सामग्री पर जाएँ

शुक्लयजुर्वेदः/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ शुक्लयजुर्वेदः
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
अग्निचयने शतरुद्रियहोमम्

शतरुद्रिय वीडियो

श्रव्य सञ्चिका १


अध्याय 16 रुद्र सूक्तम्
अग्निचयने रुद्रः

16.1
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।
बाहुभ्याम् उत ते नमः ॥

16.2
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥

16.3
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥

16.4
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥

16.5
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥

16.6
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।
ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥

16.7
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥

16.8
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥

16.9
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥

16.10
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।
अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥

16.11
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥

16.12
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य ऽइषुधिस् तवारे ऽ अस्मिन् नि धेहि तम् ॥

16.13
अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥

16.14
नमस् त ऽ आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥

16.15
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥

16.16
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥

16.17
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥

16.18
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥

16.19
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥

16.20
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥

16.21
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥

16.22
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥

16.23
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥

16.24
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥

16.25
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥

16.26
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥

16.27
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥

16.28
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥

16.29
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥

16.30
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥

16.31
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥

16.32
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥

16.33
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥

16.34
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥

16.35
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥

16.36
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥

16.37
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥

16.38
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥

16.39
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥

16.40
नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥

16.41
नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

16.42
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥

16.43
नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥

16.44
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥

16.45
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥

16.46
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥

16.47
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।
आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥

16.48
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥

16.49
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥

16.50
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥

16.51
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥

16.52
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।
यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥

16.53
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।
तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥

16.54
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥

16.55
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥

16.56
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥

16.57
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

16.58
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

16.59
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

16.60
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

16.61
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

16.62
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

16.63
ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥

16.64
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

16.65
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

16.66
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

भाष्यम्(उवट-महीधर)

षोडशोऽध्यायः।

तत्र प्रथमा।
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।
उ० शतरुद्रियहोमः[] । 'अथातो यः शतरुद्रियं जुहोति' इत्युपक्रम्य ‘स एषोऽत्राग्निश्चितो बुभुक्षमाणो रुद्ररूपेणावतिष्ठते । तस्य तर्पणं देवैः कृतम् । द्वितीयं दर्शनम् । यद्वै शतरुद्रियं जुहोतीत्युपक्रम्य प्रजापतेर्विस्रस्तादित्यभिधाय मन्त्रार्थानुगुण्येन श्रुतिर्भवति । स एव शतशीर्षो रुद्रः समभवदिति । नमस्ते रुद्र मन्यवे रौद्रोऽध्यायः परमेष्ठिन आर्षं देवानां वा प्रजापतेर्वा आद्योऽनुवाकः षोडशभिर्ऋग्भिः । तत्र एको रुद्रो देवता एका गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभौ द्वे जगत्यौ । नमोऽस्तु ते । हे रुद्र, ते तव संबन्धिने मन्यवे क्रोधाय । उत अपि च । ते तव संबन्धिने इषवे काण्डाय नमोऽस्तु । बाहुभ्याम् उत अपि ते तव संबन्धिभ्यां बाहुभ्यां नमोऽस्तु ॥ १ ॥
म० पञ्चदशे अध्याये चयनमन्त्रान् समाप्य षोडशे शतरुद्रियाख्यहोममन्त्रा उच्यन्ते । 'शतरुद्रियहोम उत्तरपक्षस्यापरस्याᳪं᳭ स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान् गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यध्यायेन त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे पञ्चान्ते च नाभिमात्रे प्राक् च प्रत्यवरोहेभ्यो मुखमात्रे प्रतिलोमं प्रत्यवरोहान् जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्' ( का० १८ । १।१-५) । अस्यार्थः । हिरण्यशकलैरग्निप्रोक्षणानन्तरं शतरुद्रियसंज्ञो होमः तस्याहवनीये प्राप्तावपवादमाह । उत्तरपक्षपश्चिमकोणे याः परिश्रितो जङ्घामात्र्यादयः पूर्वं निखातास्तासु होमः । तत्र विधिः । जर्तिलैरारण्यतिलैर्मिश्रान् गवेधुकासक्तूनर्कपत्रेण जुहोति । किं कुर्वन् । अर्ककाष्ठेन संततं क्षारयन् परिश्रित्सु पातयन् अर्कपत्रं दक्षकरेणादायार्ककाष्ठं वामेनादाय तेन पातनीयम् । सक्तुस्थाने अजादुग्धमिति केचित् । उदङ्मुखो नमस्त इत्यध्यायेन । तत्रानुवाकत्रयान्ते 'अर्भकेभ्यश्च वो नमः' (क० २६ ) इत्यत्र जानुमात्रे परिश्रिति स्वाहाकारो विधेयः । पञ्चानुवाकान्ते 'सुधन्वने च' (क. ३६ ) इत्यत्र नाभिमात्रे परिश्रिति स्वाहाकारः । 'नमोऽस्तु रुद्रेभ्यः' (क० ६३) इति प्रत्यवरोहमन्त्राः तेभ्यः प्राक् मुखमात्रपरिश्रिति स्वाहाकारः । नमोऽस्त्विति कण्डिकात्रयेण प्रतिलोमं होमः। 'ये दिवि' (क० ६४ ) इति मुखमात्रे । 'येऽन्तरिक्षे (क० ६५ ) इति नाभिमात्रे । 'ये पृथिव्याम्' (क० ६६) इति जानुमात्रे । इति सूत्रार्थः । नमस्ते । षोडशर्चोऽनुवाकः एकरुद्रदेवत्यः आद्या गायत्री तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ । अध्यायस्य परमेष्ठिदेवप्रजापतय ऋषयः । मा नः (क० १५-१६) इति द्वयोः कुत्सोऽपि ऋषिः । हे रुद्र, रुत् दुःखं द्रावयति रुद्रः । यद्वा 'रु गतौ' ये गत्यर्थास्ते ज्ञानार्थाः । रवणं रुत् ज्ञानं राति ददाति रुद्रः ज्ञानम् भावे क्विप् तुगागमः । रुत् ज्ञानप्रदः । यद्वा पापिनो नरान् दुःखभोगेन रोदयति रुद्रः । हे रुद्र, ते तव मन्यवे क्रोधाय नमः नमस्कारोऽस्तु । उतो अपिच ते तवेषवे वाणाय नमः । उतापि च ते तव बाहुभ्यां नमः । तव क्रोधबाणहस्ता अस्मदरिष्वेव प्रसरन्तु नास्मास्वित्यर्थः ॥ १॥

द्वितीया ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ।। २ ।।
उ०. या ते तव हे रुद्र, शिवा शान्ता तनूः शरीरम् । अघोरा अविषमा। अपापकाशिनी पापमसुखं या प्रकाशयति सा पापकाशिनी पापप्रकाशिनी । न पापकाशिनी अपापकाशिनी । तया नः अस्मान् तन्वा शन्तमया सुखतमया सुखयितृतमया अतिशयेन सुखयित्र्या । गिरिशन्त गिरौ पर्वते कैलासाख्ये अवस्थितः शं सुखं तनोतीति गिरिशन्तः । यद्वा गिरि वाच्यवस्थितः सुखं तनोतीति । यद्वा गिरौ मेघेऽवस्थितो वृष्टिद्वारेण सुखं तनोतीति । तस्य संबोधनं हे गिरिशन्त । अभिचाकशीहि अभिपश्य । सुखयितुमिति शेषः । चाकशीतिः पश्यतिकर्मा ॥ २ ॥
म०. हे रुद्र, या ते तवेदृशी तनूः शरीरं हे गिरिशन्त, तया तन्वा नोऽस्मानभिचाकशीहि अभिपश्य । चाकशीतिः पश्यतिकर्मा ( नि० ३ । ११ । ८) । कीदृशी तनूः । शिवा शान्ता मङ्गलरूपा । यतोऽघोरा अविषमा सौम्या अतएवाऽपापकाशिनी पापमसुखं काशयति प्रकाशयति पापकाशिनी न पापकाशिनी अपापकाशिनी । या पुण्यफलमेव ददाति न पापफलमित्यर्थः । गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः । अमति गच्छति जानातीत्यन्तः सर्वज्ञः । 'अम गतौ भजने शब्दे' कर्तरि क्तः । गिरिशश्वासावन्तश्च गिरिशन्तस्तत्संबुद्धिः । शकन्ध्वादित्वात्पररूपम् (पा० ६ । १ । ९४ ) कीदृश्या तन्वा । शन्तमया सुखतमया ॥२॥

तृतीया।
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ᳪं᳭सी॒: पुरु॑षं॒ जग॑त् ।। ३ ।।
उ० यामिषुम् । याम् इषुं काण्डम् । हे गिरिशन्त गिरौ पर्वतेऽवस्थितः कैलासाख्ये सुखं तनोतीति गिरिशन्तः तस्य संबोधनं हे गिरिशन्त । हस्ते बिभर्षि धारयसि । अस्तवे असितुं क्षेप्तुमित्यर्थः । शिवां गिरित्र गिरौ कैलासेऽवस्थितः त्रायते भक्तानिति गिरित्रः तस्य संबोधनं हे गिरित्र । तां कुरु । किंच। माहिंसीः मावधीः पुरुषम् जगत् जङ्गमं च गवादि ॥ ३ ॥
म० हे गिरिशन्त, त्वं यामिषुं बाणं हस्ते बिभर्षि धारयसि । किं कर्तुम् । अस्तवे 'असु क्षेपणे' तुमर्थे तवेप्रत्ययः । असितुं शत्रून् क्षेप्तुमित्यर्थः । गिरित्र, गिरौ कैलासे स्थितो भूतानि त्रायत इति गिरित्रः तामिषुं शिवां कल्याणकारिणीं कुरु । किंच पुरुषं पुत्रपौत्रादिकं जगत् जङ्गममन्यदपि गवाश्वादिकं मा हिंसीः मा वधीः ॥ ३ ॥

चतुर्थी।
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मᳪं᳭ सु॒मना॒ अस॑त् ।। ४ ।।
उ० शिवेन वचसा । शिवेन वचनेन त्वा त्वाम् । गिरिश गिरौ पर्वते कैलासाख्ये शेते इति गिरिशः तस्य संबोधनम् हे गिरिश । अच्छावदामसि । 'अच्छाभेराप्तुमिति शाकपूणिः' । 'इदन्तो मसि' । तथा अभिवदाम । यथा येन प्रकारेण नः अस्माकं सर्वम् इत् । इच्छब्द एवार्थे । सर्वमेव जगत् जङ्गमादि। अयक्ष्मम् । यक्ष्मा व्याधिः । व्याधिरहितम् सुमनाश्च शोभनमनस्कं च असत् भूयात् ॥ ४ ॥
म० गिरौ कैलासे शेते गिरिशः हे गिरिश, शिवेन वचसा मङ्गलेन स्तुतिरूपेण वचनेन त्वा अच्छ त्वां प्राप्तुं वयं वदामसि वदामः प्रार्थयामहे । 'अच्छाभेराप्तुमिति शाकपूणिः' (नि० ५। २८ ) संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः । 'इदन्तो मसि' (पा. ७ । १ । ४६ )। किं वदाम इत्यत आह । नोऽस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं नराः पश्वादि यथा येन प्रकारेण अयक्ष्मं नीरोगं सुमनाः शोभनमनस्कं च असत् भवति यथा कुर्विति शेषः । सुमनःशब्दे पुंस्त्वमार्षं जगद्विशेषणत्वात् । असदित्यत्र 'लेटोऽडाटौ' । (पा० ३ । ४ । ९४ ) इत्यट् इलोपः ॥ ४ ॥

पञ्चमी।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ᳪं᳭श्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राची॒: परा॑ सुव ।। ५ ।।
उ० अध्यवोचत् । अधीत्युपरिभावमैश्वर्यं वा । अधिवदतु ब्रवीतु कंचित्स्वकीयं पुरुषम् भगवान् रुद्रः । अधिवक्ता ऐश्वर्येणैव यो वदितुं जानाति । प्रथमो दैव्यो भिषक् मुख्यो देवसंबन्धी भिषक् वैद्यः । किमधिवदत्वित्यत आह । अहींश्च सर्वान् जम्भयन् । 'जभिजृभी गात्रविनामे' । सर्वान् सर्वप्रकारान् नाशयन् । सर्वाश्च यातुधान्यः यातनाः दुःखं कष्टं तत्प्राणिषु धारयन्तीति यातुधान्यः राक्षसीः जम्भयन् । अधराचीः अधोञ्चनाः कृत्वा । परासुव पराक्षिप । यद्वा रुद्र एवोच्यते । अध्यवोचदधिवक्ता अधिवदतु ईश्वरो वक्ता । प्रथमो देवसंबन्धी भिषक् वैद्यः । अहींश्च सर्वान् । जम्भयन् सर्वाश्च यातुधान्यः अधराचीः कृत्वा परासुव क्षिप ॥ ५॥
म० रुद्रो मामध्यवोचत् अधिवक्तु मां सर्वाधिकं वदतु, तेनोक्ते मम सर्वाधिक्यं भवत्येवेत्यर्थः । कीदृशः । अधिवक्ता अधिकवदनशीलः । प्रथमः सर्वेषां मुख्यः पूज्यत्वात् । दैव्यः देवेभ्यो हितः । भिषक् रोगनाशकः स्मरणेनैव रोगनाशाद्भिषक्त्वम् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे रुद्र, सर्वा यातुधान्यः यातुधानीः राक्षसीः त्वं परासुव पराक्षिप अस्मभ्यो दूरीकुरु । किं कुर्वन् । सर्वानहीन् सर्पव्याघ्रादीन् जम्भयन् विनाशयन् । कीदृशीर्यातुधान्यः । अधराचीः अधरेऽधोदेशेऽञ्चन्ति ता अधराच्यः ताः अधोऽधोगमनशीलाः । चौ समुच्चये । सर्पनाशराक्षसीक्षेपौ सदैव कुर्वित्यर्थः ॥ ५॥

षष्ठी।
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चै॑नᳪं᳭ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ᳪं᳭ हेड॑ ईमहे ।। ६ ।।
उ० असौ यः । आदित्यरूपेणात्र रुद्रः स्तूयते । अभिनयेन दर्शयन्नाह । असौ यस्ताम्रः ताम्रवर्णः । उदयकाले अस्तमनकाले च । अरुणः अरुणवर्णः रक्तवर्णः । उत बभ्रः अपिच बभ्रुवर्णः कपिलवर्णः । सुमङ्गलः शोभनानि मङ्गलान्यस्येति सुमङ्गलः । अवास्य हेड ईमह इत्यनुषङ्गः। । ये च एनं भगवन्तमादित्यं रुद्राः रश्मयः । अभितः इतश्चेतश्च । दिक्षु सर्वासु च । श्रिताः स्थिताः सहस्रशः असंख्याताः अग्र एषां हेड ईमहे । अव ईमहे अवनयामः । एषां संबन्धी हेडः क्रोधः । हेड इति क्रोधनामसु पठितम् । यद्वा रुद्र एवोच्यते । असौ यस्ताम्रवर्णः अरुणवर्णः अपिच बभ्रुवर्णः सुमङ्गलः । अनेकानि हि रूपाणि रुद्रः करोति कार्यवशात् । समञ्जसमन्यत् ॥ ६॥
म० आदित्यरूपेणात्र रुद्रः स्तूयते । योऽसौ प्रत्यक्षो रुद्रो रविरूपः । च पुनरर्थे । रुद्रा एनमभितोदिक्षु प्राच्यादिषु श्रिताः किरणरूपेण सहस्रशोऽसंख्याः एषां हेडः क्रोधमस्मदपराधजं वयमेव ईमहे निवारयामः भक्त्या निराकुर्मः । हेड इति क्रोधनाम । 'अभिसर्वतसोः' (पा० २।३। २) द्वितीया । कीदृशोऽसौ । ताम्रः उदयेऽत्यन्तं रक्तः। अरुणः रक्तोऽस्तकाले । उतापि च बभ्रुः पिङ्गलवर्णोऽन्यदा । सुमङ्गलः शोभनानि मङ्गलानि यस्य मङ्गलरूपः रव्युदये सर्वमङ्गलप्रवर्तनात् ॥ ६ ॥

