एतद् यजमानो ऽग्निभ्यां यद् एनयोः शृतंकृत्याथान्यत्रावभृथम् अवैति । आयुर्दा अग्ने हविषो जुषाण इत्य् अवभृथम् अवैष्यञ् जुहुयाद् आहुत्यैवैनौ शमयति नार्तिम् आर्छति यजमानः । यत् कुसीदम्
2 अप्रतीत्तम् मयि येन यमस्य बलिना चरामि । इहैव सन् निरवदये तद् एतत् तद् अग्ने अनृणो भवामि ॥ विश्वलोप विश्वदावस्य त्वाऽऽसञ् जुहोम्य् अग्धाद् एको ऽहुताद् एकः समसनाद् एकः । ते नः कृण्वन्तु भेषजम्̇ सदः सहो वरेण्यम् ॥ अयं नो नभसा पुरः सम्̇स्फानो अभि रक्षतु । गृहाणाम् असमर्त्यै बहवो नो गृहा असन् ॥
स त्वं नः
3 नभसस् पत ऊर्जं नो धेहि भद्रया । पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि देव सम्̇स्फान सहस्रपोषस्येशिषे स नो रास्वाज्यानिम्̇ रायस् पोषम्̇ सुवीरम्̇ संवत्सरीणाम्̇ स्वस्तिम् ॥ अग्निर् वाव यम इयं यमी कुसीदं वा एतद् यमस्य यजमान आ दत्ते यद् ओषधीभिर् वेदिम्̇ स्तृणाति यद् अनुपौष्य प्रयायाद् ग्रीवबद्धम् एनम्
4 अमुष्मिम्̐ लोके नेनीयेरन् यत् कुसीदम् अप्रतीत्तम् मयीत्य् उपौषतीहैव सन् यमं कुसीदं निरवदायानृणः सुवर्गं लोकम् एति यदि मिश्रम् इव चरेद् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात् । एष वा अग्निर् वैश्वानरो यत् प्रदाव्यः स एवैनम्̇ स्वदयति । अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावम् पक्त्वा प्रातर् एतेन कक्षम् उपौषेत् । यदि
5 दहति पुण्यसमम् भवति यदि न दहति पापसमम् एतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्त्रम् उप यन्ति यो वा उपद्रष्टारम् उपश्रोतारम् अनुख्यातारं विद्वान् यजते सम् अमुष्मिम्̐ लोक इष्टापूर्तेन गच्छते । अग्निर् वा उपद्रष्टा वायुर् उपश्रोताऽऽदित्यो ऽनुख्याता तान् य एवं विद्वान् यजते सम् अमुष्मिम्̐ लोक इष्टापूर्तेन गच्छते । अयं नो नभसा पुरः
6 इत्य आहाग्निर् वै नभसा पुरो ऽग्निम् एव तद् आह । एतन् मे गोपायेति स त्वं नो नभसस् पत इत्य् आह वायुर् वै नभसस् पतिर् वायुम् एव तद् आह एतन् मे गोपायेति देव सम्̇स्फानेत्य् आह असौ वा आदित्यो देवः सम्̇स्फान आदित्यम् एव तद् आह एतन् मे गोपायेति ॥

3.3.9 अनुवाक 9 जीर्णवृषालम्भः
1 एतं युवानम् परि वो ददामि तेन क्रीडन्तीश् चरत प्रियेण । मा नः शाप्त जनुषा सुभागा रायस् पोषेण सम् इषा मदेम ॥ नमो महिम्न उत चक्षुषे ते मरुताम् पितस् तद् अहं गृणामि । अनु मन्यस्व सुयजा यजाम जुष्टं देवानाम् इदम् अस्तु हव्यम् ॥ देवानाम् एष उपनाह आसीद् अपां गर्भ ओषधीषु न्यक्तः । सोमस्य द्रप्सम् अवृणीत पूषा
2 बृहन्न् अद्रिर् अभवत् तद् एषाम् ॥ पिता वत्सानाम् पतिर् अघ्नियानाम् अथो पिता महतां गर्गराणाम् । वत्सो जरायु प्रतिधुक् पीयूष आमिक्षा मस्तु घृतम् अस्य रेतः ॥ त्वां गावो ऽवृणत राज्याय त्वाम्̇ हवन्त मरुतः स्वर्काः । वर्ष्मन् क्षत्रस्य ककुभि शिश्रियाणस् ततो न उग्रो वि भजा वसूनि ॥ व्यृद्धेन वा एष पशुना यजते यस्यैतानि न क्रियन्त एष ह त्वै समृद्धेन यजते यस्यैतानि क्रियन्ते ॥

