शुक्लयजुर्वेदः/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६ शुक्लयजुर्वेदः
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →


अध्याय 17
अग्निचयने चित्यपरिषेकादि जपपर्यन्ता मन्त्राः

17.1
अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् ऽ अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतं पयः ।
तां न ऽ इषमूर्जं धत्त मरुतः सꣳरराणाः ।
ऽ अश्मꣳस् ते क्षुत् ।
मयि त ऊर्क् ।
यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

17.2
इमा मे ऽ अग्न ऽ इष्टका धेनवः सन्त्व् एका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च नियुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदꣳ समुद्रश् च मध्यं चान्तश् च परार्धश् चैता मे ऽ अग्न इष्टका धेनवः सन्त्व् अमुत्रामुष्मिंल् लोके ॥

17.3
ऋतव स्थ ऽ ऋतावृध ऽ ऋतुष्ठा स्थ ऽ ऋतावृधः ।
घृतश्च्युतो मधुश्च्युतो विराजो नाम कामदुघा ऽ अक्षीयमाणाः ॥

17.4
समुद्रस्य त्वावकयाग्ने परि व्ययामसि ।
पावको ऽ अस्मभ्यꣳ शिवो भव ॥

17.5
हिमस्य त्वा जरायुणाग्ने परि व्ययामसि ।
पावको ऽ अस्मभ्यꣳ शिवो भव ॥

17.6
उप ज्मन्न् उप वेतसेऽव तर नदीष्व् आ ।
अग्ने पित्तम् अपाम् असि ।
मण्डूकि ताभिर् आ गहि सेमं नो यज्ञं पावकवर्णꣳ शिवं कृधि ॥

17.7
अपाम् इदं न्ययनꣳ समुद्रस्य निवेशनम् ।
अन्याꣳस् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥

17.8
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
आ देवान् वक्षि यक्षि च ॥

17.9
स नः पावक दीदिवो ग्ने देवाꣳ ऽ इहा वह ।
उप यज्ञꣳ हविश् च नः ॥

17.10
पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच ऽ उषसो न भानुना ।
तूर्वन् न यामन्न् एतशस्य नू रण ऽ आ यो घृणे न ततृषाणो ऽ अजरः ॥

17.11
नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे ।
अन्याꣳस् ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥

17.12
नृषदे वेट् ।
अप्सुषदे वेट् ।
बर्हिषदे वेट् ।
वनसदे वेट् ।
स्वर्विदे वेट् ॥

17.13
ये देवा देवानां यज्ञिया यज्ञियानाꣳ संवत्सरीणम् उप भागम् आसते ।
अहुतादो हविषो यज्ञे ऽ अस्मिन्त् स्वयं पिबन्तु मधुनो घृतस्य ॥

17.14
ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो ऽ अस्य ।
येभ्यो न ऽ ऋते पवते धाम किं चन न ते दिवो न पृथिव्या ऽ अधि स्नुषु ॥

17.15
प्राणदा ऽ अपानदा व्यानदा वर्चोदा वरिवोदाः ।
अन्याꣳस् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥

17.16
अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् ।
अग्निर् नो वनते रयिम् ॥

17.17
य ऽ इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः ।
स ऽ आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवराꣳ ऽ आ विवेश ॥

17.18
किꣳ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् ।
यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥

17.19
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् ।
सं बाहुभ्यां धमति सं पतत्रैर् द्यावाभूमी जनयन् देव ऽ एकः ॥

17.20
किꣳ स्विद् वनं क ऽ उ स वृक्ष ऽ आस यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥

17.21
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा ।
शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥

17.22
विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् ।
मुह्यन्त्व् अन्ये ऽ अभितो सपत्ना ऽ इहास्माकं मघवा सूरिर् अस्तु ॥

17.23
वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम ।
स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥

17.24
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।
तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ॥

17.25
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नम्नमाने ।
यदेद् अन्ता ऽ अददृहन्त पूर्व ऽ आद् इद् द्यावापृथिवी ऽ अप्रथेताम् ॥

17.26
विश्वकर्मा विमना ऽ आद् विहाया धाता विधाता परमोत संदृक् ।
तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर ऽ एकम् आहुः ॥

17.27
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
यो देवानां नामधा ऽ एक ऽ एव तꣳ संप्रश्नं भुवना यन्त्य् अन्या ॥

17.28
त ऽ आयजन्त द्रविणꣳ सम् अस्मा ऽ ऋषयः पूर्वे जरितारो न भूना ।
असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥

17.29
परो दिवा पर ऽ एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति ।
कꣳ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त पूर्वे ॥

17.30
तम् इद् गर्भं प्रथमं दध्र ऽ आपो यत्र देवाः समगच्छन्त विश्वे ।
अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥

17.31
न तं विदाथ य ऽ इमा जजानान्यद् युष्माकम् अन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासुतृप ऽ उक्थशासश् चरन्ति ॥

17.32
विश्वकर्मा ह्य् अजनिष्ट देव ऽ आद् इद् गन्धर्वो ऽ अभवद् द्वितीयः ।
तृतीयः पिता जनितौषधीनाम् अपां गर्भं व्यदधात् पुरुत्रा ॥

17.33
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् ।
संक्रन्दनो निमिष ऽ एकवीरः शतꣳ सेना ऽ अजयत् साकम् इन्द्रः ॥

17.34
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥

17.35
स ऽ इषुहस्तैः स निषङ्गिभिर् वशी सꣳस्रष्टा स युध ऽ इन्द्रो गणेन ।
सꣳसृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥

17.36
बृहस्पते परि दीया रथेन रक्षोहामित्राँ२ऽ अपबाधमानः ।
प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥

17.37
बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान ऽ उग्रः ।
अभिवीरो ऽ अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥

17.38
गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ।
इमꣳ सजाता ऽ अनु वीरयध्वम् इन्द्रꣳ सखायो ऽ अनु सꣳ रभध्वम् ॥

17.39
अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः ।
दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकꣳ सेना अवतु प्र युत्सु ॥

17.40
इन्द्र ऽ आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर ऽ एतु सोमः ।
देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्त्व् अग्रम् ॥

17.41
इन्द्रस्य वृष्णो वरुणस्य राज्ञ ऽ आदित्यानां मरुताꣳ शर्ध ऽ उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥

17.42
उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनां मामकानां मनाꣳसि ।
उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥

17.43
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या ऽ इषवस् ता जयन्तु ।
अस्माकं वीरा ऽ उत्तरे भवन्त्व् अस्माꣳऽ उ देवा ऽ अवता हवेषु ॥

17.44
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि ।
अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥

17.45
अवसृष्टा परा पत शरव्ये ब्रह्मसꣳशिते ।
गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥

17.46
प्रेता जयता नर ऽ इन्द्रो वः शर्म यच्छतु ।
उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥

17.47
असौ या सेना मरुतः परेषाम् अभ्येति न ऽ ओजसा स्पर्धमाना ।
तां गूहत तमसापव्रतेन यथामी ऽ अन्यो ऽ अन्यं न जानन् ॥

17.48
यत्र वाणाः सम्पतन्ति कुमारा विशिखाऽइव ।
तन्न ऽ इन्द्रो बृहस्पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

17.49
मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् ।
उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥

17.50
उद् एनम् उत्तरां नयाग्ने घृतेनाहुत ।
रायस्पोषेण सꣳ सृज प्रजया च बहुं कृधि ॥

17.51
इन्द्रेमं प्रतरां नय सजातानाम् असद्वशी ।
सम् एनं वर्चसा सृज देवानां भागदा ऽ असत् ॥

17.52
यस्य कुर्मो गृहे हविस् तम् अग्ने वर्धया त्वम् ।
तस्मै देवा ऽ अधि ब्रुवन्न् अयं च ब्रह्मणस्पतिः ॥

17.53
उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः ।
स नो बह्व शिवस् त्वꣳ सुप्रतीको विभावसुः ॥

17.54
पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिं बाधमानाः ।
रायस्पोषे यज्ञपतिम् आभजन्ती रायस्पोषे ऽ अधि यज्ञो ऽ अस्थात् ॥

17.55
समिद्धे ऽ अग्नाव् अधि मामहान ऽ उक्थपत्र ऽ ईड्यो गृभीतः ।
तप्तं घर्मं परिगृह्यायजन्तोर्जा यद् यज्ञम् अयजन्त देवाः ॥

17.56
दैव्याय धर्त्रे जोष्ट्रे देवश्रीः श्रीमनाः शतपयाः ।
परिगृह्य देवा यज्ञम् आयन् देवा देवेभ्यो ऽ अध्वर्यन्तो ऽ अस्थुः ॥

17.57
वीतꣳ हविः शमितꣳ शमिता यजध्यै तुरीयो यज्ञो यत्र हव्यम् एति ।
ततो वाका ऽ आशिषो नो जुषन्ताम् ॥

17.58
सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाꣳऽ अजस्रम् ।
तस्य पूषा प्रसवे याति विद्वान्त् सम्पश्यन् विश्वा भुवनानि गोपाः ॥

17.59
विमान ऽ एष दिवो मध्य ऽ आस्त ऽ आपप्रिवान् रोदसी ऽ अन्तरिक्षम् ।
स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥

17.60
उक्षा समुद्रो ऽ अरुणः सुपर्णः पूर्वस्य योनिं पितुर् आ विवेश ।
मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥

17.61
इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥

17.62
देवहूर् यज्ञ ऽ आ च वक्षत् सुम्नहूर् यज्ञ ऽ आ च वक्षत् ।
यक्षद् अग्निर् देवो देवाꣳऽ आ च वक्षत् ॥

17.63
वाजस्य मा प्रसव ऽ उद्ग्राभेणोद् अग्रभीत् ।
अध सपत्नान् इन्द्रो मे निग्राभेणाधराꣳऽ अकः ॥

17.64
उद्ग्राभं च निग्राभं च ब्रह्म देवा ऽ अवीवृधन् ।
अधा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥

17.65
क्रमध्वम् अग्निना नाकम् उख्यꣳ हस्तेषु बिभ्रतः ।
दिवस् पृष्ठꣳ स्वर् गत्वा मिश्रा देवेभिर् आध्वम् ॥

17.66
प्राचीम् अनु प्रदिशं प्रेहि विद्वान् अग्नेर् अग्ने पुरो ऽ अग्निर् भवेह ।
विश्वा ऽ आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

17.67
पृथिव्या ऽ अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् ।
दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥

17.68
स्वर् यन्तो नापेक्षन्त ऽ आ द्याꣳ रोहन्ति रोदसी ।
यज्ञं ये विश्वतोधारꣳ सुविद्वाꣳसो वितेनिरे ॥

17.69
अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् ।
इयक्षमाणा भृगुभिः सजोषाः स्वर् यन्तु यजमानाः स्वस्ति ॥

17.70
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची ।
द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥

17.71
अग्ने सहस्राक्ष शतमूर्धञ् छतं ते प्राणाः सहस्रं व्यानाः ।
त्वꣳ साहस्रस्य राय ऽ ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥

17.72
सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद ।
भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश ऽ उद् दृꣳह ॥

17.73
आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने योनिम् आ सीद साधुया ।
अस्मिन्त्सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥

17.74
तꣳ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् ।
याम् अस्य कण्वो अदुहत् प्रपीनाꣳ सहस्रधारां पयसा महीं गाम् ॥

17.75
विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे ।
यस्माद् योनेर् उदारिथा यजे तं प्र त्वे हवीꣳषि जुहुरे समिद्धे ॥

17.76
प्रेद्धो ऽ अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ ।
त्वाꣳ शश्वन्त ऽ उप यन्ति वाजाः ॥

17.77
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् ।
ऋध्यामा त ऽ ओहैः ॥

17.78
चित्तिं जुहोमि मनसा घृतेन यथा देवा ऽ इहागमन् वीतिहोत्रा ऽ ऋतावृधः ।
पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाभ्यꣳ हवि ॥

17.79
सप्त ते ऽ अग्ने समिधः सप्त जिह्वाः सप्त ऽ ऋषयः सप्त धाम प्रियाणि ।
सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्व घृतेन स्वाहा ॥

17.80
शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च ।
शुक्रश् च ऽ ऋतपाश् चात्यꣳहाः ॥

17.81
ईदृङ् चान्यदृङ् च सदृङ् च प्रतिसदृङ् च ।
मितश् च संमितश् च सभराः ॥

17.82
ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च ।
धर्ता च विधर्ता च विधारयः ॥

17.83
ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् च ।
अन्तिमित्रश् च दूरेऽअमित्रश् च गणः ॥

17.84
ईदृक्षास ऽ एतादृक्षास ऽ ऊ षु णः सदृक्षासः प्रतिसदृक्षास ऽ एतन ।
मितासश् च संमितासो नो ऽ अद्य सभरसो मरुतो यज्ञे ऽ अस्मिन् ॥

17.85
स्वतवाꣳश् च प्रघासी च सांतपनश् च गृहमेधी च ।
क्रीडी च शाकी चोज्जेषी ॥

17.86
उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च ।
सासह्वाꣳश् चाभियुग्वा च विक्षिपः स्वाहा ।
इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् ।
एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥

17.87
इमꣳ स्तनमूर्जस्वन्तं धयापां प्रपीनम् अग्ने सरिरस्य मध्ये ।
उत्सं जुषस्व मधुमन्तम् अर्वन्त् समुद्रियꣳ सदनम् आ विशस्व ॥

17.88
घृतं मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् व् अस्य धाम ।
अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

17.89
समुद्राद् ऊर्मिर् मधुमाꣳऽ उद् आरद् उपाꣳशुना सम् अमृतत्वम् आनट् ।
घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥

17.90
वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥

17.91
चत्वारि शृङ्गा त्रयो ऽ अस्य पादा द्वे शीर्षे सप्त हस्तासो ऽ अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ ऽ आ विवेश ॥

17.92
त्रिधा हितं पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् ।
इन्द्र ऽ एकꣳ सूर्य ऽ एकं जजान वेनाद् एकꣳ स्वधया निष्टतक्षुः ॥

17.93
एता ऽअर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे ।
घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्य ऽ आसाम् ॥

17.94
सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः ।
एते ऽ अर्षन्त्य् ऊर्मयो घृतस्य मृगा ऽइव क्षिपणोर् ईषमाणाः ॥

17.95
सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा ऽ अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥

17.96
अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो ऽ अग्निम् ।
घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥

17.97
कन्या ऽइव वहतुम् एतवा ऽ उ ऽ अञ्ज्य् अञ्जाना ऽ अभि चाकशीमि ।
यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा ऽ अभि तत् पवन्ते ॥

17.98
अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥

17.99
धामन् ते विश्वं भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्यन्तर् आयुषि ।
अपाम् अनीके समिथे य ऽ आभृतस् तम् अश्याम मधुमन्तं त ऽ ऊर्मिम् ॥

भाष्यम्(उवट-महीधर)


सप्तदशोऽध्यायः।
तत्र प्रथमा
अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णाम॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पतिभ्यो॒ अधि॒ सम्भृ॑तं॒ पय॑: ।
तां न॒ इष॒मूर्जं॑ धत्त मरुतः सᳪं᳭ररा॒णाः अश्मँ॑स्ते॒ क्षुन्मयि॑ त॒ ऊर्क् यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। १ ।।
उ० अग्निं परिषिञ्चति । अश्मन्नूर्जम् । यजुर्मारुतम् । 'तान्न इषमूर्जं धत्तेति तदःश्रवणाद्यदोऽत्राध्याहारः कर्तव्यः । या अस्मन् अशनवति मेघे ऊर्जम् उदकलक्षणम् शिश्रियाणाम् आश्रिताम् । या च पर्वते पर्वतवति मेघे । शिश्रियाणामाश्रिताम् उदकलक्षणो वा । या च अद्भ्यः अधि सकाशात् ओषधीभ्यः अधि सकाशात् वनस्पतिभ्यः अधि सकाशात् । संभृतं पयः संभृता पयोलक्षणा गोद्वारेण । गौर्हि अपः पिबति ओषधिवनस्पत्यादीन्खादति अथ पयो जायते । ता न इषमूर्जं धत्त तामेतामुभयरूपां मेघसंभवामुदकलक्षणां गोप्रभवां च पयोलक्षणां नः अस्मभ्यम् इषम् ऊर्जम् धत्त दत्त हे मरुतः, 'मरुतो ह वै वर्षस्येशते' । संरराणाः संरममाणाः । अश्मनि कुम्भं स्थापयति अश्मंस्ते क्षुत् अश्मन् ते तव क्षुत् अशनाया अस्तु । आदत्ते कुम्भम् मयि त उर्क् तव संबन्धिनी ऊर्क् मयि अस्त्विति शेषः । कुम्भं प्रक्षिपति । य द्विष्मस्तं ते शुगृच्छतु यं पुरुषं द्विष्मः तं तव संबन्धिनी शुक् शोकः ऋच्छतु गच्छतु ॥ १ ॥
म० षोडशेऽध्याये शतरुद्रियहोम उक्तः । सप्तदशे चित्यपरिषेकादिमन्त्रा उच्यन्ते 'चित्यं परिषिञ्चत्यग्नीद्दक्षिणे निकक्षेऽद्रिं कृत्वाश्मन्नूर्जमित्यद्रेरधि' ( का० १८ । २।१) । पक्षस्यापरसन्धिः कक्षस्तस्य समीपं निकक्षं दक्षिणपक्षापरसन्धिसमीप आत्मभागेऽश्मानं निधायोदकुम्भमादायाद्रेरारभ्य सपक्षपुच्छमग्निं प्रदक्षिणं जलधारया समन्तादग्नीत्सिञ्चतीत्यर्थः । यजुर्मरुद्देवत्यम् आर्षी त्रिष्टुप् । हे मरुतः, तां प्रसिद्धामिषमन्नमूर्जं रसं च नोऽस्मभ्यं धत्त दत्त यूयम् । किंभूता यूयम् । संरराणाः सम्यक् रान्ति ददति ते संरराणाः सम्यग्दातारः । ‘रा दाने' 'बहुलं छन्दसि' ( पा० २ । ४ । ७६ ) इति जुहोत्यादिभ्यः श्लुः द्वित्वं च शानचि परे । कीदृशीमिषमूर्जम् । अश्मन् अश्मनि पाषाणे पर्वते विन्ध्यहिमवदादौ शिश्रियाणां श्रयतीति शिश्रियाणा ताम् । श्रयतेः शानचि जुहोत्यादित्वाद्द्वित्वम् । तथा ऊर्ज सारभूतां बलहेतुम् । यद्वा पर्वाणि विद्यन्ते यस्मिन् स पर्वतः पर्वमरुद्भ्यां तप्प्रत्ययः । अश्नातीत्यश्मा 'अन्येभ्योऽपि दृश्यते' ( पा० ३ । २ । ७५) इति अश्नातेर्मनिन् अशनवति पर्ववति मेघे ऊर्जं जलं शिश्रियाणामाश्रितां वृष्टिसंपाद्यामित्यर्थः । तथा अद्भ्यः जलेभ्य ओषधिभ्यो यवादिभ्यो वनस्पतिभ्योऽश्वत्थादिभ्यः सकाशादधिसंभृतमधिकं संपादितं गोद्वारेण पयो दुग्धं च शिश्रियाणाम् गौरपः पीत्वौषधिवनस्पतीन् भक्षयित्वा पयो दोग्धि । तां द्विरूपां मेघोत्थजलरूपां गोसमुत्थां पयोरूपां चेषमूर्जं दत्तेत्यर्थः । 'मरुतो वै वर्षस्येशते' ( ९।१।२ । ५) इति श्रुतेः । 'अश्मंस्ते क्षुदित्यद्रौ कुम्भं कृत्वा मयि त ऊर्गित्यादायैवं द्विरपरम्' ( का० १८ । २ । २।)। सेकान्तेऽश्मनि कुम्भमश्मंस्ते क्षुदिति निधाय मयि त इति पुनरादाय पुनर्द्विवारं परिषिञ्चेदित्यर्थः । अश्मा देवता दैवी बृहती । अश्नातीत्यश्मा । हे अश्मन् सर्वभक्षक अग्ने, ते तव क्षुत् क्षुधा अस्तु बहुहविषां भोज्यत्वात् ( का० १८ । २ । ३ ) । कुम्भमादत्ते । आशीर्दवता दैवी बृहती । हे अश्मन् , ते तव ऊर्क् सारभागो मयि अस्त्विति शेषः । 'कुम्भेऽद्रिं कृला दक्षिणस्यां वेदिश्रोणौ प्राङ् तिष्ठन् दक्षिणस्यां निरस्यति यं द्विष्म इति' ( का० १८ । २ । ४ ) । तं पाषाणं कुम्भे कृत्वा दक्षिणवेदिश्रोणौ पूर्वामुखस्तिष्ठन् दक्षिणस्यां दिशि साश्मानं घटं निरस्यतीत्यर्थः । यजुर्बृहती शुक् देवता । हे अग्ने, ते तव शुक् शोकस्तं नरमृच्छतु गच्छतु । तं कम् । वयं यं नरं द्विष्मः अस्मद्द्वेषविषयं तव शोको गच्छतु ॥ १ ॥

द्वितीया ।
इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नव॑: स॒न्त्वेका॑ च॒ दश॑ च॒ दश॑ च श॒तं च॑ श॒तं च॑ स॒हस्रं॑ च स॒हस्रं॑ चा॒युतं॑ चा॒युतं॑ च नि॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्चै॒ता मे॑ अग्न॒ इष्ट॑का धे॒नव॑: सन्त्व॒मुत्रा॒मुष्मिँ॑ल्लो॒के ।। २ ।।
उ० इमा मे । द्वाभ्यां कण्डिकाभ्यामग्निमभिमृश्येष्टकाः धेनूः कुरुते । तत्र प्रथमं यजुः। द्वितीया बृहती वा पङ्क्तिर्वा, अग्निस्त्वासां धेनुकरणस्येष्ट इत्यग्निरुच्यते । इमाः मे मम हे अग्ने, इष्टका धेनवः धेनुरिवोपजीवनीयाः सन्तु । अस्मिंल्लोक इति शेषः । किंसंख्याकाः । एका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं च अयुतं च नियुतं च नियुतं च प्रयुतं च अर्बुदं च न्यर्बुदं च । समुद्रश्च मध्यं च अन्तश्च परार्धश्च । एवमेकाप्रभृति दशसंख्यागुणितं परार्धपर्यन्तं पूर्वोत्तरसंख्याविशेषसमुच्चितं वर्धमानसंख्येयनिष्ठं संख्याजातमभिधाय अग्निमाह । एता मे मम हे अग्ने, इष्टकाः धेनवः सन्तु । अमुत्र अमुष्मिन् लोके । अमुत्रेति जन्मान्तरनिर्देशः । अमुष्मिन् लोक इतीष्टलोकनिर्देशः ॥ २ ॥
म० 'अनपेक्षमेत्योदङ् प्राङ् तिष्ठन्नात्मन उपरि प्रापणान्ते जपतीमा म इति' ( का० १८ । २ । ९)। कुम्भनिरसनानन्तरमपश्यन्नेत्य दक्षिणवेदिश्रोणिसमीपे ईशानाभिमुखस्तिष्ठन्नात्मन उपरि हस्तौ प्रसार्य यावत्स्प्रष्टुं शक्नोति तावत् स्पृष्ट्वेमा म इति कण्डिकाद्वयं स्वरेण जपतीत्यर्थः । विकृतिरग्निदेवत्या । हे अग्ने, या इष्टकाः पञ्चसु चितिषूपहिताः इमा इष्टकाः मे मह्यं मदर्थं धेनवोऽभिमतफलदोग्ध्र्यः सन्तु त्वत्प्रसादात् । अस्मिन् लोके इति शेषः । तासां संख्यामाह-एकेत्यादि । अत्रैकादिपरार्धपर्यन्तैः शब्दैरुत्तरोत्तरं दशदशगुणिता संख्योच्यते । एका एकत्वसंख्याविशिष्टा सा दशगुणिता । दशसंख्यामापद्यते । सा दशगुणिता शतं भवति । | पूर्वसंख्यासहितोत्तरसंख्याग्रहणमाधिक्याय । शतं दशगुणितं सहस्रं भवति सहस्रं दशगुणितमयुतं भवति अयुतं दशगुणितं नियुतं भवति नियुतं लक्षम् नियुतं दशगुणितं प्रयुतं भवति प्रयुतं लक्षदशकं । प्रयुतग्रहणं कोटेरुपलक्षकम् । प्रयुतं दशगुणं कोटिः । कोटिर्दशगुण अर्बुदम् । अर्बुदं दशगुणं न्यर्बुदम् । न्यर्बुदशब्देनाब्जसंख्या ज्ञेया । एतेषां ग्रहणमब्जसमुद्रान्तर्वर्तिनीनां खर्व निखर्वमहापद्मशङ्कुसंज्ञानां संख्यानामुपलक्षकम् । तेनाब्जं दशगुणं खर्व । खर्व दशगुणं निखर्वं । निखर्वं दशगुणं महापद्मं । महापद्मं दशगुणं शङ्कुः । शङ्कुर्दशगुणः समुद्रः। समुद्रो दशगुणो मध्यं मध्यं दशगुणमन्तः अन्तः दशगुणः परार्धः । चकारा इतरेतरसमुच्चयार्थाः । एवमेकाद्यष्टादशसंख्यासंज्ञासंमिता इटका एता हे अग्ने, मे धेनवः सन्त्विति पूर्वोक्तस्य निगमनम् । एतद्धेनुभवनं कुत्रार्थ्यते तदाह । अमुत्र अन्यजन्मनि तथान्यस्मिन् लोके स्वर्गे सर्वत्र इष्टदाः सन्त्वित्यर्थः । यद्यपि नियतसंख्ययेष्टकाश्चीयन्ते तथापि मन्त्रसामर्थ्याद्वर्धमाना एकादिपरार्धान्तसंख्या भवन्तीति भावः ॥ २॥

तृतीया।
ऋ॒तव॑ स्थ ऋता॒वृध॑ ऋतु॒ष्ठाः स्थ॑ ऋता॒वृध॑: ।
घृ॒त॒श्च्युतो॑ मधु॒श्च्युतो॑ वि॒राजो॒ नाम॑ काम॒दुघा॒ अक्षी॑यमाणाः ।। ३ ।।
उ० ऋतवः स्थ । या यूयम् ऋतवः स्थ ऋतावृधः ।। ऋतवो भवथ सत्यश्च वर्धयित्र्यश्च । ऋतुष्ठाः स्थ च । ऋतुषु तिष्ठन्तीति ऋतुष्ठाः स्थ भवथ । ऋतावृधः अतिशयार्थं पुनर्वचनम् । ता घृतश्च्युतः मधुश्च्युतः सत्यः । घृतं याश्च्योतन्ति ता घृतश्च्युतः मधुश्च्युतश्च सत्यः । विराजो नाम नाम्ना च विराज इति ख्याताः सत्यः दश लोकंपृणा उपधीयन्ते तदभिप्रायमेतन्नामकरणम् । कामदुघाः कामानां दोग्ध्र्यो भवथ । अक्षीयमाणाः परिपूर्यमाणाः ॥ ३ ॥
म० बृहती पङ्क्तिर्वा अष्टत्रिंशदक्षरत्वाद्विकल्पः । अग्निदेवत्या इष्टकादेवत्या वा । हे इष्टकाः, या यूयमेवंविधाः स्थ भवथ ता मे धेनवः सन्त्विति पूर्वेण संबन्धः । कीदृश्यः । ऋतवः वसन्तादिरूपाः । ऋतावृधः ऋतं सत्यं यज्ञं वा वर्धयन्ति ऋतवृधः । संहितायां पूर्वपददीर्घः । ऋतुष्ठाः ऋतुषु वसन्तादिषु तिष्ठन्ति तान् । स्थशब्दस्य पुनररुक्तिः पादपूरणाय। ऋतावृध इति पुनर्वचनमादरार्थम् । घृतश्च्युतः 'श्च्युतिर् क्षरणे' घृतं श्च्योतन्ति ता घृतश्च्युतः घृतस्राविण्यः । मधुश्च्युतः मधुश्च्योतन्ति ता मधुस्राविण्यः । नामेति प्रसिद्धौ । विराजः विशेषेण राजन्ते दीप्यन्ते ता विराजः । दशलोकंपृणाभिप्रायमेतत् । कामदुघाः यत्काम्यं तस्य दोग्ध्र्यः पूरयित्र्यः ‘दुहः कब्घश्च' ( पा० ३ । २ । ७० ) इति कप् । अक्षीयमाणाः न क्षीयन्ते ताः क्षयरहिताः ॥ ३ ॥

चतुर्थी।
स॒मु॒द्रस्य॒ त्वाऽव॑क॒याग्ने॒ परि॑व्ययामसि ।
पा॒व॒को अ॒स्मभ्य॑ᳪं᳭ शि॒वो भ॑व ।। ४ ।।
उ० अग्निक्षेत्रं सप्तभिर्ऋग्भिर्विकर्षति आग्नेयीभिः । तत्राद्ये गायत्र्यौ । समुद्रस्य त्वा । हे अग्ने, यं त्वां समुद्रस्य समुन्दनस्य उदकस्य अवकया परिव्ययामसि अवकया अवकाशेन परिव्ययामः । स त्वं परिवीतः सन् पावकः पावयिता अस्मभ्यं शिवः शान्तः भव ॥ ४ ॥
म० मण्डूकावकावेतसशाखा वेणौ बद्धावकर्षति मन्कृष्टवत्समुद्रस्य त्वेति प्रत्यृचम्' ( का० १८ । २ । १०)। मण्डूकिशैवलवेतसतरुशाखा वंशे बद्ध्वा तं हस्तेनादायाग्निक्षेत्रं प्रत्यृचं कर्षति तेनेत्यर्थः । आद्याया दक्षिणश्रोणेरारभ्य दक्षिणांसं यावत्कर्षति । द्वे गायत्र्यावग्निदेवत्ये अन्त्यो दशकः । हे अग्ने, समुद्रस्य समुन्दति क्लिन्नं करोति समुद्रो जलं तस्यावकया शेवालेन । त्वा त्वां परिव्ययामसि परितो वेष्टयामः । इदन्तो मसि । उपरिभागे सर्वत्र विकर्षाम इत्यर्थः । त्वं चास्मभ्यं पावकः शोधकः शिवः शान्तश्च भव ॥ ४ ॥

पञ्चमी।
हि॒मस्य॑ त्वा ज॒रायु॒णाऽग्ने॒ परि॑व्ययामसि ।
पा॒व॒को अ॒स्मभ्य॑ᳪं᳭ शि॒वो भ॑व ।। ५ ।।
उ० हिमस्य त्वा । त्वां हिमस्य जरायुणा । शीतस्य 'प्रशीतेन हे अग्ने, परिव्ययामसि परिवेष्टयामः । स त्वं परिवीतः सन् पावकः अस्मभ्यं शिवो भव ॥ ५ ॥
म० दक्षिणश्रोण्याद्युत्तरश्रोण्यन्तं कर्षति । हिमस्य शैत्यस्य . जरायुवदुत्पत्तिस्थानीयेन शेवालेन हे अग्ने, त्वा त्वां परिव्ययामसि संवरणं कुर्मः । त्वमस्मभ्यं पावकः शिवश्चेत्युक्तम् ॥ ५॥

