सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ९/अध्यायः १

विकिस्रोतः तः

सञ्चितिः

ब्राह्मण १ शतरुद्रियं कर्म

१ शतरुद्रियं कर्म तत्रादौ रुद्ररूपतापन्नस्याग्नेरूपशमनरूपप्रयोजनसहितं शतरुद्रियहोमीय विधानं, विहिते होमे द्रव्यविशेषं विधाय तस्योभयविधान्नात्मकत्वाच्चयनसंस्कारे जातरुद्रदैवतोचितरूपत्वेन प्रशंसनं, प्रकृते होमे साधनतया चोदकप्राप्ताया जुह्वा अपवादत्वेनार्कपर्णस्य विधानं, प्रकृतहोमस्य परिश्रित्सु कर्तव्यतया विधानं, पुनस्तत्यैव होमस्य शतशीर्ष्णो रुद्रस्येतरेषां च रुद्राणामुत्पत्तिप्रकारं दर्शयित्वा तच्छमनार्थत्वेन प्रशंसनं, होमस्य द्रव्यान्तरं विधाय तत्प्रशंसनं, होमसाधनत्वेन विहितस्यार्कपर्णस्य प्रकारान्तरेण प्रशंसनं, परिश्रितामपि प्रकारान्तरेण प्रशंसनं, तिसृष्वशीतिषु स्वाहाकारः क्रियत इत्युपरिष्टाद्वक्ष्यते तत्र कस्मिन्प्रदेशे स्वाहाकारः कर्तव्य इत्यभिधानं, तत्र होमसाधनभूतमंत्रजातेषु षोडशर्चस्य प्रथमानुवाकस्य प्रथमाया ऋचः साभिप्रायं व्याख्यानं, प्रथमानुवाकीयषोडशमन्त्रेभ्यश्चतुर्दशमन्त्रानवयुत्य तेषां प्रशंसनं, द्वन्द्विभ्यो होमविधानं, ततो जातेभ्यो होमविधानं, तेषां मंत्राणां मध्ये केचन मंत्रा उभयतो नमस्काराः केचनान्यतरतो नमस्कारा इति तद्वैषम्ये कारणप्रतिपादनं, अन्यत्र सर्वत्र प्रतिमन्त्रं द्रव्यप्रक्षेपं स्वाहाकार इत्यत्रापि तथैव प्राप्तौ सार्थवादं तिसृष्वशीतिषु स्वाहाकारकरणविधानं, प्रथमेऽनुवाके तु प्रतिमंत्रं स्वाहाकार इत्यप्यभिधानं, व्याहृतिसंज्ञकयजुर्मन्त्राणां जपं विधाय तेषां व्याख्यानं, उत्तरसंज्ञकयजुर्मन्त्राणां जपं विधाय तेषां मध्ये प्रथममंत्रमवयुत्य तद्व्याख्यानं, एतस्मिन्ननुवाके यजुर्गता सप्तत्वसंख्या कार्त्स्न्येन तृप्तिहेतुर्भवती. त्यभिधानं, प्रथमे चोत्तमेऽनुवाके या संख्या तस्याः सम्भूय प्रशंसनं, अवतानसंज्ञकमन्त्रैर्होमकरणविधानं, अवतानमन्त्रेषु सहस्रयोजनपदप्रयोगात्परमे दूरे धनुषामवरोपणं कृतं भवतीत्यभिधानम्, अग्ने सहस्रयोजनत्वादग्नौ होमेन सहस्रयोजने एव धनुषामवरोपणं भवतीत्यभिधानं, मन्त्रे" असंख्याता सहस्राणि अस्मिन्महत्यर्णवे" इत्येतत्पदप्रयोगस्याभिप्रायनिरूपणं, विहितानामवतानहोमानां संख्याविशेषं विधाय तत्प्रशंसनं, सार्थवादं सप्रयोजनं प्रत्यवरोहसंज्ञकमन्त्रैर्हो मकरणविधानं, तान्प्रत्यवरोहमन्त्रान्प्रदर्श्य तेषां व्याख्यान, " दश प्राचीर्दश दक्षिणा" इत्यादिना संख्येयं दिग्विशेषं पर्यालोच्य संख्यामात्रमुपजीव्य शंसित्वा- इदानीं तत्सर्वमुपजीव्याञ्जलिकरणहेतुसहितमवशिष्टमन्त्रप्रयोगोपयोगसहितं च प्रशंसनं, " तमेषां जम्भे दध्मः" इत्यत्र तमित्यस्य स्थानेऽमुमिति प्रयुञ्ज्यादभिचारार्थमित्येकीयमतमुपन्यस्य सयुक्तिकं तस्य प्रत्याख्यानं, " प्रत्यवरोहान् जुहोतीति " सामान्येन विहितस्य प्रत्यवरोहहोमस्य सार्थवादं संख्याविशेषे पर्यावर्तनामिधानं, मन्त्रान्ते स्वाहाकारस्यान्नप्रदत्वात्वादन्नरूपत्वेन प्रशंसनं प्रकारान्तरेण षट्संख्याया उपपादनम् उक्तहोमानन्तरं तद्धोमसाधनमर्कपर्णं चात्वाले प्रक्षिपेदिति सकारणं सोपपत्तिकमभिधानं, प्रतिज्ञापूर्वकं शतरुद्रियहोमसम्पत्तेः प्रश्नोत्तराभ्यां निरूपणं, प्रकारान्तरेणापि शतरुद्रियस्य सम्पत्तेः प्रश्नोत्तराभ्यामेव निरूपणं चेति.


