शुक्‍लयजुर्वेदः/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय 17
अग्निचयने चित्यपरिषेकादि जपपर्यन्ता मन्त्राः

17.1
अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् ऽ अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतं पयः ।
तां न ऽ इषमूर्जं धत्त मरुतः सम्̐रराणाः ।
ऽ अश्मम्̐स् ते क्षुत् ।
मयि त ऊर्क् ।
यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

17.2
इमा मे ऽ अग्न ऽ इष्टका धेनवः सन्त्व् एका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च नियुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदम्̐ समुद्रश् च मध्यं चान्तश् च परार्धश् चैता मे ऽ अग्न इष्टका धेनवः सन्त्व् अमुत्रामुष्मिंल् लोके ॥

17.3
ऋतव स्थ ऽ ऋतावृध ऽ ऋतुष्ठा स्थ ऽ ऋतावृधः ।
घृतश्च्युतो मधुश्च्युतो विराजो नाम कामदुघा ऽ अक्षीयमाणाः ॥

17.4
समुद्रस्य त्वावकयाग्ने परि व्ययामसि ।
पावको ऽ अस्मभ्यम्̐ शिवो भव ॥

17.5
हिमस्य त्वा जरायुणाग्ने परि व्ययामसि ।
पावको ऽ अस्मभ्यम्̐ शिवो भव ॥

17.6
उप ज्मन्न् उप वेतसेऽव तर नदीष्व् आ ।
अग्ने पित्तम् अपाम् असि ।
मण्डूकि ताभिर् आ गहि सेमं नो यज्ञं पावकवर्णम्̐ शिवं कृधि ॥

17.7
अपाम् इदं न्ययनम्̐ समुद्रस्य निवेशनम् ।
अन्याम्̐स् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यम्̐ शिवो भव ॥

17.8
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
आ देवान् वक्षि यक्षि च ॥

17.9
स नः पावक दीदिवो ग्ने देवाम्̐ ऽ इहा वह ।
उप यज्ञम्̐ हविश् च नः ॥

17.10
पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच ऽ उषसो न भानुना ।
तूर्वन् न यामन्न् एतशस्य नू रण ऽ आ यो घृणे न ततृषाणो ऽ अजरः ॥

17.11
नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे ।
अन्याम्̐स् ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यम्̐ शिवो भव ॥

17.12
नृषदे वेट् ।
अप्सुषदे वेट् ।
बर्हिषदे वेट् ।
वनसदे वेट् ।
स्वर्विदे वेट् ॥

17.13
ये देवा देवानां यज्ञिया यज्ञियानाम्̐ संवत्सरीणम् उप भागम् आसते ।
अहुतादो हविषो यज्ञे ऽ अस्मिन्त् स्वयं पिबन्तु मधुनो घृतस्य ॥

17.14
ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो ऽ अस्य ।
येभ्यो न ऽ ऋते पवते धाम किं चन न ते दिवो न पृथिव्या ऽ अधि स्नुषु ॥

17.15
प्राणदा ऽ अपानदा व्यानदा वर्चोदा वरिवोदाः ।
अन्याम्̐स् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यम्̐ शिवो भव ॥

17.16
अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् ।
अग्निर् नो वनते रयिम् ॥

17.17
य ऽ इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः ।
स ऽ आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवराम्̐ ऽ आ विवेश ॥

17.18
किम्̐ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् ।
यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥

17.19
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् ।
सं बाहुभ्यां धमति सं पतत्रैर् द्यावाभूमी जनयन् देव ऽ एकः ॥

17.20
किम्̐ स्विद् वनं क ऽ उ स वृक्ष ऽ आस यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥

17.21
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा ।
शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥

17.22
विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् ।
मुह्यन्त्व् अन्ये ऽ अभितो सपत्ना ऽ इहास्माकं मघवा सूरिर् अस्तु ॥

17.23
वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम ।
स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥

17.24
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।
तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ॥

17.25
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नम्नमाने ।
यदेद् अन्ता ऽ अददृहन्त पूर्व ऽ आद् इद् द्यावापृथिवी ऽ अप्रथेताम् ॥

17.26
विश्वकर्मा विमना ऽ आद् विहाया धाता विधाता परमोत संदृक् ।
तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर ऽ एकम् आहुः ॥

17.27
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
यो देवानां नामधा ऽ एक ऽ एव तम्̐ संप्रश्नं भुवना यन्त्य् अन्या ॥

17.28
त ऽ आयजन्त द्रविणम्̐ सम् अस्मा ऽ ऋषयः पूर्वे जरितारो न भूना ।
असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥

17.29
परो दिवा पर ऽ एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति ।
कम्̐ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त पूर्वे ॥

17.30
तम् इद् गर्भं प्रथमं दध्र ऽ आपो यत्र देवाः समगच्छन्त विश्वे ।
अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥

17.31
न तं विदाथ य ऽ इमा जजानान्यद् युष्माकम् अन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासुतृप ऽ उक्थशासश् चरन्ति ॥

17.32
विश्वकर्मा ह्य् अजनिष्ट देव ऽ आद् इद् गन्धर्वो ऽ अभवद् द्वितीयः ।
तृतीयः पिता जनितौषधीनाम् अपां गर्भं व्यदधात् पुरुत्रा ॥

