शतपथब्राह्मणम्/काण्डम् ९/अध्यायः १/ब्राह्मण २

विकिस्रोतः तः
Jump to navigation Jump to search

९.१.२

अथैनमतः परिषिञ्चति । एतद्वा एनं देवाः शतरुद्रियेण शमयित्वाथैनमेतद्भूय एवाशमयंस्तथैवैनमेवमेतच्छतरुद्रियेण शमयित्वाथैनमेतद्भूय एव शमयति - ९.१.२.[१]

अद्भिः परिषिञ्चति । शान्तिर्वा आपः शमयत्येवैनमेतत्सर्वतः परिषिञ्चति सर्वत एवैनमेतच्छमयति त्रिष्कृत्वः परिषिञ्चति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतच्छमयति - ९.१.२.[२]

यद्वेवैनं परिषिञ्चति । इमे वै लोका एषोऽग्निरिमांस्तल्लोकानद्भिः परितनोति समुद्रेण हैनांस्तत्परितनोति सर्वतस्तस्मादिमांल्लोकान्त्सर्वतः समुद्रः पर्येति दक्षिणावृत्तस्मादिमांल्लोकान्दक्षिणावृत्समुद्रः पर्येति - ९.१.२.[३]

अग्नीत्परिषिञ्चति । अग्निरेष यदाग्नीध्रो नो वा आत्मात्मानं हिनस्त्यहिंसाया अश्मनोऽध्यश्मनो ह्यापः प्रभवन्ति निकक्षान्निकक्षाद्ध्यापः प्रभवन्ति दक्षिणान्निकक्षाद्दक्षिणाद्धि निकक्षादापः प्रभवन्ति - ९.१.२.[४]

अश्मन्नूर्जं पर्वते शिश्रियाणामिति । अश्मनि वा एषोर्क्पर्वतेषु श्रिता यदापोऽद्भ्य ओषधीभ्यो वनस्पतिभ्यो अधि सम्भृतं पय इत्येतस्माद्ध्येतत्सर्वस्मादधिसम्भृतं पयस्तां न इषमूर्जं धत्त मरुतः संरराणा इति मरुतो वै वर्षस्येशतेऽश्मंस्ते क्षुदिति निदधाति तदश्मनि क्षुधं दधाति तस्मादश्मा नाद्योऽथो स्थिरो वा अश्मा स्थिरा क्षुत्स्थिर एव तत्स्थिरं दधाति मयि त ऊर्गित्यपादत्ते तदात्मन्नूर्जं धत्ते तथा द्वितीयं तथा तृतीयम् - ९.१.२.[५]

निधायोदहरणं त्रिर्विपल्ययते । एतद्वा एनमेतल्लघूयतीव यदेनं समन्तम्पर्येति तस्मा एवैतन्निह्नुतेऽहिंसायै - ९.१.२.[६]

यद्वेव विपल्ययते । एतद्वा एनमेतदन्ववैति तत एवैतदात्मानमपोद्धरते जीवात्वै तथो हानेनात्मना सर्वमायुरेति - ९.१.२.[७]

त्रिर्विपल्ययते । त्रिर्हि कृत्वः पर्येति तद्यावत्कृत्वः पर्येति तावत्कृत्वो विपल्ययते- ९.१.२.[८]

अथ तमश्मानमुदहरणेऽवधाय । एतां दिशं हरन्त्येषा वै नैर्ऋती दिङ्नैर्ऋत्यामेव तद्दिशि शुचं दधाति - ९.१.२.[९]

एतद्वा एनं देवाः । शतरुद्रियेण चाद्भिश्च शमयित्वाथास्यैतेन शुचम्पाप्मानमपाघ्नंस्तथैवैनमयमेतच्छतरुद्रियेण चाद्भिश्च शमयित्वाथास्यैतेन शुचं पाप्मानमपहन्ति - ९.१.२.[१०]

बाह्येनाग्निं हरति । इमे वै लोका एषोऽग्निरेभ्यस्तल्लोकेभ्यो बहिर्द्धा शुचं दधाति
बहिर्वेदीयं वै वेदिरस्यै तद्बहिर्द्धा शुचं दधाति - ९.१.२.[११]