3.3.10 अनुवाक 10 पाशुकं गर्भप्रायश्चित्तम्
1 सूर्यो देवो दिविषद्भ्यो धाता क्षत्राय वायुः प्रजाभ्यः । बृहस्पतिस् त्वा प्रजापतये ज्योतिष्मतीं जुहोतु ॥ यस्यास् ते हरितो गर्भो ऽथो योनिर् हिरण्ययी । अङ्गान्य् अह्रुता यस्यै तां देवैः सम् अजीगमम् ॥ आ वर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्दबुद । भूम्याश् चतस्रः प्रदिशस् ताभिर् आ वर्तया पुनः ॥ वि ते भिनद्मि तकरीं वि योनिं वि गवीन्यौ । वि
2 मातरं च पुत्रं च वि गर्भं च जरायु च । बहिस् ते अस्तु बाल् इति । उरुद्रप्सो विश्वरूप इन्दुः पवमानो धीर आनञ्ज गर्भम् एकपदी द्विपदी त्रिपदी चतुष्पदी पञ्चपदी षट्पदी सप्तपद्य् अष्टापदी भुवनानु प्रथताम्̇ स्वाहा मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥

3.3.11 अनुवाक 11 काम्येष्टियाज्यापुरोनुवाक्याः
1 इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती । उक्थम् मदश् च शस्यते ॥ अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती । चारुर् मदाय पीतये ॥ अस्मे इन्द्राबृहस्पती रयिं धत्तम्̇ शतग्विनम् । अश्वावन्तम्̇ सहस्रिणम् ॥ बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ वि ते विष्वग् वातजूतासो अग्ने भामासः
2 शुचे शुचयश् चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥ त्वाम् अग्ने मानुषीर् ईडते विशो होत्राविदं विविचिम्̇ रत्नधातमम् । गुहा सन्तम्̇ सुभग विश्वदर्शतं तुविष्मणसम्̇ सुयजं घृतश्रियम् ॥ धाता ददातु नो रयिम् ईशानो जगतस् पतिः । स नः पूर्णेन वावनत् ॥ धाता प्रजाया उत राय ईशे धातेदं विश्वम् भुवनं जजान । धाता पुत्रं यजमानाय दाता
3 तस्मा उ हव्यं घृतवद् विधेम ॥ धाता ददातु नो रयिम् प्राचीं जीवातुम् अक्षिताम् । वयं देवस्य धीमहि सुमतिम्̇ सत्यराधसः ॥ धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे । तस्मै देवा अमृताः सं व्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥ अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् । अग्निश् च हव्यवाहनो भवतां दाशुषे मयः ॥ अन्व् इद् अनुमते त्वम्
4 मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्र ण आयूम्̇षि तारिषः ॥ अनु मन्यताम् अनुमन्यमाना प्रजावन्तम्̇ रयिम् अक्षीयमाणम् । तस्यै वयम्̇ हेडसि माऽपि भूम सा नो देवी सुहवा शर्म यच्छतु ॥ यस्याम् इदम् प्रदिशि यद् विरोचते ऽनुमतिम् प्रति भूषन्त्य् आयवः । यस्या उपस्थ उर्व् अन्तरिक्षम्̇ सा नो देवी सुहवा शर्म यच्छतु ॥
5 राकाम् अहम्̇ सुहवाम्̇ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्व् अपः सूच्याछिद्यमानया ददातु वीरम्̇ शतदायम् उक्थ्यम् ॥ यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । ताभिर् नो अद्य सुमना उपागहि सहस्रपोषम्̇ सुभगे रराणा ॥ सिनीवालि या सुपाणिः । कुहूम् अहम्̇ सुभगां विद्मनापसम् अस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणम् पितृणां तस्यास् ते देवि हविषा विधेम ॥ कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषश् चिकेतु । सं दाशुषे किरतु भूरि वामम्̇ रायस् पोषं चिकितुषे दधातु ॥