षष्ठी।
उप॒ ज्मन्नुप॑ वेत॒सेऽव॑तर न॒दीष्वा ।
अग्ने॑ पि॒त्तम॒पाम॑सि॒ मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञं पा॑व॒कव॑र्णᳪं᳭ शि॒वं कृ॑धि ।। ६ ।।
उ० उप ज्मन् । जगती वा त्रिष्टुब्वा । उपज्मन् उपावतर ज्मन् जसते ज्मा पृथिवी पृथिव्याम् उपवेतसे । उपावतर च वेतसे वेतसशाखायाम् । मण्डूका च वेतसशाखास्तत्र बद्धा भवन्ति वंशे तदयं मन्त्रोऽभिवदति । नदीष्वा । आ उपसर्गोऽध्यर्थे । अवतर च नदीषु । अधिशब्देनात्र लक्षणया अवका उच्यन्ते तत्प्रभवत्वात् । कस्मात्त्वमेवमस्माभिः प्रार्थ्यसे इत्यत आह । हे अग्ने, पित्तं अपाम् असि । यो यस्यावयवभूतो भवति न स तद्धिनस्ति तद्धर्मा च भवति । एवमग्निं संबोध्य अथेदानीं मण्डूकीमाह हे मण्डूकि, ताभिरद्भिः सहिता आयाहि । यासामग्निः पित्तम् । याभिर्वा सह त्वमुत्पन्ना या च त्वमग्निः शान्त्यर्थमितश्चेतश्च नीयसे सा इमं नः अस्माकम् यज्ञं चयनलक्षणम् । पावकवर्णम् अग्निवर्णम् । शिवं शान्तम् । कृधि कुरु ॥ ६ ॥ ।
म० उत्तरश्रोणेरुत्तरांसपर्यन्तं कर्षति । जगती त्रिष्टुप् वा चतुश्चत्वारिंशदक्षरत्वात्त्रिष्टुबेव । नदीषु आ सा इममिति व्यूहद्वयेन द्व्यूना जगती भवति । हे अग्ने, ज्मन् ज्मा पृथिवी सप्तम्या लुक् ज्मनि पृथिव्यामुपावतर आगच्छ । तथा वेतसे वञ्जुलशाखायामुपावतर नदीषु आ । आ उपसर्गोऽध्यर्थे । नदीष्वधि अवकासु उपावतर । नदीशब्देन लक्षणयावका उच्यन्ते। तत्प्रभवत्वात् । मण्डूक्यवकावेतसशाखाः कर्षणार्थं वेणौ बद्धाः सन्ति तदयं मन्त्रो वदति । कस्मात्त्वमेवमस्माभिः प्रार्थ्यसे इत्यत आह । हे अग्ने, त्वमपां पित्तं तेजोऽसि । यो यस्यावयवः स तं न हिनस्ति तद्धर्मा च भवति । एवमग्निं संबोध्य मण्डूकीमाह । हे मण्डूकि, मण्डूको भेकस्तस्य स्त्री मण्डूकी तत्संबुद्धौ - हे मण्डकि, ताभिः पूर्वोक्ताभिरद्भिः सह आगहि आगच्छ । शपि लोपे मलोपः । यासामग्निः पित्तं यत्र त्वमुत्पन्ना या त्वमग्नेः शान्त्यै इतस्ततो नीयसे सा त्वमिमं यज्ञमस्माभिः क्रियमाणं चयनलक्षणं पावकवर्णमग्निसमानतेजसं शिवं फल-प्रदत्वेन शान्तं च कृधि कुरु ॥ ६ ॥

सप्तमी।
अ॒पामि॒दं न्यय॑नᳪं᳭ समु॒द्रस्य॑ नि॒वेश॑नम् ।
अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪं᳭ शि॒वो भ॑व ।। ७ ।।
उ० अपामिदम् । बृहती । अपाम् इदम् । न्ययनम् नितरामयनम् । यदेतन्मण्डूक्यवकावेतसशाखालक्षणम् समुद्रस्य उदकनिधेः निवेशनम् निविशन्ते अस्मिन्निति निवेशनम् । यतएवम् अतो ब्रवीमि अन्यान्पुरुषान् ते तव अस्मत्तः । तपन्तु दहन्तु । हेतयः अस्त्राणि अचींषि । त्वं च पावकः पावयिता स नः अस्मभ्यं शिवो भव ॥ ७ ॥
म० उत्तरांसाद्दक्षिणांसं कृषति । आग्नेयी बृहती । इदं चित्याग्निस्थानं मण्डूक्यवकावेतसलक्षणं वा अपां न्ययनम् । नितरामीयते प्राप्यते येन तन्न्ययनम् उदकप्राप्तिसाधनम् । यागद्वारा ह्यापः प्राप्यन्ते । अपां बाहुल्यात्समुद्रस्य निवेशनम् निविशन्त्यस्मिन्निति निवेशनं गृहस्थानीयम् तद्रूप हे अग्ने, ते तव हेतयो ज्वाला अस्मत्सकाशादन्यान् अस्मद्विरोधिनः पुरुषान् तपन्तु क्लेशयन्तु । अस्मभ्यमस्मदर्थं पावकः शोधकः शिवः शान्तश्च भव ॥७॥

अष्टमी।
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ ।
आ दे॒वान् व॑क्षि॒ यक्षि॑ च ।। ८ ।।
उ० अग्ने पावक द्वे गायत्र्यौ । हे अग्ने, पावक पावयितः, रोचिषा रोचनेन ज्वालासमूहेन । आहवनीयात्मना स्थिता इति शेषः । मन्द्रया च मदनीयया च देवजिह्वया होतृत्वेनावस्थित इति शेषः । आदेवान्वक्षि यक्षि च देवान् वक्षि च । आवह देवान् यज चेति । द्वौ ह्यग्नेराकारौ हौत्रं च आहवनीयरूपेण हविर्वहणं च अतएवं स्तूयते ॥ ८ ॥
म० 'पक्षपुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति' ( का. १८ । २ । ११)। पक्षपुच्छानि प्रान्तादारभ्याभ्यात्ममात्मसंमुखं सन्धिपर्यन्तं कर्षति प्रत्यृचमग्ने इति दक्षिणं पक्षं स न इति पुच्छं पावकयेत्युत्तरं पक्षमित्यर्थः । आग्नेयी गायत्री वसूयुदृष्टा । हे अग्ने, हे पावक शोधक, हे देव, रोचिषा रोचनेन ज्वालासमूहेनाहवनीयात्मना स्थित इति शेषः । मन्द्रया मदनीयया जिह्वया होतृवाग्रूपेणावस्थित इति शेषः । देवानावक्षि आवह यक्षि यज च । द्वावग्नेरधिकारौ हौत्रमाहवनीयरूपेण हविर्ग्रहणं चात एव स्तूयते। वहतेर्यजेश्च लोण्मध्यमैकवचने शपि लुप्ते ढत्वगत्वादिके कृते वक्षि यक्षीति रूपम् ॥८॥

नवमी।
स न॑: पावक दीदि॒वोऽग्ने॑ दे॒वाँ२ इ॒हा व॑ह ।
उप॑ य॒ज्ञᳪं᳭ ह॒विश्च॑ नः ।। ९ ।।
उ० स नः पावक । यस्त्वमुक्ताधिकारः स नः अस्माकं हे पावक पावयितः । दीदिवः दीप्तिमन् हे अग्ने, देवान् इह आवह । उप यज्ञम् यज्ञस्य समीपम् । ततोऽनन्तरं हविश्व नः संबन्धि । देवान्प्रापयेति शेषः ॥ ९॥
म० गायत्र्याग्नेयी मेधातिथिदृष्टा । हे पावक पावयितः, हे दीदिवः, दिदेवेति दीदिवान् तत्संबुद्धौ हे दीदिवः दीप्तिमन् , 'दिवु क्रीडादिषु' क्वसुप्रत्ययः द्वित्वम् 'तुजादीनाम्' (पा. ६।१।७) इत्यभ्यासदीर्घः 'लोपो व्योर्वलि' ( पा० ६ । १।६६) इति वलोपः । हे अग्ने, देवानिह नोंऽस्माकं यज्ञे आवह आनय । यज्ञमुप यज्ञसमीपे नोऽस्माकं हविश्च देवानावह प्रापय ॥९॥

दशमी।
पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।
तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जर॑: ।। १० ।।
उ० पावकया । जगती । पावकया पावयित्र्या योऽग्निः चितयन्त्या परिदृढकारिण्या कृपा समर्थया । 'कृपू सामर्थ्ये' अस्य क्विपि तृतीया । क्षामन् पृथिव्याम् । क्षामेति पृथिवीनाम । रुरुचे दीप्यते । उषसो न भानुना उषस इव ज्योतिषा । यश्च । तूर्वन यामन् त्वरमाण इव आधानकर्मणि । यामशब्दः कर्मवचनः । एतशस्य आज्यस्य । नू अनर्थकः । रणे रमणीये पदे । आधीयते । अध्वर्युणा आहितश्च यः घृणेन । घृणिरिति दीप्तिनाम । न इत्यनर्थकः । ततृषाणः तृष्यम् पिपासुः पूर्णाहुतिम् पूर्णाहुत्यादि तं तत्र शमयन्ति । पीत्वा च अजरः संपाद्यते । तमवकादिभिः शमयाम इति शेषः ॥ १०॥
म० जगती भरद्वाजदृष्टा । योऽग्निः क्षामन् क्षाम्णि पृथिव्यां रुरुचे रोचते शोभते । कया कृपा 'कृपू सामर्थ्ये' कल्पनं कृप् क्विप् । तया कल्पनया सामर्थ्येन दीप्त्या वा । क्षामेति पृथिवीनाम । किंभूतया कृपा । पावकया पावयतीति पावका तया पावयित्र्या । चितयन्त्या चेतयन्त्या । यद्वा चितं करोति चितयन्ती तया दृढचयकारिण्या । रोचने दृष्टान्तः। उषसो न भानुना । न इवार्थे । यथा उषसः कालाः भानुना स्वप्रकाशेन रोचन्ते तद्वत् । किंच यश्चाग्निः घृणिः । घृणिरिति दीप्तिनाम । 'सुपां सुलुक्' (पा० ८।१।३९) इति विभक्तेः शे आदेशः । घृणिना दीप्त्या आ समन्तात् । नु निश्चितं रुरुचे इत्यनुषङ्गो नकारश्चार्थः । किं कुर्वन् । एतशस्य एतीत्येतशः गमनकुशलस्याश्वस्य यामन् यामनि नियामके रणे युद्धे तूर्वन् 'तूर्व हिंसायां' परबलानि हिंसन् । न इवार्थे । शत्रून् हिंसन्निव रोचते । यद्वा यामन्शब्दः कर्मवाचकः । नु अनर्थकम् । यामनि कर्मणि तूर्वन्न त्वरमाण इव एतशस्याश्वस्य रणे रमणीये पदे आहितोऽध्वर्युणा । तथा ततृषाणः तृष्यतीति ततृषाणः 'ञितृषा पिपासायाम्' 'बहुलं छन्दसि' (पा० २ । ४ । ७६ ) इति ह्वादित्वाच्छानचि श्लुद्वित्वे पूर्णाहुतिं पिपासुः । अजरः जरारहितः । य ईदृशोऽग्निस्तं कृषाम इत्यर्थः ॥ १० ॥

एकादशी
नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ ।
अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪं᳭ शि॒वो भ॑व ।। ११ ।।
उ० नमस्ते । चित्यारोहिणी बृहत्याग्नेयी । नमः तव हरसे च शोचिषे च । नमः ते अस्तु अर्चिषे च । हरतेर्हरः। शोचते शोचिः । अन्यांस्त इति व्याख्यातम् ॥ ११ ॥
म. 'उभयमादाय चित्यारोहणं नमस्त इति' ( का. १८।३ । ५)। हिरण्यशकलसहितं स्रुक्स्थमाज्यं दधिमधुघृतकुशमुष्टियुता पात्री एतद्द्वयमादायाध्वर्युश्चित्याग्निमारोहति । ब्रह्मयजमानौ तु अग्नेर्दक्षिणत उपविशत इत्यर्थः । आग्नेयी बृहती लोपामुद्रादृष्टा । हे अग्ने, ते तव शोचिषे शोचनहेतवे तेजसे नमोऽस्तु । कीदृशाय शोचिषे । हरसे हरति सर्वरसानिति हरः तस्मै । हरतेरसुन्प्रत्ययः । ते तव अर्चिषे पदार्थप्रकाशकाय तेजसे नमोस्तु । अन्यदुक्तम् ॥ ११ ॥

द्वादशी।
नृ॒षदे॒ वेड॑प्सु॒षदे॒ वेड् ब॑र्हि॒षदे॒ वेड् व॑न॒सदे॒ वेट् स्व॒र्विदे॒ वेट् ।। १२ ।।
उ० स्वयमातृण्णाया जुहोति पञ्चभिर्यजुर्भिराग्नेयैः ।। नृषदे वेट् । नृषु मनुष्येषु सीदतीति नृषत् तस्मै नृषदे। वेडिति परोक्षं वषट्कारः । अप्सु उदके सीदतीत्यप्सुषत् तस्मै अप्सुषदे । बर्हिषदे। 'ओषधयो वै बर्हिः' । वनसदे वनं वृक्षसमूहः । स्वर्विदे । स्वःशब्दोऽव्ययमिहादित्यवचनः । विद्यतेरत्र ग्रहणं सीदतिनार्थसंनिकर्षात् । स्वरादित्ये विद्यते योऽग्निः तस्मै स्वर्विदे ॥ १२ ॥
म०. 'स्वयमातृण्णायां पञ्चगृहीतं जुहोति नाभिवद्धिरण्यादर्शनं च नृषदेवेडिति प्रतिमन्त्रम्' ( का० १८ । ३ । ६।)। आरुह्य स्वयमातृण्णायां पञ्चगृहीतं जुहोति पञ्चमन्त्रैः नाभिवदिति दक्षिणांसश्रोणिद्वयोत्तरांसमध्येषु तत्र हिरण्यं पश्यन्निस्यस्ति तदत्र नेत्यर्थः । पञ्चाग्नेयानि यजूंषि दैवी बृहती दैव्यः पङ्क्तयः अन्त्या दैवी बृहती । नृषु मनुष्येषु जठराग्निरूपेण तिष्ठतीति नृषत् प्राणस्तस्मै वेट् हविर्दत्तम् । वेट्शब्दः स्वाहाकारार्थः । 'प्रत्यक्षं वै तद्यत् स्वाहाकारः प्रत्यक्षᳪं᳭ सोत्तरवेदिर्वेट्कारेणेमां परोक्षं वै तद्यद्वेट्कारः' (९।२। १ । ७) इति श्रुतेः । तथा नृषदे वेडिति । 'प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणोऽग्निस्तमेतत्प्रीणाति' (९ । २ । १ । ८) इति । अप्सु उदकेषु और्वरूपेण सीदतीत्यप्सुषत् । 'योऽप्स्वग्निस्तमेतत्प्रीणाति' (८) इति श्रुतेः । बर्हिषि यज्ञे आहवनीयादिरूपेण सीदतीति बर्हिषत् , बर्हिःषु ओषधीषु तिष्ठतीति वा तस्मै वेडस्तु । 'बर्हिषदे वेडिति य ओषधीष्वग्निस्तमेतत् प्रीणाति' (८) इति श्रुतेः । वनं वृक्षसमूहस्तत्र दावाग्निरूपेण सीदतीति वनसत्तस्मै वेट् । 'वनसदे वेडिति यो वनस्पतिष्वग्निस्तमे०' (८) स्वः स्वर्गे आदित्यरूपेण विद्यते स्वर्वित् विद्यतिः सीदत्यर्थः । यद्वा स्वरादित्यं विन्दते स्वर्वित्तस्मै वषडस्तु ॥ १२ ॥

त्रयोदशी।
ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाᳪं᳭ संवत्स॒रीण॒मुप॑ भा॒गमास॑ते ।
अ॑हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्त्स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑ ।। १३ ।।
उ० दधिमधुघृतेनाग्निं प्रोक्षति । द्वाभ्यां दैवीभ्यां जगतीभ्याम् । ये देवाः प्राणाः देवानामुत्कृष्टाः । यज्ञिया यज्ञियानाम् यज्ञार्हाः यज्ञियानाम् । अतिशयार्थं पुनर्वचनम् । संवत्सरीणम् संवत्सरेण प्राप्यत इति संवत्सरीणो भागः । संवत्सरं हि भृत्त्वाग्निश्चीयते । उप भागमासते उपासते भागम् । अहुतादः अन्ये देवा अग्निप्राप्तामाहुतिमदन्ति प्राणास्तु साक्षादन्नमदन्ति । हविषः स्वमंशम् यज्ञे अस्मिन्स्वयं पिबन्तु । मधुनो घृतस्य दध्नश्चेति शेषः ॥ १३ ॥
म० 'समासिक्तान् कुशैः प्रोक्षति सपरिश्रित्कं बाह्येन च ये देवा इति' (का० १८ । ३ । ७)। पात्र्यां सिक्तान् दधिमधुघृतान् कुशैः परिश्रित्सहितं सपक्षपुच्छमग्निं मध्ये बहिश्च प्रोक्षति ऋग्द्वयेनेत्यर्थः । जगत्यौ प्राणदेवत्ये । ते प्राणरूपा देवाः, अस्मिन् यज्ञे चयनलक्षणे मधुनो घृतस्य अर्थाद्दध्नश्च हविषो मधुघृतदधिरूपस्य हविषो भागं स्वयं पिबन्तु । स्वाहाकारसमर्पणेन विना स्वयमेव स्वीकुर्वन्त्वित्यर्थः । कीदृशास्ते । अहुतादः अहुतमदन्ति ते अहुतादः । अन्ये देवा अग्निहुतामाहुतिमदन्ति प्राणास्तु साक्षादन्नमदन्ति अत एवाहुतादः । ते के । संवत्सरीणं भागमुपासते संवत्सरेण निर्वृत्तः संवत्सरीणः 'संपरिपूर्वात् ख च' ( पा० ५। १ । ९२ ) इति संपूर्वाद्वत्सरान्निवृत्तार्थे खप्रत्ययः । संवत्सरं हि भूत्वाग्निश्चीयते इत्यभिप्रायः । कीदृशाः । यज्ञियानां यज्ञार्हाणां देवानां मध्ये यज्ञियाः यज्ञयोग्याः देवाः दीप्यमानाः । द्विविधा देवाः हविर्भुज इन्द्रवरुणादयः शरीरनिर्वाहकाः प्राणापानादयश्च । दीव्यन्तीति व्युत्पत्त्या उभयेऽप्येते यज्ञियाः तत्रेन्द्रादयो यज्ञे पूज्यवाद् यज्ञियाः प्राणादयस्तु यज्ञेन पूजकत्वाद्यज्ञियाः ॥१३॥

चतुर्दशी।
ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न् ये ब्रह्म॑णः पुर ए॒तारो॑ अ॒स्य ।
येभ्यो॒ न ऋ॒ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ।। १४ ।।
उ० ये देवा देवेषु अधि उपरि अधिष्ठातृत्वेन । देवत्वं देवभावम् उपायन् उपगताः । ये ब्रह्मणः पुरएतारो अस्य ये च ब्रह्मणः 'अयमग्निर्ब्रह्म तस्यैते पुरएतारः' इति श्रुतिः । प्राणा हि प्राणिनः पुरएतार एव । येभ्यश्च प्राणेभ्यः नऋते वियोगे। पवते वर्तते । धाम स्थानं जन्म वा । किंचन न किंचिदपीत्यभिप्रायः । य इत्थंभूताः प्राणा देवाः क्व पुनस्त आसते । न ते दिवः द्युलोकस्याश्रयणीयेषु प्रदेशेषु । नच पृथिव्या आश्रयणीयेषु प्रदेशेषूपलभ्यन्ते । अधिस्नुषु 'स्नु प्रक्षरणे' । प्रस्रावीणि स्रोतांसि चक्षुरादीनि प्राणायतनानि तेषूपलभ्यन्ते । स हि तेषां विशिष्टः प्रदेशः ॥ १४ ॥
म० ये देवाः प्राणा देवेष्विन्द्रादिषु अधिष्ठातृत्वेन देवत्वमायन् प्राप्ताः इन्द्रादीनामपि प्राणा देवाः । ये अस्य ब्रह्मणः जीवस्य पुरएतारः पुरोऽग्रे यन्तीति पुरएतारः 'इण् गतौ' इत्यस्मात् ‘ण्वुल्तृचौ' (पा. ३ । १ । १३३ ) इति तृच्प्रत्ययः । 'प्राणा हि प्राणिनां पुरःसराः अयमग्निर्ब्रह्म तस्मै ते पुरएतारः' ( ९ । २ । १५) इति श्रुतेः । प्राणैर्विना चीयमानोऽग्निर्निर्वोढुं न शक्यते । किंच येभ्य ऋते यान् प्राणान् विना किंचन धाम किमपि शरीरं न पवते 'पवङ् गतौ' न चेष्टते । इत्थंभूता ये प्राणा देवास्ते पुनः क्वासते तत्राह । न त इति । ते प्राणरूपा देवाः न दिवः । षष्ठ्यौ सप्तम्यर्थे । दिवि स्वर्गे न सन्ति । पृथिव्याः पृथिव्यां भूमावपि न नैव । 'ते दिवि न पृथिव्यां यदेव प्राणभृत्तस्मिंस्ते' (९ । २ । १।१।१५) इति श्रुतेः । यद्वा दिवः प्रदेशेषु न पृथिव्याः प्रदेशेषु न किं तर्हि स्नुषु अधि 'स्नु प्रक्षरणे' नुवन्ति क्षरन्ति स्नूनि स्रोतांसि चक्षुरादीनि प्राणायतनानि तेषु अधिश्रित्य वर्तन्ते तेषूपलभ्यन्ते तेषां स विशिष्टः प्रदेशः ॥ १४ ॥

पञ्चदशी।
प्रा॒ण॒दा अ॑पान॒दा व्या॑न॒दा व॑र्चो॒दा व॑रिवो॒दाः ।
अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪं᳭ शि॒वो भ॑व ।। १५ ।।
उ० अवरोहति । प्राणदाः आग्नेयी बृहती पङ्क्तिर्वा । यस्त्वं प्राणदाः अपानदाः व्यानदा वर्चोदाः अन्नस्य दातासि। वरिवोदाः वरिवो धनं तस्य दातासि तं त्वां ब्रवीमि । अन्यांस्ते अस्मदिति व्याख्यातम् ॥ १५ ॥
म० 'प्राणदा इत्यवरोहति' ( का० १८ । ३ । ८) । प्रोक्षणानन्तरमग्नेरवतरतीत्यर्थः । अग्निदेवत्या बृहती पतिर्वा ; अष्टत्रिंशदक्षरत्वाद्विकल्पः । हे अग्ने, ते तव हेतयो ज्वाला अस्मदन्यान् तपन्तु । त्वं चास्माकं पावकः शिवश्च भव । कीदृशस्त्वं । प्राणदाः प्राणान् यजमानाय ददातीति प्राणदाः । अपानं ददातीत्यपानदाः । व्यानं सर्वशरीरसंचारिवायुं ददातीति व्यानदाः । वर्चो बलं ददातीति वर्चोदाः । वरिवो धनं ददातीति वरिवोदाः ॥ १५॥

षोडशी
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्यत्रिण॑म् ।
अ॒ग्निर्नो॑ वनते र॒यिम् ।। १६ ।।
उ० पञ्चगृहीतं जुहोति । अग्निस्तिग्मेन । आग्नेयी गायत्री । अग्निः तिग्मेन । तिग्मं तेजतेरुत्साहकर्मणः । | उत्साहवता शोचिषा दीप्त्या यासत् । 'यस उपक्षये' उप क्षयति । विश्वं सर्वं न्यत्रिणम् नितरामत्रिणमत्तारं खादकम् उपद्रवकारिणम् । अग्निश्च नः अस्मभ्यं वनते । वनतिर्दानार्थः । ददाति रयिं धनम् ॥ १६ ॥ ।
म० 'पञ्चगृहीतं जुहोत्यग्निस्तिग्मेनेत्यृचा' ( का० १८ । ३ । १२ )। शालायामागत्य पञ्चगृहीतमाज्यं शालाद्वार्येऽग्नौ जुहोति । आग्नेयी गायत्री भरद्वाजदृष्टा । अग्निः विश्वं सर्वमत्त्रिणं राक्षसं नियासत् नितरां क्षीणं करोतु 'यास उपक्षये' लेट् 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इतीकारलोपः । अत्र अदनं भक्षणमस्यास्तीत्यत्त्री भक्षकस्तम् । केन तिग्मेन शोचिषा तीक्ष्णेन तेजसा 'तिग्मं तेजतेरुत्साहकर्मणः' ! ( निरु० १० । ६ ) इति यास्कः । किंच अग्निर्नोऽस्मभ्यं रयिं धनं वनते ददातु । वनतिर्दानार्थः ॥ १६ ॥

सप्तदशी।
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत् पि॒ता न॑: ।
स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒२ आ वि॑वेश ।। १७ ।।
उ० षोडशगृहीतं जुहोति । य इमा विश्वा । पञ्चदशभिर्वैश्वकर्मणीभिस्त्रिष्टुब्भिः । कल्पान्तरीणं यजमानं ज्ञानकर्मसमुच्चयकारिणं विश्वकर्मभावमात्मत्वेनोपासकं तदुपासकत्वेनैवापक्षपितकल्मषं कल्पादावभिव्यज्यमानं धर्मज्ञानवैराग्यैश्वर्ययुक्तं सुप्तप्रतिबुद्धन्यायेनापरोक्षज्ञानमात्मत्वेनापगतः प्रजासृजमानमृषिः पश्यन्नाचष्टे य इमा विश्वा भुवनानि जुह्वदिति । यः इमानि विश्वानि भुवनानि भूतजातानि । आत्मनि जुह्वत् आत्मत्वेन पश्यन् । ऋषिः साक्षात्कृतधर्मा । होता आह्वाता देवानां कल्पादौ न्यसीदत् निषण्णः । पिता पाता नः अस्मत्प्रभृतीनाम् । स एव ऋषिर्मनुष्यादिभावमुपगतः सन् । यज्ञसंबन्धिन्या आशिषा द्रविणं यज्ञफलम् इच्छमानः । प्रथमच्छत् प्रथमच्छादकः । प्रथमो मूर्तशरीरग्राही अवरान् द्विपदचतुष्पदस्थावरादीन् । आविवेश आविष्टो विपरिणामतः ॥ १७ ॥
म० 'षोडशगृहीतार्धमनुवाकशेषेण' ( का० १८ । ३ । १२ ) । पञ्चगृहीतहोमानन्तरं षोडशगृहीतमाज्यं जुह्वां कृत्वा तस्यार्धमनुवाकशेषेण शालाद्वार्ये एव जुहोति । अनुवाकशेषश्च य इमा विश्वेत्यारभ्य विहव्यो यथासदित्यन्तोऽष्टर्च इत्यर्थः । भुवनपुत्र विश्वकर्मदृष्टा विश्वकर्मदेवत्याः षोडश त्रिष्टुभः । प्रजाः संहरन्तं सृजन्तं विश्वकर्माणं पश्यन्नृषिः कथयति । यो विश्वकर्मा इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि जुह्वत् संहरन्सन् न्यसीदत् निषण्णः स्वयं स्थितवान् । कीदृशः । ऋषिः अतीन्द्रियद्रष्टा सर्वज्ञः । होता संहाररूपस्य होमस्य कर्ता । नोऽस्माकं प्राणिनां पिता जनकः । प्रलयकाले सर्वलोकान् संहृत्य यः परमेश्वरः स्वयमेक एवासीदित्यर्थः । तथा चोपनिषदः 'आत्मा वा इदमेक एवासीदित्यर्थः। तथा चोपनिषदः आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्याद्याः । स तादृशः परमेश्वरः आशिषाभिलाषेण 'बहुः स्यां प्रजायेय' इत्येवंरूपेण पुनःसिसृक्षारूपेण द्रविणमिच्छमानः जगद्रूपं धनमपेक्षमाणः अवरानभिव्यक्तोपाधीनाविवेश जीवरूपेण प्रविष्टः । कीदृशः । प्रथमच्छत् प्रथममेकमद्वितीयं स्वरूपं छादयतीति प्रथमच्छत् । छादयतेः क्विपि ह्रस्वः । उत्कृष्टं रूपमावृण्वन्सन् प्रविष्टः । इच्छमान इतीषेरात्मनेपदमार्षम् । ‘सोऽकामयत बहुःस्यां प्रजायेय स तपोऽतप्यत स तपस्तप्त्वा इदᳪं᳭ सर्वमसृजत यदिदं किंच तत्सृष्ट्वा तदेवानुप्राविशत्' इत्यादिश्रुतेः ॥ १७ ॥

अष्टादशी।
किᳪं᳭ स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थाऽऽसी॑त् ।
यतो॒ भूमिं॑ ज॒नय॑न् वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ।। १८ ।।
उ० एवं विश्वकर्माद्वैतमुक्त्वा अथेदानीं यथा जगत्सृजति तत्प्रश्नप्रतिप्रश्नाभ्यामाह । किᳪं᳭स्वित् । स्वित् वितर्के। किं पुनरासीत् अधिष्ठानम् । अधितिष्ठन्त्यस्मिन्नित्यधिष्ठानमधिकरणं विश्वकर्मणा द्यावापृथिव्यौ सृष्टे । अधिष्ठानरहिता इदानीं जनाः कर्तारो न किंचिदपि कुर्वाणा दृश्यन्ते । आरम्भणं कतमत्स्वित् आरभ्यते अस्मात् इत्यारम्भणं प्रकृतिद्रव्यम् मृद्द्रव्यमिव घटादीनां कथमासीत् । कथासीत् कथंभूता च तत्र क्रिया आसीत् । चक्रसूत्रसलिलादिभिर्हि घटादयो निष्पाद्यन्ते । यतो भूमिं जनयन्विश्वकर्मा यतो यदेत्यर्थः । यथा भूमिं द्यां च जनयन् विश्वकर्मा विद्यामौर्णोत् । 'ऊर्गुञ् आच्छादने' आच्छादितवान् । द्यां पृथिवीं चेत्यध्याहारः । महिना महाभाग्येन ऐश्वर्येण । विश्वचक्षाः सर्वतोदर्शनः अतीतानागतवर्तमानकालानां युगपत् ज्ञाता ॥ १८॥
म० अथेश्वरो यथा जगत्सृजति तत्प्रश्नोत्तराभ्यामाह । लोके हि घटादिचिकीर्षुः कुलालो गृहादिकं स्थानमधिष्ठाय मृद्रूपेणारम्भकद्रव्येण च चक्राद्युपकरणैर्घटादि निष्पादयति ईश्वरस्य तदाक्षिप्यते । स्विदिति वितर्के । द्यावाभूमी सृजतो विश्वकर्मणोऽधिष्ठानं किमासीत् । अधितिष्ठत्यस्मिन्नित्यधिष्ठानं निवासस्थानम् । अद्यतना निरधिष्ठानाः किमपि न कुर्वन्ति । स्विदिति वितर्के । आरम्भणं कतमत् किमासीत् । आरभ्यतेऽनेनेत्यारम्भणमुपादानकारणं मृदिव घटानाम् । कथा क्रिया च किंप्रकारासीत् निमित्तकारणमपि किमासीदित्यर्थः । 'था हेतौ च छन्दसि' (पा० ५। ३ । २६) इति किमः थाप्रत्ययः । दण्डचक्रसलिलसूत्रादिभिर्घटादयो निष्पद्यन्ते तत्स्थानीयं किमासीत् । यतो यस्मिन् काले विश्वकर्मा भूमिं द्यां स्वर्गं च जनयन् सन् महिना महिम्ना स्वसामर्थ्येन वि और्णोत् सृष्टे द्यावापृथिवी आच्छादितवान् । 'ऊर्णुञ् आच्छादने' लङ् उपसर्गव्यवधानमार्षम् 'व्यवहिताश्च' (पा. १।४ । ८२) इति वचनात् । कीदृशः। विश्वचक्षाः विश्वं चष्टे स विश्वचक्षाः सर्वद्रष्टा अतीतानागतवर्तमानकालानां युगपद्द्रष्टा अनन्यशक्तिरित्यर्थः ॥ १८॥

