शतपथब्राह्मणम्/काण्डम् ९/अध्यायः १/ब्राह्मण १
अप्तोर्याम सोमयागे अग्निचयने पञ्चमी चित्यां शतरुद्रीयम् (२.३१ काले)
स्कन्दपुराणे शतरुद्रीयम्(१.२.१३.१४३)
९.१.१ शतरुद्रीयम्
अथातः शतरुद्रियं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र रुद्रो देवता तस्मिन्देवा एतदमृतं रूपमुत्तममदधुः स एषोऽत्र दीप्यमानोऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति - ९.१.१.१
तेऽब्रुवन् । अन्नमस्मै सम्भराम तेनैनं शमयामेति तस्मा एतदन्नं समभरञ्छान्तदेवत्यं तेनैनमशमयंस्तद्यदेतम्देवमेतेनाशमयंस्तस्माच्छान्तदेवत्यं शान्तदेवत्यं ह वै तच्छतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति स एषोऽत्र दीप्यमानस्तिष्ठत्यन्नमिच्छमानस्तस्मा एतदन्नं सम्भरति शान्तदेवत्यं तेनैनं शमयति - ९.१.१.२
जर्तिलैर्जुहोति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत उभयम्वेतदन्नं यज्जर्तिला यच्च ग्राम्यं यच्चारण्यं यदह तिलास्तेन ग्राम्यं यदकृष्टे पच्यन्ते तेनारण्यमुभयेनैवैनमेतदन्नेन प्रीणाति ग्राम्येण चारण्येन च - ९.१.१.३
अर्कपर्णेन जुहोति । अन्नमर्कोऽन्नेनैवैनमेतत्प्रीणाति - ९.१.१.४
परिश्रित्सु जुहोति । अग्नय एते यत्परिश्रितस्तथो हास्यैता अग्निमत्येवाहुतयो हुता भवन्ति - ९.१.१.५
यद्वेवैतच्छतरुद्रियं जुहोति । प्रजापतेर्विस्रस्ताद्देवता उदक्रामंस्तमेक एव देवो नाजहान्मन्युरेव सोऽस्मिन्नन्तर्विततोऽतिष्ठत्सोऽरोदीत्तस्य यान्यश्रूणि प्रास्कन्दंस्तान्यस्मिन्मन्यौ प्रत्यतिष्ठन्त्स एव शतशीर्षा रुद्रः समभवत्सहस्राक्षः शतेषुधिरथ या अन्या विप्रुषोऽपतंस्ता असंख्याता सहस्राणीमांल्लोकाननुप्राविशंस्तद्यद्रुदितात्समभवंस्तस्माद्रुद्राः सोऽयं शतशीर्षा रुद्रः सहस्राक्षः शतेषुधिरधिज्यधन्वा प्रतिहितायी भीषयमाणोऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुः - ९.१.१.६
ते प्रजापतिमब्रुवन् । अस्माद्वै बिभीमो यद्वै नोऽयं न हिंस्यादिति सोऽब्रवीदन्नमस्मै सम्भरत तेनैनं शमयतेति तस्मा एतदन्नं समभरञ्छतरुद्रियं तेनैनमशमयंस्तद्यदेतं शतशीर्षाणं रुद्रमेतेनाशमयंस्तस्माच्छतशीर्षरुद्रशमनीयं शतशीर्षरुद्रशमनीयं ह वै तच्छतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तथैवास्मा अयमेतदन्नं सम्भरति शतरुद्रियं तेनैनं शमयति - ९.१.१.७
गवेधुकासक्तुभिर्जुहोति । यत्र वै सा देवता विस्रस्ताऽशयत्ततो गवेधुकाः समभवन्त्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति - ९.१.१.८
अर्कपर्णेन जुहोति । एतस्य वै देवस्याशयादर्कः समभवत्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति- ९.१.१.९
परिश्रित्सु जुहोति । लोमानि वै परिश्रितो न वै लोमसु विषं न किंचन हिनस्त्युत्तरार्धेऽग्नेरुदङ्तिष्ठन्जुहोत्येतस्यां ह दिश्येतस्य देवस्य गृहाः स्वायामेवैनमेतद्दिशि प्रीणाति स्वायां दिश्यवयजते - ९.१.१.१०
स वै जानुदघ्ने प्रथमं स्वाहाकरोति । अध ऽइव वै तद्यज्जानुदघ्नमध इव तद्यदयं लोकस्तद्य इमं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति - ९.१.१.११
अथ नाभिदघ्ने । मध्यमिव तद्यन्नाभिदघ्नम्मध्यमिवान्तरिक्षलोकस्तद्येऽन्तरिक्षलोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति - ९.१.१.१२