3.3.1 अनुवाक 1
अतिग्राह्य मन्त्राः

1
अग्ने तेजस्विन् तेजस्वी त्वं देवेषु भूयास् तेजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु दीक्षायै च त्वा तपसश् च तेजसे जुहोमि
तेजोविद् असि तेजो मा मा हासीन् माऽहं तेजो हासिषम् मा मां तेजो हासीत् ।
इन्द्रौजस्विन्न् ओजस्वी त्वं देवेषु भूया ओजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु ब्रह्मणश् च त्वा क्षत्रस्य च

2
ओजसे जुहोमि ।
ओजोविद् अस्य् ओजो मा मा हासीन् माऽहम् ओजो हासिषम् मा माम् ओजो हासीत्
सूर्य भ्राजस्विन् भ्राजस्वी त्वं देवेषु भूया भ्राजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु वायोश् च त्वापां च भ्राजसे जुहोमि
सुवर्विद् असि सुवर् मा मा हासीन् माऽहम्̇ सुवर् हासिषम् मा माम्̇ सुवर् हासीत् ।
मयि मेधाम् मयि प्रजाम् मय्य् अग्निस् तेजो दधातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियं दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो दधातु ॥

3.3.2 अनुवाक 2
स्तोत्रोपाकरणप्रतिगराङ्गमन्त्राः

1
वायुर् हिंकर्ताऽग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिर् उद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणम् मयि दधतु ।
एतद् वै सर्वम् अध्वर्युर् उपाकुर्वन्न् उद्गातृभ्य उपाकरोति ते देवाः प्राणभृतः प्राणम् मयि दधत्व् इत्य् आहैतद् एव सर्वम् आत्मन् धत्ते ।
इडा देवहूर् मनुर् यज्ञनीः ।
बृहस्पतिर् उक्थामदानि शम्̇सिषत् ।
विश्वे देवाः

2
सूक्तवाचः ।
पृथिवि मातर् मा मा हिम्̇सीः ।
मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचम् उद्यासम्̇ शुश्रूषेण्याम् मनुष्येभ्यस्
तम् मा देवा अवन्तु शोभायै पितरो ऽनु मदन्तु ॥

3.3.3 अनुवाक 3
अदाभ्यांशुग्रह मन्त्राः

1
वसवस् त्वा प्र वृहन्तु गायत्रेण छन्दसाग्नेः प्रियम् पाथ उपेहि
रुद्रास् त्वा प्र वृहन्तु त्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथ उपेहि ।
आदित्यास् त्वा प्र वृहन्तु जागतेन छन्दसा विश्वेषां देवानाम् प्रियम् पाथ उपेहि
मान्दासु ते शुक्र शुक्रम् आ धूनोमि
भन्दनासु
कोतनासु
नूतनासु
रेशीषु
मेषीषु
वाशीषु
विश्वभृत्सु
माध्वीषु
ककुहासु
शक्वरीषु

2
शुक्रासु ते शुक्र शुक्रम् आ धूनोमि
शुक्रं ते शुक्रेण गृह्णाम्य् अह्नो रूपेण सूर्यस्य रश्मिभिः ।
आऽस्मिन्न् उग्रा अचुच्यवुर् दिवो धारा असश्चत
ककुहम्̇ रूपं वृषभस्य रोचते बृहत् सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ।
उशिक् त्वं देव सोम गायत्रेण छन्दसाऽग्नेः

3
प्रियम् पाथो अपीहि
वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथो अपीहि ।
अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानाम् प्रियम् पाथो अपीहि ।
आ नः प्राण एतु परावत आन्तरिक्षाद् दिवस् परि । आयुः पृथिव्या अध्य् अमृतम् असि प्राणाय त्वा ।
इन्द्राग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तम् अश्विना ॥
दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् । परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥

3.3.4 अनुवाक 4
अदाभ्यांशुग्रहमन्त्राणां ब्राह्मणम्

1
एतद् वा अपां नामधेयं गुह्यं यद् आधावाः ।
मान्दासु ते शुक्र शुक्रम् आ धूनोमीत्य् आह ।
अपाम् एव नामधेयेन गुह्येन दिवो वृष्टिम् अव रुन्द्धे
शुक्रं ते शुक्रेण गृह्णामीत्य् आह ।
एतद् वा अह्नो रूपं यद् रात्रिः
सूर्यस्य रश्मयो वृष्ट्या ईशते ।
अह्न एव रूपेण सूर्यस्य रश्मिभिर् दिवो वृष्टिं च्यावयति ।
आऽस्मिन्न् उग्राः