एकोनविंशी।
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न् दे॒व एक॑: ।। १९ ।।
उ०. अत्रोत्तरं ददाति । विश्वतश्चक्षुः सर्वतश्चक्षुः । उत विश्वतोमुखः अपिच सर्वतोमुखः । विश्वतोबाहुः | उत विश्वतस्पात् अपिच सर्वतः पादः । संधमति बाहुभ्याम् । धमतिर्गत्यर्थः । संगमयति बाहुभ्यां संगच्छेत् वा । संपतत्रैः संगच्छते पतत्रैः पद्भिः । ऐश्वर्ययोगाद्बहवोऽपि पादाः संभवन्ति । द्यावाभूमी जनयन्देव एक अद्वितीयः ॥ १९॥
म० उत्तरमाह । एकोऽसहायो देवः विश्वकर्मा द्यावाभूमी जनयन्सन् बाहुभ्यां बाहुस्थानीयाभ्यां धर्माधर्माभ्यां संधमति । धमतिर्गत्यर्थः । संगच्छते संयोगं प्राप्नोति पतत्रैः पतनशीलैः अनित्यैः पञ्चभूतैश्च संगच्छते धर्माधर्मरूपैर्निमित्तैः पञ्चभूतरूपैरुपादानैश्च । साधनान्तरं विनैव सर्वं सृजतीत्यर्थः । यद्वा धर्माधर्माभ्यां भूतैश्च संधमति संगमयति जीवान् । णिजन्तत्वं ज्ञेयम् । कीदृशः । विश्वतश्चक्षुः विश्वतः सर्वतश्चक्षूंषि यस्य सः । विश्वतोमुखः विश्वतो मुखानि यस्य । विश्वतोबाहुः विश्वतो बाहवो भुजा यस्य । उतापि च विश्वतः पादा यस्य सः। ‘पादस्य लोपोऽहस्त्यादिभ्यः' (पा० ५। ४ । १३८ ) इति पादस्यान्त्यलोपः । परमेश्वरस्य सर्वप्राण्यात्मकवाद्यस्य यस्य प्राणिनो ये चक्षुरादयस्ते तदुपाधिकस्य परमेश्वरस्यैवेति सर्वत्र चक्षुरादयः संपद्यन्त इत्यर्थः ॥ १९॥

विंशी।
किᳪं᳭स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ।। २० ।।
उ० किᳪं᳭ स्वित् । अयमपि मन्त्रः प्रश्नरूपेण । किं पुनस्तद्वनं कश्च स वृक्षः आस अभूत् । यतः द्यावापृथिवी निः ततक्षुः। तक्षतिः करोतिकर्मा । बहुवचनं पूजार्थम् । यस्मात् वृक्षात् द्यां च पृथिवीं च निष्कृष्य चकार । यदि हि वनं वृक्षो वा भवेत् तदा एवमप्याशङ्केत । तक्षाणो हि वृक्षाच्चमसादीन्निष्कर्षयन्ति अयं त्वात्मारम्भण ऊर्णनाभिवदित्यभिप्रायः । विस्मित ऋषिर्द्वितीयं प्रश्नं करोति । हे मनीषिणो मेधाविनः, मनसा पर्यालोच्य पृच्छत । इत् उ तत् एतदपीति पदत्रयस्यार्थः । यदत्र यद्यर्थः । यदि अध्यतिष्ठत् यत् भुवनानि भूतजातानि सह द्यावापृथिवीभ्यां धारयन् उपरिष्टादास्ते २०
म० पुनरपि प्रश्नः । स्विदिति वितर्के । तद्वनं किमास बभूव । उ अपिच स वृक्षः कः आस । यतो वनाद्वृक्षाच्च विश्वकर्मा द्यावापृथिवी निष्टतक्षुः निस्ततक्ष निस्तक्ष्यालंकृतवान् । वचनव्यत्ययः । नहि तादृशं वनं वृक्षो वा संभवति । लोके हि गृहादिनिर्माणमिच्छन् कस्मिंश्चिद्वने कंचिद्वृक्षं छित्त्वा तक्षणादिना स्तम्भादिकं करोति इह तन्नास्तीत्यर्थः । किंच हे मनीषिणः विद्वांसः, मनसा पर्यालोच्य तत् इत् उ तदपि यूयं पृच्छत । तत्किम् । भुवनानि धारयन् सन् विश्वकर्मा यदध्यतिष्ठत् यत् स्थानमधिष्ठितवान् तदपि पृच्छत । कुम्भकारादिर्गृहादिकमधिष्ठाय घटादि करोति तदधिष्ठानमपि पृच्छत ऊर्णनाभिवदयमात्मारम्भण इति भावः ॥२०॥

एकविंशी।
या ते॒ धामा॑नि पर॒माणि॒ याऽव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॒ वृधा॒नः ।। २१।।
उ० या ते यानि ते तव धामानि स्थानानि परमाणि उत्कृष्टानि । यावमा यानि चावमानि कनीयांसि । या मध्यमा यानि च मध्यमानि । हे विश्वकर्मन् , उतेमा अपिच इमानि यानि प्रत्यक्षत उपलभ्यन्ते तेभ्यो द्रव्यमुपादाय शिक्षा सखिभ्यो देहि । समानख्यानेभ्यो यजमानेभ्यः हविषि अभ्युद्यति हे स्वधावः अन्नवन् , क उपकार इति चेत् । नोत्सहे वक्तुमहं त्वां यज इति । को हि नाम मनुष्यस्त्वां यष्टुं समर्थोऽत एवं ब्रवीमि । स्वयं यजस्व तन्वं शरीरं वावृधानः वर्धयमानः ॥ २१ ॥
म० हे विश्वकर्मन्, हे स्वधावः, स्वधान्नमस्यास्तीति स्वधावान् तत्संबुद्धौ हे स्वधावः, 'मतुवसो रुः संबुद्धौ छन्दसि' (८।३।१) इति रुः । हे हविर्लक्षणान्नवन् , ते तव यानि परमाणि उत्कृष्टानि धामानि, या यानि अवमा अवमानि कनीयांसि धामानि, उतापि च या यानि मध्यमा धामानि इमा इमानि पूर्वोक्तानि त्रिविधानि धामानि सखिभ्यो यजमानेभ्यः शिक्ष देहि । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां शिक्षपदस्य दीर्घः । क उपकार इति चेत् हविषि यजमानसंबन्धिन्युपस्थिते सति तन्वं स्वशरीरं वृधानः वर्धयन् सन् स्वयं यजस्व । वयं यजाम इति कथं वक्तुं शक्यम् । मनुष्यः कस्त्वां यष्टुं समर्थोऽत एवं ब्रवीमि स्वयं यजस्व । वर्धतेः शानचि व्यत्ययेन शपो लुक् । वृधानः तन्वमित्यत्र ‘वा छन्दसि' (पा० ६ । १ । १०६) इति पूर्वरूपाभावे यणादेशः ॥२१॥

द्वाविंशी।
विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।
मुह्य॑न्त्व॒न्ये अ॒भित॑: स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ।। २२ ।।
उ० विश्वकर्मन् हे विश्वकर्मन् , मदीयेन हविषा वावृधानः वर्धयमानः उपसंजातहर्षः सन् मदीये यज्ञे । स्वयमेव यजस्व मदनुग्रहाय पृथिवीम् । पृथिव्याश्रयाणि भूतानि । उत द्याम् अपिच द्युलोकाश्रयाणि भूतानि । किंच त्वत्प्रसादादिनास्माकं मुह्यन्तु मोहमुपगच्छन्तु । अन्ये अभितः अवस्थिताः सन्तः सपत्नाः परिपन्थिनः । किं त्वत्प्रसादादेव इह अस्माकं मघवा धनवानिन्द्रः । सूरिः पण्डितः अस्तु । आत्मज्ञानोपदेशकः ॥ २२॥
म० हे विश्वकर्मन् , हविषा मद्दत्तेन वावृधानः वर्धमानो जातहर्षः सन् मम यज्ञे पृथिवीं पृथिव्याश्रितानि भूतानि उतापि च द्यां द्युलोकाश्रितानि भूतानि स्वयं यजस्व मदनुग्रहाय । किंच त्वत्प्रसादादन्येऽभितः स्थिताः सपत्नाः शत्रवो मुह्यन्तु मोहं प्राप्नुवन्तु । किंच इह यज्ञे मघवा इन्द्रोऽस्माकं सूरिः पण्डित आत्मज्ञानोपदेशकोऽस्तु ॥ २२ ॥

त्रयोविंशी।
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।। २३ ।।
उ० वाचस्पतिम् व्याख्यातम् ॥ २३ ॥
म०. द्वे ऋचौ व्याख्याते (अध्या० ८ क० ४५ । ४६) ॥ २३ ॥ २४ ॥

चतुर्विंशी।
विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् ।
तस्मै॒ विश॒: सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथाऽस॑त् ।। २४ ।।
उ० विश्वकर्मन्हविषेत्यपि व्याख्यातम् ॥ २४ ॥

पञ्चविंशी।।
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नम्न॑माने ।
य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद् द्यावा॑पृथि॒वी अ॑प्रथेताम् ।। २५ ।।
उ० चक्षुषः पिता । अत्र द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । यदा इत् । इच्छब्द एवार्थे । यदैव अन्ता। अन्तानिति द्वितीया । द्यावापृथिव्योः । अददृहन्त । दृंहतेरेतद्रूपम् । दृढीकृतवन्तः के । ये पूर्व ऋषयः वसिष्ठप्रभृतयः । आत् । अथेत्यर्थः । अथानन्तरम् द्यावापृथिव्यौ अप्रथेताम् पृथिव्यौ अभूताम् । ततोऽनन्तरम् । चक्षुषः पिता। चक्षुर्नामऋषिः तस्य पिता प्राणः प्रजया स्तूयते । मनसा हि धीरः मनसा च धीमान् । घृतमेने अजनत् घृतमुदकम् एने द्यावापृथिव्यौ प्रति । अजनत् जगदनुग्रहाय । नम्नमाने नममाने च । विष्कम्भयन्निति शेषः॥ २५ ॥
म० 'चक्षुषः पितेत्यपरमनुवाकेन' (का. १८ । ३ । १३)। अष्टर्चेन षोडशगृहीतस्यापरमर्धं जुहोतीत्यर्थः । यदा इत् यदैव पूर्वे वसिष्ठादयो मुनयः अन्ताः । विभक्तिव्यत्ययः अन्तान् द्यावाभूम्योरन्तप्रदेशानददृहन्त दृढीकृतवन्तः । दृंहते रूपम् । आत् इत् आत् अनन्तरवाची इदेवार्थे । अनन्तरमेव द्यावाभूमिदार्ढ्यानन्तरमेव द्यावापृथिवी द्यावापृथिव्यौ अप्रथेतां पृथू अभूताम् । तदा द्यावापृथिवीप्रथनानन्तरं चक्षुषः पिता चक्षुरादीन्द्रियाणां पालको विश्वकर्मा मनसा धीरः सन् हि निश्चितमेने एते द्यावापृथिव्यौ प्रति घृतमुदकमजनदजनयत् । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इत्यार्धधातुकत्वाच्छपि णिचो लोपः । रोदस्योर्दार्ढ्ये वृष्टिं कुरुत इत्यर्थः । किं कुर्वन् । नम्नमाने नममाने द्यावापृथिव्यौ स्तम्भयन्निति शेषः । जगदनुग्रहाय रोदसी स्तम्भयन्नित्यर्थः । नमतेः शानचि नुगागमश्छान्दसः ॥ २५ ॥

षड्विंशी।
वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् ।
तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्त ऋ॒षीन् प॒र एक॑मा॒हुः ।। २६ ।।
उ० विश्वकर्मा विमनाः । विश्वभूतमनाः आत् विहाय । अपिच महान् व्यापकः । धाता धारयिता । विधाता विदधाति कर्माणि । परमोत संदृक् परमश्च संद्रष्टा भूतानाम् । तेषामिष्टानि हविषा मदन्ति येषां भूतानां विश्वकर्मा द्रष्टा तेषां भूतानां मध्ये यानि दृष्टानि अभिमतानि दमदानदयादिभिर्युक्तानि । तानि इषा अन्नेन आहुतिरसभूतेन संमोदन्ते । सर्वद्वन्द्ववियुक्तानि भूतानि संमोदन्ते । यत्र यस्मिन्प्रदेशे सप्तऋषीन् विश्वकर्मणः प्राणभूतान् वसिष्टप्रभृतीन् । परः परेण विश्वकर्मणा एकमाहुः एकं भवति । स हि साध्यानां लोकः तेऽपि विश्वकर्मत्वं प्रार्थयन्ति ॥ २६ ॥
म० यत्र यस्मिन् लोके सप्तऋषीन् सप्त च ते ऋषयश्च सप्तऋषयः 'ऋत्यकः' (पा० ६। १ । १२८) इति सन्ध्यभावः । तान् परः विभक्तेः सुः । परेण विश्वकर्मणा सह एकमाहुः एकीभूतान् बुधा वदन्ति । यत्र लोके सप्तर्षयो विश्वकर्मणा सहैकत्वं प्राप्ताः तत्र लोके तेषां पुंसामिष्टानि अभिलषितानि वस्तूनि इषा अन्नेन आहुतिरसभूतेन सह संमदन्ति संमोदन्ते सम्यक् मोदयुक्तानि पुष्टानि भवन्ति । ते विश्वकर्मलोके इष्टभोगान् प्राप्नुवन्तीत्यर्थः । तेषां केषाम् । | विश्वकर्मा येषां संदृक् सम्यक् पश्यतीति संदृक् सम्यग्द्रष्टा । विश्वकर्मदृष्टाः सुखिनो भवन्त्वित्यर्थः । कीदृशो विश्वकर्मा । विमनाः विशिष्टं मनो यस्य स तथा विभूतमनाः । सर्वकर्मज्ञ इत्यर्थः । आत् अपिच विहायाः नभोवद्व्यापकः । यद्वा विशेषेण जहाति त्यजति विहायाः संहर्ता । धाता धारयिता पोष्टा स्थितिकर्ता । विधाता उत्पादकः । उत अपि परमः सर्वेभ्य उत्कृष्टः । विभक्तेराकारः । एवंविधो विश्वकर्मा येषां द्रष्टा ते मुच्यन्ते भक्तानेव पश्यति तस्माद्भक्तिः कार्येत्यर्थः ॥ २६ ॥

सप्तविंशी।
यो न॑: पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।
यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तᳪं᳭ स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ।। २७
उ० यो नः योऽस्माकम् पिता पाता जनिता जनयिता यश्च विधाता विधारणहेतुः । यश्च धामानि स्थानानि वेद जातानि भुवनानि भूतजातानि विश्वा विश्वानि । यश्च देवानां नामधा नामानि दधाति करोति । नामच पितैव करोति । यश्च एक एव अद्वितीयः। तं विश्वकर्माणं संप्रश्नयितुम् भुवना भूतजातानि । आयन्ति आगच्छन्ति । अन्या अन्यानि च स एव स्वाधिकारेषु नियुङ्क्तेत्यभिप्रायः ॥ २७ ॥
म० यो विश्वकर्मा नोऽस्माकं पिता पालकः जनिता जनयिता उत्पादकः । 'जनिता मन्त्रे' (पा० ६ । ४ । ५३) इति निपातः । यो विधाता विशेषेण धारकः सेतुः यश्च विश्वा विश्वानि सर्वाणि धामानि स्थानानि भुवनानि भूतजातानि च वेद जानाति । यश्च एकोऽद्वितीय एव सन् देवानां बहूनां नामधाः नामानि दधाति करोतीति नामधाः । नाम च पितैव करोति । तस्मादन्या अन्यानि भुवना भुवनानि भूतजातानि संप्रश्नं सम्यक् प्रश्नो यस्यां क्रियायां यथा तथा तं विश्वकर्माणं यन्ति गच्छन्ति प्रलयकाले एकत्वं प्राप्नुवन्ति । यद्वा संप्रश्नं सम्यक् प्रष्टुं स्वाधिकारप्रश्नं कर्तुं भुवनानि यं यन्ति स एव स्वाधिकारेषु नियुङ्क्त इति भावः ॥ २७ ॥

अष्टाविंशी।
त आय॑जन्त॒ द्रवि॑ण॒ᳪं᳭ सम॑स्मा॒ ऋष॑य॒: पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ।। २८ ।।
उ० त आयजन्त । अत्र द्वितीयोर्धर्चः प्रथमं व्याख्यायते । यच्छब्दयोगात् असूर्ते असुसमीरिते। असुः प्राणः सप्त दश कलिङ्गयुक्तावात्मानः सूर्ते सुष्ठुसमीरिते रजस्यन्तरिक्षलोके । निषत्ते निर्गतसत्ताके निरालम्बने । 'नसत्तनिषत्तानुत्त-' इत्यादिना निपातनम् । यत्र स्थिताः सन्तः ये भूतानि समकृण्वन् कृतवन्तः । इमानि ते आयजन्त । यजतिर्दानार्थः । आभिमुख्येन दत्तवन्तो द्रविणं धनमुदकलक्षणं जीवनाय । सम् अस्मै संगत्य अस्मै भूतग्रामाय । ऋषयः पूर्वे वसिष्ठप्रभृतयः। जरितारः स्तोतारः । नभूना नात्यन्तं बहुयुक्त्या कामवर्षित्वेनेत्यर्थः । ये वसिष्ठादयो भूतानि सृजन्ति त एवोदकदानेन जीवन्तीति समस्तार्थः ॥ २८ ॥
म० ते पूर्वे ऋषयो विश्वकर्मसृष्टा वसिष्ठाद्या अस्मै भूतग्रामाय द्रविणं धनं जललक्षणं समायजन्त सम्यक् आभिमुख्येन ददुः द्रविणं भोगजातं वा । यजतिर्दानार्थः । कथं दुदुः। न भूना न भूम्ना न बाहुल्येन । मलोपश्छान्दसः । किंतु युक्त्या कामवर्षित्वेनेत्यर्थः । कीदृशाः । जरितारः स्तोतारः । ते के । ये ऋषय इमानि भूतानि समकृण्वन् । स्वादेः करोतेर्लङ् । ये वसिष्ठादयस्तानि सृजन्ति त एव उदकदानेन जीवयन्तीत्यर्थः । कीदृशाः । असूर्ते असुभिः सप्तदशावयवैर्लिङ्गशरीरैरीरिता असूर्ताः । असुपूर्वस्य 'ईर गतौ' इत्यस्य छान्दस इडभावो निष्ठायाम् ईकारस्य पूर्वसवर्णदीर्घः जस एकारः । तथा रजसि अन्तरिक्षलोके निषत्ते निषत्ताः निषण्णाः स्थिताः जस एकारः । 'लोका रजांस्युच्यन्ते' (निरु० ४ । १९) इति यास्कः । कीदृशे रजसि । सूर्ते सुष्ठु ईरिते प्रेरिते विस्तीर्णे । सुपूर्वस्य ईरधातोर्निष्ठायां पूर्ववत् । 'नसत्तनिषत्त-' (पा० ८ । २।६१) इत्यादिना निपातः ॥ २८ ॥

एकोनत्रिंशी।
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ ।
किᳪं᳭स्वि॒द् गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ पूर्वे॑ ।। २९ ।।
उ० परो दिवा । प्रश्नप्रतिप्रश्नरूपा मन्त्राः । परब्रह्मविषयोऽत्र प्रश्नः विभक्तिव्यत्ययबहुलो मन्त्रः । परः सूक्ष्मः दिवा दिवः । परश्च एना अस्याः पृथिव्याः । परश्च देवेभ्यः परश्च असुरेभ्यः यदस्ति । यच्च सदाकालमस्ति तत्परं ब्रह्मेति शेषः । किᳪं᳭ स्वित् स्विच्छन्दो वितर्के । कं पुनर्गर्भं दध्रे धारितवत्य आपः । यत्र गर्भे देवाः संगताः प्रजापतिना अपश्यन्त दृष्टवन्तो जगदिदम् पूर्वे प्रथमजाः । तदुक्तम् 'आपो हवा इदमग्रे सलिलमेवास' इत्यादिना ॥ २९ ॥
म० प्रश्नोत्तररूपा मन्त्राः । ब्रह्मविषयप्रश्नः । विभक्तिव्यत्ययबाहुल्यमत्र मन्त्रे । यत् अस्ति हृदीति शेषः । यदीश्वरतत्त्वं हृत्पुण्डरीके अस्ति तत् दिवा परः द्युलोकादपि दूरे तिष्ठति दिवो दुर्ज्ञेयत्वात् । परस्शब्दः सान्तो दूरवाची । एना पृथिव्या अस्याः पृथिव्याः परः पृथिव्या अपि दूरे । देवेभिरसुरैः देवेभ्योऽसुरेभ्यश्च परो दूरे । दूरत्वं विलक्षणत्वम् । सर्वजगद्विलक्षणत्वाद्गुरुशास्त्रविमुखैर्न ज्ञायत इत्यर्थः । किंच स्विदिति वितर्के । आपः प्रथमं कं गर्भं दध्रे दधिरे अधारयन् । धाञो लिटि तङि प्रथमबहुवचनस्य 'लिटस्तझयोरे शिरेच्' इति (पा० ३ । ४ । ८१) इतीरेचि कृते तस्य 'इरयो रे' (पा० ६ । ४ । ७६) इति रे आदेशे तस्य स्थानिवत्त्वात् 'आतो लोप इटि च' (पा० ६ । ४ । ६४) | इत्यालोपे दध्रे इति रूपम् । पूर्वे देवाः प्रथमोत्पन्ना देवाः वसिष्ठादयो यत्र गर्भे समपश्यन्त ददृशुः जगदिति शेषः । यदा स्थूलोऽप्ययं जगदाधारो गर्भरूपो न ज्ञायते तदात्यन्तसूक्ष्मं तत्त्वं न ज्ञायत इति किमु वक्तव्यमिति भावः ॥ २९ ॥

त्रिंशी।
तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ ।
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः ।। ३० ।।
उ० तमित् प्रतिप्रश्नः तमिद्गर्भम् । इच्छब्दो निपात आश्चर्यवचनः । तमाश्चर्यभूतं प्रथमं गर्भं दध्रे आपः । यत्र देवाः समगच्छन्त संगताः विश्वे सर्वे । नन्वस्याण्डस्याद्भिः सहितस्य क आधार इत्याशङ्क्याह । अजस्य न जायत इत्यजः। नाभौ मध्ये अधि उपरि । एकमविभक्तमनन्यभूतम् अर्पितं समर्पितम् । यस्मिन्नजे ब्रह्मणि । विश्वानि भुवनानि सर्वाणि भूतजातानि । तस्थुः स्थितवन्ति ब्रह्माण्डाश्रितानि । नतु तस्याप्यन्य आधार इति । स्वप्रतिष्ठं हि परब्रह्म ॥ ३०॥
म. प्रत्युत्तरमाह । आपः प्रथमं तमित् तमेव गर्भं दध्रे | दधिरे । यत्र कारणभूते गर्भे विश्वे सर्वे देवाः समगच्छन्त सङ्गताः संभूय वर्तन्ते । ननु तस्य गर्भस्य को वाधारस्तत्राह । | अजस्य जन्मरहितस्य परमेश्वरस्य नाभावधि नाभिस्थानीयस्य स्वरूपस्य मध्ये एकमविभक्तमनन्यभूतं किंचिद्बीजं गर्भरूपमर्पितं स्थापितं । यस्मिन् बीजे विश्वानि सर्वाणि भुवनानि भूतजातानि तस्थुः स्थितानि तद्बीजमर्पितम् । तथाच स्मृतिः 'अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सूर्यकोटिसमप्रभम्' ( मनु० १।८।९) इति । स एव सर्वाश्रयो न तु तस्याप्यन्य आश्रय इति भावः ॥ ३० ॥

एकत्रिंशी।
न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव ।
नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ।। ३१ ।।
उ० इदानीं विश्वकर्मा मनुष्याणामुपदेशं ददाति । न तं विदाथ न विदाथ न जानीथ तं परं पुरुषम् । य इमानि भूतजातानि जजान जनयति उपसंहरति च । अतः कराणात् युष्माकं च तस्य च पुरुषस्य । अन्यत् महत् अन्तरं बभूव । पुरुषो जनको यूयं जन्याः । पुरुषो भ्रामको यूयं भ्राम्याः । यदि तु ज्ञात्वात्मत्वेनोपास्यध्वं न संसृतिः स्यादित्यभिप्रायः । एवं प्रत्यक्षानुक्त्वा अथेदानीं परोक्षानभिनयेन दर्शयन्नाह । ये चैते । नीहारेण अविद्यया प्रावृता अवगुण्ठिताः । ये जल्प्या प्रावृताः । पक्षहेतुदृष्टान्तैरात्मज्ञानं जल्पिः । कुतार्किकाभिप्रायमेतत् । ये च असुतृपः असून्प्राणान्तर्पयन्ति असुतृपः अलंकरिष्णवः तैरपि सह महदेवान्तरं बभूव । ये उक्थशासः उक्थानां शंसितारः । उक्थानि च यज्ञे शस्यन्ते अतो यज्वानो गृह्यन्ते । ये यज्ञशीलास्ते पुरुषं प्रति विचरन्ति । ये तु पुरुषविदः ते पुरुष एव भवन्ति । नीहारप्रावृतास्तु नरकयायिनः ॥ ३१ ॥
म० इदानीमुपदिशति । यो विश्वकर्मा इमा इमानि भूतजातानि जजान उत्पादितवान् तं विश्वकर्माणं हे जीवाः, यूयं न विदाथ न जानीथ । 'लेटोऽडाटो' (पा० ३ । ४ । ९४) इत्याडागमः । ननु देवदत्तोऽहं यज्ञदत्तोऽहमिति वयमात्मानं जानीम इति चेत् न । न ह्यहंप्रत्ययगम्यं जैवं रूपं परमेश्वरतत्त्वं किंतु युष्माकमहंप्रत्ययगम्यानां जीवानामन्तरमभ्यन्तरं वास्तवस्वरूपमन्यत् अहंप्रत्ययादतिरिक्तं सर्वावदानं वेद्यमीश्वरतत्त्वं बभूव भवति विद्यते । जीवरूपवत्तदपि कुतो न विद्म इति चेत् भवन्त ईदृशाः चरन्ति प्रवर्तन्तेऽतो न जानीथ । कीदृशाः । नीहारेण प्रावृताः नीहारसदृशेनाज्ञानेनावृतत्वान्न जानीथ यथा नीहारो नात्यन्तमसन् दृष्टेरावरकत्वात् नाप्यत्यन्तं सन् काष्ठाश्मादिवद्रोधयितुमयोग्यत्वात् एवमज्ञानमपि नात्यन्तमसत् ईश्वरतत्त्वावरकत्वात् नापि सत् बोधमात्रनिवर्त्यत्वात् ईदृशेनानिर्वचनीयेनाज्ञानेन भवन्तः सर्वे जीवाः प्रावृताः। न केवलं नीहारेण जल्प्या च प्रावृताः । जल्पनं जल्पिस्तया देवोऽहं नरोऽहं ममेदं गृहं क्षेत्रमित्याद्यनृतजल्पनेन व्याप्ताश्च । किंच असुतृपः असुषु असून् वा तृप्यन्ति असुतृपः केनापि प्रकारेण प्राणान् भूत्वा तावतैव तृप्यन्ति नतु परमेश्वरतत्त्वं विचारयितुं प्रवर्तन्ते । न केवलमैहिकभोगेन तृप्तिः किंतु उक्थशासः परलोकभोगान् संपादयितुं यज्ञेषु उक्थानि शंसन्ति उक्थशासः शस्त्रस्तोतारः । शसेः क्विपि 'अनिदिताम्' (पा० ६ । ४ । २४) इति नलोपः । संहितायां दीर्घः । ऐहिकामुष्मिकभोगप्रवृत्तानामज्ञानमिथ्याज्ञानपराधीनानां भवतां नास्ति तत्त्वज्ञानमित्यर्थः ॥ ३१ ॥

द्वात्रिंशी।
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद् द्वि॒तीय॑: ।
तृ॒तीय॑: पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्य॒दधात् पुरु॒त्रा ।। ३२ ।।
उ० विश्वकर्मा हि विश्वकर्मा आदित्यान्तरः पुरुषः अजनिष्ट जातः । देवः दानादिगुणयुक्तः । आत् इत् निपातौ ।। अथानन्तरम् । गन्धर्वः गौर्वाचो धारयिता पृथिव्या वा धारयिता गन्धर्वोऽग्निः गानाद्वा गन्धर्वोऽग्निः । 'अथो आहुः गन्धर्वो अग्निरेवास्यै पृष्ठे सर्वकृत्स्नो मन्यमानोऽगायत् ।' इत्यादिश्रुतिः । अभवत् द्वितीयः सहायाय । तृतीयः पिता पालयिता जनयिता च ओषधीनाम् । पर्जन्यः अभवत् । सचोत्पन्नः सन् अपामाहुतिपरिणामभूतानाम् गर्भं विअदधात् धारयति पुरुत्रा बहूनां त्राता । यद्वा अपां गर्भं विदधाति पृथिव्यां बहुप्रकारम् ॥ ३२ ॥

म०. ब्रह्माण्डमध्यगतानामुत्पत्तिरुच्यते । ब्रह्माण्डमध्ये प्रथमं विश्वकर्मा देवतिर्यगादिजगद्भेदकर्ता सत्यलोकवासी चतुर्मुखो देवः अजनिष्ट आदित्यान्तरपुरुषरूपेण जातः । आत् इत् अनन्तरमेव तदपेक्षया द्वितीयो गन्धर्वः अभवत् उत्पन्नः। गां वाचं पृथिवीं वा धरति गन्धर्वोऽग्निः । गानाद्वा गन्धर्वः 'अथो एवाहुरग्निरेवास्यै पृथिव्यै पृष्ठे सर्वः कृत्स्नो मन्यमानोऽगायत्' इत्यादिश्रुतेः । पिता पालयिता ओषधीनां जनिता उत्पादकः पर्जन्यः । पूर्वोक्तद्वयापेक्षया तृतीयोऽभवत् । स पर्जन्य उत्पन्नः सन्नपामाहुतिपरिणामभूतानां गर्भं व्यदधात् धारयति करोति वा । कीदृशं गर्भं । पुरुत्रा पुरून् बहून् त्रायते रक्षति पुरुत्राः बहूनां रक्षकम् । विभक्तराकारः। बहुप्रकारं वा। वैश्वकर्मणहोमः समाप्तः ॥ ३२ ॥