17.33
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् ।
संक्रन्दनो निमिष ऽ एकवीरः शतम्̐ सेना ऽ अजयत् साकम् इन्द्रः ॥

17.34
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥

17.35
स ऽ इषुहस्तैः स निषङ्गिभिर् वशी सम्̐स्रष्टा स युध ऽ इन्द्रो गणेन ।
सम्̐सृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥

17.36
बृहस्पते परि दीया रथेन रक्षोहामित्राँ२ऽ अपबाधमानः ।
प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥

17.37
बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान ऽ उग्रः ।
अभिवीरो ऽ अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥

17.38
गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ।
इमम्̐ सजाता ऽ अनु वीरयध्वम् इन्द्रम्̐ सखायो ऽ अनु सम्̐ रभध्वम् ॥

17.39
अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः ।
दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकम्̐ सेना अवतु प्र युत्सु ॥

17.40
इन्द्र ऽ आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर ऽ एतु सोमः ।
देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्त्व् अग्रम् ॥

17.41
इन्द्रस्य वृष्णो वरुणस्य राज्ञ ऽ आदित्यानां मरुताम्̐ शर्ध ऽ उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥

17.42
उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनां मामकानां मनाम्̐सि ।
उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥

17.43
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या ऽ इषवस् ता जयन्तु ।
अस्माकं वीरा ऽ उत्तरे भवन्त्व् अस्माम्̐ऽ उ देवा ऽ अवता हवेषु ॥

17.44
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि ।
अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥

17.45
अवसृष्टा परा पत शरव्ये ब्रह्मसम्̐शिते ।
गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥

17.46
प्रेता जयता नर ऽ इन्द्रो वः शर्म यच्छतु ।
उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥

17.47
असौ या सेना मरुतः परेषाम् अभ्येति न ऽ ओजसा स्पर्धमाना ।
तां गूहत तमसापव्रतेन यथामी ऽ अन्यो ऽ अन्यं न जानन् ॥

17.48
यत्र वाणाः सम्पतन्ति कुमारा विशिखाऽइव ।
तन्न ऽ इन्द्रो बृहस्पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

17.49
मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् ।
उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥

17.50
उद् एनम् उत्तरां नयाग्ने घृतेनाहुत ।
रायस्पोषेण सम्̐ सृज प्रजया च बहुं कृधि ॥

17.51
इन्द्रेमं प्रतरां नय सजातानाम् असद्वशी ।
सम् एनं वर्चसा सृज देवानां भागदा ऽ असत् ॥

17.52
यस्य कुर्मो गृहे हविस् तम् अग्ने वर्धया त्वम् ।
तस्मै देवा ऽ अधि ब्रुवन्न् अयं च ब्रह्मणस्पतिः ॥

17.53
उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः ।
स नो बह्व शिवस् त्वम्̐ सुप्रतीको विभावसुः ॥

17.54
पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिं बाधमानाः ।
रायस्पोषे यज्ञपतिम् आभजन्ती रायस्पोषे ऽ अधि यज्ञो ऽ अस्थात् ॥

17.55
समिद्धे ऽ अग्नाव् अधि मामहान ऽ उक्थपत्र ऽ ईड्यो गृभीतः ।
तप्तं घर्मं परिगृह्यायजन्तोर्जा यद् यज्ञम् अयजन्त देवाः ॥

17.56
दैव्याय धर्त्रे जोष्ट्रे देवश्रीः श्रीमनाः शतपयाः ।
परिगृह्य देवा यज्ञम् आयन् देवा देवेभ्यो ऽ अध्वर्यन्तो ऽ अस्थुः ॥

17.57
वीतम्̐ हविः शमितम्̐ शमिता यजध्यै तुरीयो यज्ञो यत्र हव्यम् एति ।
ततो वाका ऽ आशिषो नो जुषन्ताम् ॥

17.58
सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाम्̐ऽ अजस्रम् ।
तस्य पूषा प्रसवे याति विद्वान्त् सम्पश्यन् विश्वा भुवनानि गोपाः ॥

17.59
विमान ऽ एष दिवो मध्य ऽ आस्त ऽ आपप्रिवान् रोदसी ऽ अन्तरिक्षम् ।
स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥

17.60
उक्षा समुद्रो ऽ अरुणः सुपर्णः पूर्वस्य योनिं पितुर् आ विवेश ।
मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥

17.61
इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥

17.62
देवहूर् यज्ञ ऽ आ च वक्षत् सुम्नहूर् यज्ञ ऽ आ च वक्षत् ।
यक्षद् अग्निर् देवो देवाम्̐ऽ आ च वक्षत् ॥

17.63
वाजस्य मा प्रसव ऽ उद्ग्राभेणोद् अग्रभीत् ।
अध सपत्नान् इन्द्रो मे निग्राभेणाधराम्̐ऽ अकः ॥

17.64
उद्ग्राभं च निग्राभं च ब्रह्म देवा ऽ अवीवृधन् ।
अधा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥

17.65
क्रमध्वम् अग्निना नाकम् उख्यम्̐ हस्तेषु बिभ्रतः ।
दिवस् पृष्ठम्̐ स्वर् गत्वा मिश्रा देवेभिर् आध्वम् ॥

17.66
प्राचीम् अनु प्रदिशं प्रेहि विद्वान् अग्नेर् अग्ने पुरो ऽ अग्निर् भवेह ।
विश्वा ऽ आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

17.67
पृथिव्या ऽ अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् ।
दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥

17.68
स्वर् यन्तो नापेक्षन्त ऽ आ द्याम्̐ रोहन्ति रोदसी ।
यज्ञं ये विश्वतोधारम्̐ सुविद्वाम्̐सो वितेनिरे ॥

17.69
अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् ।
इयक्षमाणा भृगुभिः सजोषाः स्वर् यन्तु यजमानाः स्वस्ति ॥

17.70
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̐ समीची ।
द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥

17.71
अग्ने सहस्राक्ष शतमूर्धञ् छतं ते प्राणाः सहस्रं व्यानाः ।
त्वम्̐ साहस्रस्य राय ऽ ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥

17.72
सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद ।
भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश ऽ उद् दृम्̐ह ॥

17.73
आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने योनिम् आ सीद साधुया ।
अस्मिन्त्सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥

17.74
तम्̐ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् ।
याम् अस्य कण्वो अदुहत् प्रपीनाम्̐ सहस्रधारां पयसा महीं गाम् ॥

17.75
विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे ।
यस्माद् योनेर् उदारिथा यजे तं प्र त्वे हवीम्̐षि जुहुरे समिद्धे ॥

17.76
प्रेद्धो ऽ अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ ।
त्वाम्̐ शश्वन्त ऽ उप यन्ति वाजाः ॥

17.77
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रम्̐ हृदिस्पृशम् ।
ऋध्यामा त ऽ ओहैः ॥

17.78
चित्तिं जुहोमि मनसा घृतेन यथा देवा ऽ इहागमन् वीतिहोत्रा ऽ ऋतावृधः ।
पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाभ्यम्̐ हवि ॥

17.79
सप्त ते ऽ अग्ने समिधः सप्त जिह्वाः सप्त ऽ ऋषयः सप्त धाम प्रियाणि ।
सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्व घृतेन स्वाहा ॥

17.80
शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̐श् च ।
शुक्रश् च ऽ ऋतपाश् चात्यम्̐हाः ॥

17.81
ईदृङ् चान्यदृङ् च सदृङ् च प्रतिसदृङ् च ।
मितश् च संमितश् च सभराः ॥

17.82
ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च ।
धर्ता च विधर्ता च विधारयः ॥

17.83
ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् च ।
अन्तिमित्रश् च दूरेऽअमित्रश् च गणः ॥

17.84
ईदृक्षास ऽ एतादृक्षास ऽ ऊ षु णः सदृक्षासः प्रतिसदृक्षास ऽ एतन ।
मितासश् च संमितासो नो ऽ अद्य सभरसो मरुतो यज्ञे ऽ अस्मिन् ॥

17.85
स्वतवाम्̐श् च प्रघासी च सांतपनश् च गृहमेधी च ।
क्रीडी च शाकी चोज्जेषी ॥

17.86
उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च ।
सासह्वाम्̐श् चाभियुग्वा च विक्षिपः स्वाहा ।
इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् ।
एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥

17.87
इमम्̐ स्तनमूर्जस्वन्तं धयापां प्रपीनम् अग्ने सरिरस्य मध्ये ।
उत्सं जुषस्व मधुमन्तम् अर्वन्त् समुद्रियम्̐ सदनम् आ विशस्व ॥

17.88
घृतं मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् व् अस्य धाम ।
अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

17.89
समुद्राद् ऊर्मिर् मधुमाम्̐ऽ उद् आरद् उपाम्̐शुना सम् अमृतत्वम् आनट् ।
घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥

17.90
वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥

17.91
चत्वारि शृङ्गा त्रयो ऽ अस्य पादा द्वे शीर्षे सप्त हस्तासो ऽ अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याम्̐ ऽ आ विवेश ॥

17.92
त्रिधा हितं पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् ।
इन्द्र ऽ एकम्̐ सूर्य ऽ एकं जजान वेनाद् एकम्̐ स्वधया निष्टतक्षुः ॥

17.93
एता ऽअर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे ।
घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्य ऽ आसाम् ॥

17.94
सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः ।
एते ऽ अर्षन्त्य् ऊर्मयो घृतस्य मृगा ऽइव क्षिपणोर् ईषमाणाः ॥

17.95
सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा ऽ अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥

17.96
अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो ऽ अग्निम् ।
घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥

17.97
कन्या ऽइव वहतुम् एतवा ऽ उ ऽ अञ्ज्य् अञ्जाना ऽ अभि चाकशीमि ।
यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा ऽ अभि तत् पवन्ते ॥

17.98
अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥

17.99
धामन् ते विश्वं भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्यन्तर् आयुषि ।
अपाम् अनीके समिथे य ऽ आभृतस् तम् अश्याम मधुमन्तं त ऽ ऊर्मिम् ॥