अथ मुखदघ्न । उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ लोकस्तद्येऽमुं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारोऽन्नेनैवैनानेतत्प्रीणाति - ९.१.१.१३
[१]नमस्ते रुद्र मन्यव इति । य एवास्मिन्त्सोऽन्तर्मन्युर्विततोऽतिष्ठत्तस्मा एतन्नमस्करोत्युतो त इषवे नमो बाहुभ्यामुत ते नम इतीष्वा च हि बाहुभ्यां च भीषयमाणोऽतिष्ठत् - ९.१.१.१४
[२]स एष क्षत्रं देवः । यः स शतशीर्षा समभवद्विश इम इतरे ये विप्रुङ्भ्यः समभवंस्तस्मा एतस्मै क्षत्रायैता विश एतं पुरस्तादुद्धारमुदहरन्य एष प्रथमोऽनुवाकस्तेनैनमप्रीणंस्तथैवास्मा अयमेतम्पुरस्तादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादेष एकदेवत्यो भवति रौद्रऽएतं ह्येतेन प्रीणाति - ९.१.१.१५
चतुर्दशैतानि यजूंषि भवन्ति । त्रयोदश मासाः संवत्सरः प्रजापतिश्चतुर्दशः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति नमोनम इति यज्ञो वै नमो यज्ञेनैवैनमेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत् - ९.१.१.१६
अथ द्वन्द्विभ्यो जुहोति । नमोऽमुष्मै चामुष्मै चेति तद्यथा वै ब्रूयादसौ त्वं च न एष च मा हिंसिष्टमित्येवमेतदाह नतरां हि विदित आमन्त्रितो हिनस्ति - ९.१.१.१७
[३]नमो हिरण्यबाहवे । सेनान्ये दिशां च पतये नम इत्येष एव हिरण्यबाहुः सेनानीरेष दिशां पतिस्तद्यत्किं चात्रैकदेवत्यमेतमेव तेन प्रीणाति क्षत्रमेव तद्विश्यपि भागं करोति तस्माद्यद्विशस्तस्मिन्क्षत्रियोऽपिभागोऽथ या असंख्याता सहस्राणीमांल्लोकाननुप्राविशन्नेतास्ता देवता याभ्य एतज्जुहोति - ९.१.१.१८
अथ जातेभ्यो जुहोति । एतानि ह जातान्येते रुद्रा अनुप्रविविशुर्यत्र यत्रैते तदेवैनानेतत्प्रीणात्यथो एवं हैतानि रुद्राणां जातानि देवानां वै विधामनु मनुष्यास्तस्मादु हेमानि मनुष्याणां जातानि यथाजातमेवैनानेतत्प्रीणाति - ९.१.१.१९
तेषां वा उभयतोनमस्कारा अन्ये। ऽन्यतरतोनमस्कारा अन्ये ते ह ते घोरतरा अशान्ततरा य उभयतोनमस्कारा उभयत एवैनानेतद्यज्ञेन नमस्कारेण शमयति - ९.१.१.२०
स वा अशीत्यां च स्वाहाकरोति । प्रथमे चानुवाकेऽथाशीत्यामथाशीत्यां च यानि चोर्ध्वानि यजूंष्यावतानेभ्योऽन्नमशीतयोऽन्नेनैवैनानेतत्प्रीणाति - ९.१.१.२१
अथैतानि यजूंषि जपति । [४]नमो वः किरिकेभ्य इत्येतद्धास्य प्रतिज्ञाततमं धाम यथा प्रियो वा पुत्रो हृदयं वा तस्माद्यत्रैतस्माद्देवाच्छङ्केत तदेताभिर्व्याहृतिभिर्जुहुयादुप हैवैतस्य देवस्य प्रियं धाम गच्छति तथो हैनमेष देवो न हिनस्ति - ९.१.१.२२
नमो वः किरिकेभ्य इति । एते हीदं सर्वं कुर्वन्ति देवानां हृदयेभ्य इत्यग्निर्वायुरादित्य एतानि ह तानि देवानां हृदयानि नमो विचिन्वत्केभ्य इत्येते हीदं सर्वं विचिन्वन्ति नमो विक्षिणत्केभ्य इत्येते वै तं विक्षिणन्ति यं विचिक्षीषन्ति नम आनिर्हतेभ्य इत्येते ह्येभ्यो लोकेभ्योऽनिर्हताः - ९.१.१.२३
अथोत्तराणि जपति । [५]द्रापे अन्धसस्पत इत्येष वै द्रापिरेष वै तं द्रापयति यं दिद्रापयिषत्यन्धसस्पत इति सोमस्य पत इत्येतद्दरिद्र नीललोहितेति नामानि चास्यैतानि रूपाणि च नामग्राहमेवैनमेतत्प्रीणात्यासां प्रजानामेषां पशूनाम्माभेर्मा रोङ्मो च नः किं चनाममदिति यथैव यजुस्तथा बन्धुः - ९.१.१.२४