त्रयस्त्रिंशी।
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् ।
सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तᳪं᳭ सेना॑ अजयत् सा॒कमिन्द्र॑: ।। ३३ ।।
उ० आशुः शिशानः अनुवाकः । अप्रतिरथऋषिः । ऐन्द्रोऽप्रतिरथोऽपश्यत् । मर्माणि त इत्यन्तः । आदितो द्वादशैन्द्र्यस्त्रिष्टुभो ब्रह्मा दक्षिणतो जपति । आशुः शीघ्रः। शिशानः। 'शो तनूकरणे' । शिशानो वज्रम् । वृषभो न भीमः वृषभ इव भीमः भीमो बिभ्यत्यस्मादिति । घनाघनः हनहनेत्येव वक्ता । यद्वा घनशरीरः । क्षोभणश्चर्षणीनाम् संचालकः चर्षणीनां मनुष्याणाम् । संक्रन्दनः समाह्वाता संग्रामकारिणाम् । आहूय चानिमिषः अप्रमादी । यद्वा अनिमिषो देवः। एकवीरः एक एवासहायो विक्रान्तः । य ईदृग्गुणविशिष्टः सः स तं बह्व्यः सेनाः अजयत् जयति । साकं सहैव । इन्द्रः ॥ ३३ ॥
म० 'आहवनीये प्रणीयमानेऽप्रतिरथस्स द्वादश ब्रुवन्नग्नौ सर्वत्रैके' (का० ११ । १।९। १०)। अग्नौ चयने इध्ममादीप्याहवनीये चित्यां प्रति नीयमाने ब्रह्माप्रतिरथसूक्तस्य द्वादश ऋचो जपन् दक्षिणतोऽनुगच्छतीति सूत्रार्थः । अप्रतिरथदृष्टा इन्द्रदेवत्या द्वादश त्रिष्टुभः । इन्द्रः शतं सेनाः शतसंख्याकाः शत्रुसेनाः साकं सहैव एकप्रयत्नेनैवाजयत् जयति । कीदृश इन्द्रः । आशुः अश्नुते व्याप्नोति आशुः शीघ्रगामी उण्प्रत्ययः । शिशानः 'शो तनूकरणे' 'बहुलं छन्दसि' (पा० २। ४ । ७६) इति जुहोत्यादित्वाच्छानचि द्वित्वम् । श्यति वज्रं तीक्ष्णीकरोति शिशानः । वृषभो न वृषभ इव भीमः भयंकरः । घनाघनः शत्रूणामतिशयेन घातकः हन हनेति वक्ता वा वृष्टिकर्तृमेघरूपो वा । 'वर्षुकाब्दो घनाघनः' इत्यभिधानात् । चर्षणीनां मनुष्याणां क्षोभणः क्षोभयतीति क्षोभणः क्षोभहेतुः चातकः । संक्रन्दनः सम्यक् क्रन्दनं परभयहेतुर्ध्वनिर्यस्य । यद्वा समाह्वाता शत्रूणाम् । अनिमिषः नास्ति निमेषो यस्य सः देवत्वात् । यद्वा कदाचिदपि निमेषं न करोति । अत्यन्तसावधान इत्यर्थः । एकवीरः एकश्चासौ वीरश्च अन्यनिरपेक्षं शत्रूनेक एव जेतुं समर्थः ॥ ३३ ॥

चतुस्त्रिंशी।
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ।। ३४ ।।
उ० संक्रन्दनेन शब्दकारिणा अनिमिषेण एकचित्तेन अप्रमाद्यता वा । जिष्णुना जयनशीलेन । युत्कारेण 'युध संप्रहारे' अस्य क्विपि युत् । संप्रहारकारिणा दुश्च्यवनेन अप्रच्याव्येन अप्रच्युतस्वभावेन वा । धृष्णुना प्रसहनशीलेन । तदिन्द्रेण जयत । ईदृग्गुणविशिष्टेनेन्द्रेण तज्जयत । दुर्जयमिति शेषः । तच्च सहध्वम् तच्चाभिभवत । हे युधः, 'युध संप्रहारे' इत्यस्यैतत्क्विपि बहुवचनम् । हे योद्धारः । 'पादादावभिमन्त्रितस्य च' इत्यादिरुदात्तः । हे नरः मनुष्याः, इषुहस्तेनेन्द्रेण । वृष्णा सेक्त्रा वर्षणशीलेन वा ॥ ३४ ॥
म० युध्यन्ते ते युधः क्विप् पादादावामन्त्रितस्येति आद्युदात्तः । हे युधो नरो योद्धारो मनुष्याः, इन्द्रेण कृत्वा यूयं तत् परबलं जयत वशीकुरुत । वशीकृत्य च तत् सहध्वम् अभिभवत । विनाशयतेत्यर्थः । कीदृशेनेन्द्रेण । संक्रन्दनेन शब्दकारिणा । अनिमिषेण एकचित्तेन । जिष्णुना जयनशीलेन । युत्कारेण युधं करोतीति युत्कारस्तेन । कर्मण्यण् युद्धकारिणा । दुश्चयवनेन दुःखेन च्यावयितुं शक्यः दुश्चयवनस्तेन अजय्येन धृष्णुना प्रगल्भेन भीतिरहितेन इषुहस्तेन इषवो हस्ते यस्य तेन वारुणाद्यायुधोपेतेन । वृष्णा वर्षतीति वृषा तेन कामानां वर्षकेण ॥ ३४ ॥

पञ्चविंशी।
स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सᳪं᳭स्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
स॒ᳪं᳭सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्युग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ।। ३५ ।।
उ० स इषुहस्तैः स इन्द्रः इषुहस्तैः योद्धृभिः संसृजति स इषुहस्तानेव योद्धृन् । स निषङ्गिभिः । स एवेन्द्रो निषङ्गिभिः खड्गिभिः संसृजति निषङ्गिण एव योद्धृन् स्वान् । किंच । वशी कान्तः सर्वजनप्रियो वा स्वतन्त्रो वा निगृहीतादिषड्वर्गो वा ईश्वरो वा । स एवेन्द्रो युधः योद्धृन्स्वान् शत्रुगणेन संसृष्टा । किंच संसृष्टजित् संसृष्टाञ्जयति शत्रून् । सोमपाश्च बाहुशर्धी च बाहुबलः संयोगिबलनिरपेक्षः। शर्ध इति बलनाम । उग्रधन्वा उद्यतधनुः । प्रतिहिताभिरस्ता । शत्रुशरीरेषु प्रतिनिहिताभिरिषुभिः इन्द्रः अस्ता क्षेप्तेत्यनुमीयते । लघुसंप्रधानो लक्षपाती चेत्यभिप्रायः ॥ ३५ ॥
म० स इन्द्रोऽस्मानवत्विति शेषः । संस्रष्टा ‘ण्वुल्तृचौ-' (पा. ३ । १ । १३३) इति तृच्प्रत्ययः । युद्धाय संसर्गकर्ता । वशी वशयति रिपूनिति वशी। यद्वा कान्तः जनप्रियः स्वतन्त्रो वा निगृहीतारिषड्वर्गो वा ईश्वरो वा । गणेन रिपुसमूहेनापि सह युधः युध्यतेऽसौ युधः युद्धकर्ता 'इगुपधज्ञा' (पा० ३। १ । १३५) इति कप्रत्ययः । संसृष्टजित् संसृष्टान् युद्धाय सङ्गतान् रिपून् जयति संसृष्टजित् । सोमपाः । सोमं पिबतीति यजमानानां यागेषु सोमपानकर्ता । बाहुशर्धी बाह्वोः शर्धो बलमस्यास्तीति बाहुशर्धी बाहुबलोपेतः । संयोगिनिरपेक्ष इत्यर्थः । शर्ध इति बलनाम । उग्रधन्वा | उग्रमुत्कृष्टं धनुर्यस्य सः । 'धनुषश्च' (पा० ५। ४ । १३१) इत्यनङादेशः । प्रतिहिताभिरस्ता स्वेन धनुषा प्रेरिताभिरिषुभिरस्ता क्षेप्ता 'असु क्षेपणे' तृन् आद्युदात्तत्वात् अस्यतीत्येवंशीलः रिपुनाशयितेत्यर्थः । सशब्दावृत्तिः पादपूरणार्था ॥३५॥

षट्त्रिंशी।
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हाऽमित्राँ॑२ अप॒बाध॑मानः ।
प्र॒भ॒ञ्जन्त्सेना॑: प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ।। ३६ ।।
उ० बृहस्पते । हे बृहस्पते, परिदीया। दीयतिर्गतिकर्मा । परियाहि रथेन । रक्षोहा रक्षसां हन्ता । अमित्रान् शत्रून् । अपबाधमानः । किंच प्रभञ्जन्प्रमर्दयन् सेनाः । प्रमृणो युधा जयन् । मृणातिर्हिँसार्थः । तस्य क्विपि द्वितीयाबहुवचनम् । प्रमृणः हिंसकान् युधा युद्धेन जयन् अस्माकम् एधि भव । अविता गोप्ता रथानाम् । बृहस्पतिरपीन्द्रस्य पुरोहित इतीन्द्रसंबन्धेनैव स्तूयते ॥ ३६ ॥
म० बृहस्पतिरिन्द्रः वाग्वै बृहती तस्या एष पतिः व्याकरणकर्तृत्वादिन्द्रस्य वाक्पतित्वमिन्द्रस्य पुरोहितत्वेन वा बृहस्पतिरेव स्तूयते । हे बृहस्पते, त्वं रथेन परिदीय सर्वतो गच्छ । दीयतिर्गत्यर्थः । गत्वा चास्माकं रथानामस्मदीयस्यन्दनानामविता रक्षक एधि भव । कीदृशस्त्वम् । रक्षोहा रक्षांसि हन्तीति रक्षोहा क्विप् रक्षसां हन्ता । अमित्रान् शत्रूनपबाधमानः पीडयन् । सेनाः परकीयाः प्रभञ्जन् प्रकर्षेण भग्नाः कुर्वन् । युधा युद्धेन प्रमृणो जयन् । मृणतिर्हिँसाकर्मा । तस्य क्विपि - द्वितीयाबहुवचनम् । प्रमृणो हिंसकान् जयन् पराभवन् ॥३६॥

सप्तत्रिंशी।
ब॒ल॒वि॒ज्ञा॒य स्थवि॑र॒: प्रवी॑र॒: सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ।। ३७ ।।
उ० बलविज्ञायः । यस्त्वं बलमाविष्कुर्वन्विज्ञायसे अयमिन्द्र इति । स्थविरश्च सर्वानुशासकः सर्वमान्यो वा चिरन्तनो वा । प्रवीरश्च अभिवीरः वीरं वीरमभि अभिवीरः। अभि सत्त्वा च सत्वं सत्त्वमभि अभिसत्वा । सहोजाश्च । सह इति बलनाम। बलात् जातः। नह्यन्स्माज्जात इतथंबलः स्यात् । स त्वं जैत्रं जेतारं हे इन्द्र, रथम् आतिष्ठ । गोवित् सन् स्तुतिवित्सन् । गोशब्दो वाग्वचनः ॥ ३७ ॥
म०. हे इन्द्र, त्वं जैत्रं जयनशीलं रथमातिष्ठ आरोह । कीदृशस्त्वम् । बलविज्ञायः बलं परकीयं विशेषेण जानाति बलविज्ञायः कर्मण्यण् 'आतो युक् चिण्कृतोः' (पा. ७ । ३ । ३३ ) यद्वा बलेन कृत्वा विज्ञायते करणे घञ् । स्थविरः पुरातनः सर्वानुशासकः । प्रवीरः प्रकृष्टो वीरः शूरः । सहस्वान् सहो बलमस्यास्तीति सहस्वान् । वाजोऽस्यास्तीति वाजी अन्नवान् । सहमानः शत्रूनभिभवन् । उग्रः युद्धेषु क्रूरः अभिवीरः अभितो वीराः शूराः यस्य सः। अभिसत्वा । अभितः सत्वानः परिचारकाः प्राणिनो यस्य सोऽभिसत्वा । सहसो बलाज्जातः सहोजाः । न ह्यन्यस्माज्जात ईदृग्बलः स्यात् । गां स्तुतिगिरं वेत्ति गोवित् ॥ ३७॥

अष्टत्रिंशी।
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।
इ॒मᳪं᳭ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ᳪं᳭ सखायो॒ अनु॒ सᳪं᳭ र॑भध्वम् ।। ३८ ।।
उ० गोत्रभिदम् । असुरगोत्रं भिनत्तीति गोत्रभित् । यद्वा गोत्र इति मेघनामसु पठितम् । स हि गाः अपः त्रायते । तस्य गोत्रस्य मेघस्य भेत्तारं वृष्ट्यर्थम् । गोविदम् उपलब्धारम् । यद्वा वाग्विदं स्तुतिविदम् पण्डितं वा वज्रपाणिम् जयन्तम् । जयतेर्गत्यर्थस्य अज्म । अज्मेति संग्रामनाम । संग्रामं गच्छन्तम् । प्रमृणन्तम् ओजसा । मृणतिर्हिंसाकर्मा । प्रमर्दयन्तं बलेन । इममिन्द्रम् हे सजाताः समानजन्मानो देवाः । अनुवीरयध्वम् वीरकर्मकुर्वाणमनुगम्य वीरकर्मणैव प्रोत्साहयत । हे सखायः समानख्याना देवाः, अनुसंरभध्वम् अनुसंगम्य रभसं कुरुत ॥ ३८॥
म०. हे सजाताः समानं जातं जन्म येषां ते समानजन्मानः सखायो देवाः, इममिन्द्रमनु वीरयध्वम् ‘शूर वीर विक्रान्तौ' अदन्तश्चुरादिः लोट् । वीरकर्म कुर्वाणमनुगम्य वीरकर्मणा प्रोत्साहयत अनु संरभध्वम् । संरम्भं वेगं कुर्वाणमनु संरम्भं कुरुत । कीदृशमिन्द्रम् । गोत्रभिदं गोत्रमसुरकुलं भिनत्ति गोत्रभित्तम् । यद्वा गा अपः त्रायते गोत्रो मेघः तस्य भेत्तारम् । गोविदम् गां वाचं वेत्तीति गोवित् तम् पण्डितम् । वज्रबाहुं वज्रं बाहौ यस्य तम् । अज्म संग्रामं जयन्तम् । | अज्मेति युद्धनाम । अजतेर्गत्यर्थस्य । ओजसा बलेन प्रमृणन्तं शत्रून्हिंसन्तम् । मृणतिर्हिंसाकर्मा ॥ ३८ ॥

एकोनचत्वारिंशी। ।
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑: ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्योऽस्माक॒ᳪं᳭ सेना॑ अवतु॒ प्र यु॒त्सु ।। ३९ ।।
उ० अभिगोत्राणि अभिगाहमानो गोत्राणि असुरकुलानि मेघवृन्दानि वा । सहसा बलेन । अदयो निस्त्रिंशः । वीरः विक्रान्तः । शतमन्युः बहुक्रोधः इन्द्रः । दुश्च्यवनः | अप्रच्याव्यः । पृतनाषाट् पृतनां संग्रामं सहते अभिभवति । ' अयुध्यः अविद्यमानप्रतियोधः । य इत्थंभूत इन्द्रः सोऽस्माकं सेनाम् अवतु पालयतु । प्रयुत्सु युद्धेषु ॥ ३९ ॥ ।
म० इन्द्रः युत्सु युद्धेषु अस्माकं सेनाः प्रावतु प्रकर्षण | रक्षतु 'छन्दसि परेऽपि' (पा० १ । ४ । ८१) इत्युपसर्गस्य | क्रियापदात् परप्रयोगः । कीदृश इन्द्रः । गोत्राणि असुरकुलानि मेघवृन्दानि वा अभिगाहमानः सर्वतो विलोडयन् । अदयः | दयारहितः । वीरः विक्रान्तः । शतमन्युः शतमसंख्यो मन्युः क्रोधो यस्य शतयज्ञो वा । दुश्य््वनः अप्रच्याव्यः । पृतनां संग्रामं सहते अभिभवतीति पृतनाषाट् । अयुध्यः योद्धुमशक्यः । नास्ति युध्यः प्रतियोधास्येति वा ॥ ३९ ॥

चत्वारिंशी।
इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोम॑: ।
दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ।। ४०।।
उ० इन्द्र आसाम् । देवसेनानां व्यूहरचनात् इन्द्र आसां नेता भवतु । बृहस्पतिश्च । मन्त्री प्रधानानि हि कार्याणि करोति । दक्षिणायज्ञः दक्षिणतो यज्ञः एतु । पुर एतु सोमः पुरस्तादागच्छतु सोमः । यद्वा । दक्षिणापुरस्तात् एतु यज्ञश्च सोमश्च । केषामित्यत आह । देवसेनानाम् अभिभञ्जतीनाम् । 'भञ्जो आमर्दने' जयन्तीनाम् । मरुतः गणभूताः यन्तु अग्रम् निरुध्य ॥ ४० ॥
म० इन्द्रः बृहस्पतिश्च आसां देवसेनानां नेता प्रणेता भवत्विति शेषः । यज्ञः यज्ञपुरुषो विष्णुर्दक्षिणा दक्षिणत एतु गच्छतु । दक्षिणादाच्प्रत्ययः । सोमः परोऽग्रे एतु । मरुतो गणदेवा अग्रं सेनाग्रभागं यन्तु गच्छन्तु । कीदृशीनां देवसेनानाम् । अभिभञ्जतीनां 'भञ्जो आमर्दने' शत्रून्मर्दयन्तीनाम् । तथा जयन्तीनां विजयमानानाम् ॥ ४०॥

एकचत्वारिंशी।
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुता॒ᳪं᳭ शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ।। ४१ ।।
उ० इन्द्रस्य वृष्णः इन्द्रस्य वर्षितुः । वरुणस्य च राज्ञः। आदित्यानां मरुतां च शर्धः बलं हस्त्यश्वरथपदातिलक्षणम् । उग्रम् उद्गूर्णायुधम् । उदस्थादित्यनुषङ्गः । यदा चैतदुदस्थात् अथानन्तरमेव । महामनसाम् अक्लिष्टमनसाम् । भुवनच्यवानां भुवनच्यावनसमर्थानाम् घोषः शब्दः । देवानां जयताम् उदस्थात् उत्थितः जितं जितमिति ॥ ४१ ।।
म०. वृष्णः कामवर्षितुरिन्द्रस्य राज्ञो वरुणस्यादित्यानां द्वादशानां मरुतां चैषां देवानामुग्रमुत्कृष्टं शर्धो बलं गजतुरगरथपत्त्यात्मकसैन्यं घोषो जितं जितमिति शब्दश्च उदस्थात् उत्थितः । जितं जितमिति वददिन्द्रादिसैन्यमुत्थितमित्यर्थः । कीदृशानां देवानाम् । महामनसां महन्मनो येषां ते महामनसस्तेषां युद्धे स्थिरचित्तानाम् । तथा भुवनच्यवानां भुवनं लोकं च्यावयन्ति ते भुवनच्यवास्तेषां भुवनच्यावनसमर्थानाम् । जयतां विजयमानानाम् ॥ ४१ ॥

द्विचत्वारिंशी।
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मना॑ᳪं᳭सि ।
उद्वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषा॑: ।। ४२ ।।
उ० उद्धर्षय उद्गतहर्षान् कुरु । हे मघवन् आयुधानि । उत्सत्वनाम् उद्धर्षय च सत्वनाम् सत्त्वानां मनुष्याणाम् । मामकानां मदीयानां । मनांसि उद्धर्षय । हे वृत्रहन् , वाजिनामश्वानाम् । वाजिनानि वेजनवत्वानि । चञ्चलत्वं ह्यश्वस्य गुणः । उद्रथानां च जयतां यन्तु घोषाः । उद्यन्तु च त्वत्प्रसादात् रथानां च जयतां मे घोषाः शब्दाः ॥ ४२ ॥ -
म० हे मघवन् धनवन्निन्द्र, आयुधानि उद्धर्षय उद्भूतहर्षाणि कुरु । मामकानां मदीयानां सत्वनां प्राणिनां मनांसि च उद्धर्षय हर्षयुक्तान् कुरु । हे वृत्रहन् वैरिघातिन् , वाजिनामश्वानां वाजिनानि शीघ्रगमनानि उद्धर्षय उत्कृष्टानि कुरु । किंच जयतां विजयमानानां रथानां घोषाः शब्दा उद्यन्तु उद्गच्छन्तु रथाः । सशब्दाः प्रसरन्तु ॥ ४२ ॥

त्रिचत्वारिंशी।
अ॒स्माक॒मिन्द्र॒: समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ२ उ॑ देवा अवता॒ हवे॑षु ।। ४३ ।।
उ०. अस्माकमिन्द्रः । अस्माकं तावत् समृतेषु संगतेषु ध्वजेषु शत्रुबलध्वजलोलीभूतेषु । इन्द्रो रक्षिता भवतु । इन्द्रप्रसादादेव अस्माकं या इषवः ताः जयन्तु । अस्माकं | च वीरा उत्तरे विजयिनो भवन्तु । अस्मान् उ । विनिग्रहार्थीय उकारः । अस्मानेव हे देवाः, अवत रक्षत । हवेषु आह्वानेषु ॥ ४३ ॥
म०. ध्वजेषु समृतेषु 'ऋ गतौ' सङ्गतेषु शत्रुध्वजैः संयुक्तेषु सत्सु इन्द्रः अस्माकं रक्षिता भवत्विति शेषः । तदा नोऽस्माकं या इषवोऽस्मदीयैः प्रयुक्तास्ता जयन्तु परसैन्यानि घ्नन्तु । अस्माकं ये वीराः शूरास्ते उत्तरे परकीयभटेभ्य उत्कृष्टा भवन्तु । उ अपिच हे देवाः, हवेषु अस्मान् यूयमवत रक्षत 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति | दीर्घः ॥ ४३ ॥

चतुश्चत्वारिंशी।
अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।
अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ।। ४४ ।।
उ० अमीषां चित्तम् अप्वा देवता । साच पुनर्व्याधिर्वा भयं वा । यसादेतया विद्धो व्याप्तः अपचीयतेऽनया भक्ष्यमाणः तस्मादप्वा अपशब्दान्त्याकारलोपस्ततष्टाप् 'ऐन्द्र्योऽभिरूपा द्वादश भवन्ति' इति श्रुतिः । इयमपीन्द्रसेनासंबन्धिनी । अमीषाम् संबन्धिनां मनुष्याणाम् चित्तम् चित्ताविति वचनव्यत्ययः । प्रतिलोभयन्ती । 'लुभ विमोहने । विमोहयमाना । गृहाणामङ्गानि हे अप्वे, ततः परेहि परागच्छ पुनरन्यान् शत्रून्गृहीतुम् अतो भूयोभूयः करणेनैतानेव शत्रूनभिप्रेहि । निर्दह चैषां हृदयानि शोकैः । हृत्स्विति सप्तमीबहुवचनं द्वितीयाबहुवचनस्थाने । हृदयानि निर्दह । शोकैः । यथा अन्धेन ध्वान्तलक्षणेन अमित्राः तमसा सचन्ताम् तमसा संसेव्यन्ताम् संश्लिष्यन्ताम् । द्वादशैन्द्र्यः समाप्ताः ॥ ४४ ॥
म० अप्वा देवता सा व्याधिर्भयं वा यस्मादेतया विद्धोऽपचीयते तस्मादप्वा । अपपूर्वाद्वातेरन्तर्भूतण्यर्थात् 'अन्येभ्योऽपि दृश्यते' (पा० ३ । २ । १०१) इति डप्रत्ययः । अपशब्दान्त्याकारलोपश्छान्दसः ततष्टाप् । अपवति अपगमयति सुखं प्राणांश्चेत्यप्वा । 'ऐन्द्र्योऽभिरूपा द्वादश भवन्ति' (९ । २।३। ६) इति श्रुतेरियमपीन्द्रसेनासंबन्धिनी । हे अप्वे, अमीषां शत्रूणां चित्तं चित्तानि प्रतिलोभयन्ती मोहयन्ती अङ्गानि शत्रुगात्राणि गृह्णाना ततः परेहि अङ्गान्यादाय परागच्छ । पुनरन्यान् रिपून् गृहीतुमभि शत्रुसङ्घं प्रेहि प्र. गच्छ । तेषां हृत्सु हृदयानि शोकैर्धनपुत्रनाशादिनिमित्तैर्निर्दह विभक्तिव्यत्ययः । किंच अमित्राः शत्रवोऽन्धेन तमसा गाढान्धकारेण सचन्तां सङ्गच्छन्तां 'षच संबन्धे' लोट् । द्वादशैन्द्र्यः समाप्ताः ॥ ४४ ॥

पञ्चचत्वारिंशी।
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सᳪं᳭शिते ।
गच्छा॒मित्रा॒न् प्र प॑द्यस्व॒ माऽमीषां॒ कं च॒नोच्छि॑षः ।। ४५ ।।
उ० पृथग्विनियोगमन्त्राः । अवसृष्टा इषुदेवत्यानुष्टुप् । परावसृष्टा निक्षिप्ता परापत परागच्छ । हे शरव्ये शरमयी इषुः शरव्या । हे ब्रह्मसंशिते ब्रह्मणाभिमन्त्रिते अभिमन्त्र्य अतितरां तीक्ष्णीकृते, गच्छ परापत । गच्छेत्यतिशयार्थं एकार्थयोराख्यातयोर्द्विवचनम् । अमित्रान्प्रपद्यस्व । माच अमीषाममित्राणां कंचन उच्छिषः उच्छेषय । उद्धृतमूलान्कुर्वित्यभिप्रायः ॥ ४५ ॥
म० इत ऋक्चतुष्टयस्य विनियोगः कात्यायनेनोक्तः । इयमिषुदेवत्यानुष्टुप् । हिंसिका शरमयी हेतिः शरव्या ब्रह्मणा मन्त्रेण संशिता तीक्ष्णीकृता ब्रह्मसंशिता तादृशि हे शरव्ये, त्वमवसृष्टास्माभिर्मुक्ता सती परापत सहसा परसैन्ये पतिता भव । पतित्वा चामित्रान् शत्रून् गच्छ प्राप्नुहि । प्राप्य च प्रपद्यस्व शत्रुशरीरेषु प्रविश । प्रविश्य चामीषां शत्रूणां मध्ये कंचन पुरुषं मा उच्छिषः अवशिष्टं मा कुरु । सर्वानपि जहीत्यर्थः । 'शिष्लृ विशेषणे' 'पुषादि-' (पा० ३ । १।५५) इत्यादिना च्लेरङ् ॥ ४५॥

षट्चत्वारिंशी।।
प्रेता॒ जय॑ता नर॒ इन्द्रो॑ व॒: शर्म॑ यच्छतु ।
उ॒ग्रा व॑: सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथाऽस॑थ ।। ४६ ।।
उ० प्रेत अनुष्टुप् । योद्धॄन्स्तौति । हे नरः मनुष्याः, प्रेत गच्छत जयत च । इन्द्रश्च वः शर्म शरणं परित्राणम् यच्छतु ददातु । उग्रा उद्गूर्णायुधाः वः युष्माकम् सन्तु बाहवः । अनाधृष्याः अप्रधृष्याः यथा यूयम् असथ भवथ तथा उग्रा वः सन्तु बाहव इत्यनुषङ्गः ॥ ४६॥
म० योद्धृदेवत्यानुष्टुप् योद्धॄन स्तौति । हे नरोऽस्मदीया योद्धारः, यूयं प्रेत परसैन्यं प्रति प्रकर्षेण गच्छत । ततो जयत विजयं प्राप्नुत । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति प्रेतेत्यत्र दीर्घः । 'अन्येषामपि दृश्यते' ( पा० ६ । ३ । १३७ ) इति जयतेत्यत्र दीर्घः । इन्द्रो वा युष्मभ्यं शर्म जयोत्थं सुखं यच्छतु ददातु 'दाण् दाने' 'पाघ्रा-' (पा० ७।३। ७८) इत्यादिना यच्छादेशः । किंच यथा यूयमनाधृष्या असथ केनाप्यतिरस्कार्या भवथ । तथा वो युष्माकं बाहवो भुजदण्डा उग्रा उद्गूर्णायुधाः सन्तु । असथेत्यत्र 'लेटोऽडाटौ' (पा० ३ । ३ । ९४ ) इत्यडागमः ॥ ४६ ॥

सप्तचत्वारिंशी।
असौ॒ या सेना॑ मरुत॒: परे॑षाम॒भ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना ।
तां गू॑हत॒ तम॒साऽप॑व्रतेन॒ यथा॒ऽमी अ॒न्यो अ॒न्यं न जा॒नन् ।। ४७ ।।
उ० असौ या। मारुती त्रिष्टुप् । असौ या सेना हे मरुतः, परेषां शत्रूणाम् अभि ऐति अभ्यागच्छति नः अस्मान्प्रति ओजसा बलेन स्पर्धमाना । तां सेनां गूहत व्याप्नुत । तमसा अपव्रतेन । व्रतमिति कर्मनाम । अपगतकर्मणा । येन तमसार्धव्याप्तानां नश्यन्ति कर्माणि तदपव्रतं तमः तेनापव्रतेन तमसा वा गूहत । यथामी अन्यो अन्यं न जानन् यथा अमी सैनिकाः अन्योन्यं परस्परं न जानीयुः ॥ ४७ ॥
म० मरुद्देवत्या त्रिष्टुप् । हे मरुतः, या प्रसिद्धा असौ परेषां शत्रूणां सेना नोऽस्मानभि आ एति अभ्यागच्छति । कीदृशी । ओजसा बलेन स्पर्धमाना स्पर्धां कुर्वाणा तां सेनां तमसा अन्धकारेण यूयं गूहत संवृतां कुरुत । तथा गूहत यथा अमी सैनिका अन्योन्यं न जानन् परस्परं न जानीयुस्तथा गूहत । कीदृशेन तमसा । अपव्रतेन अपगतं व्रतं कर्म यस्मात् तेन । येन व्याप्तानां कर्म नश्यति तादृशेन तमसा गूहतेत्यर्थः ॥४७॥

