ऋग्वेदः सूक्तं १०.२३
← सूक्तं १०.२२ | ऋग्वेदः - मण्डल १० सूक्तं १०.२३ ऐन्द्रोविमदः, प्राजापत्यो वा, वासुक्रो वसुकृद्वा। |
सूक्तं १०.२४ → |
दे. इन्द्रः। जगती, १, ७ त्रिष्टुप्, ५ अभिसारिणी |
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् ।
प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा ॥१॥
हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् ।
ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥२॥
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।
आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥३॥
सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।
अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥४॥
यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।
तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥५॥
स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे ।
विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे ॥६॥
माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः ।
विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि ॥७॥
सायणभाष्यम्
' यजामहे' इति सप्तर्चं सप्तमं सूक्तम् । प्रथमासप्तम्यौ त्रिष्टुभौ । पञ्चम्यभिसारिणी । द्विर्दशकद्विर्वान्दशकवतीत्यभिसारिणीत्युच्यते । शिष्टाश्चतस्रो जगत्यः। पूर्ववदृषिदेवते। तथा चानुक्रान्तं--- ‘यजामहे सप्ताद्यान्त्ये त्रिष्टुभौ पञ्चम्यभिसारिणी' इति । चतुर्थेऽहनि माध्यंदिनसवने तृतीयापञ्चम्योरावर्तनेन त्रींस्तृचान् होत्रका एकैकं तृचमावपेरन् । सूत्रितं च -- यजामह इन्द्रं वज्रदक्षिणमिति द्वितीयानेवमेव ' ( आश्व. श्रौ. ७. ११ ) इति ॥
यजा॑मह॒ इंद्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानां ।
प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥१
यजा॑महे । इन्द्र॑म् । वज्र॑ऽदक्षिणम् । हरी॑णाम् । र॒थ्य॑म् । विऽव्र॑तानाम् ।
प्र । श्मश्रु॑ । दोधु॑वत् । ऊ॒र्ध्वऽथा॑ । भू॒त् । वि । सेना॑भिः । दय॑मानः । वि । राध॑सा ॥१
यजामहे । इन्द्रम् । वज्रऽदक्षिणम् । हरीणाम् । रथ्यम् । विऽव्रतानाम् ।
प्र । श्मश्रु । दोधुवत् । ऊर्ध्वऽथा । भूत् । वि । सेनाभिः । दयमानः । वि । राधसा ॥१
वयम् “इन्द्रं “यजामहे सोमलक्षणैर्हविर्भिः पूजयामः । कीदृशम् । “वज्रदक्षिणं शत्रुवधाय सततं वज्रो दक्षिणे हस्ते यस्य तं “विव्रतानां रथवहनादिविविधकर्मणां “हरीणाम् एतत्संज्ञकानामश्वानां “रथ्यम् आनेतारम् । स इन्द्रः सोमपानानन्तरं “श्मश्रु स्वकीयानि श्मश्रूणि “दोधुवत् पुनःपुनः धुन्वानः सन् “ऊर्ध्वथा ऊर्ध्वं “प्र “भूत् प्रादुरभूत् । किंच “सेनाभिः मरुदादिस्वकीयैः सैन्यैः “वि “दयमानः विविधं शत्रून् हिंसन् 'राधसा । द्वितीयार्थे तृतीया। राधो धनम्। वीत्युपसर्ग श्रुतेर्योग्यक्रियाध्याहारः । विविधं स्तोतृभ्यो ददाति ॥
हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विंद्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् ।
ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥२
हरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे । वसु॑ । इन्द्रः॑ । म॒घैः । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् ।
ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः॑ । अव॑ । क्ष्णौ॒मि॒ । दास॑स्य । नाम॑ । चि॒त् ॥२
हरी इति । नु । अस्य । या । वने । विदे । वसु । इन्द्रः । मघैः । मघऽवा । वृत्रऽहा । भुवत् ।