स एष क्षत्रं देवः । तस्मा एतस्मै क्षत्रायैता विशोऽमुम्पुरस्तादुद्धारमुदहरन्योऽसौ प्रथमोऽनुवाकोऽथास्मा एतमुपरिष्टादुद्धारमुदहरंस्तेनैनमप्रीणंस्तथैवास्मा अयमेतमुपरिष्टादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादप्येष एकदेवत्यो भवति रौद्र एवैतं ह्येवैतेन प्रीणाति - ९.१.१.२५
सप्तैतानि यजूंषि भवन्ति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति तान्युभयान्येकविंशतिः सम्पद्यन्ते द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावादित्य एकविंश एतामभिसम्पदम्- ९.१.१.२६
अथावतानाञ्जुहोति । एतद्वा एनान्देवा एतेनान्नेन प्रीत्वाऽथैषामेतैरवतानैर्धनूंष्यवातन्वंस्तथैवैनानयमेतदेतेनान्नेन प्रीत्वाऽथैषामेतैरवतानैर्धनूंष्यवतनोति न ह्यवततेन धनुषा कं चन हिनस्ति - ९.१.१.२७
तद्वै [६]सहस्रयोजन इति । एतद्ध परमं दूरं यत्सहस्रयोजनं तद्यदेव परमं दूरं तदेवैषामेतद्धनूंष्यवतनोति - ९.१.१.२८
यद्वेवाह सहस्रयोजन इति । अयमग्निः सहस्रयोजनं न ह्येतस्मादति नेत्यन्यत्परमस्ति तद्यदग्नौ जुहोति तदेवैषां सहस्रयोजने धनूंष्यवतनोति - ९.१.१.२९
असंख्याता सहस्राणि । अस्मिन्महत्यर्णव इति यत्र यत्र ते तदेवैषामेतद्धनूंष्यवतनोति - ९.१.१.३०
दशैतानवतानान्जुहोति । दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैषामेतद्धनूंष्यवतनोति- ९.१.१.३१
अथ प्रत्यवरोहान्जुहोति । एतद्वा एतदिमांल्लोकानित ऊर्ध्वो रोहति स स पराङिव रोह इयमु वै प्रतिष्ठा ते देवा इमां प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रतिष्ठामभिप्रत्यैति - ९.१.१.३२
यद्वेव प्रत्यवरोहति । एतद्वा एनानेतत्प्रीणन्नन्ववैति तत एवैतदात्मानमपोद्धरते जीवात्वै तथा हानेनात्मना सर्वमायुरेति - ९.१.१.३३
यद्वेव प्रत्यवरोहति । एतद्वा एतदेतान्रुद्रानित ऊर्ध्वान्प्रीणाति तान्पुनरमुतोऽर्वाचः - ९.१.१.३४
[७]नमोऽस्तु रुद्रेभ्यो ये दिवीति । तद्येऽमुष्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति येषां वर्षमिषव इति वर्षं ह तेषामिषवो वर्षेण ह ते हिंसन्ति यं जिहिंसिषन्ति - ९.१.१.३५
नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्ष इति । तद्येऽन्तरिक्षलोके रुद्रास्तेभ्य एतन्नमस्करोति येषां वात इषव इति वातो ह तेषामिषवो वातेन ह ते हिंसन्ति यं जिहिंसिषन्ति - ९.१.१.३६
नमोऽस्तु रुद्रेभ्यो ये पृथिव्यामिति । तद्येऽस्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति येषामन्नमिषव इत्यन्नं ह तेषामिषवोऽन्नेन ह ते हिंसन्ति यं जिहिंसिषन्ति - ९.१.१.३७
तेभ्यो दश प्राचीः । दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा इति दशाक्षराविराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्यमात्रा तावतैवैनानेतदन्नेन प्रीणाति - ९.१.१.३८
यद्वेवाह दशदशेति । दश वा अञ्जलेरङ्गुलयो दिशिदिश्येवैभ्य एतदञ्जलिं करोति तस्मादु हैतद्भीतोऽञ्जलिं करोति तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति ते नो मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततोऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि - ९.१.१.३९