अष्टचत्वारिंशी।
यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
तन्न॒ इन्द्रो॒ बृह॒स्पति॒रदि॑ति॒: शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ।। ४८ ।।
उ० यत्र बाणाः । लिङ्गोक्तदेवता पङ्क्तिः । यत्र बाणा इषवः संपतन्ति अनिर्मर्यादम् । कथमिव । कुमारा विशिखा इव । यथा कुमारा अदृष्टपरिकारिणः विगतशिखाः सर्वमुण्डाः तं तमर्थं संनिपतेयुरेवं संपतन्ति तत्रेत्यर्थः । नः अस्माकम् इन्द्रः शर्म शरणम् यच्छतु ददातु । बृहस्पतिः शर्म यच्छतु । अदितिः शर्म यच्छतु । विश्वाहा सदाकालं च शर्म यच्छतु । इन्द्रः बृहस्पतिः अदितिः ॥ ४८ ॥
म० इन्द्रबृहस्पत्यदितिदेवत्या पङ्क्तिरष्टाक्षरपञ्चपादा । यत्र यस्मिन् युद्धे बाणाः शत्रुप्रयुक्ताः संपतन्ति इतश्चेतश्च संभूय पतन्ति । तत्र दृष्टान्तः । कुमारा विशिखा इव विगता शिखा येषां ते विशिखाः शिखारहिता मुण्डितमुण्डा विकीर्णकवचा वा अतिबालाश्चपलाः सन्तो यथा इतस्ततो गच्छन्ति तद्वत् । तत् तत्र युद्धे इन्द्रः नोऽस्मभ्यं शर्म विजयोत्थं सुखं यच्छतु ददातु । कीदृश इन्द्रः । बृहस्पतिः बृहतां मन्त्राणां पतिः पालकः विजयोचितमन्त्रज्ञः । अदितिः नास्ति दितिः खण्डनं यस्य अखण्डितशक्तिः । विश्वाहा विश्वान्सर्वान् शत्रून् आ समन्ताद्धन्तीति विश्वाहा । स शर्म यच्छतु इति पुनरुक्तिरादरार्था । यद्वा तत्र इन्द्रः बृहस्पतिरिन्द्रगुरुः अदितिरिन्द्रमाता च विश्वाहा सर्वाण्यहानि सर्वदा शर्म यच्छतु । विश्वानि च तान्यहानि च विश्वाहा विभक्तेराकारः । अत्यन्तसंयोगे द्वितीया ॥४८॥

एकोनपञ्चाशी।
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॒नानु॑वस्ताम् ।
उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वाऽनु॑ दे॒वा म॑दन्तु ।। ४९ ।।
उ० मर्माणि ते । लिङ्गोक्तदेवता त्रिष्टुप् । कवचं प्रयच्छति मर्माणि ते तव । वर्मणा कवचेन छादयामि । सोमश्च राजा त्वाम् अमृतेन अनुवस्ताम् आच्छादयतु । किंच उरोर्वरीयो वरुणस्ते कृणोतु पृथोरपि प्रथीयः वरुणः तव कवचं करोतु । किंच जयन्तं त्वाम् अनुमदन्तु उत्साहयन्तु देवाः ॥ ४९ ॥
म०. 'मर्माणि त इति कवचं प्रयच्छति' (का० १३ । ३ । १०)। महाव्रते यागेऽध्वर्युः क्षत्रियाय सन्नाहं परिधानाय प्रयच्छतीत्यर्थः । सोमवरुणदेवत्या त्रिष्टुप् । हे यजमान, ते तव मर्माणि जीवस्थानानि वर्मणा कवचेनाहं छादयामि आवृणोमि । राजा विप्रादीनामधिपः सोमोऽमृतेन नास्ति मृतं मरणं येन तेन मरणनिवारकेणानेन वर्मणा त्वा त्वामनुवस्तामन्वाच्छादयतु । 'वस आच्छादने' अदादिः लोट् । तथा वरुणः ते तव वर्म उरोः पृथोरपि वरीयः उरुतरं प्रथीयः कृणोतु । अत्यन्तमुरु वरीयः। ईयसुनि 'प्रस्थस्फ-(पा० ६। ४। १५७ ) इत्यादिना उरोर्वरादेशः । किंच देवाः जयन्तं विजयं प्राप्नुवन्तं त्वा त्वामनुमदन्तु अनुकूला भूत्वा हृष्यन्तु उत्साहयन्तु वा ॥ ४९ ॥

पञ्चाशी।
उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत ।
रा॒यस्पोषे॑ण॒ सᳪं᳭सृ॑ज प्र॒जया॑ च ब॒हुं कृ॑धि ।। ५० ।।
उ० उदेनम् । समिधमादधाति तिसृभिरनुष्टुब्भिः । तत्र प्रथमाग्नेयी द्वितीयैन्द्री तृतीया लिङ्गोक्तदेवता । उदेनमुत्तरां नय । एनं यजमानम् उद्गततराम् हे अग्ने, घृतेन आहुतिसंबन्धेन आहुत अभिहुत । जुहोतेरेतद्रूपं नतु ह्वयतेः । रायस्पोषेण च धनस्य पुष्ट्या संसृज । प्रजया च बहुं पुत्रपौत्रसंकुलं कृधि कुरु ॥ ५० ॥
म०. 'आद्रौदुम्बरीर्घृतोषितास्तिस्र उदेनमित्यादधाति प्रत्यृचम्' (का० १८ । ३ । १४) । अशुष्का उदुम्बरतरूत्था रात्रौ घृते स्थिताः प्रादेशमात्रास्तिस्रः समिध ऋक्त्रयेण शालाद्वार्ये जुहोति ततोऽग्निप्रणयनमित्यर्थः । तिस्रोऽनुष्टुभः प्रथमाग्निदेवत्या द्वितीयेन्द्रदेवत्या तृतीया लिङ्गोक्तदेवता । हे घृतेनाहुत आज्येन सर्वतो हूयमान हे अग्ने, एनं यजमानमुत्तरां नय अतिशयेन उत् उत्तराम् तरबन्तादाम्प्रत्ययः । उत्कृष्टत्वमैश्वर्यं प्रापय । ऐश्वर्यमेवाह । रायस्पोषेण धनसमृद्ध्या संसृज संयोजय । प्रजया संतत्या पुत्रपौत्रादिकया च बहुं कृधि भूयांसं कुरु । बहुकुटुम्बं कुर्वित्यर्थः ॥ ५० ॥

एकपञ्चाशी।
इन्द्रे॒मं प्र॑त॒रां न॑य सजा॒ताना॑मसद्व॒शी ।
समे॑नं॒ वर्च॑सा सृज दे॒वानां॑ भाग॒दा अ॑सत् ।। ५१ ।।
उ०. इन्द्रेमम् हे इन्द्र, एनं यजमानम् प्रतरां नय । सजातानां च समानजन्मनां च । असत् भवतु । वशी कान्तः ईश्वरो वा । किंच समेनं वर्चसा सृज संसृज च एनं यजमानं । वर्चसा स्वेन स्वेन कर्मणा । वर्णानामुत्कर्षो वर्चः । देवानां च भागदाः असत् भवतु । यज्ञसमाप्तिं त्वत्प्रसादात्प्राप्नोत्वित्यर्थः ॥ ५१ ॥
म० हे इन्द्र परमैश्वर्ययुक्त, इमं यजमानं प्रतरां नय अतिप्रकर्षः प्रतराम् प्रकृष्टमैश्वर्यं प्रापय । तदेव दर्शयति । सजातानां समानजातीयानां वशी वशयतीति वशी नियमनसमर्थो असत् भवतु । किंच एनं यजमानं वर्चसा संसृज तेजस्विनं कुरु । अयं यजमानो देवानां भागदा असत् भागं ददाति भागदाः यज्ञेषु देवानां भागप्रदाता भवतु ॥५१॥

द्विपञ्चाशी।
यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्धया॒ त्वम् ।
तस्मै॑ दे॒वा अधि॑ ब्रुवन्न॒यं च॒ ब्रह्म॑ण॒स्पति॑: ।। ५२ ।।
उ० यस्य कुर्मः। यस्य यजमानस्य कुर्मः गृहे हविः तं हे अग्ने, वर्धय त्वं प्रजया पशुभिश्च । तस्मै देवा अधिब्रुवन् । उपरिभावेन यत्प्रशस्तं कल्याणं तत् ब्रुवन्तु । अयं ब्रह्मणस्पतिरग्निः ॥ ५२ ।।
म० वयमृत्विजो यस्य यजमानस्य गृहे हविः कुर्मः पुरोडाशप्रधानं कर्म कुर्मः । हे अग्ने, तं यजमानं त्वं वर्धय । देवास्तस्मै तं यजमानमधिब्रुवन् अधिकं ब्रुवन्तु सर्वेभ्योऽधिकोऽयमिति । अयं यजमानश्च ब्रह्मणो वैदिककर्मणः पतिः पालको भवतु । यद्वा देवा अयं ब्रह्मणस्पतिरग्निश्च इममधिब्रुवन् तस्मै । द्वितीयार्थे चतुर्थी ॥ ५२ ॥

त्रिपञ्चाशी
उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॑ भरन्तु॒ चित्ति॑भिः ।
स नो॑ भव शि॒वस्त्वᳪं᳭ सु॒प्रती॑को वि॒भाव॑सुः ।। ५३ ।।
उ० अग्निमुद्यच्छति । उदुत्वेति व्याख्यातम् ॥ ५३ ॥
म० 'त्रिरुक्तायामुद्यम्योदुत्वेति' (का० १८।३ । १८)। होत्रा प्रथमायामृचि त्रिःपठितायां सत्यां प्रतिप्रस्थाता उदुत्वेति मन्त्रेण प्रदीप्तमिध्मं शालाद्वार्यादूर्ध्वमुत्पादयतीत्यर्थः । व्याख्याता (अ० १२ । क० ३१)॥ ५३ ॥

चतुःपञ्चाशी।
पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिं॒ दुर्म॑तिं॒ बाध॑मानाः ।
रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्थात् ।। ५४ ।।
उ० चित्यं गच्छन्ति । पञ्चभिर्ऋग्भिर्यज्ञाङ्गसाधनवादिनीभिः । पञ्च दिशः। द्वे त्रिष्टुभौ । पञ्च दिशः दैवीः देवानां संबन्धिन्यः यज्ञम् अवन्तु पालयन्तु । स्वयं च देव्यः । किं कुर्वाणा यज्ञमवन्तु । अपामतिं दुर्मतिं बाधमानाः । अमतिम् अमननम् अज्ञानम् । अमतिः दुर्मतिं च । किंच रायस्पोषे धनस्य पुष्टौ । यज्ञपतिं यजमानम् आभजन्ती भागिनं कुर्वत्यः । रायस्पोषे च अधि उपरि । यज्ञः अस्थात्तिष्ठतु । दिग्भिरेव स्थापितः अभिहुतः ॥ ५४ ॥
म० 'चित्यं प्रतिगच्छन्ति पञ्च दिशं' (का० १८ । ३ । १८) इति । ततो ब्रह्महोत्रध्वर्युप्रतिप्रस्थातृयजमानाः पञ्च दिश इत्याद्यृक्पञ्चकेन चित्यं प्रति गच्छन्ति । सर्वेषां मन्त्रपाठ इति कर्कः । अध्वर्युरेवेति हरिस्वामिन इत्यर्थः । यज्ञाग्निसाधनवादिन्यः पञ्च ऋचः । आद्ये द्वे त्रिष्टुभौ प्रथमा दिग्देवत्या । पञ्च दिशः प्राचीदक्षिणाप्रतीच्युदीचीमध्यारूपा देवीः देव्यो यज्ञमस्मदीयमवन्तु । कीदृश्यो दिशः । दैवीः दैव्यः देवानामिन्द्रयमवरुणसोमब्रह्मणां संवन्धिन्यो दैव्यः । तथा अमतिमस्मदीयप्रज्ञामायं दुर्मतिं दुष्टां मतिं पापविषयां बुद्धिमपबाधमानाः विनाशयन्त्यः । रायस्पोषे धनपुष्टौ यज्ञपतिं यजमानमाभजन्तीः आभजन्त्यः भागिनं कुर्वन्त्यः । किंच यज्ञोऽस्मदीयो रायो धनस्य पोषे पृष्टौ अधि अस्थात् अधिकं तिष्ठतु समृद्धोऽस्तु ॥ ५४ ॥

पञ्चपञ्चाशी।
समि॑द्धे अ॒ग्नावधि॑ मामहा॒न उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तः ।
त॒प्तं घ॒र्मं प॑रि॒गृह्या॑यजन्तो॒र्जा यद्य॒ज्ञमय॑जन्त दे॒वाः ।। ५५ ।।
उ० समिद्धे अग्नौ । असंबद्धानि वाक्यानि यद्योगात्तद्योगाच्च संबद्धानि भवन्ति । यः समिद्धे सम्यग्दीप्ते अग्नौ प्रणीयमाने अधिमामहानः 'यजमानो वै मामहानः' इति श्रुतिः। 'मह पूजायाम्' । उपरिभावेन देवानामत्यर्थं पूजकः । आत्मानं वा कृतकृत्यं मन्यमानोऽग्निमनुगच्छति । यस्य च उक्थपत्रोऽग्निः प्रणीयमानः अग्निष्टोमे उक्थानि भवन्ति सदङ्गभूत एवायमग्निः । ईड्यः यज्ञियः । गृभीतः गृहीतो धारितोऽध्वर्युणा । यस्य च मामहानस्य तप्तं रुचितं धर्म परिगृह्य परीशासाभ्याम् अयजन्त ऋत्विजः । यस्य च ऊर्जेन अन्नेन हविर्लक्षणेन । यज्ञमयजन्त संगतं वा कृतवन्तः देवा ऋत्विजः । सोऽयं कृतकृत्य इति शेषः ॥ ५५ ॥
म० आग्नेयी । दीव्यन्ति व्यवहरन्ति ब्रह्मलहोत्राध्वर्यवादिकर्मभिः प्रचरन्तीति देवा ऋत्विजो यत् यदा तप्तं धर्म ज्वलितं प्रवयं परिगृह्य परितः परीशासाभ्यामादायायजन्त यजन्ते । यदा च ऊर्जा हविर्लक्षणेनान्नेनायजन्त यजन्ते । यदोग्रहणात्तच्छब्दाध्याहारः । तदा अग्नौ समिद्धे सति दीप्यमाने सति उक्थपत्रः यज्ञो गृभीतः गृहीतः धारितः । 'गृभीत इति धारित इत्येतत्' (९।२।३ । ९) इति श्रुतेः। | उक्थानि शस्त्राणि पत्रं वाहनं यस्य स उक्थपत्रः । शस्त्रैरेव | यज्ञो वाह्यते । कीदृश उक्थपत्रः। ईड्यः। ईडितुं योग्यः स्तुत्यः। अधिमामहानः महयति पूजयति देवानिति मामहानः । | महतेर्विकरणव्यत्ययेन 'जुहोत्यादिभ्यः श्लुः' 'श्लो' (पा०६ । १ । १०) इति द्वित्वम् 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० ६।१।७) इत्यभ्यासदीर्घः । यद्वा अधिको माम| हानो यजमानो यत्र यज्ञे । 'यजमानो वै मामहानः' (९।२। ३ । ९) इति श्रुतेः ॥ ५५ ॥

षट्पञ्चाशी।
दै॑व्याय ध॒र्त्रे जोष्ट्रे॑ देव॒श्रीः श्रीम॑नाः श॒तप॑याः ।
प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुः ।। ५६ ।।
उ० दैव्याय धर्त्रे । बृहती वा पतिर्वा । यस्मै अग्नये दैव्याय देवानां संबन्धिने । धर्त्रे धारयित्रे जगतः । जोष्टे योषयितृतमाय । पयोदानार्थं नीयत इति वाक्यशेषः । यश्च देवश्रीः देवा अस्य शेषः । श्रीमनाः भक्तेभ्यः श्रियं दातुकामाः । श्रीर्वा यस्य मनसि वसति । शतपयाः बहूनि पयांस्यन्नानि यस्यासौ बहुपयाः । पञ्च परिगृह्य गृहीत्वा । देवाः ऋत्विग्यजमानाः यज्ञं कर्तुमागच्छन्ति । तं देवा ऋत्विग्यजमानाः देवेभ्यः यज्ञं कर्तुकामाः । देवेभ्यो अध्वर्यन्तः अध्वरं कामयमानाः अस्थुः परिवार्य स्थिताः ॥ ५६ ॥
म० बृहती पङ्क्तिर्वाष्टत्रिंशदक्षरत्वात् । अग्निदेवत्या। एवं विधाय अग्नये यज्ञो भवतीति शेषः । कीदृशाय । दैव्याय देवानां हितो दैव्यस्तस्मै । धरतीति धर्ता तस्मै यागद्वारा जगतो धारयित्रे । जोषते जोष्टा सेविता तस्मै अस्मद्दत्तहविषः सेवित्रे । कीदृशो यज्ञः । देवश्रीः देवान् श्रयति हविर्दानेन सेवते देवश्रीः । श्रीमनाः श्रयते सेवते इन्द्रादीन् श्रीर्यजमानस्तस्मिन्मनोऽनुग्रहरूपं यस्य स श्रीमनाः । यद्वा श्रीर्मनसि यस्य । यद्वा भक्तेभ्यः श्रियं दातुं मनो यस्य । शतपयाः शतसंख्याकानि पयःप्रभृतीनि हवींषि यस्य सः । देवा ऋत्विज ईदृशं यज्ञाग्निं परिगृह्य यज्ञं प्रति आयन् प्राप्नुवन्ति । | किंच देवा दीप्यमाना ऋत्विजो देवेभ्योऽर्थाय अध्वर्यन्तः सन्तः अस्थुः अध्वरं कर्तुमिच्छन्तस्तिष्ठन्ति अध्वरमिच्छति अध्वर्यति 'सुप आत्मनः क्यच्' 'कव्यध्वरपृतनस्यर्चि लोपः' (पा० ७ । ४ । ३९) प्रति अध्वरान्तलोपः ॥ ५६ ॥

सप्तपञ्चाशी।
वी॒तᳪं᳭ ह॒विः श॑मि॒तᳪं᳭ श॑मि॒ता य॒जध्यै॑ तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॑ ।
ततो॑ वा॒का आ॒शिषो॑ नो जुषन्ताम् ।। ५७ ।।
उ० वीतᳪं᳭ हविः बृहती। वीतम् कामितमिष्टमभिप्रेतम् । शमितम् सुसंस्कृतं मन्त्रैः । शमिता शमितेति व्यत्ययो वाक्यशेषात् । यजध्यै यागाय । तुरीयश्चात्र यज्ञो भवति । यत्र इत्थंभूतं हव्यं हविरेति । अध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चादृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयश्चतुर्थो यज्ञः । ततः तस्मात्तत्त्वज्ञादुत्थिताः वाकाः वचनानि ऋग्यजुःसामलक्षणानि । आशिषश्च नोऽस्मान् जुषन्तां सेवन्ताम् । यज्ञफलमस्मानालिङ्गयत्वित्यर्थः ॥५७॥
म० हविर्यज्ञदेवत्या बृहती । यज्ञो यत्र यस्मिन् काले हव्यं होतुं योग्यं हविः एति प्राप्नोति ततो यज्ञादुत्थिता वाका वाक्यानि ऋग्यजुःसामलक्षणानि आशिषोऽभीष्टार्थशंसनानि च नोऽस्मान् जुषन्ताम् सेवन्ताम् । यज्ञफलान्यस्मानालिङ्गन्त्वित्यर्थः । कीदृशं हविः । वीतं देवानामिष्टम् । 'इष्टᳪं᳭ स्विष्टमित्येतत्' (९।२ । ३ । ११) इति श्रुतेः । तथा शमिता 'सुपां सु-' (पा० ७।१।३९) इति तृतीयैकवचनस्य सु आदेशः । शमित्रा यजध्यै यष्टुं शमितं संस्कृतम् 'तुमर्थे से-' (पा० ३ । ४ । ९) इत्यादिना यजेस्तुमर्थे शध्यैप्रत्ययः । कीदृशो यज्ञः । तुरीयः चतुर्थः आदौ यजुर्जपः ततो होत्रा ऋचां पठनम् ततो ब्रह्मणोऽप्रतिरथजपः एवंच तुरीयो होमः । तथाच श्रुतिः 'अध्वर्युः पुरस्ताद्यजूᳪं᳭षि जपति होता पश्चादृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयो यज्ञः' ( ९ । २ । ३ । ११) इति । यद्वा आदावध्वर्युणा श्रावणम् तत् आग्नीध्रेण प्रत्याश्रावणम् यजेति ततोऽध्वर्योः प्रैषः ततो होतुर्वषट्कारः इति यज्ञश्चतुर्धा कल्प्यते ॥ ५७ ॥

अष्टपञ्चाशी।
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒२ अज॑स्रम् ।
तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ।। ५८ ।।
उ० सूर्यरश्मिर्हरिकेशः । त्रिष्टुप् 'असौ वा आदित्य एषोऽग्निः' इति श्रुतिः । यः सूर्यरश्मिः सूर्यसदृशरश्मिः हरिकेशः। हरितवर्णकेशः सः पुरस्तात् सवितृरूपेण ज्योतिः। उदयान् उद्गच्छति । अजस्रमनुपक्षीणम् । तस्य चाग्नेः पूषा प्रसवे याति विद्वान् । स्वमधिकारं जानानः । 'पशवो वै पूषा' इति श्रुतिः । लक्षणया सचाग्निर्याति । प्रणीयमानः । संपश्यन् विश्वा विश्वानि भुवनानि भूतजातानि । गोपाः गोपायिता सर्वस्य जगतः ॥ ५८॥
म० अग्निदेवत्या त्रिष्टुप् । ज्योतिर्ज्योतीरूपोऽग्निः अजस्रं निरन्तरं प्रत्यहं पुरस्तात् पूर्वस्यां दिशि आहवनीयरूपेण होमार्थमुदयान् उद्गच्छति । उत्पूर्वस्य यातेर्लङि प्रथमाबहुवचनेनोरु आदेशाभावे रूपम् वचनव्यत्ययः 'छदसि लुङ्लङ्लिटः' (पा० ३।४।६) इति लङ् । कीदृशोऽग्निः । सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य सः । यद्वा सूर्यश्चासौ रश्मिश्च । सूर्यरूपस्तद्रश्मिरूपश्चेत्यर्थः । हरिकेशः हरति दारिद्र्यमिति हरि हिरण्यम् । हिरण्यवर्णाः केशाः केशस्थानीया ज्वाला यस्य सः । सविता सौति सविता प्राणिनां तत्तद्व्यापारेषु प्रेरकः । तस्येदृशस्याग्नेः प्रसवे आज्ञायां पूषा पोषकः सूर्यः याति उदयास्तमयद्वारेणाटति । कीदृशः पूषा । विद्वान् स्वाधिकारमहोरात्रिवर्तनात्मकं जानन् । विश्वा विश्वानि भुवनानि भूतजातानि संपश्यन् सर्वान् लोकान् सम्यगवलोकयन् । गोपाः गोपायतीति गोपाः रक्षकः धर्मस्य ॥ ५८ ॥

एकोनषष्टी।
वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान् रोद॑सी अ॒न्तरि॑क्षम् ।
स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ।। ५९ ।।
उ० आग्नीध्रे अश्मानं पृश्निमुपदधाति विमान एष इति द्वाभ्यां त्रिष्टुब्भ्यामादित्यदेवत्याभ्याम् । य एष आदित्यो विमानो निर्माता भूतग्रामस्य दिवो मध्ये आस्ते द्युलोकस्य मध्ये आस्ते । आपप्रिवान् । 'प्रा पूरणे' । आपूरयन् रोदसी द्यावापृथिव्यौ अन्तरिक्षं च । स्वकीयेन प्रकाशेनापहृत्य | शार्वरं तमः । स विश्वाचीरभिचष्टे घृताचीरभिचष्टे । विश्वं हविरञ्चितमस्यामिति विश्वाची वेदिः । घृतमस्यामञ्चनमिति घृताची स्रुक् वेदीश्च स्रुचश्चाभिचष्टेऽभिपश्यति । यज्ञं कर्तुं नेतुं गृहीतुं पश्यतीत्यर्थः । अन्तरा पूर्वमपरं च केतुम् । । अन्तरा अन्तरेण । पूर्वमिमं लोकम् अपरं चामुं लोकम् । किंच । केतुम् चितं जनानाम् तच्च सर्वमभिचष्टेऽभिपश्यति । अथो यच्चेदमेतर्हि चीयते यच्चादः पूर्वमपि चीयते ॥ ५९ ॥
म० 'आग्नीध्रदेशाद्दक्षिणं पृष्ट्यासहितं पृश्न्यश्मानमुपदधाति विमान इति' ( का० १८ । ३ १९ )। अध्वर्युराग्नीध्रगृहाद्दक्षिणदिशि पृष्ट्यासंलग्नं पृश्निं तनुं वृत्तं चित्रवर्णं वा पाषाणं विमान इति ऋग्द्वयेनोपदध्यादित्यर्थः । विश्वावसुदृष्टा आदित्यदेवत्या त्रिष्टुप् । आदित्याध्यासेनाश्मा स्तूयते । एषोऽश्मादित्यरूपेण दिवोऽन्तरिक्षस्य मध्ये आस्ते तिष्ठति 'असौ वा आदित्योऽश्मा पृश्निरमुमेवैतदादित्यमुपदधाति' (९ । २ । | ३ । १४ ) इति श्रुतेः । आहवनीयो द्युलोकः गार्हपत्यो भूलोकः तयोर्मध्ये आग्नीध्रमन्तरिक्षस्थानीयं तत्र स्थितत्वाद्दिवो मध्ये आस्ते । तथाच श्रुतिः ‘अन्तरेणाहवनीयं च गार्हपत्यं चोपदधात्ययं वै लोको गार्हपत्यो द्यौराहवनीय एतं तदिमौ लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण तपति' (९ । २ । ३ । १४ । १५) इति | ॥ १४ ॥ आग्नीध्रवेलायामन्तरिक्षं वा आग्नीध्रमेतं तदन्तरिक्षे दधातीति । कीदृश एषः । विमानः विविधं मिमीत इति विमानः जगन्निर्माणसमर्थः । तथा रोदसी द्यावापृथिव्यौ अन्तरिक्षमापप्रिवान् तेजसा सर्वतः पूरितवान् 'प्रा पूरणे' क्वसु प्रत्ययः । स तथा स्तूयमान आदित्यरूपोऽश्मा विश्वाचीः वेदीः घृताचीः स्रुचश्चाभिचष्टे पश्यति यज्ञकर्तॄननुगृहीतुं कर्म पश्यतीत्यर्थः । विश्वं हविरञ्चितं स्थापितं यस्यामिति विश्वाची वेदिः । घृतमञ्चितं यस्यामिति घृताची स्रुक् । तथाच श्रुतिः 'स विश्वाचीरभिचष्टे घृताचीरिति स्रुचश्चैतद्वेदीश्चाहेति' (९। २। ३ । १७) । तथा पूर्वमिमं लोकमपरममुं लोकं च अन्तरा मध्ये स्थितानां जनानां केतुं चित्तं चाभिचष्टे सर्वजनाभिप्रायज्ञ इत्यर्थः । यद्वा विश्वाचीर्विश्वव्यापिनीर्दिशोऽभिचष्टे सर्वतः प्रकाशयति । यथा घृताचीर्घृतप्राप्तिहेतुभूता धेनूश्चाभिचष्टे । तथान्तरा ब्रह्माण्डमध्ये पूर्वमपरं च केतुमुदयास्तमयमध्यवर्तिनं बोधमभिचष्टे ॥ ५९॥

षष्टी।
उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश ।
मध्ये॑ दि॒वो निहि॑त॒: पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ।। ६० ।।
उ० उक्षा समुद्रः । य उदयकाले उक्षा सेचनः समुद्रः समुन्दनो भवति तस्मिन्काले अवश्याया अतितरां पतन्ति तदभिप्रायमेतत् । अरुणः वर्णतो निर्देशः । सुपर्णः सुपतनः । यश्च पूर्वस्य द्युलोकस्य । योनिं स्थानम् पितुः पितृभूतस्य । ततो हि जायमान उपलभ्यत आदित्य इति पिता द्युलोकः। आविवेश आविशति । उदितमात्रः यश्च मध्ये द्युलोकस्य निहितः अवस्थितः । पृश्निः समस्तरश्मिसंकुलो विचित्रः । अश्मा अशनो व्यापकः स्यात् स विचक्रमे चंक्रममाणः । रजसः रञ्जनस्य लोकत्रयस्य पाति गोपायति । अन्तौ अन्तान् यो ह्यन्तान्पाति स मध्यं पात्येव ॥ ६० ॥
म० अप्रतिरथदृष्टादित्यदेवत्या त्रिष्टुप् । य आदित्यः पूर्वस्य पूर्वदिशि स्थितस्य पितुर्द्युलोकस्य योनिं स्थानमाविवेश आविशति द्यौः पितेत्युक्तेः पितुःशब्देन द्युलोकः उदयसमये द्युलोकाज्जायमान उपलभ्यते सूर्य इति द्युलोकपूर्वभागः सूर्यस्य पितृभूत उच्यते । किंभूतः यः । उक्षा वृष्टिद्वारा सेक्ता । समुद्रः समुनत्ति क्लेदयति समुद्रः उदयकालेऽवश्यायपतनेन क्लेदनकर्ता । अरुणः उदयकाले अरुणवर्णः। सुपर्णः शोभनं पर्णं पतनं गमनं यस्य स सुपर्णः । यश्च दिवो मध्ये निहितोऽवस्थितः । पृश्निर्विचित्रवर्णः नानारश्मिसंकुलः । अश्मा अश्नुते व्याप्नोति नभ इत्यश्मा व्यापकः । एवंविधः सन् विचक्रमे विक्रमते नभः । यश्च विक्रममाणो रजसः रञ्जनस्य लोकत्रयस्य अन्तौ । वचनव्यत्ययः । अन्तान् पर्यन्तान् पाति रक्षति । यो ह्यन्तान् पाति स मध्यं पात्येवेत्यर्थः । अथाश्मपक्षे व्याख्यानम् । अयं पृश्निर्विचित्रवर्णोऽश्मा पाषाणः पितुः कर्मपालकस्य पूर्वस्य पूर्वदिग्वर्तिन आहवनीयस्य योनिं कारणभूतमाग्नीध्रमाविवेश प्रविष्टवान् यदाहवनीयमुद्वपेदाग्नीध्रादुद्धरेदित्याहवनीययोनित्वमाग्नीध्रस्याम्नातमन्यत्र । अयमश्मा दिवो मध्ये आग्नीध्रस्थानीयस्यान्तरिक्षस्य मध्ये निहितः स्थापितः सन् रजसो रञ्जनीयस्य जगतः अन्तौ उत्पत्तिप्रलयरूपकोटिद्वयं विचक्रमे पाति रक्षति च परमेश्वररूपेण । कीदृशोऽश्मा । उक्षा सेक्ता । यागद्वारेण फलाभिवर्षक इत्यर्थः । समुद्रः बहुफलप्रदत्वात्समुद्रसदृश इत्यर्थः । अरुणः पूर्वमन्त्रे सूर्यसाम्यात् सूर्यसदृशः । सुपर्णः स्वर्गं प्रत्युद्गमनहेतुत्वात् पक्षिसदृशः ॥ ६० ॥

एकषष्टी।
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: ।
र॒थीत॑मᳪं᳭ र॒थीनां॒ वाजा॑ना॒ᳪं᳭ सत्प॑तिं॒ पति॑म् ।। ६१ ।।
उ०. निधायैनमतिक्रामन्ति चतसृभिः । इन्द्रं विश्वा इति व्याख्यातम् ॥ ६१ ॥
म० निधायैनमतिक्रामन्तीन्द्रं विश्वा इति' (का० १८ । ३ । २७)। एनं पृश्न्यश्मानं क्वचिद् गुप्ते देशे स्थापयित्वा सर्वे चयनं प्रति गच्छन्ति इन्द्रं विश्वा इत्याद्यृक्चतुष्टयेनेत्यर्थः । व्याख्याता (अ० १२ । क० ५६ ) ॥ ६१॥