2
अचुच्यवुर् इत्य् आह
यथायजुर् एवैतत्
ककुहम्̇ रूपं वृषभस्य रोचते बृहद् इत्य् आह ।
एतद् वा अस्य ककुहम्̇ रूपं यद् वृष्टिः ।
रूपेणैव वृष्टिम् अव रुन्द्धे
यत् ते सोमादाभ्यं नाम जागृवीत्य् आह ।
एष ह वै हविषा हविर् यजति यो ऽदाभ्यं गृहीत्वा सोमाय जुहोति
परा वा एतस्यायुः प्राण एति

3
यो ऽम्̇शुं गृह्णाति ।
आ नः प्राण एतु परावत इत्य् आह ।
आयुर् एव प्राणम् आत्मन् धत्ते ।
अमृतम् असि प्राणाय त्वेति हिरण्यम् अभि व्यनिति ।
अमृतं वै हिरण्यम् आयुः प्राणः ।
अमृतेनैवायुर् आत्मन् धत्ते
शतमानम् भवति
शतायुः पुरुषः शतेन्द्रियः ।
आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अप उप स्पृशति
भेषजं वा आपः ।
भेषजम् एव कुरुते ॥

3.3.5 अनुवाक 5
द्वादशाहे पृश्निग्रहाः

1
वायुर् असि प्राणो नाम सवितुर् आधिपत्ये ऽपानम् मे दाः ।
चक्षुर् असि श्रोत्रं नाम धातुर् आधिपत्य आयुर् मे दाः ।
रूपम् असि वर्णो नाम बृहस्पतेर् आधिपत्ये प्रजाम् मे दाः ।
ऋतम् असि सत्यं नामेन्द्रस्याधिपत्ये क्षत्रम् मे दाः ।
भूतम् असि भव्यं नाम पितृणाम् आधिपत्ये ऽपाम् ओषधीनां गर्भं धाः ।
ऋतस्य त्वा व्योमने ।
ऋतस्य

2
त्वा विभूमने ।
ऋतस्य त्वा विधर्मणे ।
ऋतस्य त्वा सत्याय ।
ऋतस्य त्वा ज्योतिषे
प्रजापतिर् विराजम् अपश्यत् तया भूतं च भव्यं चासृजत ताम् ऋषिभ्यस् तिरो ऽदधात् तां जमदग्निस् तपसाऽपश्यत् तया वै स पृश्नीन् कामान् असृजत तत् पृश्नीनाम् पृश्नित्वम् ।
यत् पृश्नयो गृह्यन्ते पृश्नीन् एव तैः कामान् यजमानो ऽव रुन्द्धे
वायुर् असि प्राणः

3
नामेत्य् आह प्राणापानाव् एवाव रुन्द्धे
चक्षुर् असि श्रोत्रं नामेत्य् आहाऽऽयुर् एवाव रुन्द्धे
रूपम् असि वर्णो नामेत्य् आह प्रजाम् एवाव रुन्द्धे ।
ऋतम् असि सत्यं नामेत्य् आह क्षत्रम् एवाव रुन्द्धे
भूतम् असि भव्यं नामेत्य् आह पशवो वा अपाम् ओषधीनां गर्भः पशून् एव

4
अव रुन्द्धे ।
एतावद् वै पुरुषम् परितस् तद् एवाव रुन्द्धे ।
ऋतस्य त्वा व्योमन इत्य् आहेयं वा ऋतस्य व्योमेमाम् एवाभि जयति ।
ऋतस्य त्वा विभूमन इत्य् आहान्तरिक्षम् वा ऋतस्य विभूमान्तरिक्षम् एवाभि जयति ।
ऋतस्य त्वा विधर्मण इत्य् आह द्यौर् वा ऋतस्य विधर्म दिवम् एवाभि जयति ।
ऋतस्य

5
त्वा सत्यायेत्य् आह दिशो वा ऋतस्य सत्यं दिश एवाभि जयति ।
ऋतस्य त्वा ज्योतिष इत्य् आह सुवर्गो वै लोक ऋतस्य ज्योतिः सुवर्गम् एव लोकम् अभि जयति ।
एतावन्तो वै देवलोकास् तान् एवाभि जयति
दश सम् पद्यन्ते दशाक्षरा विराड् अन्नं विराड् विराज्य् एवान्नाद्ये प्रति तिष्ठति ॥