स वेदेर्दक्षिणायां श्रोणौ । प्राङ्तिष्ठन्दक्षिणा निरस्यति यं द्विष्मस्तं ते शुगृच्छत्विति यमेव द्वेष्टि तमस्य शुगृच्छत्यमुं ते शुगृच्छत्विति ह ब्रूयाद्यं द्विष्यात्ततो ह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि यदि न भिद्येत भित्तवै ब्रूयाद्यदा ह्येव स भिद्यतेऽथ तं शुगृच्छति यं द्वेष्ट्यप्रतीक्षमायन्त्यप्रतीक्षमेव तच्छुचं पाप्मानं जहति - ९.१.२.[१२]

प्रत्येत्येष्टका धेनूः कुरुते । एतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्य प्रत्येत्येष्टका धेनूरकुर्वत तथैवैनमयमेतच्छतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्य प्रत्येत्येष्टका धेनूः कुरुते - ९.१.२.[१३]

आसीनः कुर्वीतेत्यु हैक आहुः । आसीनो वै धेनुं दोग्धीति तिष्ठंस्त्वेव कुर्वीतेमे वै लोका एषोऽग्निस्तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरः - ९.१.२.[१४]

उदङ्प्राङ्तिष्ठन् । पुरस्ताद्वा एषा प्रतीची यजमानं धेनुरुपतिष्ठते दक्षिणतो वै प्रतीचीं धेनुं तिष्ठन्तीमुपसीदन्ति - ९.१.२.[१५]

स यत्राभ्याप्नोति । तदभिमृश्यैतद्यजुर्जपतीमा मे अग्न इष्टका धेनवः सन्त्वित्यग्निर्हैतासां धेनुकरणस्येष्टे तस्मादेतावतीनां देवतानामग्निमेवामन्त्रयत एका च दश चान्तश्च परार्धश्चेत्येष हावरार्ध्यो भूमा यदेका च दश चाथ हैष परार्ध्यो भूमा यदन्तश्च परार्धश्चावरार्धतश्चैवैना एतत्परार्धतश्च परिगृह्य देवा धेनूरुकुर्वत तथैवैना अयमेतदवरार्धतश्चैव परार्धतश्च परिगृह्य धेनूः कुरुते तस्मादपि नाद्रियेत बह्वीः कर्तुममुत्र वा एष एता ब्रह्मणा यजुषा बह्वीः कुरुतेऽथ यत्संतनोति कामानेव तत्संतनोति - ९.१.२.[१६]

यद्वेवेष्टका धेनूः कुरुते । वाग्वा अयमग्निर्वाचा हि चितः स यदाहैका च दश चान्तश्च परार्धश्चेति वाग्वा एका वाग्दश वागन्तो वाक्परार्द्धो वाचमेव तद्देवा धेनुमकुर्वत तथैवैतद्यजमानो वाचमेव धेनुं कुरुतेऽथ यत्संतनोति वाचमेव तत्संतनोत्येता मे अग्न इष्टका धेनवः सन्त्वमुत्रामुष्मिंलोक इत्येतद्वा एना अस्मिंलोके धेनूः कुरुतेऽथैना एतदमुष्मिंलोके धेनूः कुरुते तथो हैनमेता उभयोर्लोकयोर्भुञ्जन्त्यस्मिंश्चामुष्मिंश्च - ९.१.२.[१७]

ऋतव स्थेति । ऋतवो ह्येता ऋतावृध इति सत्यवृध इत्येतदृतुष्वा स्थ ऋतावृध
इत्यहोरात्राणि वा इष्टका ऋतुषु वा अहोरात्राणि तिष्ठन्ति घृतश्चुतो मधुश्चुत इति
तदेना घृतश्चुतश्च मधुश्चुतश्च कुरुते- ९.१.२.[१८]

विराजो नामेति । एतद्वै देवा एता इष्टका नामभिरुपाह्वयन्ति यथायथैना एतदाचक्षते ता एनानभ्युपावर्तन्ताथ लोकम्पृणा एव पराच्यस्तस्थुरहितनाम्न्योनिमेमिहत्यस्ता विराजो नामाकुर्वत ता एनानभ्युपावर्तन्त तस्माद्दशदशेष्टका उपधाय लोकम्पृणयाभिमन्त्रयते तदेना विरावः कुरुते दशाक्षरा हि विराट्कामदुधा अक्षीयमाणा इति तदेनाः कामदुघा अक्षीयमाणाः कुरुते - ९.१.२.[१९]