द्विषष्टी।
दे॒व॒हूर्य॒ज्ञ आ च॑ वक्षत्सुम्न॒हूर्य॒ज्ञ आ च॑ वक्षत् ।
यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ२ आ च॑ वक्षत् ।। ६२ ।।
उ० देवहूर्यज्ञः । तिस्रोऽनुष्टुभः । आद्ये द्वे उष्णिहौ वा। यो देवहूः देवान् आह्वयति यज्ञः । सच अवक्षत् आवहतु च देवान् । यजतु चेति चकारः समुच्चयार्थीयः। यश्च सुम्नहूः। | सुम्नमिति सुखनाम । सुखमाह्वयति यज्ञः स आवहतु च देवान् यजतु । किंच यक्षन् यजतु च अग्निः देवः देवान् आचवक्षत् आवहतु च ॥ ६२ ॥
म० विधृतिदृष्टा यज्ञदेवत्यानुष्टुप् । देवानाह्वयतीति देवहूः देवानामाह्वाता यज्ञो देवानावक्षत् आवहतु । चकारः समुच्चये । यजतु च । सुम्नं सुखं धनपुत्रकलत्राद्युत्थमाह्वयति सुम्नहूः सुखकरो यज्ञो देवानावक्षत् आवहतु । अग्निर्देवश्च देवानावक्षत् आवहतु यक्षत् यजतु च । वक्षत् यक्षत् वहतेर्यजेश्व 'सिब्बहुलं लेटि' (पा. ३ । १। ३४ ) सिप्प्रत्ययः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः 'इतश्च लोपः' । (पा० ३ । ४ । ९७ ) इति तिप इकारलोपः ॥ ६२॥

त्रिषष्टी।
वाज॑स्य मा प्रस॒व उ॑द्ग्रा॒भेणोद॑ग्रभीत् ।
अधा॑ स॒पत्ना॒निन्द्रो॑ मे निग्रा॒भेणाध॑राँ२ अकः ।। ६३ ।।
उ० वाजस्य मा वाजस्यान्नस्य । मा माम् । प्रसवः प्रसूतिरुत्पत्तिः अभ्यनुज्ञा वा । उद्ग्राभेण उद्ग्रहणेन । ऊर्ध्वं हि गृह्य दीयत इति उद्ग्रहणं दानं तेनेत्यर्थः । उदग्रहीत् उद्गृह्णीयात् । 'हृग्रहोर्भश्छन्दसि' हस्येति हकारस्य भकारः। | अध अथ समनन्तरमेव सपत्नान् इन्द्रः मे मम निग्राभेण नीचैर्ग्रहणेन । नीचैर्हि हस्तं कृत्वा भिक्षादिर्गृह्यते याचिष्णुतया अनन्नतया च । अधरान् अधोगमनान् अक: करोतु ॥ ६३ ॥
म० इन्द्रदेवत्यानुष्टुप् । वाजस्यान्नस्य प्रसवः प्रसूतिः उत्पत्तिः अनुज्ञा वा उद्ग्राभेण 'हृग्रहोर्भश्छन्दसि' उद्ग्राभेण उद्ग्रहणेन ऊर्ध्वं विगृह्य दीयत इत्युद्ग्रहणं दानं तेन मामुदग्रभीत् उदग्रहीत् उद्गृह्णातु । अध अथ निग्राभेण निग्राहेण नीचैर्ग्रहणेन नीचैर्हस्तं कृत्वा भिक्षादिः प्रार्थ्यते याचिष्णुतया अन्नाभावेन वा इन्द्रो मे मम सपत्नान् शत्रूनधरानधमान् तिरस्कृतान् अकः करोतु मां दातारं करोतु । शत्रून् भिक्षून् करोत्वित्यर्थः । करोतेर्लङि 'बहुलं छन्दसि' (पा० २ । ४ । ७३ ) शपि लुप्ते गुणे तिपि लुप्ते अक इति रूपम् ॥ ६३ ॥

चतुःषष्टी।
उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् ।
अधा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॒स्यताम् ।। ६४ ।।
उ० उद्ग्राभं च । उद्ग्राभं च अस्मद्विषयं निग्राभं च शत्रुविषयम् । ब्रह्म च त्रयीलक्षणं यज्ञविषयम् । देवाः अवीवृधन् वर्धयन्तु । अध अथ सपत्नान् । इन्द्राग्नी मे मम । विषूचीनान् विष्वगञ्चनान् नानागतीन्कृत्वा । व्यस्यतां विक्षिपन्ताम् अपुनरागमनाय ॥ ६४ ॥
म० इन्द्राग्निदेवत्यानुष्टुप् । देवा उद्ग्राभमुद्ग्राहमस्मद्विषयमुत्कर्षं निग्राभं निग्राहं शत्रुविषयमपकर्षं ब्रह्म त्रयीलक्षणं यज्ञविषयमवीवृधन्वर्धयन्तु । अध अथानन्तरं मे मम सपत्नान् शत्रून् विषूचीनान् विष्वगञ्चनान्नानागतीन्कृत्वा इन्द्राग्नी द्वौ व्यस्यतां विनाशयेतामपुनरागमनाय क्षिपतामित्यर्थः ॥ ६४ ॥

पञ्चषष्टी ।
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ᳪं᳭ हस्ते॑षु॒ बिभ्र॑तः ।
दि॒वस्पृ॒ष्ठᳪं᳭ स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ।। ६५ ।।
उ० चित्यमारोहन्ति पञ्चभिः । क्रमध्वमग्निना । अनुष्टुप् । हे ऋत्विग्यजमानाः । क्रमध्वम् आक्रमध्वम् । अग्निना चित्येन लोककालाग्न्यादिवपुषा । नाकं दिवम् । उख्यम् उखायां धृतम् अग्निम् उख्यम् । हस्तेषु बिभ्रतः धारयमाणाः। ततो दिवः पृष्ठमारुह्य स्वर्गलोकं गत्वा मिश्राः समानलोकस्थानायुषः सन्तः देवेभिः देवैः सह आध्वम् आसनं कुरुत देवीभूताः । आसेरेतद्रूपम् । ध्वसमित्यत्र सकारलोपेन ॥ ६५॥
म० 'क्रमध्वमग्निनेति चित्यमारोहन्ति' ( का० १८ । ४ । १)। ते ऋत्विजः क्रमध्वमिति पञ्चभिस्तीर्थेन चित्याग्निमारोहन्तीत्यर्थः । आग्नेय्यनुष्टुप् । हे ऋत्विग्यजमानाः, यूयमग्निना चित्येन कृत्वा नाकं स्वर्गलोकं क्रमध्वमाक्रमत 'स्वर्गो वै लोको नाकः' ( ९।२।३ । २४ ) इति श्रुतेः । किंभूता यूयम् । उखायां संस्कृतमुख्यमग्निं हस्तेषु बिभ्रतः धारयन्तः ।यद्वा उख्यमग्निं हस्तेषु बिभ्रतः सन्तोऽग्निनानेकचित्याग्निना सह क्रमध्वम् चित्युपरि पादान् कुरुत आरोहध्वमित्यर्थः। ततो दिवोऽन्तरिक्षस्य पृष्ठं स्वः स्वर्गं गत्वा देवेभिर्देवैः मिश्राः संयुताः सन्तः आध्वं तिष्ठत आस उपवेशने लोट् मध्यमबहुवचनं शपो लोपः 'धि च' (पा० ८।२।२५) इति मलोपः ॥ ६५ ॥

षट्षष्टी।
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पुरो अ॑ग्निर्भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।। ६६ ।।
उ० प्राचीमनु त्रिष्टुप् । प्राचीं दिशम् अनु प्रेहि प्रगच्छ । विद्वान् स्वमधिकारं जानानः । अग्नेः इष्टकास्थलरूपस्य । हे अग्ने उख्यरूप प्रणीयमान, पुरो अग्निः पुरोगामी अग्निर्भव इह यज्ञे । ततो विश्वाः सर्वाः आशाः दिशः दीद्यानः आभासयन् विभाहि विविधं दीप्यस्व । ऊर्जं च नः धेहि । द्विपदे चतुष्पदे द्विपाद्भ्यः चतुष्पाद्भ्यश्च ॥ ६६ ॥
म०. आग्नेयी त्रिष्टुप् । हे अग्ने इदानीमानीत उख्य वह्ने, प्राचीं प्रदिशं प्रागाख्यां प्रकृष्टां दिशमनु लक्षीकृत्य त्वं प्रेहि प्रकर्षेण गच्छ । कीदृशस्त्वम् । विद्वान् स्वाधिकारं जानानः । गत्वा च हे अग्ने, इहास्मिन् प्रदेशे अग्नेः इष्टकानिष्पादितस्य चितिरूपस्याग्नेः पुरोऽग्निर्भव पुरः अग्रे अङ्गति गच्छतीति - पुरोऽग्निः पुरोगन्ता मुख्यो भव 'प्रकृत्यान्तःपादमव्यपरे' (पा.६।१।११५) इति सन्ध्यभावः । किंच विश्वाः सर्वाः आशा दिशो दीद्यानः दीपयन् प्रकाशयन् सन् त्वं विभाहि विशेषेण दीप्यस्व । ततो नोऽस्माकं द्विपदे पुत्रादिकाय चतुष्पदे गवादिकाय ऊर्जमन्नं धेहि संपादय ॥ ६६ ॥

सप्तषष्टी।
पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒माऽरु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् ।
दि॒वो नाक॑स्य पृ॒ष्ठात् स्व॒र्ज्योति॑रगाम॒हम् ।। ६७ ।।
उ० पृथिव्या अहम् । पिपीलिकमध्या बृहती। यजमान आह । पृथिव्याः सकाशात् अहम् उदन्तरिक्षमारुहम् ऊर्ध्वक्रमेण अन्तरिक्षमारूढः । अन्तरिक्षाच्च दिवमारुहं द्युलोकमारूढः । दिवः नाकस्य पृष्ठमारूढः । नाकस्य पृष्ठाच्च स्वरादित्याख्यं ज्योतिः अगाम् आगतः प्राप्तोऽहं क्षिमीभूतः (?)। 'गार्हपत्यादाग्नीध्रीयमागच्छन्त्यादाग्नीध्रीयादाहवनीयम् ' इत्यादिश्रुतिः अग्नीनां लोकसंस्तवं दर्शयति ॥ ६७ ॥
म० आग्नेयी पिपीलिकमध्या बृहती आद्यतृतीयौ त्रयोदशार्णौ द्वितीयोऽष्टकः सा पिपीलिकमध्या बृहती 'त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या' इति वचनात् अत्राद्यस्त्रयोदशः द्वितीयो नवकः तृतीयश्चतुर्दशक इति षट्त्रिंशदक्षरत्वाद् बृहती 'त्रिपादणिष्ठमध्या पिपीलिकमध्या' इति वचनात्पिपीलिकमध्या च । यजमान आह अहं पृथिव्या उत् उद्गतः सन् अन्तरिक्षमारुहमारूढोऽस्मि । तस्मादन्तरिक्षादुद्गतो दिवमारुहं द्युलोकमारूढोऽस्मि । दिवो द्युलोकस्य यो नाको दुःखरहितः प्रदेशः तस्य पृष्ठादुपरिभागात् स्वः ज्योतिः स्वर्गलोकस्थं ज्योतिरादित्यमण्डलमहमगां गतोऽस्मि प्राप्स्यामीत्यर्थः । 'इणो गा लुङि' (पा० २।४ । ४५ ) इति गादेशः ॥ ६७ ॥
सत्रस्य ऋद्धिः साम

अष्टषष्टी।
स्व॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्याᳪं᳭ रो॑हन्ति॒ रोद॑सी ।
य॒ज्ञं ये वि॒श्वतो॑धार॒ᳪं᳭ सुवि॑द्वाᳪं᳭सो वितेनि॒रे ।। ६८ ।।
उ०. स्वर्यन्तः अनुष्टुप् । अत्र द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । यज्ञं ये यजमानाः । विश्वतोधारं सर्वतोधारम् । आहुति दक्षिणान्नानि यज्ञस्य धाराः । ताभिर्ह्येष वर्षति । यद्वा विश्वस्य जगतो धारयितारम् । वैश्वानरमारुतवसोर्धारा । वाजस्य प्रसवीयानि धारा वा यज्ञस्य । सुविद्वांसः ज्ञानकर्मसमुच्चयकारिणः वितेनिरे वितन्वन्ति । स्वर्यन्तः स्वर्लोकं गच्छन्तः नापेक्षन्ते पुत्रपश्वादिकृतकृत्यत्वात् । आरोहन्ति हि द्यां रोदसी । दिव एतद्विशेषणम् नतु द्यावापृथिव्योरभिधानं दिव इति । स्वःशब्दोपादानसामर्थ्यात् । कथंभूतां द्यामारोहन्ति । रोदसी रोध्री जरामृत्युशोकादीनाम् ॥ ६८ ॥
म०. आग्नेयी अनुष्टुप् । सुष्ठु विदन्ति जानन्ति ते सुविद्वांसः ज्ञानकर्मसमुच्चयकारिणः ये सुविद्वांसो यज्ञं वितेनिरे वितन्वन्ति अनुतिष्ठन्ति । कीदृशं यज्ञम् । विश्वतोधारं विश्वतो धारा यस्य तम् । आहुतिदक्षिणान्नानि यज्ञस्य धाराः वैश्वानरमारुतपूर्णाहुतिवसोर्धारावाजप्रसवीयानि वा यज्ञस्य धाराः । यद्वा विश्वस्य जगतो धारयितारम् । ते यज्ञकर्तारः स्वः स्वर्गं यन्तो गच्छन्तो नापेक्षन्ते पुत्रपश्वाद्यपेक्षां न कुर्वते कृतकृत्यत्वात् । द्यां स्वर्गं चारोहन्ति । कीदृशी द्याम् । रोदसी रुणद्धि जरामृत्युशोकादीन् सा रोदसी ताम् । धस्य दादेशश्छान्दसः । पूर्वंसवर्णदीर्घः दिवो विशेषणं न तु द्यावापृथिव्योरभिधानं दिव इत्युपादानात् । यद्वा ये यजमानाः सुविद्वांसः सुष्ठु कर्मप्रकारं जानन्तः विश्वतोधारं जगद्धरणहेतुं यज्ञं वितन्वन्ति विशेषेण कुर्वन्ति ते यजमाना द्यामन्तरिक्षमारोहन्ति तथा रोदसी द्यावाभूमी आरोहन्ति । ततः स्वर्यन्तः स्वर्गस्थमादित्यमण्डलं प्राप्नुवन्तोऽन्यत्किमपि स्थानं नापेक्षन्ते ॥ ६८ ॥

एकोनसप्ततितमी।
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
इय॑क्षमाणा॒ भृगु॑भिः स॒जोषा॒: स्व॒र्यन्तु॒ यज॑मानाः स्व॒स्ति ।। ६९ ।।
उ० अग्ने प्रेहि प्रयाहि । प्रथमः देवयताम् देवान्यष्टुमिच्छताम् । यस्त्वं चक्षुः देवानामुतापि च मर्त्यानां मनुष्याणाम् । ततस्त्वयि प्रथमं प्राप्ते सति । इयक्षमाणाः भृगुभिः यागं कुर्वाणाः । भृगुग्रहणमार्षेयानूचानब्राह्मणोपलक्षणार्थम् । सजोषाः समानजोषणाश्च देवैः सन्तः । स्वर्लोकं यन्तु यजमानाः । स्वस्ति अविनाशेन ॥ ६९॥
म० आग्नेयी त्रिष्टुप् । हे अग्ने, त्वं देवयतां देवानिच्छतां यजमानानां प्रथमः प्रेहि पुरतः प्रकर्षेण गच्छ । देवानिच्छन्ति देवयन्ति देवयन्तीति देवयन्तः तेषाम् 'सुप आत्मनः क्यच' (पा० ३ । १।८) इति क्यजन्ताच्छतृप्रत्ययः 'क्यचि च' (पा. ७ । ४ । ३३) इतीत्वे प्राप्ते 'न छन्दस्यपुत्रस्य' (पा० ७ । ४ । ३५ ) इति तदभावः । कथं मयाग्रतो गन्तव्यं तत्राह । यतस्त्वं देवानामुतापि च मर्त्यानां मनुष्याणां चक्षुःस्थानीयः । लोकेऽपि गच्छतः पुरुषस्य दृष्टिः पुरतो याति । | किंच यष्टुमिच्छन्ति इयक्षमाणाः । अभ्यासे यलोपश्छान्दसः । इयक्षमाणा यष्टुमिच्छन्तो यजमानाः स्वस्ति यथा तथा अविनाशेन स्वः स्वर्गं यन्तु प्राप्नुवन्तु । कीदृशाः । भृगुभिः भृगुगोत्रविप्रैः सजोषाः समानो जोषः प्रीतिर्येषां ते । भृगुग्रहणमनूचानब्राह्मणोपलक्षणम् । उत्तमविप्रैः प्रीतिमन्तः ॥ ६९॥

सप्ततितमी।
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ᳪं᳭ समी॒ची ।
द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ।। ७० ।।
उ० पयसाभिजुहोति । नक्तोषासा व्याख्यातम् ॥७०॥
म०. 'स्वयमातृण्णामध्यग्निं धारयंच्छुक्लवत्सापयसाभिजुहोति कृष्णाया दोहनेन स्वयमातृण्णामवसिञ्चन्नक्तोषासेति' ( का. १८ । ४ । २ ) । अध्वर्युः स्वयमातृण्णेष्टकोपरि समीपे प्रतिप्रस्थात्रा तमग्निं धारयन् कृष्णवर्णायाः श्वेतवत्साया गोर्दुग्धेन दोहनेन मृण्मयदोहनपात्रेण जुहूस्थानीयेन स्वयमातृण्णां सिञ्चनिध्मस्थेऽग्नौ जुहोति नक्तोषासेत्यृग्द्वयेनेत्यर्थः । व्याख्याता द्वादशे ( अ० १२ । क० २)॥ ७० ॥

एकसप्ततितमी।
अग्ने॑ सहस्राक्ष शतमूर्धञ्छ॒तं ते॑ प्रा॒णाः स॒हस्रं॑ व्या॒नाः ।
त्वᳪं᳭ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ।। ७१ ।।
उ० अग्ने सहस्राक्ष । आग्नेयीविराट् । हे अग्ने सहस्राक्ष, हिरण्यशकलैर्वा एष सहस्राक्षः । शतमूर्धन् । यददः शतशीर्षा रुद्रोऽसृजत । यस्य च तव शतं प्राणाः सहस्रं व्यानाः । यश्च त्वं साहस्रस्य रायो धनस्य हविर्लक्षणस्य ईशिषे । तस्मै ते तुभ्यम् विधेम । विधतिर्दानकर्मा । दद्मः । वाजाय वाजमिति विभक्तिव्यत्ययः । वाजमन्नं हविर्लक्षणम् । स्वाहा सुहुतमस्तु ॥ ७१ ॥
म० आग्नेयी विराट्पङ्क्तिः दशाक्षरचतुःपादा । हे अग्ने । सहस्राक्ष, सहस्रमक्षीणि यस्य तत्संबुद्धिः हिरण्यशकलान्येव नेत्राणि । तथाच श्रुतिः 'हिरण्यशकलैर्वा एष सहस्राक्षः' ( ९ । २ । ३ । ३२) इति । हे शतमूर्धन् , शतं मूर्धानो यस्य । 'यददः शतशीर्षा रुद्रोऽसृज्यत' ( ९ । २ । ३ । ३२) इति श्रुतेः । यस्य तव शतं प्राणाः सहस्रं व्यानाः । शतसहस्रशब्दावपरिमितवचनौ । यश्च त्वं साहस्रस्य सहस्रपरिमितस्य रायः धनस्य ईशिषे प्रभुर्भवसि । सहस्रादण्प्रत्ययः । तस्मै तादृशाय । ते तुभ्यं वयं वाजाय विधेम वाजमन्नं हवीरूपं दद्मः । वाजमिति विभक्तिव्यत्ययः । विधतिर्दानकर्मा । स्वाहा एतद्धविः सुहुतमस्तु ॥ ७१ ॥

द्विसप्ततितमी।
सु॒प॒र्णो॒ऽसि ग॒रुत्मा॑न् पृ॒ष्ठे पृ॑थि॒व्याः सी॑द ।
भा॒साऽन्तरि॑क्ष॒मापृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृ॑ᳪं᳭ह ।। ७२ ।।
उ० स्वयमातृण्णायामग्निं निदधाति । सुपर्णोऽसीति द्वाभ्यामाग्नेयीभ्यां पङ्क्तित्रिष्टुब्भ्याम् । यस्त्वं सुपर्णवदसि । गरुत्मान् गरणवान् अशनायावानित्यर्थः । स पृष्टे पृथिव्याः सीद आस्थानं कुरु । भासा च दीप्त्यान्तरिक्षम् आपृण आपूरय । ज्योतिषा च दिवम् उत्तभान उत्स्तभान उत्तम्भय । तेजसा दिशः उद्दृᳪं᳭ह तेजसा च दिशः दृढीकुरु । आदीपनार्थो वा दृंहतिः ॥ ७२ ॥
म० 'तस्यामग्निं निदधाति सुपर्णोऽसीति वषट्कारेण' (का. १८ । ४ । ४)। स्वयमातृण्णायां सुपर्णोऽसीति ऋग्द्वयेन वषट्कारेण चाग्निं स्थापयतीत्यर्थः । अग्निदेवत्या पङ्क्तिः । हे अग्ने, त्वं सुपर्णोऽसि सुपर्णपक्ष्याकारो गरुडसमानोऽसि । गरुत्मान् गरुत् गरणं गलनं भक्षणमस्यास्तीति गरुत्मान् अशनायावानित्यर्थः । अतः पृथिव्याः पृष्ठे उपरि सीद उपविश । भासा स्वप्रकाशेन अन्तरिक्षमापृण सर्वतः पूरय । ज्योतिषा स्वसामर्थ्येन दिवं द्युलोकमुत्तभान ऊर्ध्वं स्तम्भितं कुरु स्तम्भेः 'हलः श्नः शानज्झौ' (पा० ३।१। ८३ ) इति श्नाप्रत्ययस्य शानजादेशः । तथा तेजसा स्वेन दिश उद्दृंह उत्कर्षेण दृढीकुरु दीपय वा ॥ ७२॥

त्रिसप्ततितमी।
आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वं योनि॒मा सी॑द साधु॒या ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत ।। ७३ ।।
उ० आजुह्वानः अभिहूयमानः । सुप्रतीकः सुसुखः सन् । पुरस्तात् पूर्वस्यां दिशि । हे अग्ने, स्वं योनिं स्थानम् आसीद अधितिष्ठ साधुया साधुक्रियाविशेषणत्वेन श्रुत्या व्याख्यातम् । यूयमपि च हे विश्वेदेवाः, यजमानश्च सीदत अवस्थानं कुरुत । अस्मिन् सधस्थे सहस्थाने । अधियज्ञे स्वर्गाख्ये । 'स्वर्गो वै लोकः सधस्थः' इति श्रुतिः। अध्युत्तरस्मिन् सर्वोत्कृष्टे । अत्र तृतीयः पादः पश्चाद्व्याख्यायते अर्थसंबन्धात् ॥ ७३ ॥७३॥
म०. आग्नेयी त्रिष्टुप् । हे अग्ने, त्वमाजुह्वानः आहूयमानः सन् सुप्रतीकः शोभनं प्रतीकं सुखं यस्य सुमुखः सन् पुरस्तात्पूर्वस्यां दिशि साधुया साधुं समीचीनं । विभक्तेर्यादेशः । स्वं योनिं स्थानमासीद अधितिष्ठ । हे विश्वेदेवाः, यूयं यजमानश्च अस्मिन् पुरोवर्तिनि अध्युत्तरस्मिन् अधिकमुत्कृष्टे सधस्थे अग्निना सह स्थातुं योग्यस्थाने सीदत यज्ञाख्ये स्वर्गे उपविशत । 'द्यौर्वा उत्तरं सधस्थं' ( ९ । २ । ३ । ३५) इति श्रुतेः ॥ ७३ ॥

चतुःसप्ततितमी।
ताᳪं᳭ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाऽहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् ।
याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नाᳪं᳭ स॒हस्र॑धारां॒ पय॑सा म॒हीं गाम् ।। ७४ ।।
उ० तिस्रः समिध आदधाति तिसृभिर्ऋग्भिः । अत्र कण्वः सावित्र्या त्रिष्टुभा पुरस्ताज्योतिषा धेनुं कामदोहनीं पयो ययाचे । ताᳪं᳭सवितुः तां सवितुः संबन्धिनीम् । वरेण्यस्य वरणीयस्य चित्रां चायनीयाम् । आवृणे आवृणोमि स्वीकरोमि । सुमतिम् कल्याणमतिम् । विश्वजन्याम् सर्वजनेभ्यो हिताम् । यां सुमतिं प्राप्य अस्य सवितुः संबन्धिनीम् कण्वः अदुहत् दुग्धवान् । प्रपीनां पूरितां पयसा । सहस्रधारां बहुधारां बहुनो वा कुटुम्बस्य धारयित्रीम् । महीं महतीं गाम् ॥ ७४ ॥
म० 'समिदाधानᳪं᳭ शामिलीवैकङ्कत्यौदुम्बर्यस्तᳪं᳭ सवितुरिति प्रत्यृचम्' ( का० १८ । ४ । ६)। अग्निनिधानानन्तरमध्वर्युस्तत्राग्नौ समित्त्रयमादधाति तां सवितुरिति शमीमयीं विधेमेति वैकङ्कतीं प्रेद्धो अग्न इत्यौदुम्बरीमित्यर्थः । कण्वदृष्टा सावित्री त्रिष्टुप् । वरेण्यस्य वरणीयस्य सवितुः संबन्धिनीं तां सुमतिं शोभनबुद्धिमहमावृणे आभिमुख्येन वृणोमि स्वीकरोमि । कीदृशीं सुमतिम् । चित्रां चायनीयां स्वापेक्षितबहुविधफलदानसमर्थाम् । विश्वजन्यां सर्वजनेभ्यो हिताम् । यद्वा विश्वं जन्यमुत्पाद्यं यस्याः सा विश्वजन्या ताम् जगदुत्पादनसमर्थाम् । तां कां । कण्वो मुनिरस्य सवितुर्यां सुमतिमेव गां धेनुमदुहत् अनुग्रहकारिणी बुद्धिं दुग्धवान् । कीदृशीम् । प्रपीनां प्रकर्षेण पीनां पयसा पूरिताम् सहस्रधारां सहस्रं धारा यस्यास्ताम् सहस्रक्षीरधारायुक्ताम् । यद्वा बहुनः कुटुम्बस्य धारयित्रीम् । पयसा दुग्धेन महीं महतीम् बहुदुग्धामित्यर्थः । सर्वसिद्धिदात्रीम् । रवेर्मतिर्या कण्वेन दुग्धा तामहं वृणे इति सर्वार्थः ॥ ७४ ॥

पञ्चसप्ततितमी।
वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ ।
यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वीᳪं᳭षि॑ जुहुरे॒ समि॑द्धे ।। ७५ ।।
उ० विधेम ते । त्रिस्थानोऽग्निर्देवता त्रिष्टुप् । विधेम । विदधातिर्दानकर्मा । दद्मः ते तुभ्यम् । परमे जन्मन् हे अग्ने, परमे जन्मनि जाताय आदित्यात्मना स्थिताय । 'द्यौर्वा अस्य परमं जन्म' । विधेम स्तोमैः स्तुतिभिः । अवरे सधस्थे स्थिताय विद्युदात्मना । 'अन्तरिक्षं वा अवरं सधस्थम् । यस्मात् योनेः उत् आरिथा 'ऋ गतौ' । अस्यैतद्रूपम् । यस्माच्च स्थानादुद्गतोऽसि यजे तत्स्थानमहम् । 'एष वा अस्य स्वो योनिः' एष इति चित्योग्निरुच्यते । किंच प्रत्वे हवीᳪं᳭षि जुहुरे समिद्धे जुहोमि त्वयि हवींषि समिद्धे सम्यग्दीप्ते ॥ ७५॥
म० गृत्समददृष्टा त्रिस्थानाग्निदेवत्या त्रिष्टुप् । हे अग्ने, परमे जन्मन् परमे जन्मनि दिवि आदित्यात्मना स्थिताय ते तुभ्यं वयं विधेम हविर्दद्मः । 'द्यौर्वा अस्य परमं जन्म' (९। २।३ । ३९) इति श्रुतेः। अवरे सधस्थे दिवोऽवाचीने सहस्थानेऽन्तरिक्षे स्थिताय विद्युद्रूपाय ते स्तोमैः स्तोत्रैर्वयं विधेम परिचरेम । 'अन्तरिक्षं वा अवरᳪं᳭ सधस्थम्' (९।२।३। ३९) इति श्रुतेः । हे अग्ने, यस्माद्योनेः इष्टकाचितिरूपात् स्थानात् त्वमुदारिथ उद्गतोऽसि 'ऋ गतौ' लिट् संहितायां दीर्घः। तं योनिमहं यजे पूजयामि । ततः समिद्धे सम्यक् प्रज्वलिते त्वे त्वयि हवींषि प्रजुहुरे प्रजुहुविरे प्रजुह्वति ऋत्विजः ‘इरयो रे' (पा० ६ । ४ । ७६ ) इति इरेप्रत्ययस्य रे आदेशः। “एष वा अस्य स्वो योनिः' (९।२।३ । ३९ ) इति श्रुतेः। एष चित्योऽग्निः ॥ ७५ ॥

षट्सप्ततितमी।
प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॒ यविष्ठ ।
त्वाᳪं᳭ शश्व॑न्त॒ उप॑ यन्ति॒ वाजा॑: ।। ७६ ।।
उ० प्रेद्धो अग्ने । आग्नेयीविराट् । प्रकर्षेण इद्धः दीप्तः सन् हे अग्ने, भूयोऽपि दीदिहि दीप्यस्व । पुरः अग्रतः नोsस्माकं व्यवस्थितः । एतया अजस्रया अनुपक्षीणया। सूर्म्या समित्काष्ठिकया । सूर्मीशब्दः काष्ठवचनः । 'सूर्मीं ज्वलन्तीं वाश्लिष्यात्' इति च स्मृतिः । हे यविष्ठ युवतम । यतश्च त्वामेव शश्वन्तः शाश्वतिकाः । उपयन्ति उपगच्छन्ति । वाजाः अन्नानि अतो दीदिहीति संबन्धः ॥ ७६ ॥
म० वसिष्ठदृष्टाग्निदेवत्या विराडनुष्टुप् दशकास्त्रयो विराडित्युक्तेः । हे यविष्ठ, अतिशयेन युवा यविष्ठः 'अतिशायने तमबिष्ठनौ' 'स्थूलदूरयुव-' (पा० ६।४।१५६ ) इत्यादिना वलोपे पूर्वगुणः । हे युवतम, हे अग्ने, त्वं नोऽस्माकं पुरोऽग्रे दीदिहि दीप्यस्व । दीव्यतेर्विकरणव्यत्ययेन जुहोत्यादित्वाच्छपः श्लौ द्वित्वम् 'तुजादीनाम् -' (पा० ६ । १ । ७) इति पूर्वदीर्घः । किंभूतस्त्वम् । अजस्रयानुपक्षीणया सूर्म्या समित्काष्ठेन प्रेद्धः प्रकर्षे दीप्तः । सूर्मीशब्दः काष्ठवाचकः । यद्वा लोहमयी ज्वलन्ती स्थूणा सूर्मी । अजस्रया सूर्म्या सूर्मीसमानया ज्वालया दीदिहि । सूर्मीशब्दो ज्वालोपलक्षकः । हे अग्ने यतः शश्वन्तो निरन्तरभाविनो वाजाः अन्नानि हवींषि त्वामुपयन्ति प्राप्नुवन्ति अतो दीप्यस्वेत्यर्थः ॥ ७६ ॥