3.3.6 अनुवाक 6
गवामयने परःसंज्ञका अतिग्राह्याः

1
देवा वै यद् यज्ञेन नावारुन्धत तत् परैर् अवारुन्धत
तत् पराणाम् परत्वम् ।
यत् परे गृह्यन्ते यद् एव यज्ञेन नावरुन्द्धे तस्यावरुद्ध्यै
यम् प्रथमं गृह्णातीमम् एव तेन लोकम् अभि जयति
यं द्वितीयम् अन्तरिक्षं तेन
यं तृतीयम् अमुम् एव तेन लोकम् अभि जयति
यद् एते गृह्यन्त एषां लोकानाम् अभिजित्यै ।

2
उत्तरेष्व् अहःस्व् अमुतो ऽर्वाञ्चो गृह्यन्ते ।
अभिजित्यैवेमाँल्लोकान् पुनर् इमं लोकम् प्रत्यवरोहन्ति
यत् पूर्वेष्व् अहःस्व् इतः पराञ्चो गृह्यन्ते तस्माद् इतः पराञ्च इमे लोकाः ।
यद् उत्तरेष्व् अहःस्व् अमुतो ऽर्वाञ्चो गृह्यन्ते तस्माद् अमुतो ऽर्वाञ्च इमे लोकास्
तस्माद् अयातयाम्नो लोकान् मनुष्या उप जीवन्ति
ब्रह्मवादिनो वदन्ति
कस्मात् सत्याद् अद्भ्य ओषधयः सम् भवन्त्य् ओषधयः

3
मनुष्याणाम् अन्नम् प्रजापतिम् प्रजा अनु प्र जायन्त इति
परान् अन्व् इति ब्रूयात् ।
यद् गृह्णाति ।
अद्भ्यस् त्वौषधीभ्यो गृह्णामीति तस्माद् अद्भ्य ओषधयः सम् भवन्ति
यद् गृह्णाति ।
ओषधीभ्यस् त्वा प्रजाभ्यो गृह्णामीति तस्माद् ओषधयो मनुष्याणाम् अन्नम् ।
यद् गृह्णाति
प्रजाभ्यस् त्वा प्रजापतये गृह्णामीति तस्मात् प्रजापतिम् प्रजा अनु प्र जायन्ते ॥

3.3.7 अनुवाक 7
आश्रावयेत्यादिः मन्त्रविधिः

1
प्रजापतिर् देवासुरान् असृजत
तद् अनु यज्ञो ऽसृज्यत यज्ञं छन्दाम्̇सि
ते विष्वञ्चो व्यक्रामन् ।
सो ऽसुरान् अनु यज्ञो ऽपाक्रामद् यज्ञं छन्दाम्̇सि
ते देवा अमन्यन्त ।
अमी वा इदम् अभूवन् यद् वयम्̇ स्म इति
ते प्रजापतिम् उपाधावन् ।
सो ऽब्रवीत् प्रजापतिः ।
छन्दसां वीर्यम् आदाय तद् वः प्र दास्यामीति
स छन्दसां वीर्यम्

2
आदाय तद् एभ्यः प्रायच्छत्
तद् अनु छन्दाम्̇स्य् अपाक्रामञ् छन्दाम्̇सि यज्ञस्
ततो देवा अभवन् परासुराः ।
य एवं छन्दसां वीर्यं वेदा श्रावयास्तु श्रौषड् यज ये यजमाहे वषट्कारो भवत्य् आत्मना पराऽस्य भ्रातृव्यो भवति
ब्रह्मवादिनो वदन्ति
कस्मै कम् अध्वर्युर् आ श्रावयतीति
छन्दसां वीर्यायेति ब्रूयात् ।
एतद् वै

3
छन्दसां वीर्यम् आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कारः ।
य एवं वेद सवीर्यैर् एव छन्दोभिर् अर्चति यत् किं चार्चति
यद् इन्द्रो वृत्रम् अहन्न् अमेध्यं तद् यद् यतीन् अपावपद् अमेध्यं तद् अथ कस्माद् ऐन्द्रो यज्ञ आ सम्̇स्थातोर् इत्य् आहुः ।
इन्द्रस्य वा एषा यज्ञिया तनूर् यद् यज्ञस्
ताम् एव तद् यजन्ति
य एवं वेदोपैनं यज्ञो नमति ॥