सप्तमी।
असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः स दृ॒ष्टो मृ॑डयाति नः ।। ७ ।।
उ० असौ यः आदित्यः अवसर्पति अवाचीनं सर्पति गच्छति अस्तमयकाले । नीलग्रीवः नीलग्रीव इवास्तं गच्छन् लक्ष्यते । विलोहितः धारणाधनु(?)मात्रेणाप्राप्तविलोहितमण्डलाभिप्रायम् । उतैनं गोपा अदृश्रन् अथैनं गोपालाः अभिपश्यन्ति गवां प्रवेशनकालं मन्यमानाः । अदृश्रन्नुदहार्यः। दृशेरुडागमश्छान्दसः । पश्यन्ति च उदकहार्यः कुम्भदास्यः। आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । स दृष्टो दृष्टमात्रो मृडयाति । 'मृड सुखने' सुखयति । नः अस्मान् । अत्यन्तं मृदुहृदयतम इत्यभिप्रायः । यद्वा रुद्र एवोच्यते । ऋषिराह । असौ यः अवाचीनं सर्पति अभिमुखं गच्छति । नीलग्रीवो नीलकण्ठः विलोहितः विगतकलुषभावः । उतैनं गोपा अदृश्रन्नुदहार्य इति गोपालाङ्गनादिप्रसिद्धिं दर्शयति । समञ्जसमन्यत् ॥ ७ ॥
म० योऽसावादित्यरूपोऽवसर्पति उदयास्तमयौ कुर्वन्निरन्तरं गच्छति । एनं गोपा उत गोपाला अपि वेदोक्तसंस्कारहीनाः अदृश्रन् पश्यन्ति । उदहार्यः उदकं हरन्ति ता उदहार्यः 'मन्थौदन-' (पा० ६ । ३ । ६०) इत्यादिना उदकस्योदादेशः। जलहारिण्यो योषितोऽप्येनमदृश्रन् पश्यन्ति । आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । दृशेर्लुङि 'इरितो वा' (पा. ३ । १।५७) इति च्लेरङ् रुगागमश्छान्दसः कीदृशः । नीलग्रीवः विषधारणेन नीला ग्रीवा कण्ठो यस्य अस्तमये नीलकण्ठ इव लक्ष्यः । विलोहितः विशेषेण रक्तः । स रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखयतु । असौ मण्डलवर्ती रुद्र एव तपतीति ज्ञातः सुखं करोत्वित्यर्थः ॥७॥

अष्टमी।
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ।। ८ ।।
उ० नमोऽस्तु नमस्कारोऽस्तु । नीलग्रीवाय नीलकण्ठाय सहस्राक्षाय बह्वक्षाय । मीढुषे 'मिह सेचने' । सेक्त्रे तरुणाय । अविपरिणामीति स्तूयते । अथो अपिच ये अस्य सत्वानः सत्वभूता रुद्राः अहं तेभ्यः अकरम् अकरवम् करोमि । नमस्कारम् ॥ ८॥
म० नीलग्रीवाय नीलकण्ठाय रुद्राय नमोऽस्तु नमस्कारो भवतु । कीदृशाय । सहस्राक्षाय सहस्रमक्षीणि यस्य इन्द्रस्वरूपिणे । मीढुषे मिमेहेति मीढ्वन् तस्मै ‘मिह सेचने' 'दाश्वान्साह्वान्मीढ्वांश्च' ( पा० ६ । १ । १२) इति क्वसन्तो निपातः । सेक्त्रे वृष्टिकर्त्रे पर्जन्यरूपायेत्यर्थः । तरुणाय वा । अथो अपिच अस्य रुद्रस्य ये सत्वानः प्राणिनो भृत्यास्तेभ्योऽहं नमो नमस्कारमकरं करोमि । 'कृञ् कृतौ' शप् लङि उत्तमैकवचनम् ॥ ८ ॥

नवमी।
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ।। ९ ।।
उ० प्रमुञ्च धन्वनः धनुषः त्वमुभयोः आर्त्न्योर्धनुरन्तयोः ज्यां गुणम् । याश्च ते तव हस्ते इषवः । परा ता भगवो वप परावप पराक्षिप ताः हे भगवन् महदैश्वर्ययुक्त ॥ ९॥
म० हे भगवः भगं षड्विधमैश्वर्यमस्यास्तीति भगवान् । 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८।३।१) इति रुत्वम् । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तेः । हे भगवन् धन्वनः धनुष उभयोरार्त्न्योः द्वयोः कोट्योः स्थितां ज्यां मौर्वीं त्वं प्रमुञ्च दूरीकुरु । याश्च ते तव हस्ते इषवः बाणाः ता इषूः परावप पराक्षिप ॥ ९ ॥

दशमी।
विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।। १०।।
उ० विज्यं धनुः विगतगुणं धनुः । कपर्दोऽस्यास्तीति कपर्दी । कपर्दोऽस्य जटाबन्धः । विशल्यः शल्यरहितः । बाणवान् इषुधिः । उत अपिच । अनेशन् 'णश अदर्शने' । नष्टा । अस्य या इषवः आभुः रिक्तः अस्य निषङ्गधिः खड्गनिक्षेपः । निषज्यत इति निषङ्गः खड्ग उच्यते तद्यस्मिन्धीयते स निषङ्गधिः । न्यस्तसर्वशस्त्र इत्यभिप्रायः ॥१०॥
म० कपर्दो जटाजूटोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुः विज्यं मौवींरहितमस्तु । विगता ज्या यस्य तत् । उतापि बाणवान् बाणा अस्मिन् सन्तीति बाणवान् इषुधिः विशल्यो विफलोऽस्तु । बाणाग्रगतो लोहभागः शल्यम् इषुधिर्निरग्रबाणोऽस्तु । अस्य रुद्रस्य या इषवः ता अनेशन् नश्यन्तु 'णश अदर्शने' नशेरत एत्वम् अङि वेत्येत्वम् पुषादित्वात् च्लेरङ् । अस्य रुद्रस्य निषङ्गधिः निषज्यत इति निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषड्गधिः कोशः स आभुः रिक्तः खड्गरहितोऽस्तु । रुद्र अस्मान् प्रति न्यस्तसर्वशस्त्रोऽस्त्वित्यर्थः ॥१०॥

एकादशी।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: । तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ।। ११ ।।
उ० या ते या ते तव हेतिरायुधम् हे मीढुष्टम 'मिह सेचने' । सेक्तृतम युवतम । परिणामनिषेधद्वारेण स्तुतिः । अस्मात्सर्वं भवति । हस्ते बभूव भूता । ते इति निरर्थकः । धनुरिति हेतिविशेषणम् । तया हेत्या अस्मान्विश्वतः सर्वतः त्वम् अयक्ष्मया । यक्ष्मा व्याधिः । व्याधिरहितया परिभुज परिपालय ॥ ११ ॥
म० अतिशयेन मीढ्वान्मीढुष्टमः 'तसौ मत्वर्थे' ( पा० १। ४ । १९) इति भसंज्ञायां 'वसोः संप्रसारणम्' (पा० ६ । ४। १३१ ) इति संप्रसारणम् । षत्वष्टुत्वे । हे मीढुष्टम सेक्तृतम वर्षुक, ते तव हस्ते या धनुः हेतिः धनूरूपमायुधं बभूव अस्ति । एकं तेपदं पादपूरणाय । तया धनूरूपया हेत्या विश्वतः सर्वतोऽस्मान् परिभुज परिपालय । भुजेर्विकरणव्यत्यये शप्रत्ययः । कीदृश्या तया । अयक्ष्मया नास्ति यक्ष्मा रोगो यस्यास्तया निरुपद्रवया दृढया अनुपद्रवकारिण्या वा ॥ ११॥

द्वादशी।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ।। १२ ।।
उ० परि ते । परिवृणक्तु परिवर्जयतु । ते तव धन्वनः धनुषः संबन्धिनी हेतिः आयुधं काण्डलक्षणम् अस्मान् विश्वतः सर्वतः । अथो अपिच । य इषुधिर्बाणवान् तव आरे दूरे अस्मत् अस्मत्तः निधेहि स्थापय तम् इषुधिम् ॥ १२ ॥
म०. हे रुद्र, ते तव धन्वनो हेतिः। धनुःसंबन्धि आयुधं विश्वतः सर्वतोऽस्मान् परिवृणक्तु त्यजतु । मा हन्त्वित्यर्थः । 'वृजी वर्जने' रुधादित्वात् श्नम् । अथो अपिच यस्तव इषुधिस्तमस्मत्सकाशात् आरे दूरे निधेहि अस्मत्तो दूरे स्थापय ॥१२॥

त्रयोदशी।
अ॒व॒तत्य॒ धनु॒ष्ट्वᳪं᳭ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ।। १३ ।।
उ० अवतत्य अवतार्य धनुः त्वम् हे सहस्राक्ष शतेषुधे शतशब्दो बहुपर्यायः । निशीर्य शल्यानां मुखा शातयित्वा फलानां मुखानि । शिवः शान्तः नः अस्माकं सुमनाः शोभनमनस्कश्च भव ॥ १३॥
म० सहस्रमक्षीणि यस्य शतमिषुधयो यस्य हे सहस्राक्ष, हे शतेषुधे, त्वं नोऽस्मान् प्रति शिवः शान्तः सुमनाः शोभनचित्तश्च भव । अनुगृहाणेत्यर्थः । किं कृत्वा । धनुरवतत्य अपज्याकं कृत्वा शल्यानां मुखा मुखानि बाणफलाग्राणि निशीर्य शीर्णानि कृत्वा 'शॄ हिंसायाम्' 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' 'ऋत इद्धातोः' (पा० ७ । १।१००) इति ॥ १३ ॥

चतुर्दशी।
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। १४ ।।
उ० नमस्ते नमोऽस्तु ते तव आयुधाय अनातताय अवतारिताय । धृष्णवे धर्षणशीलाय प्रगल्भाय । उभाभ्याम् - उत अपिच । ते तव नमोऽस्तु । बाहुभ्यां तव धन्वने । धनुषे नम इत्यनुवर्तते ॥ १४ ॥ |
म० हे रुद्र, ते तवायुधाय नमोऽस्तु बाणाय नतिरस्तु । कीदृशाय । अनातताय धनुष्यनारोपिताय । धृष्णवे धर्षणशीलाय । धृषेः क्नुप्रत्ययः । रिपून् हन्तुं प्रगल्भाय । उतापि च ते तवोभाभ्यां बाहुभ्यां नमः तव धन्वने धनुषेऽपि नमोऽस्तु । तस्यापि विशेषणम् अनातताय अवतारितमौर्वीकाय ॥ १४ ॥

पञ्चदशी।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ।। १५ ।।
उ० मा नः मावधीः नः अस्माकं महान्तं वृद्धं वयःप्रभृतिभिः । उत मा नो अर्भकम् अपि च मावधीः नः अस्माकमर्भकमल्पम् । मा न उक्षन्तम् मावधीः नः अस्माकमुक्षन्तम् । 'उक्ष सेचने' । सिञ्चन्तं तरुणमिति यावत् । उत मा न उक्षितम् । अपिच मावधीः नः अस्माकमुक्षितं सिक्तं गर्भस्थमित्यर्थः । मा नो वधीः पितरम् मावधीः नः अस्माकं पितरम् । आदरार्थं पुनर्वचनम् । महान्तमिति सिद्धत्वात् । मोत मातरम् मावधीः अपि च मातरम् । मा नः प्रियास्तन्वः रुद्र रीरिषः । रिषतिर्हिंसार्थः । मारीरिषः माहिंसीः। नः अस्माकं प्रियास्तन्वः प्रियाणि शरीराणि पुत्रपौत्रलक्षणानि । हे रुद्र ॥ १५ ॥
म० हे रुद्र, नोऽस्माकं महान्तं वृद्धं गुरुपितृव्यादिकं मा वधीः मा हिंसीः । उतापि नोऽस्माकमर्भकं बालं मा वधीः । नोऽस्माकमुक्षन्तं सिञ्चन्तं तरुणं मा वधीः । उतापि नोऽस्माकमुक्षितं सिक्तं गर्भस्थं च मा वधीः । नः पितरं जनकं मा वधीः । उतापि नो मातरं जननीं मा वधीः । महान्तमित्यनेन सिद्धयोर्मातापित्रोः पुनरादानमादरार्थम् । नोऽस्माकं प्रिया वल्लभाः तन्वः तनूः शरीराणि पुत्रपौत्ररूपाणि मा रीरिषः मा हिंसीः । रिषतिर्हिंसाकर्मा ॥ १५ ॥

षोडशी।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒: सद॒मित् त्वा॑ हवामहे ।। १६ ।।
उ० मा नः । मा रीरिषः । रिषतिहिंसाकर्मा । मा हिंसीः नः अस्माकम् । तोके पुत्रविषये । मा हिंसीः तनये पौत्रविषये । मा हिंसीः नः अस्माकम् आयुषि विषयभूते । मा नो गोषु मा हिंसीः नः अस्माकं गोषु विषयभूतासु । मा नो अश्वेषु मा हिंसीः नः अस्माकमश्वेषु विषयभूतेषु । यद्वा विभक्तिव्यत्ययेन व्याख्यानम् । मारीरिषः अस्माकं तोकं तनयमायुर्गा अश्वानिति । मा नो वीरान रुद्रभामिनो वधीः मावधीः नः अस्माकं वीरान हे रुद्र, भामिनः । 'भाम क्रोधे' । क्रोधसंयुक्तान् । कः प्रत्युपकार इति चेत् । हविष्मन्तः हविषा संयुक्ताः सदं सदाकालम् । इच्छब्द एवार्थे । त्वामेवाह्वयामहे आह्वयामो यागार्थम् । अनन्यशरणा वयमित्यभिप्रायः ॥ १६ ॥
म० हे रुद्र, नोऽस्माकं तोके पुत्रे तनये पौत्रे मा रीरिषः मा हिंसीः । नः आयुषि जीवने मा हिंसीः । नो गोषु धेनुषु मा रीरिषः । नोऽश्वेषु तुरगेषु । मा रीरिषः । विभक्तिव्यत्ययो वा । तोकं तनयमायुर्गा अश्वान्मा हिंसीः । 'भाम क्रोधे । भामिनः क्रोधयुतानपि नोऽस्माकं वीरान् भृत्यान्मा वधीः । क उपकार इति चेत् । हविष्मन्तः हविर्युक्ताः सदमित् सदैव त्वां वयं हवामहे यागायाह्वयामः । त्वदेकशरणा वयमिति भावः ॥ १६ ॥