सप्ततितमी।
तम॒द्याश्वं॒ न स्तोमै॒: क्रतुं॒ न भ॒द्रᳪं᳭ हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहै॑: ।। ७७ ।।
उ० तिस्र आहुतीर्जुहोति । अग्ने तमद्येति व्याख्यातम् ॥ ७७ ॥
म० 'स्रुवाहुती जुहोत्यग्ने तमद्येति प्रत्यृचम्' (का० १८।४। ८)। समिध आधायाग्ने तमिति ऋग्द्वयेन स्रुवेण द्वे घृताहुती तत्राग्नौ जुहोतीत्यर्थः । व्याख्याता (अ० १५। क०४४) ॥७७॥

अष्टसप्ततितमी।
चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हागम॑न्वी॒तिहो॑त्रा ऋता॒वृध॑: ।
पत्ये॒ विश्व॑स्य॒ भूम॑नो जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वाहाऽदा॑भ्यᳪं᳭ ह॒वि: ।। ७८ ।।
उ० चित्तिं जुहोमि । वैश्वकर्मणी जगत्यतिजगती वा। चित्तिमचित्तमेषामृत्विग्यजमानानाम् जुहोमि अग्निसंबन्धं करोमि । अग्नितत्त्वपरिज्ञानचिन्तनसन्तानं करोमीत्यर्थः । मनसा च घृतेन च सह । तथा जुहोमि । यथा देवा इहागमन् इह आगच्छेयुः । कथंभूताः । वीतिहोत्राः कामितयज्ञाः । होत्रा इति यज्ञनामसु पठितम् । ऋतावृधः सत्यवृधः । किंच । पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे । अधिपतिभूताय विश्वस्य भूतग्रामस्य । जुहोमि विश्वकर्मणे विश्वाहा सर्वदा । अदाभ्यम् अनुपक्षीणम् हविः ॥ ७८ ॥
म० विश्वकर्मदेवत्यातिजगती । मनसा घृतेन च सह चित्तिमृत्विग्यजमानानां चित्तिं जुहोमि अग्निसंबद्धं करोमि । अग्नितत्त्वपरिज्ञानार्थ चिन्तनं सन्तानं करोमीत्यर्थः । संकल्पविकल्पात्मकं मनः । निश्चयात्मकं चित्तम् । तथा जुहोमि । यथा इह यज्ञे देवा आगमन् आगच्छेयुः । 'पुषादि-' (पा० ३ । १। ५५) इत्यादिना गमेर्लुङि च्लेरङ । कीदृशा देवाः । वीतिहोत्राः । होत्रा इति यज्ञनाम । वीतिरभिलाषो होत्रा येषां ते वीतिहोत्राः कामितयज्ञाः । ऋतावृधः ऋतं सत्यं यज्ञं वा वर्धयन्ति ते ऋतवृधः । संहितायां दीर्घः । किंच विश्वाहा । विश्वानि च तान्यहानि च विश्वाहा सर्वेष्वहःसु अदाभ्यमनुपहतं स्वादु हविः विश्वकर्मणे प्रजापतये जुहोमि । कीदृशाय विश्वकर्मणे । भूमनो भूम्नो महतो विश्वस्य जगतः पत्ये स्वामिने। भूमन इत्यत्रोपधालोपाभाव आर्षः ॥ ७८ ॥

एकोनाशीतितमी।
स॒प्त ते॑ अग्ने स॒मिध॑: स॒प्त जि॒ह्वाः स॒प्त ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्रा॑: सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्व घृ॒तेन॒ स्वाहा॑ ।। ७९ ।।
उ० सप्त वाग्नेयी । सप्त ते तव हे अग्ने, समिधः समिन्धनाः प्राणाः यतः सन्ति । यतश्च सप्त जिह्वाः तव सन्ति। सप्तपुरुषान्संहृत्यैकीकृतोऽयमग्निस्तदभिप्रायमेतत् । यतश्च सप्त ऋषयः तव यष्टारः सन्ति । यतश्च सप्त धामानि प्रियाणि । सप्त छन्दांसि प्रियाणि तव सन्ति । यतश्च सप्त होत्राः आग्नीध्रपर्यन्ताः । सप्तधा त्वा त्वां यजन्ति । अतो ब्रवीमि सप्त योनीः सप्त चितीः आपृणस्व आपूरयस्व घृतेन । स्वाहा सुहुतं चैतद्धविर्भवतु ॥ ७९ ॥
म० पूर्णाहुतिं च सप्त त इति' ( का० १८ । ४ । ९)। स्रुचा पूर्णाहुतिं जुहोति घृतपूर्णया स्रुचा' आहुतिः पूर्णाहुतिरित्यर्थः । सप्तर्षिदृष्टा अग्नेयी द्व्यधिका त्रिष्टुप् । हे अग्ने, ते तव सप्त समिधः समिन्धनाः प्राणाः शीर्षण्याः सन्ति । 'प्राणा वै समिधः प्राणा ह्येतᳪं᳭ समिन्धते' ( ९ । २ । ३ । ४४ ) इति श्रुतेः । किंच तव सप्त जिह्वाः सन्ति ज्वालारूपाः सप्त जिह्वाः हिरण्याङ्गणाद्याः(?) आगमोक्ताः । यद्वा आथर्वणिकोक्ताः 'काली कराली च मनोजवा च विलोहिता चापि सधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः' (मुण्ड० १। २) इति। तथा सप्त ऋषयः मरीच्यादयस्तव द्रष्टारः सन्ति । तथा सप्त प्रियाणि धाम धामानि छन्दांसि गायत्र्यादीनि तव सन्ति । 'छन्दाᳪं᳭सि वा अस्य सप्त धाम प्रियाणि' ( ९ । २।३। ४४ ) इति श्रुतेः । यद्वा धामानि स्थानानि आहवनीयगार्हपत्यदक्षिणाग्निसभ्यावसथ्यप्राजाहिताग्नीध्रीयाणि सोमयागे वह्निधारकाणि सन्ति । किंच हे अग्ने, सप्त होत्राः होत्रादय ऋत्विजः सप्तधा सप्तप्रकारैरग्निष्टोमादिसप्तसंस्थाभिः त्वा त्वां यजन्ति । होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाग्नीध्रोऽच्छावाकश्चेति सप्त होत्राः । अग्निष्टोमोऽत्यमिष्टोम उक्थ्यः षोडश्यतिरात्र आप्तोर्यामो वाजपेयश्चेति सप्तसंस्थाः प्रकाराः । हे अग्ने, स त्वं सप्त योनीः चितीः घृतेनापृणस्व 'सप्त योनीरिति चितीरेतदाह सप्तचितिकोऽग्निः' ( ९ । २। ३ । ४४ ) इति च श्रुतेः । स्वाहा सुहुतमस्तु । यद्वा 'यज्ञो वै स्वाहाकारः' ( ९ । २ । ३ । ४४ ) इति श्रुतेः । स्वाहा यज्ञरूपः त्वं सप्त योनीर्घृतेनापृणस्व 'पृण तृप्तौ' तुदादिः ॥ ७९ ॥

अशीतितमी
शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माँश्च ।
शु॒क्रश्च॑ ऋत॒पाश्चात्य॑ᳪं᳭हाः ।। ८० ।।
उ० मारुतान् जुहोति शुक्रज्योतिरिति षड्भिर्ऋग्भिर्मारुतीभिः । तत्र चैकैकस्यामृचि सप्त मरुतः । प्रथमा उष्णिक् चतुर्थी च । द्वितीयातृतीये गायत्र्यौ। पञ्चमी जगती षष्ठी गायत्र्युष्णिग्वा । शुक्रज्योतिः पुरोडाशं च स्वमंशं भक्षयतु । चित्रज्योतिः सत्यज्योतिश्च ज्योतिष्मांश्च । शुक्रश्च ऋतपाश्च अत्यंहाश्च । अथैकपदनिरुक्तम् । शुक्लं ज्योतिर्यस्य शुक्रस्येव वा ज्योतिर्यस्य स शुक्रज्योतिः । चित्रं ज्योतिः सत्यं ज्योतिः । ज्योतिष्मान् ज्योतिषा तद्वान् । शुक्रः शुक्लः ऋतपाः सत्यं यज्ञं वा पाति । अत्यंहाः अतीत्य अंहः पापं वर्तत इत्यत्यंहाः ॥ ८०॥
म० 'वैश्वानरेण प्रचर्य सर्वहुतेन हस्तेन मारुतान् जुहोतीत्युपविश्य वैश्वानरे वा वैश्वानरं पृथुं कृत्वा शुक्रज्योतिरिति प्रतिमन्त्रम् विमुखेनारण्येऽनूच्यम्' ( का. १८ । ४ । २३ । २४ ) । वैश्वानरपुरोडाशेन यागं कृत्वोपविश्याहवनीये हस्तेन मारुतान्पुरोडाशान्सर्वहुतान् जुहोति शुक्रज्योतिरित्येकैकमन्त्रेणैकैकम् । यद्वा वैश्वानरपुरोडाशस्योपर्येव मारुतान् जुहोति । किं कृत्वा । प्रथनकाले वैश्वानरं पुरोडाशं विस्तीर्णं कृत्वा । आरण्येऽनूच्यं सप्तमं पुरोडाशं विमुखेनोग्रश्च भीमश्चेति वक्ष्यमाणमन्त्रेण जुहोतीत्यर्थः । षट् मरुद्देवत्याः । आद्या उष्णिक । एकैकस्यामृचि सप्त सप्त मरुतः । शुक्रज्योतिरित्याद्या एकोनपञ्चाशन्मरुतो यूयमद्यास्मिन्नोऽस्माकं यज्ञे एतन एत आगच्छत इति पञ्चमर्चि अन्वयः । 'तप्तनप्-' (पा. ७ । १। ४५) इत्यादिना तस्य तनादेशः । तन्नामानि व्याख्यायन्ते । शुक्रं शुद्धं शुक्रस्येव वा ज्योतिस्तेजो यस्य स शुक्रज्योतिः । चित्रं दर्शनीयं ज्योतिर्यस्य स चित्रज्योतिः । सत्यं ब्रह्मलक्षणं ज्योतिर्यस्य स सत्यज्योतिः । ज्योतिस्तेजोऽस्यास्तीति ज्योतिष्मान् । शोचते दीप्यत इति शुक्रः । ऋतं सत्यं यज्ञं वा पातीति ऋतपाः । अंहः पापमतीत्य वर्तत इत्यत्यंहाः । चकाराः समुच्चयार्थाः ॥ ८० ॥

एकाशीतितमी।
ई॒दृङ् चा॑न्या॒दृङ् च॑ स॒दृङ् च॑ प्रति॑सदृङ् च॑ ।
मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः ।। ८१ ।।
उ० ईदृङ् च । अनेनानेन च समानदर्शनः ईदृङ् ईदृङ् च । पुरोडाशस्य स्वमंशं प्रतिगृह्णातु । अन्यादृङ् च अन्येनान्येन च समानदर्शनः अन्यादृङ् । सदृङ् च प्रतिसदृङ् च तेन तेन समानदर्शनः सदृङ् । तंतं प्रति सदृशः प्रतिसदृङ्। मितश्च उत्तमाधममध्यमैस्तुल्यः मितः। संमितश्च एकीभावेन मितः संमितः। सभराश्च सह बिभर्ति सभराः ॥८१॥
म० द्वे गायत्र्यौ । इमं पुरोडाशं गृहीत्वा पश्यतीति ईदृङ् । अन्यमपि पुरोडाशं पश्यतीति अन्यादृङ् । समानं पश्यतीति सदृङ् । तं तं प्रति समानं पश्यतीति प्रतिसदृङ् । मितो मानं प्राप्तः । यद्वा उत्तमाधममध्यमैस्तुल्यो मितः । सम्यक् एकीभावेन मितो मानं प्राप्तः संमितः । सह बिभर्तीति सभराः ॥ ८१ ॥

द्व्यशीतितमी।
ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च ।
ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ।। ८२ ।।
उ० ऋतश्च । ऋतश्च स्वमंशं पुरोडाशस्य प्राश्नातु । सत्यश्च । ध्रुवश्च धरुणश्च । धर्ता च विधर्ता च । विधारयः विविधं धारयतीति विधारयः ऋजुः ॥ ८२ ॥
म० ऋतः सत्यरूपः । सति वस्तुनि भवः सत्यः । ध्रुवः स्थिरः । धरुणः धारकः । धारयतीति धर्ता । विशेषेण धारयतीति विधर्ता । विविधं धारयतीति विधारयः ॥ ८२ ॥

त्र्यशीतितमी।
ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॑श्च ।
अन्ति॑मित्रश्च दू॒रे अ॑मित्रश्च ग॒णः ।। ८३ ।।
उ० ऋतजिच्च । सत्यजिच्च । सेनजिच्च । सुषेणश्च शोभनसेनश्च । अन्तिमित्र आसन्नमित्रः । दूरेअमित्रश्च गणः ऋजुः ॥ ८३॥
म० उष्णिक् । ऋतं यज्ञं जयतीति ऋतजित् । सत्यं याथातथ्यं जयतीति सत्यजित् । सेनां शत्रुसैन्यं जयतीति सेनजित् । ह्रस्व आर्षः । शोभना सेना यस्य सुषेणः । अन्ति समीपे मित्राणि यस्य स अन्तिमित्रः । दूरे अमित्राः शत्रवो यस्य स दूरे अमित्रः 'प्रकृत्यान्तःपादम् -' (पा०६।१। ११५) इति सन्ध्यभावः 'हलदन्तात्सप्तम्या-' (पा० ६ । ३ । ९) इति विभक्त्यलोपः । गणयति सर्वमिति गणः ॥ ८३ ॥

चतुरशीतितमी।
ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु ण॑: स॒दृक्षा॑स॒: प्रति॑सदृक्षास॒ एत॑न ।
मि॒तास॑श्च॒ सम्मि॑तासो नो अ॒द्य सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन् ।। ८४ ।।
उ० ईदृक्षासः। व्यवहितपदप्रायोऽयं मन्त्रः । सादृश्येनात्र मरुतः स्तूयन्ते । ये यूयम् ईदृक्षासः इदंदर्शनाः सर्व एव । ये च एतादृक्षासः एतद्दर्शनाः सर्व एव । ऊषुणः त्रीणि पदानि छन्दःपरिपूर्तिं कुर्वन्ति । ये च यूयं सदृक्षासः समानदर्शनाः सर्व एव । ये च यूयं प्रतिसदृक्षासः प्रतिसमानदर्शनाः सर्व एव । ये च यूयं मितासः मितः प्रमाणतः सर्व एव । ये च यूयं संमितासः सङ्गत्य मिताः सर्व एव । ये च यूयं सभरसः समानमलंकारादि विभृतः । तान् ब्रवीमि । एतेन नो अद्य मरुतो यज्ञे अस्मिन् एतेन आगच्छन्ति नः अस्माकम् अद्य अस्मिन्द्यवि । हे मरुतः, यज्ञे अस्मिन् । एवं व्यवहितानि पदानि पश्चात्सर्वैरेव संबन्धनीयानि ॥ ८४ ॥
म०. हे मरुतः, यूयमेते कीदृशाः । ईदृक्षासः इदंदर्शनाः । एतादृक्षासः एतद्दर्शनाः । उ सु नः एतत्पदत्रयं पादपूर्तये । सदृक्षासः समानदर्शनाः । प्रतिसदृक्षासः प्रत्येकं समानदर्शनाः । मितासः मिताः प्रमाणतः । संमितासः सङ्गत्य मिताः । सभरसः समानमलंकारादिकं बिभ्रति ते सभरसः । भरसा आदरेण सह वर्तमाना इति वा । बहुवचनमादरार्थम् ॥ ८४ ॥

पञ्चाशीतितमी।
स्वत॑वाँश्च प्रघा॒सी च॑ सान्तप॒नश्च॑ गृहमे॒धी च॑ ।
क्री॒डी च॑ शा॒की चो॑ज्जे॒षी ।। ८५ ।।
उ० स्वतवांश्च स्वकीयं तवो बलं यस्य स स्वतवान् स्वतवांश्च स्वमंशं पुरोडाशमस्य भक्षयतु । प्रघासी च । 'घस्लृ अदने । प्रकर्षेण अदनशीलः । सान्तपनश्च गृहमेधी च क्रीडी च । पञ्च चातुर्मास्यदेवताः । शाकी च शक्तः । उज्जेषी च उज्जयनशीलः ॥ ८५॥
म० गायत्री उष्णिग्वा षड्विंशत्यक्षरवाद्विकल्पः । आद्याः ' पञ्च चातुर्मास्यदेवताः । स्वं स्वकीयं तवो बलं यस्य स स्वतवान् स्वाधीनबलयुक्तः । प्रकर्षेण घसति अत्ति प्रघासी पुरोडाशभक्षणशीलः । संतपनः सूर्यस्तत्संबन्धी सांतपनः । गृहमेधोऽस्यास्तीति गृहमेधी गृहधर्मवान् । क्रीडतीत्येवंशीलः क्रीडः सदा क्रीडाशीलः । शक्नोतीति शाकी शक्तः । उज्जयतीति उन्जेषी उत्कृष्टजयनशीलः । एते मरुतो यूयमत्र यज्ञे एतनेति पूर्वणान्वयः ॥ ८५ ॥

षडशीतितमी ।
इन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न्यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन् ।
ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु ।। ८६ ।।
उ० इन्द्रं दैवीरिति मारुतं यजुर्जपति । इन्द्रं राजानं दैवी विशः मरुतो मरुल्लक्षणाः अनुवर्त्मानः अनु पश्चात् वर्त्म वर्तनं यासां ता अनुवर्त्मानः । अनुगामिन्य इत्यर्थः । अभवन् । स्वरूपाख्यानमेतत् । यथा इन्द्रं दैवीः विशः अनुवर्त्मानः अभवन् उपमानम् । एवम् इमं यजमानम् दैवीश्च विशः मरुतः मानुषीश्च विशः मनुष्याः अनुवर्त्मानः अनुगामिन्यः भवन्त्विति प्रार्थना ॥ ८६ ॥
म० विमुखमन्त्रोऽपि प्रसङ्गाद्व्याख्यायते। उग्र उत्कृष्टः । बिभेत्यस्मादसौ भीमः "भीमादयोऽपादाने' ( पा० ३ । ४ । ७४ ) इति निपातः । ध्वान्तयति शत्रूनन्धीकरोतीति ध्वान्तः । ध्वान्तशब्दात् 'तत्करोति-' इति णिजन्तात्पचाद्यच् । धूनयति कम्पयति शत्रूनिति धुनिः । सहतेऽभिभवते शत्रूनिति सासह्वान् । सहेः क्वसुः अभ्यासदीर्घः । अभियुनक्ति अभियुग्वा 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति अभिपूर्वाद्युजेः क्वनिप् । भक्तानां सुखयोक्ता । विक्षिपति प्रेरयति शत्रूनिति विक्षिपः शत्रुक्षेप्ता । चकाराः समुच्चयार्थाः । स्वाहा एतेभ्यो मरुद्भ्यः सुहुताः पुरोडाशाः सन्तु । 'इन्द्रं दैवीरिति जपति' ( का० १८ । ४ । २५) । कर्मापवर्गान्ते यजुर्जपतीत्यर्थः । मरुद्देवत्यं यजुः शक्वरी षट्पञ्चाशदक्षरत्वात् । दैवीः दैव्यः देवानामिमा देवसंबन्धिन्यो विशः प्रजाः मरुतो मरुद्रूपा इन्द्रमनुवर्त्मानोऽभवन् । अनु पश्चाद्वर्त्म वर्तनं यासां ताः इन्द्रमनुगामिन्योऽभवन्निति स्वरूपाख्यानम् । देवीर्विशो मरुतः यथा इन्द्रमनुवर्त्मानः इन्द्रमनुसृत्य वर्तमाना अभवन् । उपमानमेतत् । दैवीर्मानुषीश्च देवसंबन्धिन्यो मनुष्यसंबन्धिन्यश्च विशः एवमिन्द्रवत् इमं यजमानमनुवर्त्मानः अनुमृत्य वर्तमाना भवन्त्विति प्रार्थना ॥ ८६ ॥

सप्ताशीतितमी।
इ॒मᳪं᳭ स्तन॒मूर्ज॑स्वन्तं धया॒पां प्रपी॑नमग्ने सरि॒रस्य॒ मध्ये॑ ।
उत्सं॑ जुषस्व॒ मधु॑मन्तमर्वन्त्समु॒द्रिय॒ᳪं᳭ सद॑न॒मा वि॑शस्व ।। ८७ ।।
उ० इमᳪं᳭स्तनम् । त्रयोदशाग्नेयीत्रिष्टुभो यजमानं वाचयति । घृतस्तुतिश्च दृश्यते वसोर्धारानन्तरं भविष्यति तदभिवादिन्यो वा । वसोर्धारा स्रुचा हूयते सात्र रूपकल्पनया स्तन उक्तः । इमं स्रुग्लक्षणं स्तनम् ऊर्जस्वन्तं बलवन्तम् धय । 'धेट् पाने' पिब । अपां प्रपीनम् । अपशब्देनात्र घृतमुक्तं सादृश्यात् । यद्वा 'अथापि तद्धितेन कृत्स्नवन्निगमा भवन्ति' इतिवन्निगमः । घृतप्रपूरितम् हे अग्ने, सरिरस्य मध्ये वर्तमान । 'इमे वै लोकाः सरिरम्' इति श्रुतिः । एषु लोकेषु मध्ये वर्तमानः । किंच उत्सं जुषस्व उत्स्यन्दनं स्रुग्लक्षणं कूपं जुषस्व सेवस्व । मधुमन्तं मधुस्वादेन रसेन युक्तम् । हे अर्वन् । 'ऋ गतौ' अस्यैतद्रूपम् । हे अरण सर्वतोगत । किंच । समुद्रियम् समुद्रसंबन्धिनम् । सदनं गृहम् । आविशस्व सेवस्व । 'त्रयो ह वै समुद्रा अग्निर्यजुषां महाव्रतं साम्नां महदुक्थमृचाम्' इत्येतदभिप्रायम् । अन्तरिक्षं वा समुद्रः ॥ ८७ ॥
म० 'इमᳪं᳭ स्तनमिति वाचयति वा' (का० १८ । ४ । २६) । इमं स्तनमिति मन्त्रगणमध्यायसमाप्तिपर्यन्तं यजमानेनाध्वर्युर्वाचयति स्वयं जपति वेत्यर्थः । त्रयोदशर्च आग्नेयस्त्रिष्टुप्छन्दस्कोऽनुवाको यज्ञस्तुतिवसोर्धाराभिवादिनी घृतस्तुतिर्वा । हे अग्ने, सरिरस्य लोकस्य मध्ये वर्तमानः त्वमिमं स्रुग्लक्षणं स्तनं स्रुचः पतन्तीं घृतधारां वा त्वं धय पिब । 'धेट पाने' लोट् । 'इमे वे लोकाः सरिरम्' ( २ । ५ । २ । ३४ ) इति श्रुतेः । सरिरशब्देन लोका उच्यन्ते । वसोर्धारा स्रुचा होष्यते सा स्रुगत्र रूपककल्पनया स्तन उच्यते । कीदृशं स्तनम् । ऊर्जवन्तमूर्जो रसोऽस्यास्तीति ऊर्जस्वान् तं विशिष्टरसवन्तम् । तथा अपां प्रपीनम् । अप्शब्देन लक्षणया घृतमुच्यते । अद्भिः घृतैः प्रपीनं पूर्णं अपामिति तृप्त्यर्थानां करणे षष्ठी' इति तृतीयार्थे षष्ठी । प्राप्याय्यते पूर्यते प्रपीनम् 'ओप्यायी वृद्धौ' 'प्यायः पी' (पा० ६।१ । २८ ) इति च । हे अर्वन् इयर्तीति अर्वा सर्वतो गन्तः, उत्समुत्स्यन्दनं स्रुग्लक्षणं कूपं जुषस्व सेवस्व । कीदृशमुत्सम् । मधुमन्तं मधुस्वादेन घृतेन युक्तम् । किंच समुद्रियं समुद्रसंबन्धि चयनयागसंबन्धि सदनं गृहमाविशस्व तृप्तः सन् यज्ञगृहं सेवस्व । 'त्रयो ह वै समुद्रा अग्निर्यजुषां महाव्रतᳪं᳭ साम्नां महदुक्थमृचाम्' इत्यभिप्रायः समुद्रशब्दः 'समुद्राभ्राद्धः' (पा० ४ । ४ । ११८) इति घप्रत्ययः तस्येयादेशः ॥ ८७ ॥

अष्टाशीतितमी ।
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।
अ॒नुष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ।। ८८ ।।
उ० घृतं मिमिक्षे । योऽयमग्निर्घृतं मिमिक्षे । घृतमुदकमाहुतिपरिणामभूतम् । मिमिक्षे सिञ्चामि । अथवा यस्याग्नेर्मुखे घृतं मिमिक्षे सिञ्चामि । घृतं चास्य योनिरुत्पत्तिस्थानम् 'अग्निर्यस्यै योनेरसृज्यत तस्यै घृतमुल्बमासीत्' इत्येतदभिप्रायम् । यश्चायं घृते श्रितः अवस्थितः । यस्य चास्य तमेव धाम तेजः दीप्तिर्नाम वा । तमग्निम् अनुष्वधमावह । हे अध्वर्यो, अनुष्वधम् अन्वन्नम् पूर्वमन्नमुपकल्प्य पश्चादाह्वय । आहूय च मादयस्व तर्पय । तर्पयित्वा चैवं ब्रूहि । स्वाहाकृतम् स्वाहाकारेणाभिहुतम् । हे वृषभ | वर्षितः । वक्षि हव्यम् हविः देवानां वहनं च हविषामावाहनं च देवतानामित्यग्नेः कर्मणी ॥ ८८ ॥
म० गृत्समददृष्टा । अहं घृतं मिमिक्षे सेक्तुमिच्छामि । अग्निमुखे मेढुमिच्छति मिमिक्षते "मिह सेचने' सन्नन्ताल्लट् उत्तमैकवचनम् । यतोऽस्याग्नेर्घृतं योनिरुत्पत्तिस्थानम् । 'अग्निर्यस्यै योनेरसृज्यत तस्यै घृतमुल्बमासीत्' इति श्रुतेः । गर्भाधारोदकमुल्बम् । योऽग्निर्घृते श्रितः घृतमाश्रितः । अस्याग्नेर्घृतमेव धाम स्थानं तेजस्करम् । वा उ अवधारणे । अतो हे अध्वर्यो, अनुष्वधं स्वधामन्नमुपलक्ष्य तमग्निमावह पूर्वमन्नमुपकल्प्य पश्चादाह्वय । आहूय च मादयस्व तर्पय । तर्पयित्वा चैवं ब्रूहि हे वृषभ कामानामभिवर्षक, स्वाहाकृतं स्वाहाकारेण हुतं हव्यं त्वं वक्षि वह देवान् प्रापय । वहतेः शपि लुप्ते ढत्वकत्वादौ कृते वक्षीति रूपम् । यद्वा यं प्रत्यहं मिमिक्षे यस्य घृतं योनिर्यो घृते श्रितः यस्य च घृतं धाम स त्वमनुष्वधं देवानावह मादय हव्यं च वक्षि इत्यग्निं प्रत्येवोक्तिः । यतो वह्नेः कर्मद्वयं देवानामावाहनं हविर्वहनं च ॥८८॥

एकोननवतितमी।
समु॒द्रादू॒र्मिर्मधु॑माँ॒२ उदा॑र॒दुपा॒ᳪं᳭शुना॒ सम॑मृत॒त्वमा॑नट् ।
घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑: ।। ८९ ।।
उ० समुद्रादूर्मिः अन्नाध्यासेन घृतमन्नमत्र स्तूयते प्राणाध्यासेन वाग्निः । तस्मात्समुद्रात् घृतमयात् अक्षीणत्वात् घृतस्य समुद्रेणोपमानम् अन्नदेवताभिप्रायं वा । साह्यनुपक्षीणैव । ऊर्मिः महाराशिः घृतकल्लोलः । मधुमान् रसवान् । उदारत् उद्गच्छत् । उद्गत्य च उपांशुना सममृतत्वमानट् । उपसंव्याप्नोत् । अंशुना प्राणेन जगत्प्राणभूतेनाग्निना एकीभूय अमृतत्वममरणधर्मित्वम् । प्राणश्चान्नं चैकीभूयामृतत्वं प्राप्नुत इत्यर्थः । तस्य घृतस्य नाम गुह्यमविज्ञातमविद्वद्भिः श्रुतिमन्त्रपरिपठितं यदस्ति तत् अहं वेद्मि । जिह्वा देवानाम् अत्यभिलाषाज्जिह्वास्थाननिमित्तं देवानाम् । अग्नेर्जिह्वासीति 'यदा वा एतदग्नौ जुह्वत्यथाग्नेर्जिह्वाइवोत्तिष्ठन्तीति' । यच्च सर्वप्रकाशं तदप्यहं वेद्मि । अमृतस्य नाभिः अमरणधर्मित्वस्य नहनं बन्धनम् । यो हि घृतमश्नाति स दीर्घायुर्भवति। यद्वा अर्धेन सत्रं स्तूयते अर्धेन घृतं मन्त्रस्य । समुद्रात् आग्निकात् यजुःसमुद्रात् यः ऊर्मिः शब्दसंघातः । नामाख्यातोपसर्गनिपातलक्षणः उपमोत्प्रेक्षारूपकाद्यलंकारोपेतः। मधुमान् रसवान् वाक्यगुणैर्युक्तः । उदारत् उदगान्मुखतः। स एव उपांशुना सवनेन क्रियमाणः । तदेतत् यजुरुपाᳪं᳭श्वनिरुक्तम्' इति वचनात् । संप्राप्नोदमृतत्वम् । अतोऽग्निविद्भिः प्रकाशनीयः । घृतस्य नाम गुह्यं यदस्ति तदपि जिह्वास्थाननिमित्तं देवानां किमुत साक्षाद्धोमः । अथास्य घृतकीर्तावेवाग्निर्वैश्वानरो जज्वालेत्येतदभिप्रायं वचनम् । अमृतत्वस्य च नाभिः नहनं यजमानानाम् । अतोऽग्निचिद्भिर्हूयते स्तूयते च ॥ ८९ ॥
म० वामदेवदृष्टा । अत्रान्नाध्यासेन घृतं स्तूयते प्राणाध्यासेन चाग्निः । समुद्रात् घृतमयात् मधुमान् रसवानूर्मिः कल्लोल उदारत् उदगच्छत् 'ऋगतो' च्लेरङ् 'ऋदृशोऽङि गुणः' (पा० ७ । ५ । १६ ) अक्षीणत्वाद् घृतस्य समुद्रेणोपमानम् अन्नदेवताभिप्रायं वा । सा ह्यक्षीणैव । उद्गत्य च स ऊर्मिः अंशुना प्राणेन जगत्प्राणभूतेनाग्निना सं सङ्गत्यैकीभूय अमृतत्वममरणधर्मित्वमुपानट् उपव्याप्नोतु । ‘णश अदर्शने' लुङि 'मन्त्रे घस-' (पा० २।४।८०) इत्यादिना च्लेर्लुक् 'हल्ङ्याप्' (पा० ६ । १।६८) इति तिपो लोपः विआङुपसर्गाभ्यां व्याप्त्यर्थः । प्राणश्चान्नं च एकीभूयामृतत्वं प्राप्नुत इत्यर्थः । तस्य घृतस्य गुह्यमविज्ञातं नामाविद्वद्भिरज्ञेयं श्रुतिमन्त्रपठितं यदस्ति तत्कथ्यत इति शेषः । किं तदाह । देवानां जिह्वा अत्यभिलाषाद्देवानां जिह्वोत्थाननिमित्तम् अग्नेर्जिह्वासीत्युक्तेः । 'यदा वा एतदनों जुह्वत्यथामर्जिह्वा इवोत्तिष्ठन्ति' इति श्रुतेः । यच्च सर्वप्रकाशं नाम तदप्युच्यते । अमृतस्य नाभिः अमरणधर्मस्य नहनं बन्धनम् । यो हि घृतमश्नाति स दीर्घायुर्भवति । यद्वा ऋगर्धेन मन्त्रः स्तूयते अर्धन घृतम् । समुद्रात् आग्निकाद्यजुः | समुद्रादस्माद्यज्ञात् य ऊर्मिः शब्दसङ्घातो नामाख्यातोपसर्गनि| पातरूप उपमोत्प्रेक्षारूपकाद्यलंकाररूपो मधुमान् रसवान् वाक्यार्थगुणेयुक्त उदारत् मुखादुदगात् स एव उपांशुना सव- नेन क्रियमाणः सन्नमृतत्वमाप्नोत् 'तदेद्यजुरुपाᳪं᳭श्वनिरुक्तम्' - इति श्रुतेः । अतोऽग्निचिद्भिः स ऊर्मिः प्रकाशनीयः । घृतस्य गुह्यं नाम यदस्ति तदपि देवानां जिह्वोत्थाननिमित्तं किं पुन- .. मिः । 'अथास्य घृतकीर्तावेवाग्निर्वैश्वानरो मुखादुज्जज्वाल' (१।४।१।१३) इति श्रुतेः । अमृतस्य नाभिः नहनं यजमानानाममृत्वप्रापकं घृतं यजनेनेत्यर्थः । अतोऽग्निचिद्भिर्हूयते स्तूयते च घृतमिति भावः ॥ ८९ ॥