अथैनं विकर्षति । मण्डूकेनावकया वेतसशाखयैतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्याथैनमेतद्भूय एवाशमयंस्तथैवैनमयमेतच्छतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्याथैनमेतद्भूय एव शमयति सर्वतो विकर्षति सर्वत एवैनमेतच्छमयति - ९.१.२.[२०]

यद्वेवैनं विकर्षति । एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निं समस्कुर्वंस्तमद्भिरवोक्षंस्ता आपः समस्कन्दंस्ते मण्डूका अभवन् - ९.१.२.[२१]

ताः प्रजापतिमब्रुवन् । यद्वै नः कमभूदवाक्तदगादिति सोऽब्रवीदेष व एतस्य वनस्पतिर्वेत्त्विति वेत्तु संवेत्तु सोऽह वै तं वेतस इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवा अथ यदब्रुवन्नवाङ्नः कमगादिति ता अवाक्का अभवन्नवाक्का ह वै ता अवका इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्ता हैतास्त्रय्य आपो यन्मण्डूकोऽवका वेतसशाखैताभिरेवैनमेतत्त्रयीभिरद्भिः शमयति - ९.१.२.[२२]

यद्वेवैनं विकर्षति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते सर्वम्वेतदन्नं यन्मण्डूकोऽवका वेतसशाखा पशवश्च ह्येता आपश्च वनस्पतयश्च सर्वेणैवैनमेतदन्नेन प्रीणाति - ९.१.२.[२३]

मण्डूकेन पशूनाम् । तस्मान्मण्डूकः पशूनामनुपजीवनीयतमो यातयामा हि सोऽवकाभिरपां तस्मादवका अपामनुपजीवनीयतमा यातयाम्न्यो हि ता वेतसेन वनस्पतीनां तस्माद्वेतसो वनस्पतीनामनुपजीवनीयतमो यातयामा हि सः - ९.१.२.[२४]

तानि वंशे प्रबध्य । दक्षिणार्धेनाग्नेरन्तरेण परिश्रितः प्रागग्रे विकर्षति समुद्रस्य त्वावकयाग्ने परिव्ययामसि पावको अस्मभ्यं शिवो भवेति समुद्रियाभिस्त्वाद्भिः शमयाम इत्येतत् - ९.१.२.[२५]

अथ जघनार्धेनोदक् । हिमस्य त्वा जरायुणाग्ने परिव्ययामसि पावको अस्मभ्यं शिवो भवेति यद्वै शीतस्य प्रशीतं तद्धिमस्य जरायु शीतस्य त्वा प्रशीतेन शमयाम इत्येतत् - ९.१.२.[२६]

अथोत्तरार्धेन प्राक् । उप ज्मन्नुप वेतसेऽवतर नदीष्वा अग्ने पित्तमपामसि मण्डूकि ताभिरागहि सेमं नो यज्ञं पावकवर्णं शिवं कृधीति यथैव यजुस्तथा बन्धुः - ९.१.२.[२७]

अथ पूर्वार्धेन दक्षिणा । अपामिदं न्ययनं समुद्रस्य निवेशनमन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथाबन्धुरित्यग्रे विकर्षत्यथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रा- ९.१.२.[२८]

आत्मानमग्रे विकर्षति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम्पक्षमथ पुच्छमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्रा - ९.१.२.[२९]

अभ्यात्मं पक्षपुच्छानि विकर्षति । अभ्यात्ममेव तच्छान्तिं धत्ते पुरस्तादर्वाक्परस्तादेव तदर्वाचीं शान्तिं धत्तेऽग्ने पावक रोचिषेति दक्षिणम्पक्षं स नः पावक दीदिव इति पुच्छं पावकया यश्चितयन्त्या कृपेत्युत्तरम्पावकं पावकमिति यद्वै शिवं शान्तं तत्पावकं शमयत्येवैनमेतत् - ९.१.२.[३०]

सप्तभिर्विकर्षति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्विकर्षति तं वंशमुत्करे न्यस्य- ९.१.२.[३१]

अथैनं सामभिः परिगायति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा एतदमृतं रूपमुत्तममदधुस्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति सामानि भवन्ति प्राणा वै सामान्यमृतमु वै प्राणा अमृतमेवास्मिन्नेतद्रूपमुत्तमं दधाति सर्वतः परिगायति सर्वत एवास्मिन्नेतदमृतं रूपमुत्तमं दधाति - ९.१.२.[३२]