सप्तदशी।
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नम॑: ।। १७ ।।
उ० नमो हिरण्यबाहवे । इतउत्तरं यजूंषि द्रापे अन्धसस्पते इति यावत् । द्वयोर्द्वयो रुद्रयोश्च स्तुतिः । तिस्रोशीतयो रुद्राणां कण्डिकायां कण्डिकायामष्टावष्टौ रुद्राः तेषां चोभयतोनमस्काराः अन्ये अन्यतरतोनमस्कारा अन्ये रुद्रास्ते घोरतरा अशान्ततराः यत उभयतोनमस्करा इति । नमोस्तु हिरण्यालंकारभूपितबाहवे । सेनान्ये च सेनां नयतीति सेनानीः । दिशां च पतये नमः । नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षरूपेभ्यो रुद्रेभ्यो नमस्कार इति । हरितानि पर्णानि केशा इव येषां लक्ष्यन्ते । पशूनां पतये नमः । नमः शष्पिञ्जराय नवप्ररूढानि तृणानि शष्पं तद्वर्णाय । त्विषीमते । त्विषिर्दीप्तिः । पथीनां पतये नमः । पथामिति प्राप्ते छान्दसम् । नमो हरिकेशाय लोहितकेशाय । उपवीतिने यज्ञोपवीतिने पुष्टानां समृद्धानां पतये नमः ॥ १७ ॥
म० 'नमो हिरण्यबाहव इत्युत्तरं द्रापे इति' (क० ४७) ऋक्पर्यन्तं सर्वाणि यजूंषि । तत्र नमो हिरण्यबाहव इत्यादीनां धनुष्कृद्भ्यश्च वो नम इत्यन्तानां (क० ४६ ) चत्वारिंशदधिकद्विशतसंख्याकानां यजुषां तावन्तो रुद्रा देवताः नमो वः किरिकेभ्य इत्यादिचतुर्णां (क० ४६) अग्निवायुसूर्या देवताः रुद्राणां प्रधानभूताः । छन्दांसि तु चतुरक्षरं दैवी बृहती पञ्चाक्षरं दैवी पङ्क्तिः षडक्षरं यजुर्गायत्री सप्ताक्षरं यजुरुष्णिक् अष्टाक्षरं यजुरनुष्टुप् नवाक्षरं यजुर्बृहती दशाक्षरं यजुःपङ्क्तिः एकादशाक्षरं यजुस्त्रिष्टुप् द्वादशाक्षरं यजुर्जगती चतुर्दशाक्षरं सामोष्णिगेकमेव किरिकेभ्य इति । एतान्येवात्र छन्दांसि । तद्रुद्रमध्ये केचनोभयतोनमस्काराः । पदद्वयात्पूर्वमेव पदोच्चारणात्पश्चाच्च नमःपदं येषां ते उभयतोनमस्काराः हिरण्यबाहवे इत्यादि श्वपतिभ्यश्च वो नम इत्यन्ताः । (क० २८) ततोऽन्यतरतोनमस्काराः अन्यतरत आदावेव यजुर्द्वयस्य नमस्कारो येषां ते नमो भवायेत्यादि (क. २८) प्रखिदते चेत्यन्ताः (क. ४६) । इषुमद्भ्य इत्यादि (क० २२) श्वपतिभ्यश्च इत्यन्ताः (क० २८) प्रत्यक्षाः व इति युष्मच्छब्दयोगात् । इषुकृद्भ्य इति । (क. ४६) उभयतोनमस्काराः सभाभ्य इति (क० २४ ) जातसंज्ञा रुद्राः । उभयतोनमस्काराः शान्ततमाः अन्यतरतोनमस्कारा घोरतराः । तेषां मन्त्राणामर्थ उच्यते । एकैकस्यां कण्डिकायामष्टावष्टौ रुद्राः । हिरण्यमाभरणरूपं बाह्वोर्यस्य स हिरण्यबाहुः । स च सेनां नयतीति सेनानीः तस्मै रुद्राय नमः । दिशां पतये पालकाय रुद्राय नमः । हरयो हरितवर्णाः केशाः पर्णरूपा येषां ते हरिकेशास्तेभ्यो वृक्षेभ्यो वृक्षरूपरुद्रेभ्यो नमः । पशूनां जीवानां पतये पालकाय रुद्राय नमः । शष्पिञ्जराय शष्पं बालतृणं तद्वत्पिञ्जराय पीतरक्तवर्णाय टिलोपश्छान्दसः। विषिर्दीप्तिरस्यास्तीति त्विषिमान् । संहितायां त्विषिशब्दस्य दीर्घः । ईदृशाय रुद्राय नमः । पथीनां मार्गाणां पालकाय नमः । पथिशब्दो मार्गवाची । उत्तरदक्षिणतृतीयामार्गाः श्रुतावुक्ताः । हरिकेशाय नीलवर्णकेशाय जरारहितायोपवीतिने मङ्गलार्थयज्ञोपवीतधारिणे रुद्राय नमः । पुष्टानां गुणपूर्णानां नराणां पतये स्वामिने नमः ॥ १७ ॥

अष्टादशी।
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नम॑: ।। १८ ।।
उ० नमो बभ्लुशाय बभ्रुवर्णाय । बभ्रुः कपिलः। व्याधिने विध्यतीति व्याधी । अन्नानां पतये नमः । नमो भवस्य हेत्यै । भवः संसारः । हेतिरायुधम् । संसारस्य छेत्त्रे । जगतां पतये नमः जगतां जङ्गमानाम् । नमो रुद्राय आततायिने । आततेन धनुषा एतीत्याततायी उद्यतायुधाय। क्षेत्राणां पतये नमः । नमः सूताय सूतोऽश्वसारथिः । अहन्त्यै अहन्त्रे । नहि सूतः कंचिदपि हन्ति । वनानां पतये नमः ॥ १८ ॥
म० बभ्लुशः कपिलवर्णः । यद्वा बिभर्ति रुद्रमिति बभ्लुर्वृषभस्तस्मिन् शेते स बभ्लुशः । विध्यति शत्रूनिति व्याधी तस्मै रुद्राय नमः । अन्नानां पालकाय नमः । भवस्य संसारस्य हेत्यै आयुधाय संसारनिवर्तकाय रुद्राय नमः । जगतां पालकाय रुद्राय नमः । आततेन विस्तृतेन धनुषा सह एति गच्छतीति आततायी उद्यतायुधस्तस्मै रुद्राय नमः । क्षेत्राणां देहानां पालकाय नमः । न हन्तीत्यहन्तिस्तस्मै अहन्त्रे सूताय सारथये तद्रूपाय रुद्राय नमः । सारथिर्न हन्ति वनानां पालकाय नमः ॥ १८ ॥

एकोनविंशी।
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नम॑: ।। १९ ।।
उ० नमो रोहिताय । वर्णतो निर्देशः । स्थपतये स्थपतिर्गृहादीनां चेता। चयनं करोति विश्वकर्मरूपेण । वृक्षाणां पतये नमः । नमो भुवन्तये भुवं पृथिवीं तनोति विस्तारयतीति भुवन्तिः । वारिवस्कृताय वरिवो धनम् तत्कृतं येन स वारिवस्कृतः । दीर्घत्वं छान्दसम् । ओषधीनां पतये नमः । नमो मन्त्रिणे । प्रसिद्ध एव मन्त्री । वाणिजः वणिगेव वाणिजः । कक्षाणां पतये नमः । नदीकक्षः पर्वतकक्षो वा । नम उच्चैर्घोषाय महाशब्दाय । आक्रन्दयते आक्रन्दः प्रसिद्धः । पत्तीनां पतये नमः । हस्त्यश्वरथपदातिसंख्या पत्तिः ॥ १९॥
म० रोहितो लोहितवर्णः स्थपतिर्गृहादिकर्ता विश्वकर्मरूपेण तस्मै नमः । वृक्षाणां पालकाय नमः । भुवं तनोतीति भुवन्तिर्भूमण्डलविस्तारकः । वरिवो धनं करोतीति वरिवस्कृत् स एव वारिवस्कृतः स्वार्थेऽण् । स्थानभोग्यकराय नमः । ओषधीनां ग्राम्यारण्यानां पालकाय नमः । आलोचनकुशलो मन्त्री । वणिगेव वाणिजः व्यापारकर्ता तद्रूपाय नमः । वनगता गुल्मवीरुधादयः कक्षास्तेषां पालकाय नमः । उच्चैर्घोषो ध्वनिर्यस्य स उच्चैर्घोषः । आक्रन्दयति रोदयतीत्याक्रन्दयन् युद्धे महाशब्दाय रिपुरोदकाय नमः । पत्तीनां सेनाविशेषाणां पदातीनां वा पालकाय नमः । ‘एको रथो गजश्चाश्वास्त्रयः पञ्च पदातयः । एष सेनाविशेषोऽयं पत्तिरित्यभिधीयते' इति व्यासोक्तेः (भार० १ । २८९) ॥ १९ ॥

विंशी।
नम॑: कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नम॑: ।।२० ।।
उ० नमः कृत्स्नायतया । कृत्स्नायततायेति प्राप्ते तकारलोपश्छान्दसः । कृत्स्नं चासावायतं च कृत्स्नायतः पूरितधनुः तस्य भावः कृत्स्नायतया तया हेतुभूतया धावते । आकर्णपूरितधनुषेत्यर्थः । सत्वनां सत्वानां पतये नमः । नमः सहमानाय अभिभवनशीलाय निव्याधिने नितरां विध्यतीति निव्याधी । आव्याधिनीनां पतये नमः आविध्यन्ति याः सेनास्ता आव्याधिन्यः । नमो निषङ्गिणे निषङ्गः | खड्गम् । ककुभाय ककुभ इति महन्नामसु पठितम् । | स्तेनानां पतये नमः स्तेनश्चौरः । नमो निचेरवे नितरां चेरतीति निचेरुः । परिचराय सर्वतोगन्रेआव । अरण्यानां पतये नमः ॥ २० ॥
म० कृत्स्नं समग्रमायतं विस्तृतम् अर्थाद्धनुः यस्य स कृत्स्नायतस्तस्य भावः कृत्स्नायतता तया आकर्णपूर्णधनुष्ट्वेन धावते युद्धे शीघ्रं गच्छते रुद्राय नमः । शीघ्रगतौ सरतेर्धावादेशः तलोपश्छान्दसः । यद्वा कृत्स्नः । सर्व आयो लाभो यस्य स कृत्स्नायस्तस्य भावः कृत्स्नायतता तया धावते सर्वलाभप्रापकत्वेन धावते । यत्र गच्छति तत्र सर्वेष्टं लाभं प्राप्नोतीत्यर्थः । सत्वन्शब्दः प्राणिवाची । सत्वानः सात्विकाः शरणागताः प्राणिनस्तेषां पालकाय नमः । सहतेऽरीनभिभवतीति सहमानः । नितरां विध्यति हन्ति शत्रूनिति निव्याधी तस्मै नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यः शूरसेनास्तासां पालकाय नमः । निषङ्गः खड्गः सोऽस्यास्तीति निषङ्गी ककुभो महान् तस्मै रुद्राय नमः । ककुभ इति महन्नामसु पठितम् । स्तेना गुप्तचोरास्तेषां पालकाय नमः । अपहारबुद्ध्या निरन्तरं चरतीति निचेरुः । परित आपणवाटिकादौ हरणेच्छया चरतीति परिचरः तस्मै नमः । अरण्यानां वनानां पतये नमः । रुद्रो लीलया चोरादिरूपं धत्ते । यद्वा | रुद्रस्य जगदात्मकत्वाच्चोरादयो रुद्रा एव ध्येयाः । यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रो द्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यं तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रस्य लक्षकम् । किं बहुना लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुक्ताः ॥ २० ॥

एकविंशी।
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नम॑: सृका॒यिभ्यो॒ जिघा॑ᳪं᳭सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नम॑: ।। २१ ।।
उ० नमो वञ्चते । वञ्चतिर्गत्यर्थः गन्त्रे । परिवञ्चते सर्वतोगन्त्रे स्तायूनां पतये नमः । स्तायुश्चौर एव । नमो निषङ्गिणे खड्गिणे इषुधिमते इषुधिरस्यास्तीति इषुधिमान् । तस्कराणां पतये नमः । तस्करश्चौर एव । नमः सृकायिभ्यः। सृक इति वज्रनामसु पठितम् । सृकेण गृहीतेन एतुं शीलमेषामिति सृकायिणः । जिघांसद्यः हन्तुमिच्छद्भ्यः मुष्णतां पतये नमः । 'मुष स्तेये' नमोऽसिमद्भ्यः । असिः खड्गं तत्संयुक्तेभ्यः नक्तंचरद्भ्यः रात्रौ गच्छद्भ्यः विकृन्तानां पतये नमः । विकर्तनशीला विकृन्ताः ॥ २१ ॥
म० वञ्चति प्रतारयतीति वञ्चन् परि सर्वतो वञ्चति परिवञ्चन् तस्मै नमः । स्वामिन आप्तो भूत्वा व्यवहारे कुत्रचित्तदीयं धनमपह्नुते तद्वञ्चनम् सर्वव्यवहारे धनापह्नवः परिवञ्चनम् । गुप्तचोरा द्विविधाः । रात्रौ गृहे खातादिना द्रव्यहर्तारः स्वीया एवाहर्निशमज्ञाता हर्तारश्च । पूर्व स्तेनाः उत्तरे स्तायवः तेषां पतये नमः । निषङ्गः खड्गो बाणो वा सोऽस्यास्तीति इषुधिर्बाणाधारोस्यास्तीतीषुधिमान् तदुभयरूपाय नमः। तस्कराः प्रकटचोरास्तेषां पतये नमः । सृक इति वज्रनाम । सृकेन वज्रेण सह यन्ति गच्छन्तीत्येवंशीलाः सृकायिणः अतएव शत्रून् हन्तुमिच्छन्ति जिघांसन्तीति जिघांसन्तः । हन्तेः शत्रन्ताच्छतृप्रत्ययः तेभ्यो रुद्रेभ्यो नमः । क्षेत्रादिषु धान्यापहर्तारो मुष्णन्तस्तेषां पालकाय नमः । असयः खड्गाः सन्ति येषां तेऽसिमन्तः नक्तं रात्रौ चरन्ति ते नक्तंचरन्तः खड्गं धृत्वा रात्रौ वीथिनिर्गतप्राणिघातकास्तेभ्यो रुद्रेभ्यो नमः । विकृन्तन्ति छिन्दन्ति ते विकृन्ताः छित्त्वापहरन्तस्तेषां पतये नमः ॥ २१ ॥