त्रिष्कृत्वः प्रत्यवरोहति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनानेतदन्नेन प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारोऽन्नेनैवैनानेतत्प्रीणाति त्रिरिति ऊर्ध्वो रोहति तत्षट् तस्योक्तो बन्धुः - ९.१.१.४०
यद्वेव त्रिष्कृत्वः प्रत्यवरोहति । त्रिर्हि कृत्व ऊर्ध्वो रोहति तद्यावत्कृत्व ऊर्ध्वो रोहति तावत्कृत्वः प्रत्यवरोहति - ९.१.१.४१
अथ तदर्कपर्णं चात्वाले प्रास्यति । एतद्वा एनेनैतद्रौद्रं कर्म करोति तदेतदशान्तं तदेतत्तिरः करोति नेदिदमशान्तं कश्चिदभितिष्ठात्तन्नेद्धिनसदिति तस्माच्चात्वाले यद्वेव चात्वालेऽग्निरेष यच्चात्वालस्तथो हैनदेषोऽग्निः संदहत्यथातः सम्पदेव - ९.१.१.४२
तदाहुः । कथमस्यैतच्छतरुद्रियं संवत्सरमग्निमाप्नोति कथं संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्रीणि च शतान्येतच्छतरुद्रियमथ त्रिंशदथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि तत्संवत्सरस्याहान्याप्नोत्यथ यानि त्रिंशत्त्रिंशन्मासस्य रात्रयस्तन्मासस्य रात्रीराप्नोति तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव पञ्चत्रिंशमेतावान्वै संवत्सर एवमु हास्यैतच्छतरुद्रियं संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यत एतावत्य उ वै शाण्डिलेऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्तेऽग्नयो हैते पृथग्यदेता इष्टका एवमु हास्यैतेऽग्नयः पृथक्शतरुद्रियेणाभिहुता भवन्ति - ९.१.१.४३
तदाहुः । कथमस्यैतच्छतरुद्रियं महदुक्थमाप्नोति कथं महतोक्थेन सम्पद्यत इति यान्यमूनि पञ्चविंशतिर्यजूंष्यभितोऽशीतीः स पञ्चविंश आत्मा यत्र वा आत्मा तदेव शिरस्तत्पक्षपुच्छान्यथ या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायतेऽथ यदूर्ध्वमशीतिभ्यो यदेवादो महत उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु हास्यैतच्छतरुद्रियम्महदुक्थमाप्नोत्येवं महतोक्थेन सम्पद्यते - ९.१.१.४४
- ↑ वासं. १६.१
- ↑
रुद्राणां क्षत्र-विड् विभाजनं महत्त्वपूर्णमस्ति। लोके राजा-प्रजा विभाजनं सर्वविदितमस्ति। आधुनिकविज्ञाने, सर्वेषां स्थावर-जंगमजीवानां मूलं कोशिका अथवा सैल अस्ति। कोशिकानां समूहस्य संज्ञा जीवः अस्ति। या कोशिका अस्ति, तस्मिन्नन्तरे एकः केन्द्रः(न्यूक्लियस) भवति। केन्द्रस्य परितः कोशिकायाः अन्ये अङ्गाः स्थिताः भवन्ति। अस्य क्षेत्रस्य संज्ञा सैन्ट्रोसोमः अस्ति। केन्द्रे डीएनए (डाईरिबोन्यूक्लिक एसिड) भवति यस्य आकृतिः शृङ्खला इव भवति एवं एका शृंखला द्वितीयया शृंखलया सह रशना इव संग्रथिता भवति। परिधिक्षेत्रे अथवा सैन्ट्रोसोमे आरएनए( रिबोन्यूक्लिक एसिड) स्थितः भवति। यद्यपि आरएनए आकारः अपि शृङ्खलात्मकः अस्ति, किन्तु एका शृंखला द्वितीयया सह संग्रथिता नास्ति, अयं सामान्य धारणा अस्ति। यः डीएनए अस्ति, सः राजा अस्ति। सः यद्यद् इच्छति, तस्मिन्ननुसारेण एन्जाईमं जनयति, यस्य संज्ञा आरएनऐज अस्ति। अयं एन्जाईमः परिधिक्षेत्रे आएनए रूपस्य विशां जनयति। व्यवहारे, पादपतः डीएऩए संपादनं सरलतापूर्वकं संभवमस्ति, किन्तु आरएनए संपादनं सरलं नास्ति, जटिलमस्ति। कारणं, संपादनस्य पूर्वमेव आरएनऐज ऐन्जाईमः अस्य विघटनं करोति। आरएनए नवीन प्रोटीनादीनां जनने उत्तरदायी अस्ति।
- ↑ वा.सं. १६.१७
- ↑ वा.सं. १६.४६
- ↑ वा.सं. १६.४७
- ↑ वा.सं. १६.५४
- ↑ वा.सं. १६.६४