3.3.8 अनुवाक 8
अवभृथाङ्गहोमादि

1
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिर् एधि । घृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रम् अभि रक्षताद् इमम् ॥
आ वृश्च्यते वा एतद् यजमानो ऽग्निभ्यां यद् एनयोः शृतंकृत्याथान्यत्रावभृथम् अवैति ।
आयुर्दा अग्ने हविषो जुषाण इत्य् अवभृथम् अवैष्यञ् जुहुयाद् आहुत्यैवैनौ शमयति
नार्तिम् आर्छति यजमानः ।
यत् कुसीदम्

2
अप्रतीत्तम् मयि येन यमस्य बलिना चरामि । इहैव सन् निरवदये तद् एतत् तद् अग्ने अनृणो भवामि ॥
विश्वलोप विश्वदावस्य त्वाऽऽसञ् जुहोम्य् अग्धाद् एको ऽहुताद् एकः समसनाद् एकः । ते नः कृण्वन्तु भेषजम्̇ सदः सहो वरेण्यम् ॥
अयं नो नभसा पुरः सम्̇स्फानो अभि रक्षतु । गृहाणाम् असमर्त्यै बहवो नो गृहा असन् ॥
स त्वं नः

3
नभसस् पत ऊर्जं नो धेहि भद्रया । पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि
देव सम्̇स्फान सहस्रपोषस्येशिषे स नो रास्वाज्यानिम्̇ रायस् पोषम्̇ सुवीरम्̇ संवत्सरीणाम्̇ स्वस्तिम् ॥
अग्निर् वाव यम इयं यमी
कुसीदं वा एतद् यमस्य यजमान आ दत्ते यद् ओषधीभिर् वेदिम्̇ स्तृणाति
यद् अनुपौष्य प्रयायाद् ग्रीवबद्धम् एनम्

4
अमुष्मिम्̐ लोके नेनीयेरन्
यत् कुसीदम् अप्रतीत्तम् मयीत्य् उपौषतीहैव सन् यमं कुसीदं निरवदायानृणः सुवर्गं लोकम् एति
यदि मिश्रम् इव चरेद् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात् ।
एष वा अग्निर् वैश्वानरो यत् प्रदाव्यः स एवैनम्̇ स्वदयति ।
अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावम् पक्त्वा प्रातर् एतेन कक्षम् उपौषेत् ।
यदि

5
दहति पुण्यसमम् भवति यदि न दहति पापसमम्
एतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्त्रम् उप यन्ति
यो वा उपद्रष्टारम् उपश्रोतारम् अनुख्यातारं विद्वान् यजते सम् अमुष्मिम्̐ लोक इष्टापूर्तेन गच्छते ।
अग्निर् वा उपद्रष्टा वायुर् उपश्रोताऽऽदित्यो ऽनुख्याता
तान् य एवं विद्वान् यजते सम् अमुष्मिम्̐ लोक इष्टापूर्तेन गच्छते ।
अयं नो नभसा पुरः

6
इत्य आहाग्निर् वै नभसा पुरो ऽग्निम् एव तद् आह ।
एतन् मे गोपायेति
स त्वं नो नभसस् पत इत्य् आह
वायुर् वै नभसस् पतिर् वायुम् एव तद् आह
एतन् मे गोपायेति
देव सम्̇स्फानेत्य् आह
असौ वा आदित्यो देवः सम्̇स्फान आदित्यम् एव तद् आह
एतन् मे गोपायेति ॥

3.3.9 अनुवाक 9
जीर्णवृषालम्भः

1
एतं युवानम् परि वो ददामि तेन क्रीडन्तीश् चरत प्रियेण । मा नः शाप्त जनुषा सुभागा रायस् पोषेण सम् इषा मदेम ॥
नमो महिम्न उत चक्षुषे ते मरुताम् पितस् तद् अहं गृणामि । अनु मन्यस्व सुयजा यजाम जुष्टं देवानाम् इदम् अस्तु हव्यम् ॥
देवानाम् एष उपनाह आसीद् अपां गर्भ ओषधीषु न्यक्तः । सोमस्य द्रप्सम् अवृणीत पूषा