द्वाविंशी।
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो ऽस्य॑द्भ्यश्च वो॒ नम॑: ।। २२ ।।
उ० नमः उष्णीषिणे उष्णीषोऽस्यास्तीत्युष्णीषी । उष्णीषः शिरोवेष्टनम् । गिरिचराय गिरौ पर्वते चरतीति गिरिचरः । कुलुञ्चानां पतये नमः । कुत्सितं लुञ्चति कुलानि वा लुञ्चतीति कुलुञ्चः । नम इषुमद्भ्यः धन्वायिभ्यश्च वो नमः । व्याख्यायां बहुवचनधर्मः प्रदृश्यते । नमोस्तु ये यूयमिषुमन्तस्तेभ्य इषुमद्भ्यः । धनुषा गृहीतेन एतुं शीलमेषामिति धन्वायिनः । 'वा संज्ञायाम्' इति धनुषो धन्वन् धन्वायिभ्यः । चकारः समुच्चयार्थीयः । वः युष्मभ्यं नमः । आतन्वानेभ्यः उत्क्षिप्तज्याकानि धनूंषि कुर्वाणेभ्यः । प्रतिदधानेभ्यश्च वो नमः । प्रतिदधानाः संधानं कुर्वाणाः । नम आयच्छन्भ्यः् आकर्षद्भ्यो धनूंषि । अस्यद्भ्यश्च वो नमः । 'असु क्षेपणे' काण्डानि क्षिपद्भ्यः ॥ २२ ॥
म० उष्णीषं शिरोवेष्टनमस्यास्तीत्युष्णीषी उष्णीषेण शिरःप्रावृत्य ग्रामेऽपहर्तुं प्रवृत्तः गिरौ चरति गिरिचरः अध्वन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचारी तदुभयरूपाय रुद्राय नमः । कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चन्ति हरन्ति कुलुञ्चाः कुत्सितं लुञ्चन्ति वा तेषां पालकाय नमः । इषवो विद्यन्ते येषां ते इषुमन्तः जनान्भीषयितुं बाणधारिणस्तेभ्यो नमः । धन्वना धनुषा सह यन्ति गच्छन्ति धन्वायिनः हे रुद्राः, धनुर्धारिभ्यो वो युष्मभ्यं नमः । चकारो मन्त्रभेदज्ञापनार्थः । एवमग्रेऽपि । आतन्वन्त्यारोपयन्ति ज्यां धनुषीत्वातन्वानास्तद्रूपेभ्यो नमः । प्रतिदधते संदधते बाणं धनुषीति संदधानास्तेभ्यो वो युष्मभ्यं नमः । आयच्छन्त्याकर्षन्ति धनूंषि ते आयच्छन्तः तेभ्यो नमः । अस्यन्ति क्षिपन्ति बाणानित्यस्यन्तस्तेभ्यो नमः । 'असु क्षेपणे' दिवादिः ॥ २२ ॥

त्रयोविंशी।
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒: शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नम॑: ।। २३ ।।
उ० नमो विसृजद्भ्यः काण्डानि क्षिपद्भ्यः योद्धारं प्रति । विध्यद्भ्यश्च वो नमः । विध्यन्ति ताडयन्ति ये शरैस्तेभ्यो विध्यद्भ्यः । नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः । नमः शयानेभ्य आसीनेभ्यश्च वो नमः । नमः तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः । शतृशानजन्तान्येतानि पदानि ऋजून्येव ॥ २३ ॥
म० विसृजन्ति विमुञ्चन्ति बाणानरिष्विति विसृजन्तः तेभ्यो नमः । विध्यन्ति ताडयन्ति शत्रूनिति विध्यन्तस्तेभ्यो वो नमः । मुक्तस्य बाणस्य लक्ष्ये प्रवेशो वेधः । स्वपन्ति ते स्वपन्तः स्वप्नावस्थामनुभवन्तस्तेभ्यो नमः । जाग्रति ते जाग्रतः जाग्रदवस्थावन्तस्तेभ्यो वो नमः । शेरते ते शयानाः सुषुप्त्यवस्थावन्तस्तेभ्यो नमः । आसते आसीना उपविशन्तस्तेभ्यश्च वो नमः । तिष्ठन्ति ते तिष्ठन्तो गतिनिवृत्तास्तेभ्यो नमः । धावन्ति ते धावन्तो वेगवद्गतयस्तेभ्यो वो नमः ॥ २३ ॥

चतुर्विंशी।
नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृᳪं᳭ह॒तीभ्य॑श्च वो॒ नम॑: ।। २४ ।।
उ० इतउत्तरं जातेभ्यो जुहोति । जाता जातिविशेषाः त इहोच्यन्ते रुद्राद्वैतप्रतिपादनाय । रुद्रलोके किलेत्थंभूता रुद्राः सन्ति । तदुक्तम् । 'अथो एवᳪं᳭हैतानि रुद्राणां जातानि' इति । नमः सभाभ्यः । सभादिभ्यो रुद्रदृष्टिः कर्तव्येति तात्पर्यार्थः । सभापतिभ्यश्च वो नमः । नम अश्वेभ्यः अश्वपतिभ्यश्च वो नमः । नम आव्याधिनीभ्यः आविध्यन्तीत्याव्याधिन्यः सेनाः विविध्यन्तीभ्यश्च वो नमः । विविधं विध्यन्तीति विग्रहे सेना एवाभिधेया । नम उगणाभ्यः उदुपसर्गस्यान्त्यलोपः । उद्गूर्णगणाः समूहा यासु सेनासु ता एवमुच्यन्ते । तृᳪं᳭हतीभ्यश्च वो नमः । तृंहतिर्हिंसाकर्मा । हिंसन्तीभ्यः ॥ २४ ॥
म० अथ जातसंज्ञा रुद्रा रुद्रलोके सन्ति ते कथ्यन्ते रुद्राद्वैतप्रतिपादनाय । 'अथो एवᳪं᳭ हैतानि रुद्राणां जातानि' (९।१ । १९) इति श्रुतेः । सभारूपेभ्यो रुद्रेभ्यो नमः । सभादिषु रुद्रदृष्टिः कर्तव्येति तात्पर्यम् । सभायाः पतिभ्यो नमः । अश्वास्तुरगास्तेभ्यो वो नमः । अश्वानां पतिभ्यो वो नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यो देव्यः सेना वा ताभ्यो नमः । विशेषेण विध्यन्ति विविध्यन्त्यस्ताभ्यो वो नमः । उत्कृष्टा गणा भृत्यसमूहा यासां ता उगणाः । उपसर्गान्त्यलोपः पृषोदरादित्वात् । ब्राह्या उद्या मातरस्ताभ्यो नमः । तृंहन्ति घ्नन्ति तृंहत्यः 'तृहि हिंसायां' हन्तुं समर्था दुर्गादयस्ताभ्यो वो नमः ॥ २४ ॥

पञ्चविंशी।
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑: ।। २५ ।।
उ० नमो गणेभ्यः । गणः समूहः । गणपतिभ्यश्च वो नमः । नमो व्रातेभ्यः । व्रातमर्हन्ति ते व्राता गणविशेषाः । व्रातपतिभ्यश्च वो नमः । नमो गृत्सेभ्यः गृत्सो मेधावी । गृत्सपतिभ्यश्च वो नमः । नमो विरूपेभ्यः निकृष्टरूपेभ्यः नानारूपेभ्यो वा । विश्वरूपेभ्यश्च वो नमः । विश्वरूपाः सर्वरूपाः ॥ २५॥
म० देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो वो नमः । व्राता नानाजातीयानां सङ्घास्तेभ्यो नमः । व्रातपालका व्रातपतयस्तेभ्यो वो नमः । गृध्यन्ति वाञ्छन्ति गृत्सा विषयलम्पटाः गृत्सा मेधाविनो वा तेभ्यो नमः । गृत्सपतयस्तत्पालकास्तेभ्यो वो नमः । विकृतं रूपं येषां ते विरूपा नग्नमुण्डजटिलादयस्तेभ्यो वो नमः । | विश्वं सर्वं नानाविधं रूपं येषां ते विश्वरूपास्तुरङ्गवदनहयग्रीवादयस्तेभ्यो वो नमः ॥ २५ ॥

षड्विंशी।
नम॒: सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नम॑: ।। २६ ।।
उ० नमः सेनाभ्यः । सेना चमूः । सेनानिभ्यश्च वो नमः । सेना नयतीति सेनानीः । नमो रथिभ्यः रथा येषां सन्ति ते रथिनः । अरथेभ्यश्च वो नमः । अरथा रथवर्जिता योद्धारः । नमः क्षत्तृभ्यः रथानामधिष्ठातारः क्षत्तारः संग्रहीतृभ्यश्च वो नमः । संग्रहीतारः सारथयः । नमो महद्भ्यः महान्तो जातिविद्यादिभिरुत्कृष्टाः । अर्भकेभ्यश्च वो नमः । अर्भका अल्पकाः प्रमाणादिभिः ॥ २६ ॥
म० सेनारूपेभ्यो नमः । सेनां नयन्ति ते सेनान्यः सेनापतयस्तद्रूपेभ्यो वो नमः । ह्रस्वश्छान्दसः । रथाः सन्ति येषां ते रथिनः तेभ्यो नमः । नास्ति रथो येषां ते अरथास्तेभ्यो वो नमः । 'क्षि निवासगत्योः' तुदादिः । क्षियन्ति निवसन्ति | रथेष्विति क्षत्तारः । यद्वा ‘क्षिप प्रेरणे' क्षिपन्ति प्रेरयन्ति सारथीनिति क्षत्तारः रथाधिष्ठातारः 'नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृजामातृपितृदुहितृ' इत्यौणादिकसूत्रेण तृचप्रत्ययान्तो निपातः। तेभ्यो नमः । संगृह्णन्त्यश्वानिति संग्रहीतारः सारथयः ‘ण्वुल्। तृचौ' ( पा० ३ । १ । १३३) इति तृच् । तेभ्यो नमः । महान्तो जाति विद्यादिभिरुत्कृष्टान्तेभ्यो नमः । अर्भकाः प्रमाणादिभिरल्पाः तेभ्यो नमः ॥ २६ ॥

सप्तविंशी।
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्य॑: पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नम॑: श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नम॑: ।। २७ ।।
उ० नमः तक्षभ्यो रथकारेभ्यश्च वो नमः । रथकारो रथं करोतीति तक्ष्णो विशेषएव । नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः । कुलालाः कुम्भकाराः । कर्मारा लोहकाराः । नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमः । निषादा मात्सिकाः । पुञ्जिष्ठा जात्यन्तरसंबद्धाः पुल्कसादयः । नमः श्वनिभ्यः । शुनो नयन्तीति श्वन्यः तेभ्यः श्वनिभ्यः । नयतेर्ह्रस्वत्वं छन्दसम् । श्वगणिका उच्यन्ते । मृगयुभ्यश्च वो नमः । 'इदंयुरिदंकामयमानः' इति यास्कः । मृगान् कामयन्तीति मृगयवः पापर्द्धिकाः तेभ्यो मृगयुभ्यः ॥२७॥
म० तक्षाणः शिल्पजातयस्तेभ्यो नमः । रथं कुर्वन्तीति रथकाराः सूत्रधारविशेषास्तेभ्यो वो नमः । कुलालाः कुम्भकारास्तेभ्यो नमः । कर्मारा लोहकारास्तेभ्यो वो नमोऽस्तु । निषादा गिरिचरा मांसाशिनो भिल्लास्तेभ्यो नमः । पुञ्जिष्ठाः पक्षिपुञ्जघातकाः पुल्कसादयस्तेभ्यो वो नमः । शुनो नयन्ति ते श्वन्यः श्वकण्ठबद्धरज्जुधारकाः श्वगणिनः । नयतेर्ह्रस्व आर्षः तेभ्यो नमः । मृगान् कामयन्ते ते मृगयवः । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कोक्तेः । 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इति क्यच् 'क्यचि च' (पा. ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य 'न छन्दस्यपुत्रस्य' (पा. ७ । ४ । ३५) इति निषेधः। मृगयवो लुब्धकास्तेभ्यो वो नमः ॥ २७ ॥

अष्टाविंशी।
नम॒: श्वभ्य॒: श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।। २८ ।।
उ० नमः श्वभ्यः श्वपतिभ्यश्च वो नमः इत्युभयतोनमस्काराः समाप्ताः । नम इषुमद्भ्यो धन्वायिभ्यश्च वो नम इत्यारभ्य ये वःशब्दा अतिक्रान्ताः ते पूजावचना वा न युष्मदादेशाः । इतउत्तरं रुद्रनामानि । नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च । नमो नीलग्रीवाय च शितिकण्ठाय च । नीलग्रीवः कृष्णग्रीवः । शितिकण्ठः श्वेतकण्ठः ॥ २८ ॥
म० श्वानः कुक्कुरास्तद्रूपेभ्यो नमः । शुनां पतयः श्वपतयः श्वपालकास्तेभ्यो वो युप्मभ्यं नमः । श्वपतयः किरातवेषस्य रुद्रस्यानुचराः । नम इषुमद्भ्यो धन्वायिभ्य इत्यारभ्य ( क०. २२) ये वः शब्दास्ते पूजावाचका वा न युष्मदादेशाः । इत्युभयतोनमस्कारमन्त्राः समाप्ताः ॥ ॥ अथ नमस्कारोपक्रमानाम मन्त्रा उच्यन्ते । भवन्त्युत्पद्यन्ते जन्तवोऽस्मादिति भवस्तस्मै नमः । रुत् दुःखं द्रावयति नाशयति रुद्रस्तस्मै नमः । शृणाति हिनस्ति पापमिति शर्वस्तस्मै नमः । पशून् अज्ञान् पाति रक्षतीति पशुपतिस्तस्मै नमः । विषभक्षणेन नीला नीलवर्णा ग्रीवा कण्ठैकदेशो यस्य स नीलग्रीवस्तस्मै नमः । शितिः श्वेतः कण्ठो नीलातिरिक्तभागो यस्य शितिकण्ठस्तस्मै नमः । 'शिती धवलमेचकौ' ॥ २८ ॥

एकोनत्रिंशी।
नम॑: कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।। २९ ।।
उ० नमः कपर्दिने च व्युप्तकेशाय च । कपर्दी जटामुकुटधारी । व्युप्ता मुण्डिताः केशा यस्य व्युप्तकेशः । नमः सहस्राक्षाय च शतधन्वने च बह्वक्षाय बहुधनुष्काय च । नमो गिरिशयाय च शिपिविष्टाय च गिरौ शेत इति गिरिशयः। शिपिविष्टः शिप इव निर्वेष्टितः खलतिरित्यभिधेयः प्रजननवत् वेष्टनरहितः । यद्वा उदितमात्र आदित्य उच्यते । शिपिशब्देन च बालरश्मय उच्यन्ते । नमो मीढुष्टमाय चेषुमते च । मीढुष्टमः सेक्तृतमः युवा परिणामरहित इत्यर्थः । इषुमान् इषुसंयुक्तः ॥ २९ ॥
म०. कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै नमः । पाशुपतादिवेषेण । चकाराः सर्वे समुच्चयार्था ज्ञेयाः । व्युप्ता मुण्डिताः केशा यस्य स व्युप्तकेशस्तस्मै नमः । इत्यादिरूपेण मुण्डितत्वम् । सहस्रमक्षीणि यस्य सहस्राक्षस्तस्मै इन्द्ररूपाय । नमः । शतं धनूंषि यस्य शतधन्वा 'धनुषश्च' (पा० ५।४। | १३२ ) इत्यानङ् तस्मै बहुधनुर्धारिणे नमः । गिरौ कैलासे शेतेऽसौ गिरिशयस्तस्मै नमः । शिपिविष्टाय विष्णुरूपाय 'विष्णुः शिपिविष्टः' इति श्रुतेः । यद्वा शिपिषु पशुषु विष्टः प्रविष्टः 'पशवो वै शिपिः' इति श्रुतेः । सर्वप्राणिष्वन्तर्यामितया स्थित इत्यर्थः । यद्वा 'यज्ञो वै शिपिः' यज्ञेऽधिदेवतात्वेन प्रविष्टः शिपिरादित्यो वा मण्डलाधिष्ठातेत्यर्थः । तस्मै नमः । शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवतीति यास्कोक्तेः अतिशयेन मीढ़्वान् मेघरूपेण सेक्ता मीढुष्टमः तस्मै नमः । इषवो बाणाः सन्त्यस्येतीषुमान् तस्मै नमः ॥ २९ ॥

