भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९५

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९४ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९५
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९६ →


सूर्यारुणसंवादे स्वप्नवर्णनम्

<poem>।। ।। अनूरुरुवाच ।। ।।
भगवञ्छ्रोतुमिच्छामि सप्तमीनां परं विधिम् ।।
सर्वासामनुरूपाणां कथयस्व महामुने ।। १ ।।
।। सप्ताश्वतिलक उवाच ।। ।।
शृणु वीर खगश्रेष्ठ सप्तमीनां परं विधिम् ।।
कीर्तयिष्यामि ते सर्वं यथावत्परिपृच्छते ।। २ ।।
तुल्यं किल खगश्रेष्ठ यथाख्यातं विवस्वता ।।
शुक्लपक्षे रविदिने प्रवृत्ते चोत्तरायणे ।। ३ ।।
पुत्रदारधनक्षेत्रे गृह्णीयात्सप्तमीव्रतम् ।।
ऋषिभिर्ज्ञानसंपन्नैः सर्वकामफल प्रदैः ।। ४ ।।
सप्तम्यः सप्तआख्यातास्तासां नामानि मे शृणु ।।
अर्कसंपुटकैरेका द्वितीया मरिचैस्तथा ।। ५ ।।
तृतीया निंबपत्रैश्च चतुर्थी फल सप्तमी ।।
सप्तमी कामिका नाम्ना विधिमासां निबोध मे ।। ६ ।।
पंचम्यामेकभक्तं तु कुर्यान्नियतमानसः ।।
अल्पाहारं न कुर्वीत मैथुनं दूरतस्त्यजे त् ।। ७ ।।
वर्जयेन्मधु मांसं च अत्यम्लं च खगाधिप ।।
प्रभाते चैव षष्ठ्यां तु एकैकपर्णसंपुटे ।। ८ ।।
घृतशाल्योदनं कृत्वा भक्षयेत्तु विधानतः ।।
अन्यदन्नमभुंजानः सप्तम्यां भोजनं भवेत् ।। ९ ।।
एकैकवृद्धाभियुक्तैर्यो वसेत्तु खगेश्वर ।।
अन्यत्र मरिचं भक्षेन्निंबपत्राण्यतः परम् ।। 1.195.१० ।।
एवं लब्धफलानीह पक्षयोरुभयोरपि।।
अन्नादै रहितो यत्नादनोदन इति स्मृतः ।। ११ ।।
आचरेद्विधिवद्भक्त्या पूजयित्वा विभावसुम् ।।
अहोरात्रं वायुभक्षः कुर्याद्विजयसप्तमीम् ।। १२ ।।
एकैकं सप्त सप्तमीरत्रैव विधिवच्चरेत् ।।
प्रालेख्य तासां नामानि पत्रकेषु पृथक्पृथक् ।। १३ ।।
तानि सर्वाणि नामानि विलेख्य सुसमाहितः ।।
श्वेतचंदनदिग्धांगे माल्यदामोपशोभिते ।। १४ ।।
सप्तधान्यहिरण्याढ्ये शशिकुन्देंदुसन्निभे।१३ ।।
अश्वत्थाशोकपत्राढ्ये दध्योदनसमन्विते ।। १५ ।।
तदर्थं पूजयेद्भक्त्या तैस्तैर्दृष्टैर्न संशयः ।।
दृष्ट्वा तु शोभनं स्वप्नं न भूयः शयनं स्वपेत्।।१६।।
प्रातश्च की र्तयेत्स्वप्ने यथादृष्टं खगाधिप ।।
प्राज्ञभोजकविप्रेभ्यः सुहृद्भ्यश्च खगाधिप ।। १७ ।।
ततो मध्याह्नसमये स्नातः प्रयतमानसः ।।
तं चैव देवं विधिवत्पूजयित्वा दिवाकरम् ।। १८ ।।
सम्यक्कृतजपो मौनी नरो हुतहुताशनः ।।
निष्क्रम्य देवायतनाद्भोजकाय निवेदयेत् ।। १९ ।।
भवेदलाभो यदि भोजकानां विप्रास्तमर्हंति पुराणविज्ञाः ।।
ये मंत्रवेदावयवेषु निश्चिता विभुं समभ्यर्च्य दिवं व्रजेयुः ।। 1.195.२० ।।
कृत्वैवं सप्तमी सप्त नरो भक्ति समन्वितः ।।
श्रद्दधानोपि सूर्यस्य स कथं नाप्नुयात्फलम् ।।२१।।
दशानामश्वमेधानां कृतानां यत्फलं भवेत् ।।
तत्फलं सप्तमी सप्त कृत्वा भक्त्या लभेत ना ।। २२ ।।
दुष्पापं नास्ति तद्वीर सप्तम्यां यन्न दह्यते ।।
न च रोगोऽस्त्यसौ लोके य एताभिर्न शाम्यति ।। २३ ।।
कुष्ठानि यानि रौद्राणि दुश्छेद्यानि भिषग्जनैः ।।
नीयन्ते तानि सर्वाणि गरुडेनेव पन्नगाः ।। २४ ।।
सकलविबुधमान्यं स्वप्रकाशं जनानामभिमतफलदाने दीक्षितं तं सुपूज्यम् ।।
सुतधनकुलभोगैः सौख्यपुण्यैरुपेतो व्रजति च सुतनुं कां शाश्वता तिग्मरश्मेः ।। २५ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यारुणसंवादे स्वप्नवर्णनं नाम पंचनवत्यधिकशततमोऽध्यायः ।। १९५ ।।

</poem>