ऋभुः । वाजः । ऋभुक्षाः । पत्यते । शवः । अव । क्ष्णौमि । दासस्य । नाम । चित् ॥२
“अस्य इन्द्रस्य संबन्धिनौ “या यौ “हरी अश्वौ “वने । वन्यन्ते संभज्यन्तेऽस्मिन् देवा इति वनं यज्ञोऽरण्यं वा । तस्मिन् “वसु ऋजीषलक्षणं धनं यवसलक्षणं वा “नु क्षिप्रं “विदे विन्देते लभेते । यद्वा । यौ हरी अस्येन्द्रस्य वने संभजनार्थं वसु वसुनो लाभाय क्षिप्रं भवत इति शेषः । ताभ्यां हरिभ्यां “मघैः धनैः “मघवा धनवान् “इन्द्रः “वृत्रहा वृत्राख्यस्यासुरस्य मेघस्य वा हन्ता “भुवत् भवति । अपि च “ऋभुः दीप्तः “वाजः बलवान् “ऋभुक्षाः महानिन्द्रः “शवः शवसो बलस्य धनस्य वा “पत्यते ईष्टे । यद्वा । शत्रूणां बलं प्रति पत्यते प्रतिपद्यते गच्छति । अहमपि तस्य प्रसादात् “दासस्य उपक्षपयितव्यस्य शत्रोः “नाम “चित् । नम्यतेऽनेनेति नाम शिरः। तदपि “अव “क्ष्णौमि अव हन्मि । किमुतान्यदङ्गम् । अथवा नामधेयमपि नाशयामि किमुत शत्रुम् ॥
य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ ।
आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इंद्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥३
य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ ।
आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः । इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥३
यदा । वज्रम् । हिरण्यम् । इत् । अथ । रथम् । हरी इति । यम् । अस्य । वहतः । वि । सूरिऽभिः ।
आ । तिष्ठति । मघऽवा । सनऽश्रुतः । इन्द्रः । वाजस्य । दीर्घऽश्रवसः । पतिः ॥३
"यदा इन्द्रः “हिरण्यं हितरमणीयं “वज्रं स्वकीयमायुधं शत्रुहननाय गृह्णातीति शेषः । “इत् इति पूरणः। “अथ तदानीम् “अस्य इन्द्रस्य “हरी अश्वौ “यं “रथं “वहतः गन्तृप्रदेशं विशेषण प्रापयतः “मघवा धनवान् “इन्द्रः “सूरिभिः स्तोतृभिः कुत्सादिभिः सह तं रथम् “आ “तिष्ठति आरोहति । कीदृशः । “सनश्रुतः चिरप्रख्यातः । जगति स्वभावत एव विख्यात इत्यर्थः । “दीर्घश्रवसः बहुकीर्तेः “वाजस्य अन्नस्य “पतिः स्वामी । एवंभूत इन्द्रस्तं रथमारोहतीत्यर्थः ॥
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इंद्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते ।
अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वनं॑ ॥४
सो इति॑ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्रः॑ । श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ ।
अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥४
सो इति । चित् । नु । वृष्टिः । यूथ्या । स्वा । सचा । इन्द्रः । श्मश्रूणि । हरिता । अभि । प्रुष्णुते ।
अव । वेति । सुऽक्षयम् । सुते । मधु । उत् । इत् । धूनोति । वातः । यथा । वनम् ॥४
तच्छब्दश्रुतेर्यच्छब्दोऽध्याहर्तव्यः । या महती वृष्टिरस्ति “सो सा “वृष्टिः “नु क्षिप्रम् । “चित् इत्युपमार्थे। यथा सर्वं सिञ्चति तथा “इन्द्रः “स्वा स्वानि “यूथ्या यूथानि मरुदादिगणलक्षणानि “सचा सह स्वानि “श्मश्रूणि च “हरिता हरिद्वर्णेन सोमेन “अभि “प्रुष्णुते । ‘प्रुष प्लुष स्नेहनसेचनपूरणेषु' इति धातुः । आभिमुख्येन स्थित्वा क्षिप्रं सिञ्चति । सोमं पाययति पिबति चेत्यर्थः । अपि च “सुक्षयं शोभनं यज्ञगृहम् “अव “वेति अभिगच्छति । गत्वा च "सुते सोमे अभिषुते सति “मधु मधुररसोपेतं सोमं पीत्वा । मत्तः सन्निति शेषः। “उदिद्धूनोति स्वशरीरमुत्कम्पयति । तत्र दृष्टान्तः । “वातः वायुः “यथा “वनं वृक्षसमूहमुत्कम्पयति तद्वत् ॥
यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ ।
तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥५