यद्वेवैनं सामभिः परिगायति । एतद्वै देवा अकामयन्तानस्थिकमिमममृतमात्मानं कुर्वीमहीति तेऽब्रुवन्नुप तज्जानीत यथेममात्मानमनस्थिकममृतं करवामहा इति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेममात्मानमनस्थिकममृतं करवामहा इति - ९.१.२.[३३]

ते चेतयमानाः । एतानि सामान्यपश्यंस्तैरेनम्पर्यगायंस्तैरेतमात्मानमनस्थिकममृतमकुर्वत तथैवैतद्यजमानो यदेनं सामभिः परिगायत्येतमेवैतदात्मानमनस्थिकममृतं कुरुते सर्वतः परिगायति सर्वत एवैतदेतमात्मानमनस्थिकममृतं कुरुते तिष्ठन्गायति तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरो हिङ्कृत्य गायति तत्र हि सर्वं कृत्स्नं साम भवति - ९.१.२.[३४]

गायत्रं पुरस्ताद्गायति । अग्निर्वै गायत्रमग्निमेवास्यैतच्छिरः करोत्यथो शिर एवास्यैतदनस्थिकममृतं करोति - ९.१.२.[३५]

रथन्तरं दक्षिणे पक्षे । इयं वै रथन्तरमियमु वा एषां लोकानां रसतमोऽस्यां हीमे सर्वे रसा रसंतमं ह वै तद्रथन्तरमित्याचक्षते परोऽक्षम्परोऽक्षकामा हि देवा इमामेवास्यैतद्दक्षिणं पक्षं करोत्यथो दक्षिणमेवास्यैतत्पक्षमनस्थिकममृतं करोति - ९.१.२.[३६]

बृहदुत्तरे पक्षे । द्यौर्वै बृहद्द्यौर्हि बर्हिष्ठा दिवमेवास्यैतदुत्तरम्पक्षं करोत्यथो उत्तरमेवास्यैतत्पक्षमनस्थिकममृतं करोति - ९.१.२.[३७]

वामदेव्यमात्मन् । प्राणो वै वामदेव्यं वायुरु प्राणः सर्वेषामु हैष देवानामात्मा यद्वायुर्वायुमेवास्यैतदात्मानं करोत्यथो आत्मानमेवास्यैतदनस्थिकममृतं करोति - ९.१.२.[३८]

यज्ञायज्ञियं पुच्छम् । चन्द्रमा वै यज्ञायज्ञियं यो हि कश्च यज्ञः संतिष्ठत एतमेव तस्याहुतीनां रसोऽप्येति तद्यदेतं यज्ञोयज्ञोऽप्येति तस्माच्चन्द्रमा यज्ञायज्ञियं चन्द्रमसमेवास्यैतत्पुच्छं करोत्यथो पुच्छमेवास्यैतदनस्थिकममृतं करोति - ९.१.२.[३९]

अथ प्रजापतेर्हृदयं गायति । असौ वा आदित्यो हृदयं श्लक्ष्ण एष श्लक्ष्णं हृदयं परिमण्डल एष परिमण्डलं हृदयमात्मन्गायत्यात्मन्हि हृदयं निकक्षे निकक्षे हि हृदयं दक्षिणे निकक्षेऽतो हि हृदयं नेदीय आदित्यमेवास्यैतद्धृदयं करोत्यथो हृदयमेवास्यैतदनस्थिकममृतं करोति- ९.१.२.[४०]

प्रजासु च प्रजापतौ च गायति । तद्यत्प्रजासु गायति तत्प्रजासु हृदयं दधात्यथ यत्प्रजापतौ गायति तदग्नौ हृदयं दधाति - ९.१.२.[४१]

यद्वेव प्रजासु च प्रजापतौ च गायति । अयं वा अग्निः प्रजाश्च प्रजापतिश्च तद्यदग्नौ गायति तदेव प्रजासु च प्रजापतौ च हृदयं दधाति - ९.१.२.[४२]

ता हैता अमृतेष्टकाः । ता उत्तमा उपदधात्यमृतं तदस्य सर्वस्योत्तमं दधाति तस्मादस्य सर्वस्यामृतमुत्तमं नान्योऽध्वर्योर्गायेदिष्टका वा एता विचितो ह स्याद्यदन्योऽध्वर्योर्गायेत् - ९.१.२.[४३]