2
बृहन्न् अद्रिर् अभवत् तद् एषाम् ॥
पिता वत्सानाम् पतिर् अघ्नियानाम् अथो पिता महतां गर्गराणाम् । वत्सो जरायु प्रतिधुक् पीयूष आमिक्षा मस्तु घृतम् अस्य रेतः ॥
त्वां गावो ऽवृणत राज्याय त्वाम्̇ हवन्त मरुतः स्वर्काः । वर्ष्मन् क्षत्रस्य ककुभि शिश्रियाणस् ततो न उग्रो वि भजा वसूनि ॥
व्यृद्धेन वा एष पशुना यजते यस्यैतानि न क्रियन्त एष ह त्वै समृद्धेन यजते यस्यैतानि क्रियन्ते ॥

3.3.10 अनुवाक 10
पाशुकं गर्भप्रायश्चित्तम्

1
सूर्यो देवो दिविषद्भ्यो धाता क्षत्राय वायुः प्रजाभ्यः । बृहस्पतिस् त्वा प्रजापतये ज्योतिष्मतीं जुहोतु ॥
यस्यास् ते हरितो गर्भो ऽथो योनिर् हिरण्ययी । अङ्गान्य् अह्रुता यस्यै तां देवैः सम् अजीगमम् ॥
आ वर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्दबुद । भूम्याश् चतस्रः प्रदिशस् ताभिर् आ वर्तया पुनः ॥
वि ते भिनद्मि तकरीं वि योनिं वि गवीन्यौ । वि

2
मातरं च पुत्रं च वि गर्भं च जरायु च ।
बहिस् ते अस्तु बाल् इति ।
उरुद्रप्सो विश्वरूप इन्दुः पवमानो धीर आनञ्ज गर्भम्
एकपदी द्विपदी त्रिपदी चतुष्पदी पञ्चपदी षट्पदी सप्तपद्य् अष्टापदी भुवनानु प्रथताम्̇ स्वाहा
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥

3.3.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः

1
इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती । उक्थम् मदश् च शस्यते ॥
अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती । चारुर् मदाय पीतये ॥
अस्मे इन्द्राबृहस्पती रयिं धत्तम्̇ शतग्विनम् । अश्वावन्तम्̇ सहस्रिणम् ॥
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥
वि ते विष्वग् वातजूतासो अग्ने भामासः

2
शुचे शुचयश् चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥
त्वाम् अग्ने मानुषीर् ईडते विशो होत्राविदं विविचिम्̇ रत्नधातमम् । गुहा सन्तम्̇ सुभग विश्वदर्शतं तुविष्मणसम्̇ सुयजं घृतश्रियम् ॥
धाता ददातु नो रयिम् ईशानो जगतस् पतिः । स नः पूर्णेन वावनत् ॥
धाता प्रजाया उत राय ईशे धातेदं विश्वम् भुवनं जजान । धाता पुत्रं यजमानाय दाता

3
तस्मा उ हव्यं घृतवद् विधेम ॥
धाता ददातु नो रयिम् प्राचीं जीवातुम् अक्षिताम् । वयं देवस्य धीमहि सुमतिम्̇ सत्यराधसः ॥
धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे । तस्मै देवा अमृताः सं व्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥
अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् । अग्निश् च हव्यवाहनो भवतां दाशुषे मयः ॥
अन्व् इद् अनुमते त्वम्

4
मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्र ण आयूम्̇षि तारिषः ॥
अनु मन्यताम् अनुमन्यमाना प्रजावन्तम्̇ रयिम् अक्षीयमाणम् । तस्यै वयम्̇ हेडसि माऽपि भूम सा नो देवी सुहवा शर्म यच्छतु ॥
यस्याम् इदम् प्रदिशि यद् विरोचते ऽनुमतिम् प्रति भूषन्त्य् आयवः । यस्या उपस्थ उर्व् अन्तरिक्षम्̇ सा नो देवी सुहवा शर्म यच्छतु ॥

5
राकाम् अहम्̇ सुहवाम्̇ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्व् अपः सूच्याछिद्यमानया ददातु वीरम्̇ शतदायम् उक्थ्यम् ॥
यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । ताभिर् नो अद्य सुमना उपागहि सहस्रपोषम्̇ सुभगे रराणा ॥
सिनीवालि
या सुपाणिः ।
कुहूम् अहम्̇ सुभगां विद्मनापसम् अस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणम् पितृणां तस्यास् ते देवि हविषा विधेम ॥
कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषश् चिकेतु । सं दाशुषे किरतु भूरि वामम्̇ रायस् पोषं चिकितुषे दधातु ॥