यः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । अशि॑वा । ज॒घान॑ ।
तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शवः॑ ॥५
यः । वाचा । विऽवाचः । मृध्रऽवाचः । पुरु । सहस्रा । अशिवा । जघान ।
तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । यः । तविषीम् । ववृधे । शवः ॥५
"यः इन्द्रः "वाचा वाङ्मात्रेणैव “विवाचः विविधवाचः स्वशत्रून् “मृधवाचः हिंसितवाचः। कृत्वेति शेषः । “पुरु पुरूणि बहूनि “अशिवा अशिवान्यसुखकराणि । दुःखकराणीत्यर्थः। “सहस्रा शत्रूणां सहस्राणि "जघान हन्ति । अपि च “यः च इन्द्रः “पितेव यथा पिता पुत्रस्य “तविषीं बलमन्नप्रदानैः वर्धयति तथा वृष्टिद्वारेण सर्वस्य जगतः “शवः बलं “ववृधे वर्धयति “अस्य इन्द्रस्य “तत्तदित् तत्तदेव “पौंस्यं बलं “गृणीमसि वयं स्तुमः । इन्द्रो येन येन बलेन शत्रून् हन्ति तस्य तत्तद्बलं वयं स्तुम इत्यर्थः ॥
स्तोमं॑ त इंद्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे ।
वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥६
स्तोम॑म् । ते॒ । इ॒न्द्र॒ । वि॒ऽम॒दाः । अ॒जी॒ज॒न॒न् । अपू॑र्व्यम् । पु॒रु॒ऽतम॑म् । सु॒ऽदान॑वे ।
वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् । इ॒नस्य॑ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥६
स्तोमम् । ते । इन्द्र । विऽमदाः । अजीजनन् । अपूर्व्यम् । पुरुऽतमम् । सुऽदानवे ।
विद्म । हि । अस्य । भोजनम् । इनस्य । यत् । आ । पशुम् । न । गोपाः । करामहे ॥६
हे “इन्द्र “ते तुभ्यं “सुदानवे शोभनदानस्यार्थाय “विमदाः विमदनामानो वयं “स्तोमं स्तोत्रविशेषम् “अजीजनन् जनितवन्तः । कृतवन्त इत्यर्थः । अत्र पूर्वोत्तरयोरेकवाक्ययोः पुरुषव्यत्ययः। कीदृशम् । “अपूर्व्यम् अपूर्वमन्यैः पूर्वमकृतम्। उत्कृष्टमित्यर्थः । पुरुतमं बहुतमम् । नानाप्रकारोपेतमित्यर्थः । “हि यस्मात्कारणात् हे इन्द्र “इनस्य ईश्वरस्य “अस्य ईदृशस्य तव “यत् “भोजनं धनमस्तीति “विद्म वयं जानीमः तस्मात् कारणात् त्वदीयं तद्धनम् “आ “करामहे वयमस्मदभिमुखं कुर्महे । तत्र दृष्टान्तः । “पशुं “न “गोपाः । यथा गोपालो धेनुमाह्वयन् स्वस्याभिमुखीं करोति तद्वत् ॥
माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेंद्र विम॒दस्य॑ च॒ ऋषेः॑ ।
वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ संतु स॒ख्या शि॒वानि॑ ॥७
माकिः॑ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ । च॒ । ऋषेः॑ ।
वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व॒ । जा॒मि॒ऽवत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ ॥७
माकिः । नः । एना । सख्या । वि । यौषुः । तव । च । इन्द्र । विऽमदस्य । च । ऋषेः ।
विद्म । हि । ते । प्रऽमतिम् । देव । जामिऽवत् । अस्मे इति । ते । सन्तु । सख्या । शिवानि ॥७
हे “इन्द्र “तव “च “विमदस्य “ऋषेः मम “च “नः । ‘अस्मदो द्वयोश्च' (पा. सू. १. २. ५९) इति द्वयोर्बहुवचनम् । आवयोः “एना एनानि “सख्या सख्यानि स्तुत्यस्तोतृत्वेज्ययष्टृत्वलक्षणानि सखिकर्माणि “माकिः “वि “यौषुः केचिदपि न विश्लथयेयुः। अपि च “हि यस्मात् कारणात् हे “देव द्योतमानेन्द्र “ते तव “प्रमतिं प्रकृष्टां मतिमनुग्राहिकां बुद्धिं “विद्म वयं जानीमः। तत्र दृष्टान्तः । “जामिवत् । यथा भ्राता स्वभगिन्यां स्नेहयुक्तां मतिं जानाति तद्वत् । तस्मात्कारणात् “अस्मे अस्माकं “ते तव च “सख्या सख्यानि “शिवानि “सन्तु मङ्गलानि भवन्तु । अनपायानीत्यर्थः ॥ ॥ ९ ॥
मण्डल १० | ||||
---|---|---|---|---|