त्रिंशी।
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ।। ३० ।।
उ० नमो ह्रस्वाय च वामनाय च । रूपतोनमस्काराः । । ह्रस्वो लघुप्रमाणः । वामनः संकुचितावयवः। नमो बृहते च वर्षीयसे च । बृहते महते वर्षीयसे वृद्धतराय च सवृधे च । वृद्धः प्रसिद्धः सवृधः तेन समानवयाः । नमो sग्र्याय च प्रथमाय च । अग्रेभवोऽग्र्यः प्रथमो मुख्यः ॥३०॥
म० रूपतो नमस्काराः । ह्रस्वोऽल्पशरीरस्तस्मै नमः । वामनः सङ्कुचितावयवस्तस्मै नमः । बृहन् प्रौढाङ्गस्तस्मै नमः । वर्षीयानतिशयेन वृद्धः 'प्रस्थस्फ-' (पा० ६ । ४ । १५७ ) इत्यादिना वर्षादेशः तस्मै नमः । वृद्धो वयसाधिकः तस्मै नमः । वर्धन्ते विद्याविनयादिगुणैस्ते वृद्धाः पण्डिताः क्विप तैः सह वर्तत इति सवृत् तस्मै नमः । जगतामग्रे भवोऽग्र्यस्तस्मै नमः । 'अग्राद्यत्' । सर्वत्र मुख्यः प्रथमस्तस्मै नमः ॥ ३० ॥

एकत्रिंशी।
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒: शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।। ३१ ।।
उ० नम आशवे चाजिराय च शीघ्रनामनी । आशुरध्वनो व्यापारः । अजिरः 'अज गतिक्षेपणयोः' । अजतीत्यजिरः । नमः शीघ्र्याय च शीभ्याय च । शीघ्रशीभशब्दौ क्षिप्रनामनी । एवं तत्र भव इति छान्दसो यत्प्रत्ययः अधिष्ठातृदेवतावचनः । उपरितनेष्वेवमेव योज्यम् । नम ऊर्म्याय चावस्वन्याय च । ऊर्मिर्जलकल्लोलः । अवाचीनमुदकस्य गच्छतः स्वनो ध्वनिः अवस्वनः । नमो नादेयाय च द्वीप्याय च । नद्यां भवः द्वीपे भवः । द्वीपो नद्या मध्ये उदकरहितः प्रदेशः ॥ ३१ ॥
म० अश्नुते जगद्व्याप्नोतीत्याशुस्तस्मै नमः । अजति गच्छतीत्यजिरो गतिशीलस्तस्मै नमः । शीघे वेगवद्वस्तुनि भवः शीघ्र्यः । 'तत्र भवः' ( पा० ४ । ३ । ५३ ) इति यत्सर्वत्र । 'शीभृ कत्थने' शीभते कथ्यते इति शीभः आत्मश्लाघी पचाद्यच् तत्र भवः शीभ्यः । शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र भवाय नमः । ऊर्मिषु कल्लोलेषु भव ऊर्म्यः तस्मै नमः । अवगतः स्वनो यस्मात्तदवस्वनं स्थिरजलम् । यद्वा अव नीचैर्गर्तादौ स्वनोऽवस्वनस्तत्र भवाय । नद्यां भवो नादेयस्तस्मै नमः । 'स्त्रीभ्यो ढक्' (पा० ४ । १ । १२० ) । द्वीपे जलान्तर्वर्तिनिर्जलभूमौ भवो द्वीप्यस्तस्मै नमः ॥ ३१॥

द्वात्रिंशी।
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ।। ३२ ।।
उ० नमो ज्येष्ठाय च कनिष्ठाय च । वयोवस्थाभिप्रायाः षट्नमस्काराः । नमः पूर्वजाय चापरजाय च । पूर्वो जातः पूर्वजः अपरो जातः अपरजः । नमो मध्यमाय चापगल्भाय च। मध्ये भवो मध्यमः अपगतगर्भः अपगल्भः । एकगर्भान्तरितः । नमो जघन्याय च बुध्न्याय च । जघनः पश्चाद्भागः बुध्नमादिः तत्र भवः । इति द्वादश यत्प्रत्ययान्ता रुद्राः ॥ ३२ ॥
म० वयोवस्थाविशेषाभिधायकाः षट् नमस्काराः । अत्यन्तं प्रशस्यो ज्येष्ठस्तस्मै नमः । 'ज्य च' (पा० ५। ३।६१) इति प्रशस्यशब्दस्येष्ठनि ज्यादेशः । अत्यन्तं युवाल्पो वा कनिष्ठस्तस्मै नमः । 'युवाल्पयोः कनन्यतरस्याम्' ( पा० ५ । ३ । ६४ ) इति कनादेशः । पूर्व जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजस्तस्मै नमः । अपरस्मिन् काले प्रलये कालाग्निरूपेण जातोऽपरजस्तस्मै नमः । मध्ये सृष्टिसंहारान्तर्देवतिर्यगादिरूपेण भवो मध्यमस्तस्मै नमः 'मध्यान्मः' । 'गल्भ धार्ष्ट्ये' गल्भनं गल्भो धार्ष्ट्यम् । अपगतो गल्भो यस्मात्सोऽपगल्भोऽप्रगल्भोऽऽव्युत्पन्नेन्द्रियस्तद्रूपाय नमः । एकगर्भान्तरितोऽपगल्भो वा जघनं गवादीनां पश्चाद्भागस्तत्र भवो जघन्यस्तस्मै नमः । बुध्ने वृक्षादिमूले भवो बुध्न्यस्तस्मै नमः ॥ ३२ ॥

त्रयस्त्रिंशी।
नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ।। ३३ ।।
उ० नमः सोभ्याय च प्रतिसर्याय च । सोभ इति गन्धर्वनगरं सुभमिति वा । अभिचारकर्मसरः प्रतिसरः प्रत्यभिचारः । नमो याम्याय च क्षेम्याय च । नमः श्लोक्याय चावसान्याय च । श्लोकः शब्दः । अवसानं समाप्तिः । नम उर्वर्याय च खल्याय च । उर्वरः सीतयोः सर्वसस्याढ्ययोः सीतयोर्लाङ्गलमार्गद्वयोरन्तरम् । खलो धान्यखलः ॥ ३३ ॥
म० सोभं गन्धर्वनगरं तत्र भवः सोभ्यः । यद्वा उभाभ्यां पुण्यपापाभ्यां सहितः सोभो मनुष्यलोकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकं' (प्रश्नो० १) इत्याथर्वणश्रुतेः । तत्र भवः सोभ्यस्तस्मै नमः । प्रतिसरो विवाहोचितं हस्तसूत्रमभिचारो वा तत्र भवः प्रतिसर्यः तस्मै नमः । 'आहुः प्रतिसरं हस्तसूत्रे माल्यस्य मण्डने । व्रणशुद्धौ चमूपृष्ठे नियोज्यारक्षके तथा । कर्णेथ मन्त्रभेदेऽपि' इति विश्वः । यमे भवो याम्यः पापिनां नरकार्तिदाता तस्मै नमः । क्षेमे कुशले भवः क्षेम्यस्तस्मै नमः । श्लोका वैदिकमन्त्रा यशो वा तत्र भवः श्लोक्यस्तस्मै नमः । अवसानं समाप्तिर्वेदान्तो वा तत्र भवोऽवसान्यस्तस्मै नमः । उर्वरा सर्वसस्याढ्या भूः तत्र धान्यरूपेण भव उर्वर्यस्तस्मै नमः । खलो धान्य विवेचनदेशः तत्र भवः खल्यस्तस्मै नमः । 'खलः कल्के भुवि धान्ये पूरे कर्णे जयेऽधमे' इत्युक्तेः ॥ ३३ ॥

चतुस्त्रिंशी।
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑: श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒: शूरा॑य चावभे॒दिने॑ च ।। ३४ ।।
उ० नमो वन्याय च कक्ष्याय च । वनं वृक्षसमूह उदकं वा । कक्षो नदीकक्षः पर्वतकक्षो वा । नमः श्रवाय च प्रतिश्रवाय च श्रवः शब्दः प्रतिश्रवः प्रतिशब्दः । नम आशुषेणाय चाशुरथाय च । आशुसेनः शीघ्रसेनः। आशुरथः शीघ्ररथः। नमः शूराय चावभेदिने च । शूरः शवतेः । अवाचीनं भेत्तुं शीलमस्येत्यवभेदी ॥ ३४ ॥
म० वने वृक्षादिरूपेण भवो वन्यस्तस्मै नमः । वनं वृक्षौघो जलं वा । 'वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' । कक्षं तृणं वल्ली वा तत्र भवः कश्यस्तस्मै नमः । 'कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे' । श्रूयत इति श्रवः शब्दस्तद्रूपाय नमः । प्रतिश्रवः प्रतिशब्दस्तद्रूपाय नमः । आशुः शीघ्रा सेना यस्य स आशुषेणः तस्मै नमः । आशु शीघ्रो रथो यस्यासावाशुरथस्तस्मै नमः । शूराय युद्धधीराय नमः । अवभिनत्ति रिपून्नीचैर्विदारयतीत्यवभेदी तस्मै नमः ॥ ३४ ॥

पञ्चत्रिंशी।
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑: श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ।। ३५ ।।
उ० नमो बिल्मिने च कवचिने च । बिल्ममस्यास्तीति बिल्मी । बिल्मं भासनम् उत्तराङ्गमुच्यते । कवचं पट्टस्यूतं कर्पासगर्भम् । नमो वर्मिणे च वरूथिने च । वर्म लौहं वरूथं हस्तिन उपरि गृहाकारः कोष्टकः । नमः श्रुताय च श्रुतसेनाय च । श्रुताय सर्वलोकविदिताय । श्रुतसेना प्रसिद्धा च सूर्यस्य । नमो दुन्दुभ्याय च आहनन्याय च । दुन्दुभौ भवः । दुन्दुभ्यः आहनने भव आहनन्यः ॥ ३५॥
म० बिल्मं शिरस्त्राणमस्यास्तीति बिल्मी तस्मै नमः । पटस्यूतं कर्पासगर्भं देहरक्षकं कवचं तदस्यास्तीति कवची तस्मै नमः । लोहमयं शरीररक्षकं वर्म तदस्यास्तीति वर्मी तस्मै नमः । गजोपरिस्थो गजाकारः कोष्ठो वरूथः रथगुप्तिर्वा सोऽस्यास्ति वरूथी तस्मै नमः । 'वरूथं तु तनुत्राणे रथगोपनवेश्मनोः' । श्रुताय प्रसिद्धाय नमः । श्रुता प्रसिद्धा सेना यस्य स श्रुतसेनः तस्मै । दुन्दुभौ भेर्यां भवो दुन्दुभ्यः तस्मै । 'दुन्दुभिस्तु भेर्यां दितिसुते विषे' । आहन्यते ताड्यतेऽनेनेत्याहननं वाद्यसाधनं दण्डादि तत्र भव आहनन्यः तस्मै ॥ ३५॥

षट्त्रिंशी।
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च ।। ३६ ।।
उ० नमो धृष्णवे च प्रमृशाय च धृष्णुः प्रगल्भः। प्रमृशः सर्वं परिमृशति । पण्डित इत्यर्थः । नमो निषङ्गिणे चेषुधिमते च । निषङ्गं खड्गं तदस्यास्तीति निषङ्गी इषुधिमान् । इषवः धीयन्ते अस्मिन्निति इषुधिः । नमः तीक्ष्णेषवे चायुधिने च । तीक्ष्णा इषवोऽस्य विद्यन्त इति तीक्ष्णेषुः। आयुधमस्या-स्तीत्यायुधी । नमः स्वायुधाय च सुधन्वने च । शोभनायुधः स्वायुधः । शोभनधनुः सुधन्वा ॥ ३६ ॥
म० धृष्णोतीत्येवंशीलो धृष्णुः प्रगल्भः तस्मै । प्रमृशति विचारयति प्रमृशः पण्डितः तस्मै । 'इगुपध-' (पा० ३ । । १ । १३५) इति कः । निषङ्गिणे खड्गयुताय नमः । इषुधिमते तूणयुताय नमः । तीक्ष्णा असह्या इषवो बाणा यस्य । सः तीक्ष्णेषुः तस्मै । आयुधान्यन्यान्यपि सन्तीति आयुधी तस्मै । शोभनमायुधं त्रिशूलं यस्य स स्वायुध तस्मै । शोभनं धनुः पिनाकं यस्य स सुधन्वा तस्मै ॥ ३६ ॥

सप्तत्रिंशी।
नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।। ३७ ।।
सप्तत्रिंशी। नमः स॒त्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ।। ३७ ।।
उ० नमः स्रुत्याय च पथ्याय च । नद्या एकदिशोदकवाहिनी स्रुतिस्तत्रभवः स्रुत्यः । पथि भवः पथ्यः । नमः काट्याय च नीप्याय च । काटे भवः काट्यः । काटः कूपः। नीचैर्यन्ति यत्रापः स नीपः तत्र भवो नीप्यः । नमः कुल्याय च सरस्याय च । कुल्यायां भवः कुल्यः । सरसि भवः सरस्यः। नमो नादेयाय च वैशन्ताय च । नद्यां भवो नादेयः। 'स्त्रीभ्यो ढक्' । वेशन्तः तडागः तत्र भवो वैशन्तः ॥ ३७ ॥
म० स्रुतिः क्षुद्रः क्षुद्रमार्गो वा तत्र भवः स्रुत्यः तस्मै । पन्था रथाश्वादियोग्यो मार्गस्तत्र भवः पथ्यः तस्मै । कुत्सितमटति जनो यत्रेति काटो विषममार्गः तत्र भवः काट्यः तस्मै । काटः कुल्याप्रदेशो वा । नीचैः पतन्त्यापो यत्रेति नीपो गिर्यधोभागः । 'ऋक्पूरब्धूःपथाम्-' (पा० ५। ४ । ७४) इत्यप्रत्ययः 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (पा० ६ । ३ । ९७) इत्यप्शब्दस्येकारः तत्र भवो नीप्यः तस्मै । कुल्या कृत्रिमा सरित्तत्र भवः कुल्यः, कुलेषु देहेषु वान्तर्यामिरूपेण भवः कुल्यः तस्मै । 'कुलं देहेऽन्वये गणे' । सरसि भवः सरस्यः तस्मै । नद्यां भवो नादेयः तस्मै नदीजलरूपाय नमः । वेशन्तोऽल्पसरः तत्र भवो वैशन्तः तस्मै ॥ ३७ ॥