नवतितमी।
व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑:शृङ्गो॒ऽवमीद्गौ॒र ए॒तत् ।। ९० ।।
उ० वयं नाम । यतो नामोच्चारणमपि प्रियं देवानामतो | वयं नाम प्रब्रवाम घृतस्य अस्मिन्यज्ञे । धारयाम च यज्ञं नमोभिः हविर्भिः । किंच उपशृणोच्चैतत् स्तोत्रं ब्रह्मा ऋत्विक् शस्यमानम् । यथा चतुःशृङ्गः यज्ञः । ऋत्विजोऽस्य | शृङ्गाणि । अवमीत् उद्गिरति । यज्ञपरिणामाभिप्रायम् । गौरः गौरवर्णः एतत् घृतम् ॥ ९० ॥
म० यतो घृतनामोच्चारणमपि देवानां प्रियमता वयं घृतस्य नाम प्रब्रवाम अस्मिन् यज्ञे घृतनाम स्तुमः । नमोभिरन्नैः धारयाम यज्ञमिति शेषः । किंच ब्रह्मा ऋत्विक् शस्यमानं | स्तूयमानमेतद् घृतनाम उपशृणवत् उपशृणोतु । 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः । यथा गौरः गौरवर्णः शुद्धो यज्ञः एतत् घृतयज्ञफलरूपमवमीदुद्गिरति यज्ञपरिणामाभिप्रायम् । कीदृशो गौरः । चतुःशृङ्गः चत्वार ऋत्विजः शृङ्गभूता यस्य सः॥९०॥

एकनवतितमी।
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒२ आ वि॑वेश ।। ९१ ।।
उ० चत्वारि शृङ्गाः । चतुःशृङ्गो वमीदित्युक्त्वा अधुना चतुःशृङ्गं यज्ञं वृषशब्दं वृषभं प्रतिपादयितुमाह । यस्यास्य चत्वारि शृङ्गाणि ब्रह्मोद्गातृहोत्रध्वर्य्वाख्यानि यस्य चास्य त्रयः पादाः ऋग्यजुःसामलक्षणाः । यस्य चास्य द्वे शीर्षे हविर्धानप्रवर्ग्याख्ये यस्य चास्य सप्तहस्तासः सप्तहोतारो हस्ता इव व्याप्रियन्ते । यद्वा सप्तच्छन्दांसि हस्ता इव । यश्च त्रिधा त्रिप्रकारं संबद्धः प्रातःसवनमाध्यन्दिनतृतीयसवनैः। वृषभो वर्षिता । रोरवीति ‘रु शब्दे' । अत्यर्थं शब्दं करोति । सोऽयं महो देवः महो देवो महान्देवः हिरण्यगर्भस्तम्बपर्यन्तानां प्राणिनामुपजीव्यः । ज्ञानकर्मसमुच्चयकारिणां शरीरभूतः । मर्त्यान्मनुष्यान् आविशति । शब्दग्रामो वाभिधेयः। चत्वारि शृङ्गाणि नामाख्यातोपसर्गनिपाताः त्रयोऽस्य पादाः प्रथमपुरुषमध्यमपुरुषोत्तमपुरुषाः । द्वे शीर्षे नामाख्याते । सप्तहस्ताः सप्तविभक्तयः । त्रिधा बद्धः एकवचनद्विवचनबहुवचनैः । वृषभ इवामर्षादन्यानि शास्त्राण्यधःपदीकृत्य रोरवीति । य उक्तगुणः सोऽयं महान्देवो मर्त्यान् आविशति प्रतिपादयति ॥ ९१ ॥
म० यज्ञपुरुषदेवत्य ऋषभो मन्त्रः । चतुःशृङ्गोऽवमीदित्युक्त्वा चतुःशृङ्गं यज्ञं वृषभरूपेण प्रतिपादयितुमाह । यो वृषभः कामानां वर्षिता । रोरवीति ‘रु शब्दे' यड्लुगन्तम् । अत्यर्थं शब्दं करोति सोऽयं महो देवः महति पूजयति मह्यते वा जनैरिति महो महान् देवः ब्रह्मादिस्तम्बपर्यन्तानां प्राणिनामुपजीव्यो ज्ञानकर्मसमुच्चयकारिणां विदुषां शरीरभूतो मर्त्यान् मनुष्यानाविवेश आविशति मनुष्यान् व्याप्य तिष्ठति । यस्य वृषभस्य यज्ञस्य चत्वारि शृङ्गा शृङ्गाणि ब्रह्मोद्गातृहोत्रध्वर्युलक्षणानि । त्रयः पादाः ऋग्यजुःसामरूपाः । द्वे शीर्षे शिरसी हविर्धानप्रवर्ग्याख्ये । 'शिर एवास्य हविर्धानं ग्रीवा वै यज्ञस्योपसदः शिरः प्रवर्ग्यः' इति श्रुतेः । अस्य वृषभस्य सप्त हस्तासः सप्त होतारो हस्ताः हस्ता इव व्याप्रियन्ते । सप्त छन्दांसि वा हस्ताः । यश्च त्रिधा त्रिप्रकारैर्बद्धः प्रातःसवनमाध्यन्दिनसवनतृतीयसवनैर्बद्धः । यद्वा चत्वारो वेदाः शृङ्गाणि । त्रयः पादाः सवनानि द्वे शीर्षे प्रायणीयोदयनीये सप्त हस्तासः छन्दांसि । त्रिधा बद्धः मन्त्रब्राह्मणकल्पैर्बद्धः । शब्दग्रामो वा व्याख्येयः । चत्वारि शृङ्गाणि नामाख्यातोपसर्गनिपाताः त्रयः पादाः प्रथमपुरुषमध्यमपुरुषोत्तमपुरुषाः त्रयः काला वा । द्वे शीर्षे कार्यताव्यङ्ग्यते । सप्त हस्ताः विभक्तिरूपाः । त्रिधा बद्धः एकवचनद्विवचनबहुवचनैर्बद्धः । वृषभ इवायमन्यशास्त्राणि अधः कृत्वा रोरवीति सोऽयं महान् देवो मर्त्यानाविवेश आविशति प्रतिपादयति । मनुष्येष्विति। मनुष्याधिकारत्वाच्छास्त्रस्येति न्यायात् ॥ ९१ ॥

द्विनवतितमी।
त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
इन्द्र॒ एक॒ᳪं᳭ सूर्य॒ एकं॑ जजान वे॒नादेक॑ᳪं᳭ स्व॒धया॒ निष्ट॑तक्षुः ।। ९२ ।।
उ० त्रिधा हितम् यज्ञपरिणामभूतं यथा घृतं तथा त्रिधा निहितं स्थापितमेषु लोकेषु । पणिभिः सुरैः । गुह्यमानं गुप्यमानम् । गवि देवाः घृतम् अन्वविन्दन् आनुपूर्व्याल्लब्धवन्तः । यत् तस्य घृतस्य इन्द्रः एक भागं जजान जनयति । 'ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतः' इत्यादिश्रुतिरिन्द्रस्य जनकत्वं दर्शयति । सूर्य एकं भागं जनयति । 'ते तत उत्क्रामतः ते दिवमाविशतः' इत्यादि श्रुतिः सूर्यस्य जनकत्वं दर्शयति । वेनाद् अग्नेर्यज्ञसाधनभूतात् एकं भागं स्वधयान्नेनाहुतिलक्षणेन निष्टतक्षुः निष्कर्षितवन्तः द्विजातयः । यस्ततः पुत्रो जायते स लोकः प्रत्युत्थायीत्येतदुक्तं भवति ॥ ९२ ॥
म० त्रिधा त्रिप्रकारेषु लोकेषु हितं स्थापितं द्रुतं यज्ञपरिणामभूतं पणिभिरसुरैर्गुह्यमानं गुप्यमानं सत् देवासो गवि अन्वविन्दन् धेनौ आनुपूर्व्याल्लब्धवन्तः । तस्य एकं भागमिन्द्रो जजान जनयति 'ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशत' इत्यादिश्रुतिरिन्द्रस्य जनकत्वं दर्शयति । सूर्य एकं भागं जजान । 'जनी प्रादुर्भावे' लिट् परस्मैपदमार्षम् । | 'ते तत उत्क्रामतस्ते दिवमाविशतः' इत्यादिश्रुतिः सूर्यस्य घृतभागजनकत्वं दर्शयति । वेनाद् यज्ञसाधनभूतादग्नेः एकं स्वधया अन्नेन त्रेताहुतिलक्षणेन निष्टतक्षुः निष्कर्षितवन्तो द्विजातयः । यस्ततः पुत्रो जायते स लोकप्रत्युत्थायीत्येतदुक्तं भवति ॥ ९२ ॥

त्रिनवतितमी।
ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ ।
घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ।। ९३ ।।
उ० एता अर्षन्ति । ऊर्मयः या एता वाचः अर्षन्ति उद्गच्छन्ति । हृद्यात् समुद्रात् श्रद्धोदकप्लुतादेव । ता याथात्म्यचिन्तनसन्तानगर्भान्निगमनिरुक्तनिघण्टुव्याकरणशिक्षाच्छन्दोभिः परिपूरिताः शब्दव्रजाः । बहुगतयो बह्वर्थाः । याश्चैता अर्षन्त्यो रिपुणा कुतार्किकवृन्दशत्रुसंघातेन । नावचक्षे नापवदितुं शक्याः । ताः घृतस्येव धारा देवानां तृप्तिकराः अभिचाकशीमि अहमभिगच्छामि । हिरण्यमयश्च वेतसोऽग्निः मध्ये आसां वाग्व्यक्तीनां विद्यमानं चाकशीमि अहमभियास्यामि । हिरण्मयो वेतसोऽग्निराहवनीयाख्यः । मध्ये आसां वाग्व्यक्तीनां विद्यमानं चाकशीमि । अग्निर्हि वाचामधिष्ठात्री देवता । यद्वा घृतस्य धारा एवोच्यन्ते । या एता अर्षन्ति गच्छन्ति हृद्यात्समुद्रात् । हृदयेन हि संकल्प्य पश्चात् यजन्ते ता एवमुच्यन्ते । शतव्रजा बहुगतयः। याश्चैता रिपुणा शत्रुणा यज्ञपरिपन्थिना नावचक्षे नावद्रष्टुं शक्यन्ते ताः घृतस्य धारा अहमभिचाकशीमि पश्यामि । | यश्चायं हिरण्मयो वेतसोऽग्निराहवनीयाख्यो मध्ये आसां व्यवतिष्ठति तमप्यहं पश्यामि । याथाल्यतोऽहं द्रव्यं देवतां च पश्यामीत्युक्तं भवति ॥ ९३ ॥
म० एता वाचः अर्षन्ति उद्गच्छन्ति । तस्मात् हृद्यात् समुद्रात् श्रद्धोदकप्लुतात् देवतायाथात्म्यचिन्तनसन्तानरूपात् समुद्रान्निगमनिरुक्तनिघण्टुव्याकरणशिक्षाच्छन्दोभिः पावनैः पूतात् । कीदृश्यो वाचः । शतव्रजाः शतं व्रजं व्रजा गतयो यासां ताः बहुगतयः । बह्वर्था इत्यर्थः । याश्च अर्षन्त्यो रिपुणा कुतार्किकवृन्दशत्रुणा न अवचक्षे न अवचक्ष्यन्ते पुरुषवचनव्यत्ययः। नापवदितुं खण्डयितुं शक्यन्ते ता घृतस्य धारा इवाभिचाकशीमि । लुप्तोपमानम् । अहं पश्यामि । आसां वाचां मध्ये यो हिरण्ययो हिरण्मयो दीप्यमानो वेतसोऽग्निः तं चाभिचाकशीमि । अग्निर्हि वाचामधिष्ठात्री देवता । यद्वा घृतधारा एवोच्यन्ते । या एता हृद्यात्समुद्रात् घृतधारा अर्षन्ति गच्छन्ति । हृदयेन संकल्प्य यजनाद्धृदयादुद्गतिरुच्यते । शतव्रजा नानागतयः याश्च रिपुणा नावचक्षे यज्ञपरिपन्थिना द्रष्टुं न शक्यन्ते ता घृतधाराः पश्यामि । यश्चायं हिरण्ययो वेतसोऽग्निराहवनीय आसां धाराणां मध्ये स्थितस्तं च पश्यामि द्रव्यदेवताश्च याथात्म्येनाहं पश्यामीत्यर्थः ॥ ९३ ॥

चतुर्नवतितमी ।
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ।। ९४ ।।
उ० सम्यक् । या एताः साधु स्रवन्ति सरितो न धेनाः नद्यइवानवच्छिन्नोदकसंतानप्रबद्धाः । धेना वाचः । धेना इति वाग्नामसु पठितम् । अन्तर्हृदा मनसा पूयमानाः अन्तर्व्यवस्थितेन हृदयेन परिपथस्थानीयेन मनसा च पूयमानाः विविच्यमानाः शब्ददोषेभ्यः । ता अग्निमेव स्तुवन्तीति शेषः । ये चैते अर्षन्ति गच्छन्ति ऊर्मयः संघाताः घृतस्य स्रुक्परिभ्रष्टा मृगाइव क्षिपणोः व्याधात् ईषमाणाः पलायमानाः । तेप्यग्निं तर्पयन्तीति शेषः । एतदुक्तं भवति । श्रुतिश्च द्रव्यं चाग्न्यर्थमेव ॥ ९४ ॥
म० या धेनाः वाचः सरितो न सरित इव नद्य इवानवच्छिन्नप्रवाहाः सम्यक् स्रवन्ति प्रसरन्ति । धेना इति वाङ्नामसु पठितम् । कीदृश्यो धेनाः । अन्तः हृदा मनसा च मनसा पूयमानाः शरीरान्तर्व्यवस्थितेन हृदा पावनस्थानीयेन मनसा च पूयमानाः शब्ददोषेभ्यो विविच्यमानाः । ता अग्निमेव स्तुवन्तीति शेषः । ये च एते घृतस्य ऊर्मयः कल्लोलाः अर्षन्ति स्रुक्परिभ्रष्टाः गच्छन्ति । 'ऋष गतौ' तेऽप्यग्निं तर्पयन्तीति शेषः । तत्र दृष्टान्तः । क्षिपणोः क्षिपति हिनस्ति क्षिपणुर्व्याधः क्षिपणोरीषमाणाः पलायमाना मृगा इव व्याधाद्भीता मृगा इव ये घृतोर्मयो गच्छन्ति तेऽग्निं तर्पयन्तीत्यर्थः । श्रुतिर्द्रव्यं चाग्न्यर्थमेवेति भावः ॥ ९४ ॥

पञ्चनवतितमी।
सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः ।
घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभि॒: पिन्व॑मानः ।। ९५ ।।
उ० सिन्धोरिव । या एताः सिन्धोरिव नद्याः प्राध्वने | प्रगतोऽध्वनः प्राध्वा महोदकप्रपातः तस्मिन्महोदकप्रपाते । शूघनासः शू इति क्षिप्रनाम । हन्तेर्गत्यर्थस्य घनः । क्षिप्रगमनाः वातप्रमियः तरङ्गाः पतयन्ति । स्वार्थेण् च । प्रपतन्ति । यह्वाः महत्यः । स्रुङ्मुखात्परिभ्रष्टाः घृतस्य धाराः तांश्च पतन्तीरश्नात्यग्निः । क इवेत्यत आह । अरुषो न वाजी। नकार उपमार्थीयः । यथा अरोचनो जात्यादिभिरुत्कृष्टो वाजी वेजनवान् अश्वः । पुनरप्यश्वं विशिनष्टि । काष्ठाभिन्दन् । आज्यन्तान् विदारयन् । ऊर्मिभिः पिन्वमानः आज्यन्तविभेदनश्रमयोगाच्च स्वेदोदकोर्मिभिः पिन्वमानः प्रसिञ्चनभूमिम् । यथैतद्गुणविशिष्टोऽश्वोऽश्नाति एवमग्निरप्यश्नातीति वाक्यार्थः । नतु हीनोपमानमग्नेरश्वः ज्यायांस्तत्र गुणोऽभिप्रेत इति परिहृतं यास्केन ॥ ९५ ॥
म० घृतस्य धाराः पतयन्ति स्रुङ्मुखात्पतन्ति । 'पत ऐश्वर्ये गतौ च' चुरादिरदन्तः । कीदृश्यो धाराः । यह्वाः महत्यः । यह्व इति महन्नामसु पठितम् । तत्र दृष्टान्तद्वयम् प्राध्वने सिन्धोर्वातप्रमिय इव । प्रगतोऽध्वनः प्राध्वनः विषमप्रदेशः । वातेन प्रमीयन्ते नश्यन्ति ते वातप्रमियस्तरङ्गाः 'मीङ् हिंसायां' दिवादिः अस्मात् क्विप् । यथा सिन्धोर्नद्याः वातप्रमियः तरङ्गाः प्राध्वने विषमप्रदेशे पतन्ति तद्वत् । कीदृशा वातप्रमियः । शूघनासः। शु इति क्षिप्रनाम । हन्तेर्गत्यर्थस्य घनमिति रूपम् । शु क्षिप्रं घनं गमनं येषां ते शुघनाः शीघ्रगमनाः 'आज्जसेरसुक्' । अन्यो दृष्टान्तः । वाजी न । न इवार्थे । वाजीव यथा वाजी अश्वः पतति । कीदृशो वाजी । अरुषः 'रुष क्रोधे' रोषति क्रुध्यतीति रुषः 'इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः । न रुषः अरोषणः जात्यादिभिरुत्कृष्ट इत्यर्थः । तथा काष्ठाः आज्यन्तान् संग्रामप्रदेशान् भिन्दन् विदारयन् ऊर्मिभिः काष्ठभेदनोत्थश्रमखेदोदकैः पिन्वमानः भूमिं सिञ्चन् । 'पिवि सेचने' शानच् इदित्त्वान्नुम् । स वाजी यथा पतित्वान्नान्यश्नाति एवं पतन्ती घृतधारा अग्निरश्नातीत्यर्थः ॥ ९५ ॥

षण्णवतितमी।
अ॒भिप्र॑वन्त॒ सम॑नेव॒ योषा॑: कल्या॒ण्यः स्मय॑मानासो अ॒ग्निम् ।
घृ॒तस्य॒ धारा॑: स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ।। ९६ ।।
उ० अभिप्रवन्त अभिनमन्त्यो यन्ति प्रह्वीभवन्ति । काः पुनस्ताः घृतस्य धाराः । कमभिप्रह्वीभवन्ति । अग्निम् । कथमिव । समानमनस्का इव योषाः एकभर्तारं प्रति संगतमनसः । कल्याण्यः रूपयौवनसंपन्नाः । स्मयमानाः । 'स्मिङ ईषद्धसने' । ईषद्धसमानाः । समिधः समिन्धनाः । इत्थंभूता धारा अग्निमभि प्रह्वीभूय । ततस्तमेवाग्निं नसन्त । नसतिराप्नोतिकर्मा वा नमति कर्मा वा । व्याप्नुवन्ति । ताश्च धाराः जुषाणः हर्यति जातवेदाः । हर्यतिः प्रेप्साकर्मा । प्रेप्सति प्रतिकामयते । नास्य ग्रहणशक्तिपरिहरणमस्तीत्यभिप्रायः । जातप्रज्ञानोऽग्निः ॥ ९६ ॥
म० घृतस्य धाराः अग्निमभिप्रवन्त 'प्रुङ् गतौ' । अग्निं प्रतिगच्छन्ति । लङ् अडभाव आर्षः । तत्र दृष्टान्तः। योषा इव यथा योषाः स्त्रियः पतिं अभिप्रवन्ते । कीदृश्यो योषाः । समनाः समानं मनो यासां ताः समनसः । विभक्तेर्डादेशः। कल्याण्यः रूपयौवनसंपन्नाः स्मयमानाः ईषद्धसन्त्यः 'स्मिङ् ईषद्धसने' । ता धारा अग्निं नसन्त हरन्ति 'नस हरणे' लङ् अडभाव आर्षः । नसतिराप्नोतिकर्मा वा । अग्निं व्याप्नुवन्ति । कीदृश्यो धाराः । समिधः समिन्धते दीपयन्त्यग्निमिति समिधः । किंच जातवेदाः जातप्रज्ञानोऽग्निर्जुषाणः प्रीतियुक्तः सन् ता घृतधारा हर्यति प्राप्नोति 'हर्य क्लमे गतौ' हर्यतिः प्रेप्साकर्मा वा। ता धाराः प्रेप्सति कामयते । नास्य ग्रहणशक्तिपरिहरणमस्तीति भावः ॥ ९६ ॥

सप्तनवतितमी।
क॒न्या॒ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॒ञ्जा॒ना अ॒भि चा॑कशीमि ।
यत्र॒ सोम॑: सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ।। ९७ ।।
उ० कन्या इव । या एताः कन्याइव नवपरिणीता इव । वहतुम् वोढारं भर्तारम् । एतवै एतुं गमनाय । अञ्जि प्रजननम् । अञ्जाना व्यक्तं कुर्वाणाः । अभिचाकशीमि अभिपश्यामि । ताः घृतस्य धाराः यत्र सोमोभिष्टूयते यत्रच सौत्रामण्याख्यो यज्ञस्तायते । अभि तत्पवन्ते । तत् तत्रेत्यर्थः । अभिपवन्ते अभिगच्छन्ति यज्ञसहचरिता घृतस्य धारा इत्यभिप्रायः ॥ ९७ ॥
म० घृतस्य धाराः तत्तत्र अभिपवन्ते अभिगच्छन्ति 'पव गतौ' । तत्र कुत्र । यत्र स्थाने सोमः लताविशेषः सूयते अभिषूयते । यत्र च यज्ञः सौत्रामण्याख्यः क्रियते तत्र गच्छन्तीर्घृतस्य धारा अभिचाकशीमि पश्यामि । तत्र गमने दृष्टान्तः । कन्या वहतुमिव वहति परिणयति वहतुर्भर्ता यथा वहतुं पतिमेतवै प्राप्तुं कन्या अभिप्रवन्ते 'इण् गतौ' तुमर्थे तवेप्रत्ययः । कीदृश्यः कन्याः । अञ्जि भगमञ्जाना व्यक्तं योग्यं कुर्वाणाः अज्यते व्यक्तीक्रियते स्त्रीपुंव्यक्तिर्येन तत् तदञ्जानाः कन्या यथा पतिं गच्छन्ति तथा यज्ञं घृतधारा गच्छन्ति ता यज्ञसहिता घृतधाराः पश्यामीत्यर्थः ॥ ९७॥

अष्टनवतितमी।
अ॒भ्य॒र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त ।
इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ।। ९८ ।।
उ० अभ्यर्षत । हे देवाः, अभ्यर्षत अभ्यागच्छत । एतां सुष्टुतिम् शोभनां स्तुतिम् । एतं च गव्यमाजिम् गोविकारैर्घृतैर्जनितं गव्यम् आजिमानमनमभ्यागच्छत । अभ्यागत्य च अस्मासु भद्रा भद्राणि द्रविणानि धनानि । धत्त स्थापयत दत्त वा । किंच इमं यज्ञं नयत तत्र देवा देवत्वं नः अस्माकम् अस्माभिर्यो देवलोको जित इत्यर्थः । याश्चैता घृतस्य धारा मधुमत्पवन्ते मधुसंयुक्तं पवन्ते ताश्चास्मज्जितं लोकं नयतेत्यनुवर्तते ॥ ९८ ॥
म० हे देवाः, यूयं सुष्टुतिं शोभनां स्तुतिमाजिं यज्ञं च अभ्यर्षत अभ्यागच्छत । अज्यते प्राप्यते स्वर्गो येन स आजिर्यज्ञः । कीदृशमाजिं गव्यम् । गव्यं घृतं विद्यते यस्मिन् स गव्यस्तम् घृतयुतम् । अर्शआदित्वादच्प्रत्ययः । आगत्य चास्मासु भद्रा भद्राणि कल्याणानि द्रविणानि धनानि धत्त स्थापयंते दत्त वा 'डुधाञ् धारणपोषणयोः' दाने चेति वचनात् । किंच नोऽस्माकमिमं यज्ञं सौत्रामणीं देवता देवतासु देवलोके नयत प्रापयत । देवताशब्दात् 'सुपां सुलुक्' (पा. ७ । १ । ३९ ) | इति विभक्तिलोपः । किंच याश्चैना घृतस्य धारा मधुमत् रसवत् यथा तथा पवन्ते प्रसरन्ति ता अपि देवतासु नयत यज्ञे यज्ञद्रव्ये स्वर्गं गते यजमानो गच्छत्येवेत्यर्थः ॥ ९८ ॥

एकोनशततमी।
धामं॑ ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्यन्तरायु॑षि ।
अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ।। ९९ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां सप्तदशोऽध्यायः ॥ १७ ॥
उ० धामं ते तव आहुतिपरिणामभूतमिदं जगत् ब्रह्मादिस्तम्बपर्यन्तम् मन्यमान आह । धामं धामानि विभूत्यां ते तव विश्वं भुवनं भूतजातमधिश्रितम् अध्याश्रितम् । यच्चान्तःसमुद्रे समुद्रस्य मध्ये किंचित् यच्च आयुषि किंचिदपि धामनि तव अधिश्रितमित्यनुवर्तते । यत एवम् अतस्त्वां ब्रवीमि । अपामनीके मुखे वर्तमानो य ऊर्मिराहृतः । समिथे संग्रामे च पणिभिः सहवर्तमानो य ऊर्मिराहृतः । तदुक्तं पणिभिर्गुह्यमानमिति । तम् अश्याम भक्षयामः व्याप्नुयाम वा । मधुमन्तं रसवन्तम् ते तव संबन्धिनम् हे घृत, हविःपरिणामिनो रसस्य वयं भोक्तारो भवेम । देवत्वं प्राप्नुयामेति वक्रोक्त्या प्रार्थ्यते ॥ ९९ ॥
इति उवटकृतौ मन्त्रभाष्ये सप्तदशोऽध्यायः ॥ १७ ॥
म० ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगदाहुतिपरिणामभूतं मन्यमानो मुनिराह । हे अग्ने, विश्वं भुवनं सर्वं भूतजातं ते तव धामन् धाम्नि विभूत्यामधिश्रितं आश्रितं स्थितम् । त्वन्महिमोत्थमित्यर्थः । यच्चान्तःसमुद्रे समुद्रमध्ये तथा हृदि हृन्मध्ये तथा अन्तरायुषि आयुर्मध्ये ब्रह्मणो जीवनपर्यन्तं यद्भूतजातं तदपि ते धामनि श्रितम् । धामन्निति विभक्तिलोपः। अतोऽहं प्रार्थये मधुमन्तं रसवन्तं तमूर्मिं घृतकल्लोलं ते त्वदीयं वयमश्याम भक्षयामो व्याप्नुयामो वा । तं कम् । अपामनीके मुखे वर्तमानो य ऊर्मिः समिधे पणिभिः सह युद्धे आभृतः आहृत आनीतः । 'त्रिधा हितं पणिभिर्गुह्यमानम्' (क० ९२ ) इत्युक्तत्वात् । अश्यामेति अश्नातेरश्नोतेर्वा विकरणव्यत्ययेन श्यनि प्रत्यये लोटि रूपम् । हविःपरिणामिनो रसस्य वयं भोक्तारो भवेमेति भावः । देवत्वं प्राप्नुयामेति वक्रोक्त्या प्रार्थ्यते । यद्वास्या ऋचोऽर्थान्तरमुच्यते । हे अग्ने, इदं विश्वं भुवनं तव धाम्नि अधिश्रितं तत्ते धाम कुत्र कुत्रेति तदुच्यते । अन्तःसमुद्रे अन्तरिक्षमध्ये सूर्यरूपेण । समुद्र इत्यन्तरिक्षनाम । हृदि अन्तः सर्वप्राणिनां हृदये जठराग्निरूपेण आयुषि अन्ने सर्वप्राण्याहारत्वेन अपामनीके उदकानां सङ्घाते वैद्युताग्निरूपेण समिथे सङ्ग्रामे, शौर्याग्निरूपेण एवं सर्वेषु स्थानेषु आभृतः स्थापितो यस्तव धामरूप ऊर्मिः घृतरूप उदकरूपो वा तं तव रसं मधुमन्तं माधुर्योपेतं वयमश्याम प्राप्नुयाम । सर्वरसभोक्तारः स्यामेति भावः ॥ ९९ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । सेकादिजपपर्यन्तोऽध्यायः सप्तदशोऽगमत् ॥ १७ ॥