ब्राह्मण २

२ अग्नीत्कर्तृकस्याग्नेरद्भिस्त्रिष्कृत्वः परिषेकस्य सहेतुकं सार्थवादं सप्रकारकमभिधानं, विहिते परिषेके मंत्रं विनियुज्य तस्य व्याख्यानं, परिषेकसाधनमुदकुंभं निधाय सार्थवादं त्रिष्कृत्वो विपल्ययनविधानं, त्रिः पर्येत्य पश्चात्साश्मानं कुम्भं कृत्वा नैर्ऋत्यां दिशि प्रक्षिपेदिति सार्थवादं सहेतुकं सप्रकारकमभिधानम् उक्ते निरसने मंत्रं विधाय तद्व्याख्यानं, निरस्तस्य तस्याश्मनोऽभेदने किं कुर्यादित्यभिधाय निरसनानन्तरीयकर्तव्यस्य कथनं, ततः प्रत्येत्य इष्टकाधेनूः कुर्यादिति प्रतिपादनं, विहितमिष्टकाधेनुकरणमासीनेन कर्तव्यमिति केषाञ्चिच्छाखिनां मतमुपन्यस्य तिष्ठता कर्तव्यमिति स्वमतस्य सोपपत्तिकं प्रतिपादनं, तिष्ठताऽपि कथं तिष्ठता कर्तव्यमिति तत्प्रकारनिरूपणं, प्रकृते इष्टकाधेनुकरणे स्थानविशेषस्पर्शपूर्वकं मन्त्रं विधाय तद्व्याख्यानं, तस्येष्टकाधेनुकरणस्य वाग्धेनुकरणात्मना सोपपत्तिकं प्रशंसनं, तत्रैव मन्त्रांतरं विधाय तद्व्याख्यानं, ततो मण्डूकाऽवकावेतसशाखाभिरग्निस्थलस्य सर्वतो विकर्षणं कर्तव्यमिति विधानं मण्डूकाऽवकावेतसशाखानामुत्पत्तिप्रदर्शनपूर्वकं तत्सम्पाद्यस्य विकर्षणस्य शमनार्थतां प्रदर्श्य च कृत्स्नान्नरूपत्वेन प्रशंसनं, विकर्षणेन वान्तरसा मण्डूकादयोऽनुपजीवनीया आसन्नित्यभिधानं, मण्डूकादिभिर्दक्षिणेप्रदेशे पश्चिमे प्रदेशे च विकर्षेदिति मन्त्रमन्त्रार्थयुतं सप्रकारकं प्रतिपादनं, पूर्ववदुत्तरप्रदेशे पूर्वप्रदेशे च मण्डूकादिभिर्विकर्षेदिति सप्रकारकं समन्त्रकं प्रतिपादनं, दक्षिणभागादिक्रमेण विकर्षणात्सिद्धस्य प्रादक्षिण्यक्रमस्य प्रशंसनं, तत्रात्मभागविकर्षणस्य प्राथमिकत्वोपपादनं, पूर्ववत्क्रमसिद्धस्य प्रादक्षिण्यस्य प्रशंसनं, पक्षादीनां विकर्षणमात्मानमभिलक्ष्य कर्तव्यमित्यभिधानं, दक्षिणपक्षादीनां विकर्षणेषु मन्त्रान्विधाय तद्गतसप्तत्वसंख्यायाः प्रशंसनं, मण्डूकादीनामवलम्बभूतं वंशमुत्करे न्यसेदिति विधानम् , एनमग्निं परितः सामभिर्गायेदिति विधाय तस्य सामगानस्यामृतरूपतया प्रशंसनं, किंनामकं साम कस्मिन्विभागे गायेदिति सोपपत्तिकं सार्थवादमभिधानं, तत्र “प्रजापतेर्हृदय " संज्ञकं साम कस्यांचिदपि ऋचि न गीयते किन्तु केवलं प्रजापतिशब्देन गीयते इति सार्थवादमभिधानम् , अग्नेः प्रजाप्रजापत्युभयात्मकत्वात्तत्रैव गाने नोभयत्रापि हृदयं निधीयते इत्यभिधानम्, एतेषां गायत्र्यादीनां साम्नामिष्टकारूपेण प्रशंसनं, सामगाने समाख्याप्राप्तमुद्गातृकर्तृकत्वमपवाद्येतरकर्तृत्वे च दोषमभिधायाध्वर्युकर्तृकत्वस्य प्रतिपादनं चेत्यादि,