अष्टत्रिंशी।
नम॒: कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॒य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॒य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।। ३८ ।।
उ० नमः कूप्याय चावट्याय च । कूपे भवः कूप्यः । अवटे भवः अवट्यः । अवटो गर्तः । नमो वीध्र्याय चातप्याय च । 'इन्धी दीप्तौ' विगतदीप्तिर्वीध्रः घनागमः तत्र भवो वीध्र्यः । आतपे भव आतप्यः । नमो मेध्याय च विद्युत्याय च । निगदव्याख्यानम् । नमो वर्ष्याय चावर्ष्याय च । वर्षे भवः वर्ष्यः । अवर्षे भवः अवर्ष्यः ॥ ३८ ॥
म० कूपे भवः कूप्यः तस्मै । अवटो गर्तस्तत्र भवोऽवट्यः तस्मै । 'इन्धी दीप्तौ' विशेषेण इध्रं वीध्रं निर्मलं शरदभ्रं तत्र भवो वीध्र्यः । यद्वा विगत इध्रो दीप्तिर्यस्मात्स वीध्रो घनागमः तत्र भवाय नमः । आतपे भव आतप्यः तस्मै । मेघे भवो मेघ्यः तस्मै । विद्युति भवो विद्युत्यः तस्मै । वर्षे वृष्ट्यां भवो वर्ष्यः तस्मै । अवर्षे वृष्टिप्रतिबन्धे भवोऽवर्ष्यः तस्मै ॥ ३८ ॥

एकोनचत्वारिंशी।
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒ नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।। ३९ ।।
उ० नमो वात्याय च रेष्म्याय च । वाते भवो वात्यः । रिषतिर्हिंसार्थः । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । रेष्म। तत्र भवो रेष्म्यः । नमो वास्तव्याय च वास्तुपाय च वास्तु गृहं तत्र भवो वास्तव्यः वास्तुपतिर्वास्तुपः । नमः सोमाय च रुद्राय च नामतो नमस्काराः । नमस्ताम्राय च वर्णतो नमस्काराः ॥ ३९ ॥
म० वाते भवो वात्यः तस्मै । रिष्यन्ते नश्यन्ति भूतान्यत्रेति रेष्मा प्रलयकालः । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३। २ । ७५) इति मनिन् । तत्र भवो रेष्म्यः । प्रलयेऽपि विद्यमानायेत्यर्थः । वास्तुनि गृहभुवि भवो वास्तव्यः तस्मै । 'वेश्मभूर्वास्तुरस्त्रियाम्' । वास्तुं गृहभुवं पाति वास्तुपः तस्मै । उमया सहितः सोमः तस्मै । रुत् दुःखं द्रावयति रुद्रो दुःखनाशकः तस्मै । ताम्रो रक्तवर्णः उदयद्रविरूपेण तस्मै । अरुण ईषद्रक्त उदयोत्तरकालीनार्करूपेण ॥ ३९ ॥

चत्वारिंशी।
नम॑: श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।। ४० ।।
उ० नमः शंगवे च पशुपतये च । शं सुखं गवां करोतीति शंगुः । पशूनां पतिः । नम उग्राय च भीमाय च । उग्र उद्गूर्णः । भीमो भीषणः । नमोऽग्रेवधाय च दूरेवधाय च । अग्रेस्थितो हन्ति अग्रेवधः । दूरेस्थितो हन्ति दूरेवधः । नमो हन्त्रे च हनीयसे च । हन्तीति हन्ता हनीयान्हन्तृतमः । नमो वृक्षेभ्यो हरिकेशेभ्यः । हरितवर्णानि येषां वृक्षाणां पत्राणि त एवमुच्यन्ते । नमस्ताराय तारयति उत्तारयति संसारात् तारः ॥ ४० ॥
म० शं सुखं गमयति प्रापयति शङ्गुः, शं सुखरूपा गावो वाचो वेदरूपा यस्येति वा तस्मै । पशूनां प्राणिनां पतिः पालकः तस्मै । उग्र उद्गूर्णायुधः शत्रून् हन्तुं तस्मै । भीमः शत्रुभयोत्पादकः । अग्रे पुरो वर्तमानो हन्तीत्यग्रेवधः तस्मै । दूरे वर्तमानो हन्तीति दूरेवधः तस्मै । हन्तीति हन्ता तस्मै । लोके यो हन्ति तद्रूपेण रुद्र एव हन्तीत्यर्थः । अतिशयेन हन्ता हनीयान् तस्मै । 'तुरिष्ठेमेयःसु' (पा. ६।५। १५४) इति तृचो लोपः। प्रलये सर्वहन्तेत्यर्थः । हरयो हरिताः केशाः पत्ररूपा येषां तेभ्यो वृक्षेभ्यः कल्पतरुरूपेभ्यो नमः । तारयति संसारमिति तारः तस्मै ॥ ४० ॥

एकचत्वारिंशी।
नम॑: शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च ।। ४१ ।।
उ० नमः शं भवाय च मयोभवाय च । 'शम उपशमे'। अस्य । शं सुखनाम । शंभावयतीति शंभवः । यद्वा । शमा सुखेन वा भावयतीति शंभवः । शं च आनन्दरूपश्च । कालदेशानवच्छिन्नं भवनं तच्छक्तिश्च । आनन्दविज्ञान इत्यर्थः । इयमेव व्याख्या मयोभुवशब्दस्य । नमः शंकराय च मयस्कराय च। शं करोतीति शंकरः । मयः करोतीति मयस्करः । नमःशिवाय च शिवतराय च शिवः शान्तो निर्विकारः । शिवतरस्ततोऽप्यधिको निरतिशयसर्वज्ञबीजः ॥ ११ ॥
म० शं सुखं भवत्यस्मादिति शंभवः । यद्वा शं सुखरूपश्चासौ भवः संसाररूपश्च मुक्तिरूपो भवरूपश्च तस्मै । । मयः सुखं भवत्यस्मान्मयोभवः संसारसुखप्रदः तस्मै । शं लौकिकसुखं करोति शंकरः तस्मै । मयो मोक्षसुखं करोति मयस्करः तस्मै । स्रक्चन्दनादिरूपेण लौकिकसुखकारित्वं शास्त्रादिरूपेण ज्ञानप्रदत्वान्मोक्षसुखकारित्वमित्यर्थः । एताभ्यां पदाभ्यां साक्षात्सुखकारित्वं पूर्वपदाभ्यां तद्द्वारा कारयितृत्वमिति विवेकः । शिवः कल्याणरूपो निष्पापः तस्मै । शिवतरोऽत्यन्तं शिवो भक्तानपि निप्पापान्करोति तस्मै । अस्यां कण्डिकायां षट् यजूंषि पूर्वस्यां दशोक्तेः ॥ ४१ ॥

द्विचत्वारिंशी।
नम॒: पार्या॑य चावा॒र्या॒य च॒ नम॑: प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नम॒: शष्प्या॑य च॒ फेन्या॑य च ।। ४२ ।।
उ० नमः पार्याय चावार्याय च । पारे भवः पार्यः । अवारे भवः अवार्यः । नमः प्रतरणाय चोत्तरणाय च । प्रतरन्ति येन तत्प्रतरणम् उदकमुच्यते । उत्तरन्ति येन तदुत्तरणम् नौरुच्यते । नमस्तीर्थ्याय च कूल्याय च । तीर्थे भवस्तीर्थ्यः । कूले भवः कूल्यः । नमः शष्प्याय च फेन्याय च । प्ररूढानि तृणानि शष्पमुच्यन्ते तत्र भवः शष्प्यः । फेने भवः फेन्यः ॥ ४२॥
म०. पारे संसाराब्धेः परतीरे जीवन्मुक्तरूपेण भवः पार्यः तस्मै । अवारे अर्वाक्तीरे संसारमध्ये संसारित्वेन भवोऽवार्यः तस्मै । 'पारावारे परार्वाची तीरे पात्रं यदन्तरम्' इति कोषः । प्रकर्षेण मन्त्रजपादिना पापतरणहेतुः प्रतरणः तस्मै । उत्कृष्टेन तत्त्वज्ञानेन संसारोत्तरणहेतुरुत्तरणः तस्मै । तीर्थे प्रयागादौ भवः तीर्थ्यः तस्मै । कूले तटे भवः कूल्यः तस्मै । शष्पं बालतृणं गङ्गातीरोत्पन्नं कुशाङ्कुरादि तत्र भवः शष्प्यः तस्मै । फेने डिण्डीरे भवः फेन्यः तस्मै ॥ ४२ ॥

त्रिचत्वारिंशी।
नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪं᳭शि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ।।४३।।
उ० नमः सिकत्याय च प्रवाह्याय च । सिकतासु भवः सिकत्यः । प्रवाहे भवः प्रवाह्यः । किᳪं᳭शिलाय च क्षयणाय च किमेतदुदकं हिमीभूतमुत शिलेति यत्र वितर्कः स किंशिलः । यद्वा किंशिलो उत कर्करः । क्षयन्त्यस्मिन्नाप इति क्षयणः । नमः कपर्दिने च पुलस्तये च । कपर्दी जटामुकुटधारी । पुरस्तिष्ठतीति पुलस्तिः शुभाशुभदिदृक्षया । नम इरिण्याय च प्रपथ्याय । इरिणे भव इरिण्यः। निरुदकप्रदेश इरिणम् । प्रपथे भवः प्रपथ्यः ॥ ४३ ॥
म० सिकतासु भवः सिकत्यः तस्मै । प्रवाहे स्रोतसि भवः प्रवाह्यः तस्मै । कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किंशिलः तद्रूपाय नमः । क्षियन्ति निवसन्त्यापो यत्र स क्षयणः स्थिरजलप्रदेशः तस्मै । कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै । पुरोऽग्रे तिष्ठति पुलस्तिः । थस्य तत्वं रस्य लत्वं च छान्दसम् । यद्वा पूर्षु शरीरेषु अस्तिः सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तस्मै । इरिणमूषरं वितृणदेशस्तत्र भव इरिण्यः तस्मै । प्रकृष्टः पन्थाः प्रपथो बहुसेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ॥ ४३ ॥

चतुश्चत्वारिंशी।
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒ नम॒: काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। ४४ ।।
उ० नमो व्रज्याय च गोष्ठ्याय च व्रजे भवो व्रज्यः । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः तत्र भवो गोष्ठ्यः । नमस्तल्प्याय च गेह्याय च । तल्पः शयनम् । गेहं गर्भगृहम् 'तत्र भवः' इति तद्धितः । नमो हृदय्याय च निवेष्प्याय च । हृदये भवो हृदय्यः । निवेष्पे भवो निवेष्प्यः । निवेष्प आवर्तः। भ्रमः । नमः काट्याय च गह्वरेष्ठाय च । काटे भवः काट्यः काटः कूपः । गह्वरे तिष्ठति गह्वरेष्ठः । गह्वरं महदुदकम् ॥ ४४ ॥
म० व्रजे गोसमूहे भवो व्रज्यः तस्मै । ‘गोष्ठाध्वनिवहा व्रजाः' । गावस्तिष्ठन्ति यत्रेति तद्गोष्ठं तत्र भवो गोष्ठ्यस्तस्मै । तल्पं शय्या तत्र भवस्तल्प्यस्तस्मै । गेहे गृहे भवो गेह्यस्तस्मै । हृदये भवो हृदय्यो जीवस्तस्मै । निवेष्प आवर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै । कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशः काटः कूपो वा तत्र भवः काट्यः तस्मै । गह्वरे विषमे गिरिगुहादौ गम्भीरे जले वा तिष्ठति गह्वरेष्ठः तस्मै । 'गह्वरं बिलदम्भयोः ॥ ४४ ॥

पञ्चचत्वारिंशी।
नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪं᳭स॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। ४५ ।।
उ०. नमः शुष्क्याय च हरित्याय च । शुष्के भवः शुष्क्यः। हरिते भवो हरित्यः हरितमार्द्रम् । नमः पाᳪं᳭सव्याय च रजस्याय च पांसुषु भवः पांसव्यः । रजसि भवो रजस्यः। नमो लोप्याय चोलप्याय च । लोपे भवो लोप्यः । लुप्यत इति लोपः । उलपे भव उलप्यः । ऊर्ध्वं लप्यते उच्चार्यते नतु लोप इवाश्रवणमुपैति उलप्यः । नम ऊर्व्याय च । ऊर्वे भव ऊर्व्यः । ऊर्वो वडवाग्निः । स एव शोभन: सूर्वः तत्र भवः सूर्व्यः ॥१५॥
म० शुष्के काष्ठादौ भवः शुष्क्यः तस्मै । हरिते आर्द्रे काष्ठादौ भवः हरित्यः तस्मै । पांसुषु धूलिषु भवः पांसव्यः तस्मै । ओर्गुणः । रजसि गुणे परागे वा भवो रजस्यः तस्मै । 'रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च' । लुप्यते नश्यति गमनादि यत्रेति लोपोऽगम्यप्रदेशस्तत्र भवो लोप्यः तस्मै । लोपः संहारो वा । उलपा बल्वजादितृणविशेषास्तत्र भव उलप्यः तस्मै । 'उलपस्तु गुल्मिनीतृणभेदयोः' । उर्व्या भूमौ भव उर्व्यः तस्मै । दीर्घ आर्षः । ऊर्वो वडवानलो वा । शोभन ऊर्वः कल्पानलस्तत्र भवः सूर्व्यः तस्मै ॥ ४५ ॥

षट्चत्वारिंशी।
नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪं᳭ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑: ।। ४६ ।।
उ० नमः पर्णाय च पर्णशदाय च । पर्ण प्रसिद्धम् । पर्णशब्दः पतितपर्णावस्थानवान् । नम उद्गुरमाणाय चाभिनते च । उद्गुरमाण उद्यमनशीलः । अभिघ्नते अभिहननं कुर्वते । नम आखिदते च 'खिद दैन्ये' दैन्यभावं कुरुते । अभक्तानां प्रकर्षेण दैन्यभावं कुरुते निषिद्धसेविनाम् । नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमः । इषून्ये कुर्वन्ति ते इषुकृतः तेभ्यो नमः । ये यूयं धनुष्कृतः तेभ्यो युष्मभ्यो नमः। युष्मदादेशयोगात्प्रत्यक्षा एते रुद्राः। समाप्तास्तिस्रोऽशीतयः । इदानीं रुद्राणां हृदयभूतानामग्निवायुसूर्याणां संबन्धीनि यजूंषि उच्यन्ते । नमो वः किरिकेभ्यः । नमो वः युग्मभ्यं ये यूयं किरिकाः कुर्वन्तीदं जगत् वृष्ट्याद्युपकारेण किरिकाः अग्निवायुसूर्याः देवानाᳪं᳭ हृदयेभ्यः रुद्राणां हृदयभूताः । नमो विचिन्वत्केभ्यः । विचिन्वन्ति पृथक्कुर्वन्ति धर्मकारिणं पापकारिणं च ते विचिन्वत्काः । नमो विक्षिणत्केभ्यः । विविधं क्षिण्वन्ति हिंसन्ति ये ते विक्षिणत्काः । नम आनिर्हतेभ्यः हन्तिर्गत्यर्थः । एते ह्यग्निवायुसूर्याः सर्गादावाभिमुख्येनैतेभ्यो लोकेभ्यो निर्गताः ॥ ४६॥
म० तरूणां पत्ररूपाय नमः । 'शद्लृ शातने' शदनं शदः शातनम् । यद्वा पर्णानि शीर्यन्ते शात्यन्ते पक्वानि पतन्ति यत्र स पर्णशदः पतितपर्णस्थितिदेशस्तद्रूपाय नमः । 'गुरी उद्यमे' 'तुदादिभ्यः शः' । उद्गुरते उद्यमं करोति उद्गुरमाण उद्यमी तम्मै । अभिहन्ति शत्रूनित्यभिग्नन् तस्मै । आ समन्तात् खिद्यते दैन्यं करोत्यभक्तानामित्याखिदन् तस्मै । प्रकर्षेण खेदयति पापिन इति प्रखिदन् तस्मै । इषून् बाणान् कुर्वन्ति ते इषुकृतस्तेभ्यो रुद्रेभ्यो नमः । धनूंषि चापानि कुर्वन्ति ते धनुष्कृतः तेभ्यो वो युष्मभ्यं नमः । युप्मदादेशयोगात्प्रत्यक्षा एते रुद्राः । तिस्रोऽशीतयो रुद्राणां समाप्ताः । एवं चत्वारिंशदधिकशतद्वयमन्त्रैः रुद्रस्य सर्वात्मलमुक्तम् । अथ रुद्रेषु प्रधानभूतानामग्निवायुसूर्याणां संबन्धीनि चत्वारि यजूंष्युच्यन्ते । चतुर्णामादौ नमःशब्दाच्चवार्यव यजूंपि आद्यं चतुर्दशाक्षरं त्रीणि सप्ताक्षराणि तानि व्याहृतिसंज्ञानि । नमो व इति । देवानां हृदयेभ्यो रुद्राणां हृदयवत्प्रधानभूतेभ्योऽग्निवायुसूर्यभ्यो वो युष्मभ्यं नमः । 'देवानां हृदयेभ्य इत्यग्निर्वायुरादित्य एतानि ह तानि देवानां हृदयानि' ( ९ । १।१ । २३ ) इति श्रुतेः । हृदयानीव हृदयानि यथागानां हृदयं प्रधानमेवमेते रुद्राणां प्रधाना इत्यर्थः । कीदृशेभ्यस्तेभ्यः । किरिकेभ्यः । वृष्ट्यादिद्वारा जगत् कुर्वन्ति किरिकास्तेभ्यः । एते हीद, सर्वं कुर्वन्ति' ( ९ । १।१।२३) इति श्रुतेः । विचिन्वन्ति पृथक् कुर्वन्ति धर्मिष्ठं पापिष्ठं चेति विचिन्वत्कास्तेभ्योऽग्न्यादिभ्यो नमः । विविधं क्षिण्वन्ति हिंसन्ति पापमिति विक्षिणत्कास्तेभ्योऽझ्यादिभ्यो नमः । आ समन्तान्निर्हता निर्गताः सर्गादौ लोकेभ्य इत्यानिर्हतास्तेभ्यो रुद्रावतारेभ्योऽग्निवायुसूर्येभ्यो नमः । हन्तिर्गत्यर्थः । 'तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीᳪं᳭ष्यजायन्ताग्निर्योऽयं पवते सूर्यः' इति श्रुतेः॥४६॥

सप्तचत्वारिंशी
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत् ।। ४७ ।।
उ०. द्रापे अन्धसस्पते । सप्तकण्डिका एकरुद्रस्तुतिः । । उपरिष्टाद्बृहती । हे द्रापे । 'द्रा कुत्सायांगतौ' । द्रापयतीति द्रापिः । अयथोक्तकारिणं कुत्सितां गतिं नयति । हे अन्धसस्पते सोमस्य पते । हे दरिद्र हे निष्परिग्रह । हे नीललोहित । 'नीलानि चास्यैतानि रूपाणि च' इति श्रुतिः । । एवं संबोध्य रुद्रं अथेदानीमभयं याचते । आसां प्रजानाम् अस्मदीयानाम् एषां पशूनां मा त्वं भैषीः। मारोक् अबिभ्यश्च । मा त्वं रुजः मा भाङ्क्षीः । मो च नः किंचनाममत् । मा च नः अस्माकं किंचन अपत्यादिकम् । आममत् 'अम रोगे'। मा चास्माकमपत्यादिकं रोगसंयुक्तं कृथा इत्यर्थः ॥ ४७ ॥
म० सप्त ऋच एकरुद्रदेवत्याः आद्योपरिष्टाद्बृहती सप्ताष्टदशद्वादशार्णपादा । हे द्रापे, 'द्रा कुत्सायां गतौ' द्रापयति कुत्सितां गतिं पापिनः प्रापयतीति द्रापिः । हे अन्धसः सोमस्य पते पालक, 'अन्धसस्पत इति सोमस्य पत इत्येतत्' ( ९।१।१ । २४ ) इति श्रुतेः । हे दरिद्र निष्परिग्रह, -अद्वितीयत्वादिति भावः । हे नीललोहित, कण्ठे नीलोऽन्यत्र लोहितः हे शिव, नोऽस्माकमासां प्रजानां पुत्रादीनामेषां पशूनां गवादीनां त्वं मा भेः भयं मा कुरु । 'बहुलं छन्दसि'(पा० २ । ४ । ७३ ) इति शपो लुक् । मा रोक् 'रुजो भङ्गे' प्रजापशूनां भङ्गं मा कार्षीः । कर्मणि षष्ठ्यौ । च पुनर्नोऽस्माकं किंचन किमपि द्विपदचतुप्पदादिकं मो मा आममत् रुग्णं मा कार्षीत् । यद्वा रुग्णं मास्तु । 'अम् रोगे' लङि धातोरमागम आर्षः ॥ ४७ ॥

अष्टचत्वारिंशी ।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। ४८ ।।
उ० इमा रुद्राय । जगती । इमाः मतीः याभिः स्तूयते ता रुद्राय । तवसे महसे बलवते वा । उभयत्र हि तवः शब्दः पठ्यते । कपर्दिने जटामुकुटधारिणे । क्षयद्वीराय क्षयन्ति वसन्त्यस्मिन्वीरा इति क्षयद्वीरस्तस्मै क्षयद्वीराय । प्रभरामहे प्रेरयामः । तथा वयं प्रेरयामः । यथा येन प्रकारेण । शमसत् द्विपदे चतुष्पदे । शं सुखम् असत् भवति द्विपदां चतुष्पदां । यथा विश्वं सर्वं पुष्टं समृद्धं ग्रामे अस्मिन् अनातुरम् आपद्रहितं स्वस्थं भवति ॥ ४८॥
म०. कुत्सदृष्टा जगती । वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शंकराय प्रभरामहे प्रहरामहे समर्पयामः । रुद्रं स्मराम इत्यर्थः । हृग्रहोर्भः । कीदृशाय । तवसे महते बलवते वा। उभयत्र तवःशब्दः पठितः । कपर्दिने जटिलाय । क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूराः यत्र स क्षयद्वीरः तस्मै । शूरायेत्यर्थः । क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे । सप्तमी वा द्विपदचतुष्पदविषये। यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामे अस्मिन् वासस्थाने विश्वं सर्वं प्राणिजातं पुष्टं समृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् तथा मतिं हरे समर्पयाम इत्यर्थः ॥४८॥

एकोनपञ्चाशी।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। ४९ ।।
उ० या ते रुद्र । अनुष्टुप् । हे रुद्र, या तव शिवा शान्ता तनूः शरीरम् । शिवा । अतिशयार्थं पुनर्वचनम् । विश्वाहा भेषजी सर्वदा भिषक्त्वेन वर्तते । शिवा रुतस्य व्याधेः भेषजी । रुतशब्दो व्याधिवचनः । यद्वा शिवारुतस्य शिवाफेत्कृतस्य शब्दस्य भेषजी। अपशकुनहन्त्रीत्यर्थः । तया तन्वा नः अस्मान् मृड सुखय । जीवसे जीवनाय ॥ ४९॥
म० अनुष्टुप् । हे रुद्र, या ते तव ईदृशी तनूः शरीरं तया तन्वा नोऽस्मान् जीवसे जीवितुं मृड सुखय । कीदृशी । शिवा शान्ता अघोरा । विश्वाहा विश्वानि च तान्यहानि च विश्वाहा 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया । तस्या आकारः । सर्वेष्वहःसु सर्वदा शिवा कल्याणकारणी भेषजी औषधरूपा संसारव्याधिनिवर्तिका । रुतस्य शारीरव्याधेः शिवा समीचीना भेषजी निवर्तकौषधिः ॥ ४९ ॥

पञ्चाशी।
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। ५०।।
उ० परि नः अनुष्टुप् । परिवृणक्तु परिवर्जयतु नः अस्मान् रुद्रस्य हेतिः आयुधं परित्वेषस्य दुर्मतिरघायोः परिवृणक्तु त्वेषस्य क्रोधिनो ज्वलितस्य दुर्मतिः दुष्टा मतिः । अघायोः अघं पापं यः कामयते परस्मै कर्तुं स अघायुः तस्य अघायोः । उत्तरोऽर्धर्चः प्रत्यक्षकृतो द्वितीयं वाक्यम् । अवस्थिरा मघवद्भ्यस्तनुष्व अवतनुष्व अवतारय शिथिलीकुरु । स्थिरा स्थिराणि धनूंषि । केभ्योऽर्थाय अवतनुष्व । मघवद्भ्यः मघं धनं हविर्लक्षणं येषामस्ति ते मघवन्तः तेभ्यो मघवद्भ्यो यजमानेभ्योऽर्थाय । नतु अयागशीलेभ्यः प्रतिषिद्धसेविभ्यः। किंच । हे मीढ्वः 'मिह सेचने' सेक्तः । मध्यस्थानो वा वृष्टिकर्मणा स्तूयते । युवा वा कृत्वा अपरिणामित्वेन स्तूयते । तोकाय तनयाय मृड । तोकाय पुत्राय तनयाय पौत्राय । मृड सुखय ॥ ५० ॥
म० त्रिष्टुप् । रुद्रस्य शिवस्य हेतिरायुधं नोऽस्मान् परिवृणक्तु परितो वर्जयतु । अस्मान्मा हन्त्वित्यर्थः । त्वेषस्य क्रुद्धस्य अघायोः द्रोग्धुर्दुर्मतिर्दुष्टमतिर्द्रोहबुद्धिश्चास्मान्परिवृणक्तु । त्वेषति क्रोधेन ज्वलति त्वेषस्तस्य पचाद्यच् । अघं पापं परस्येच्छति अघायुः 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इत्यत्र परेच्छायामपि वाच्यमिति क्यच् । 'क्यचि च' (पा० ७ । ४ । ३३) इतीत्वे प्राप्ते 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इत्युप्रत्ययः । मेहति सिञ्चतीति मीढ्वान् हे मीढ्वः कामाभिवर्षुक, स्थिरा स्थिराणि दृढानि धनूंषि त्वमवतनुष्व अवतारय ज्यारहितानि कुरु । किमर्थं । मघवद्भ्यः । मघमिति धननाम । मघं हविर्लक्षणं धनं विद्यते येषां ते मघवन्तो यजमानास्तदर्थम् । यजमानानां भयनिवृत्तये इत्यर्थः । किंच तोकाय पुत्राय तनयाय पौत्राय च मृड पुत्रं पौत्रं च सुखय । कर्मणि चतुर्थ्यौ ॥ ५० ॥

एकपञ्चाशी।
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। ५१ ।।
उ० मीढुष्टम । यवमध्या त्रिष्टुप् । हे मीढुष्टम सेक्तृतम । हे शिवतम, शिवो नः अस्माकं सुमनाः शोभनमनस्कश्च भव । किंच । परमे वृक्षे दूरदेशावस्थायिनि आयुधं निधाय स्थापयित्वा । कृत्तिं चर्मं वसानः । आचर आचरणमनुष्ठानम् । पिनाकं बिभ्रत् पिनाकं कोदण्डः तं धारयन् आगहि आगच्छ ॥ ५१ ॥
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥

द्विपञ्चाशी।
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪं᳭ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ।। ५२ ।।
उ० विकिरिद्र । द्वे वनुष्टभौ। हे विकिरिद्र विकिरन्निषून्द्रावयतीति विकिरिद्रः विलोहित विगतकल्मषभाव । नमस्ते अस्तु हे भगवन् । एवमभिष्टुत्य अथ याचते । यास्तव सहस्रं हेतयः। हेतिरायुधम् । सहस्रशब्दोऽनन्तवचनः । अन्यस्मिनिवपन्तु ताः अस्मत्तोऽन्यं पुरुषं निवपन्तु ताः ॥ ५२ ॥
म० द्वे अनुष्टुभौ । विविधं किरिं घाताद्युपद्रवं द्रावयति नाशयति विकिरिद्रः हे विकिरिद्र, हे विलोहित, विगतं लोहितं कल्मषं यस्मात् स विलोहितः हे शुद्धस्वरूप, भगवः भगवन् , ते तुभ्यं नमोऽस्तु । हे रुद्र, ते तव याः सहस्रं हेतयोऽसंख्यान्यायुधानि ता हेतयोऽस्मदन्यमस्मद्व्यतिरिक्तं निवपन्तु घ्नन्तु ॥ ५२ ॥

त्रिपञ्चाशी।
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। ५३ ।।
उ० सहस्राणि बहूनि सहस्रशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । असंख्यातानि सहस्राणि । अनन्तत्वप्रतिपादनार्थम् । बाह्वोस्तव हेतयः आयुधानि तासां हेतीनाम् ईशानः सन् हे भगवः, 'मतुवसोरुः संबुद्धौ छन्दसि' इति विसर्जनीयः । हे भगवन् । पराचीनानि पराञ्चितानि पराङ्मुखानि मुखा मुखानि कृधि कुरु ॥ ५३ ॥
म० हे भगवः भगवन् , षड्गुणैश्वर्यसंपन्न, तव बाह्वोर्हस्तयोः याः सहस्राणि सहस्रशः हेतयः सन्ति तासां हेतीनां मुखा मुखानि शल्यानि पराचीना अस्मत्तः पराङ्मुखानि त्वं कृधि कुरु । करोतेः शपि लुप्ते 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः । कीदृशस्त्वम् । ईशानः ईष्ट इतीशानः जगन्नाथः । सहस्राणि सहस्रसंख्यानि धनुः खड्गः शूलं वर्मेत्यादिभेदेन सहस्रसंख्यत्वम् । सहस्रं सहस्रमिति सहस्रशः 'संख्यैकवचनाच्च वीप्सायाम्' (पा० ५। ४ । ४३ ) इति शस्प्रत्ययः । धनुरादीनां प्रत्येकं सहस्रसंख्यत्वमित्यर्थः ॥ ५३॥

चतुःपञ्चाशी।
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५४ ।।
उ० असंख्याता । बहुरुद्रदेवत्या दशानुष्टुभः । पृथिवीस्थानां नमस्कारः । असंख्यातानि सहस्राणि ये रुद्रा अधिभूम्याम् भूम्यामुपरि स्थिताः । तेषां सहस्रयोजनेऽध्वनि अवस्थितानामनेन हविषा अवधन्वानि तन्मसि अवतन्मसि अवतनुमः अवतारयामः । धन्वानि धनूंषि ॥ ५४ ॥
म०. बहुरुद्रदेवत्या दशानुष्टुभोऽवतानसंज्ञाः । भूमिस्था रुद्रा उच्यन्ते । असंख्याता असंख्यातानि सहस्राणि अमिता ये रुद्रा भूम्यामधि भूमेरुपरि स्थिताः । तेषां रुद्राणां धन्वानि धनूंषि सहस्रयोजने सहस्रं योजनानि यस्मिंस्तादृशे पथि सहस्रयोजनव्यवहिते मार्गे वयमवतन्मसि अवतन्मः अवतारयामः ।। अपज्यानि कृत्वास्मत्तो दूरं क्षिपाम इत्यर्थः ॥ ५४ ॥

पञ्चपञ्चाशी।
अ॒स्मिन् म॑ह॒त्य॒र्ण॒वे ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५५ ।।
उ० अस्मिन्महति मध्यस्थानाः । अस्मिन्महति अर्णवे । अर्णः उदकनामसु पठितम् वो मत्वर्थीयः । अर्णवति अन्तरिक्षे भवा रुद्राः । अधि उपरि स्थिताः ये तेषामिति कृतव्याख्यानम् ॥ ५५॥
म० अन्तरिक्षस्था रुद्रा उच्यन्ते । अस्मिन्नन्तरिक्षे अधिश्रित्य ये भवा रुद्राः स्थिताः तेषां धन्वान्यवतन्मसीति पूर्ववत् । कीदृशेऽन्तरिक्षे । महति विशाले । अर्णवे अर्णांसि जलानि विद्यन्ते यत्र तदर्णवम् मेघाधारत्वात् । 'अर्णसो लोपश्च' (पा० ५। २ । १०९-२) इति वप्रत्ययोऽन्तलोपश्च ॥ ५५॥

षट्पञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ᳪं᳭ रु॒द्रा उप॑श्रिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५६ ।।
उ०. नीलग्रीवाः । द्युस्थाना उच्यन्ते । नीलग्रीवाः । कृष्णवचनो नीलशब्दः। शितिकण्ठाः शितिशब्दः श्वेतवचनः। दिवं द्युलोकं रुद्रा उपश्रिताः अधिष्ठिताः अध्याश्रिताः ये तेषामित्युक्तम् ॥ ५६ ॥
म० द्युस्था रुद्रा उच्यन्ते । ये रुद्रा दिवं द्युलोकमुपश्रिताः स्वर्गस्थास्तेषामिति पूर्ववत् । कीदृशाः । नीलग्रीवाः नीला श्यामा ग्रीवा येषां ते । शितिः श्वेतः कण्ठो येषां ते । विषग्रासात्कियान्कण्ठभागः कृष्णः कियान्श्वेत इत्यर्थः ॥ ५६ ॥

सप्तपञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५७ ।।
उ० नीलग्रीवाः । पृथिव्या अधो ये रुद्रास्त उच्यन्ते । नीलग्रीवाः शितिकण्ठाः शर्वाः रुद्रा अधः क्षमाचराः अधः पृथिव्यां संचरन्ति ये तेषामिति कृतव्याख्यानम् ॥ ५७ ॥
म० पातालस्था रुद्रा उच्यन्ते । अधोभागे ये शर्वा रुद्राः क्षमाचराः क्षमाया भुवोऽधोभागे चरन्ति गच्छन्ति ते क्षमाचराः पाताले वर्तमानाः तेषामित्युक्तम् । नीलग्रीवाः शितिकण्ठा इति पूर्ववद्विशेषणे ॥ ५७ ॥

अष्टपञ्चाशी ।
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५८ ।।
उ०. ये वृक्षेषु आसते शष्पिञ्जराः शष्पिञ्जरवर्णाः । नवप्ररूढानि तृणानि शष्पशब्देनोच्यन्ते । नीलग्रीवाः विलोहिताः विगतकलुषभावाः । विविधं वा लोहिताः । लोहित शब्देन वा धातवो लक्ष्यन्ते । त्वग्लोहितमज्जादिविमुक्तेत्यर्थः। तेषामित्युक्तम् ॥ ५८ ॥
म० ये रुद्रा वृक्षेषु अश्वत्थादिषु स्थिताः । कीदृशाः । शष्पिञ्जराः शष्पं बालतृणं तद्वत्पिञ्जरा हरितवर्णाः । नीलग्रीवाः नीला ग्रीवा येषां ते कण्ठे नीलवर्णाः । तथा केचन विलोहिताः विशेषेण रक्तवर्णाः । यद्वा विगतं लोहितं रुधिरं येषां ते । लोहितपदं मांसादीनामुपलक्षणम् । विगतलोहितादिधातवस्तेजोमयशरीरा इत्यर्थः । तेषामित्याद्युक्तम् ॥ ५८ ॥

एकोनषष्टी।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५९ ।।
उ० ये भूतानां प्राणिनामधिपतय ईश्वराः । विशिखासः विशिखा एव विशिखासः । सर्वमुण्डा इत्यर्थः । कपर्दिनः जटिलाः तेषामित्युक्तम् ॥ ५९॥
म०. ये ईदृशा रुद्रास्तेषां धन्वानीति पूर्ववत् । कीदृशाः । भूतानां देव विशेषाणामधिपतयः अन्तर्हितशरीराः सन्तो मनुष्योपद्रवकरा भूतास्तेषां पालकाः । तत्र केचिद्विशिखासः विगता शिखा येषां ते । शिखाशब्दः केशोपलक्षकः । मुण्डितमुण्डा इत्यर्थः । अन्ये कदर्पिनः जटाजूटयुताः ॥ ५९ ॥

षष्टी।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युध॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६० ।।
उ० ये पथाम् ये रुद्राः पथां मार्गाणाम् अधिपतय इति शेषः । ये च पथिरक्षयः पन्थानं ये रक्षन्ति । ऐलबृदाः इलानामन्नानां समूह ऐलम् तत् ये बिभ्रति ते ऐलभृतः सन्तोपि परोक्षवृत्तिना शब्देन ऐलबृदा इत्युच्यन्ते । आयुर्युधः आयुर्जीवनं पणीकृत्य ये युध्यन्ति ते आयुर्युधः चौरादयो वा रुद्रा वा तेषामित्युक्तम् ॥ ६० ॥
म० ये चेदृशा रुद्रास्तेषामित्युक्तम् । कीदृशाः । पथां लौकिकवैदिकमार्गाणामधिपतय इति पूर्वर्चोनुषङ्गः । तथा पथिरक्षसः पथो मार्गास्तानेवान्यानपि रक्षन्ति पालयन्ति ते पथिरक्षसः । ऐलबृदाः इलानामन्नानां समूह ऐलमन्नसमूहः । यद्वा इला पृथ्वी तस्या इदमैलमन्नं तद्बिभ्रति ते ऐलभृतः त एव परोक्षवृत्त्या ऐलबृदा उच्यन्ते । अन्नैर्जन्तूनां पोषका इत्यर्थः । आयुयुधः आयुषा जीवनेन युध्यन्ते ते यावज्जीवयुद्धकराः । यद्वा आयुर्जीवनं पणीकृत्य युध्यन्ते ते आयुर्युधः ॥ ६०॥

एकषष्टी।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिण॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६१ ।।
उ०. ये तीर्थानि । ये रुद्राः तीर्थानि प्रयागप्रभृतीनि । प्रचरन्ति सृकाहस्ताः सृका इत्यायुधनाम । आयुधहस्ता निषङ्गिणः खड्गिनः । तेषामित्युक्तम् ॥ ६१ ॥
म० ये रुद्रास्तीर्थानि प्रयागकाश्यादीनि प्रचरन्ति गच्छन्ति । कीदृशाः । सृकाहस्ताः सृकेत्यायुधनाम । सृका आयुधानि हस्ते येषां ते । निषङ्गिणः निषङ्गाः खड्गा विद्यन्ते येषां ते । सृकाहस्तत्वेऽपि निषङ्गित्वोक्तिः खड्गप्राधान्याय ॥ ६१ ॥

द्विषष्टी।
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६२ ।।
उ० येऽन्नेषु ये अन्नेषु अवस्थिताः विविध्यन्ति अतिशयेन विध्यन्ति ताडयन्ति । येषामयमधिकारः अन्नस्य भक्षयितारो व्याधिभिर्गृहीतव्या इति । पात्रेषु व्यवस्थिताः पिबतो जनान् ये विविध्यन्ति तेषामित्युक्तम् ॥ ६२ ॥ |
म० ये रुद्रा अन्नेषु भुज्यमानेषु स्थिताः सन्तो जनान् विविध्यन्ति विशेषेण ताडयन्ति । धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा पात्रेषु पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः पिबतः क्षीरादिपानं कुर्वतो जनान् विविध्यन्ति । अन्नोदकभोक्तरो व्याधिभिः पीडनीया इति तेषामधिकार इति भावः । तेषामिति पूर्ववत् ॥ ६२ ॥

त्रिषष्टी।
य ए॒ताव॑न्तश्च॒ भूया॑ᳪं᳭सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६३ ।।
उ० य एतावन्तश्च ये रुद्रा एतावन्तश्च भूयांसश्च बहुतराश्चोक्तेभ्यः । दिशः रुद्राः वितस्थिरे विष्टभ्य स्थिताः तेषामित्युक्तम् ॥ ६३॥
म० ये रुद्रा एतावन्तः एतत्प्रमाणं येषां ते अतिशयेन बहवो भूयांसः उक्तेभ्योऽतिबहवश्व ये रुद्राः दिशो दश वितस्थिरे आश्रिताः दश दिशो व्याप्य स्थिताः तेषां धनूंषि अवतन्मसीति पूर्ववत् ॥ ६३ ॥

चतुःषष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६४ ।।
उ० इत उत्तरं त्रीणि यजूंषि त्रिस्थानाश्च रुद्राः स्तूयन्ते। नमोऽस्तु । नमः अस्तु रुद्रेभ्यः ये दिवि द्युलोके स्थिताः येषां रुद्राणां वर्षं वृष्टिः इषवः आयुधस्थानीयम् तेभ्यो रुद्रेभ्यः दश प्राचीः अङ्गुलीः करोमि नमस्कारार्थम् इति सर्वत्र संबध्यते । दश दक्षिणा दश प्रतीचीः दश उदीचीः दश ऊर्ध्वाः तेभ्यः नमः अस्तु ते नः अस्मान् अवन्तु रक्षन्तु ते नः अस्मान् मृडयन्तु सुखयन्तु । ते च संतर्पिताः सन्तः। यं पुरुषं द्विष्मः यश्च नः अस्मान् द्वेष्टि । तं तेषां रुद्राणां जम्भे मुखे दध्मः । यद्वा ते रुद्रा वयं च यं द्विष्मः यश्च नः द्वेष्टि । तमेषां रुद्राणां जम्भे दध्मः । समञ्जसमेव सर्वम् ॥ ६४ ॥
म० कण्डिकात्रयात्मिकानि त्रीणि यजूंषि प्रत्यवरोहसंज्ञानि धृतिच्छन्दस्कानि बहुरुद्रदेवत्यानि । त्रिलोकस्था रुद्रा उच्यन्ते । दिवि द्युलोके ये रुद्राः वर्तन्ते येषां च रुद्राणां वर्षं वृष्टिरेव इषवः बाणाः । आयुधस्थानीया वृष्टिः । अतिवृष्ट्यादीतिभिः प्राणिनो घ्नन्ति तेभ्यो रुद्रेभ्यो नमो नमस्कारोऽस्तु । तेभ्यो रुद्रेभ्यो दशसंख्याकाः प्राचीः प्रागभिमुखा अङ्गुलीः कुर्वे इति शेषः । प्राङ्मुखाञ्जलिकरणे प्राच्यो दशाङ्गुलयो भवन्ति । दक्षिणाः दक्षिणाभिमुखाः दशाङ्गुलीः कुर्वे । प्रतीचीः प्रत्यङ्मुखाः दशाङ्गुलीः कुर्वे । उदीचीरुदङ्मुखाः दशाङ्गुलीः कुर्वे । ऊर्ध्वाः उपरि दशाङ्गुलीः कुर्वे । अञ्जलिं बद्ध्वा सर्वदिक्षु नमस्करोमीत्यर्थः । तेभ्यो रुद्रेभ्यो नमोऽस्तु अञ्जलिपूर्वनतिरस्तु । 'दश वा अञ्जलेरङ्गुलयो दिशि दिश्येवैभ्य एतदञ्जलिं करोति' (९ । १ । १ । ३९ ) इति श्रुतेः । ते रुद्रा नोऽस्मानवन्तु रक्षन्तु । ते रुद्रा नोऽस्मान् मृडयन्तु सुखयन्तु । किंच ते रुद्रा यं पुरुषं द्विषन्तीति शेषः । वयं च यं द्विष्मो यस्य द्वेषं कुर्मः च । पुनर्यो नरो नोऽस्मान् द्वेष्टि तं पुरुषमेषां पूर्वोक्तानां रुद्राणां जम्भे दंष्ट्राकराले मुखे दध्मः स्थापयामः । अस्मद्विषमस्मद्द्वेष्यं च नरं रुद्राः पूर्वोक्ता भक्षयन्त्वित्यर्थः । अस्मांश्चावन्तु च ॥ ६४ ॥

पञ्चषष्टी ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६५ ।।
म० ये अन्तरिक्षे रुद्रा वर्तन्ते तेभ्यो रुद्रेभ्यो नमोऽस्तु । येषां रुद्राणां वात इषवः वायुरायुधस्थानीयः कुवातेनान्नं विनाश्य वातरोगं वोत्पाद्य जनान्घ्नन्ति । तेभ्योऽन्तरिक्षस्थेभ्यो वातेभ्यो रुद्रेभ्यो नमोऽस्तु । शिष्टं व्याख्यातम् ॥ ६५॥

षट्षष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६६ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां षोडशोऽध्यायः ॥ १६ ॥

उ० द्वे कण्डिके उक्तार्थे ॥ ६५ ॥ ६६ ॥ ।
इति उवटकृतौ मन्त्रभाष्ये षोडशोऽध्यायः ॥ १६ ॥
म० ये पृथिव्यां रुद्रा वर्तन्ते येषामन्नमिषवः । अन्नमदनीयं वस्तु आयुधम् अयथान्नभक्षणे कदन्नभक्षणे चौर्ये वा प्रवर्त्य रोगमुत्पाद्य जनान् घ्नन्ति तेभ्यः पृथिवीस्थेभ्योऽन्नायुधेभ्यो रुद्रेभ्यो नमोऽस्तु । तेऽस्मानवन्त्वित्यादि पूर्ववत् । एते प्रत्यवरोहमन्त्राः । 'अथ प्रत्यवरोहान् जुहोति' ( ९ । १। ३२ ) इति व्यवहाराय संज्ञाकरणम् ॥ ६६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
शतरुद्रियहोमोऽयं षोडशोऽध्याय ईरितः ॥ १६ ॥




  1. द्र.तै.सं. ४.५.१