तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ५
प्रपाठक ५
प्रवर्ग्यब्राह्मण
हरिः ॐ । शं नः तन्नो मा हासीत् । ॐ शान्तिः शान्तिः शान्तिः ।
5.1 अनुवाक १
देवा वै सत्रमासत । ऋद्धिपरिमितं यशस्कामाः । तेऽब्रुवन् । यन्नः प्रथमं यश ऋच्छात् । सर्वेषां नस्तत्सहासदिति । तेषां कुरुक्षेत्रं वेदिरासीत् । तस्यै खाण्डवो दक्षिणार्ध आसीत् । तूर्घ्नमुत्तरार्धः । परीणज् जघनार्धः । मरव उत्करः १ तेषां मखं वैष्णवं याश आर्च्छत् । तन्न्यकामयत । तेनापाक्रामत् । तं देवा अन्वायन् । यशो वरुरुत्समानाः । तस्यान्वागतस्य । सव्याद्धनुरजायत । दक्षिणादिषवः । तस्मादिषुधन्वं पुण्यजन्म । यज्ञजन्मा हि २ तमेकꣳ सन्तम् । बहवो नाभ्यधृष्णुवन् । तस्मादेकमिषुधन्!विनम् । बहवोऽनिषुधन्वा नाभि धृष्णुवन्ति । सोऽस्मयत । एकं मा सन्तं बहवो नाभ्यधर्षिषुरिति । तस्य सिष्मियाणस्य तेजोऽपाक्रामत् । तद्देवा ओषधीषु न्यमृजुः । ते श्यामाका अभवन् । स्मयाका वै नामैते ३ तत्स्मयाकानाꣳ स्मयाकत्वम् । तस्माद्दीक्षितेनापिगृह्य स्मेतव्यम् । तेजसो धृत्यै । स धनुः प्रतिष्कभ्यातिष्ठत् । ता उपदीका अब्रुवन्वरं वृणामहै । अथ व इमꣳ रन्धयाम । यत्र क्व च खनाम । तदपोऽभि तृणदामेति । तस्मादुपदीका यत्र क्व च खनन्ति । तदपोऽभि तृन्दन्ति ४ वारेवृतꣳ ह्यासाम् । तस्य ज्यामप्यादन् । तस्य धनुर्विप्रवमाणꣳ शिर उदवर्तयत् । तद्द्यावापृथिवी अनु प्रावर्तत यत्प्रावर्तत । तत्प्रवर्ग्यस्य प्रवर्ग्यत्वम् । यद्घ्राꣳ३ इत्यपतत् । तद्घर्मस्य घर्मत्वम् । महतो वीर्यमपप्तदिति । तन्महावीरस्य महावीरत्वम् ५ यदस्याः समभरन् । तत्सम्राज्ञः सम्राट्त्वम् । तꣳ स्तृतं देवतास्त्रेधा व्यगृह्णत । अग्निः प्रातःसवनम् । इन्द्रो माध्यंदिनꣳ सवनम् । विश्वे देवास्तृतीयसवनम् । तेनापशिर्ष्णा यज्ञेन यजमानाः । नाशिषोऽवारुन्धत । न सुवर्गं लोकमभ्यजयन् । ते देवा अश्विनावब्रुवन् ६ भिषजौ वै स्थः । इदं यज्ञस्य शिरः प्रति धत्तमिति । तावब्रूतां वरं वृणावहै । ग्रह एव नावत्रापि गृह्यतामिति । ताभ्यामेतमाश्विनमगृह्णन् । तावेतद्यज्ञस्य शिरः प्रत्यधत्ताम् । यत्प्रवर्ग्यः । तेन सशीर्ष्णा यज्ञेन यजमानाः । अवाशिषोऽरुन्धत । अभि सुवर्गं लोकमजयन् । यत्प्रवर्ग्यं प्रवृणक्ति । यज्ञस्यैव तच्छिरः प्रति दधाति । तेन सशीर्ष्णा यज्ञेन यजमानः । अवाशिषो रुन्धे । अभि सुवर्गं लोकां जयति । तस्मादेष आश्विनप्रवया इव । यत्प्रवर्ग्यः
७ उत्करो ह्येते तृन्दन्ति महावीरत्वमब्रुवन्नजयन्त्सप्त च
5.2 अनुवाक २
सावित्रं जुहोति प्रसूत्यै । चतुर्गृहीतेन जुहोति । चतुष्पादः पशवः । पशूनेवाव रुन्धे । चतस्रो दिशः । दिक्ष्वेव प्रति तिष्ठति । छन्दाꣳसि देवेभ्योऽपाक्रामन् । न वो भागानि हव्यं वक्ष्याम इति । तेभ्य एतच्चतुर्गृहीतमधारयन् । पुरोनुवाक्यायै याज्यायै १ देवतायै वषट्काराय । यच्चतुर्गृहीतं जुहोति । छन्दाꣳस्येव तत्प्रीणाति । तान्यस्य प्रीतानि देवेभ्यो हव्यं वहन्ति । ब्रह्मवादिनो वदन्ति । होतव्यं दीक्षितस्य गृहाइ!३ न होतव्या३मिति । हविर्वै दीक्षितः । यज् जुहुयात् । हविष्कृतं यजमानमग्नौ प्र दध्यात् । यन्न जुहुयात् २ यज्ञपरुरन्तरियात् । यजुरेव वदेत् । न हविष्कृतं यजमानमग्नौ प्रदधाति । न यज्ञपरुरन्तरेति । गायत्री छन्दाꣳस्यत्यमन्यत । तस्यै वषट्कारोऽभ्यय्य शिरोऽच्छिनत् । तस्यै द्वेधा रसः परापतत् । पृथिवीमर्धः प्राविशत् । पशूनर्धः । यः पृथिवीं प्रावि । सत् ३ स खदिरोऽभवत् । यः पशून् । सोऽजाम् । यत्खादिर्यभ्रिर्भवति । छन्दसामेव रसेन यज्ञस्य शिरः सं भरति । यदौदुम्बरी । ऊर्ग्वा उदुम्बरः । ऊर्जैव यज्ञस्य शिरः सं भरति । यद्वैणवी । तेजो वै वेणुः ४ तेजसैव यज्ञ्स्य शिरः सं भरति । यद्वैकङ्कती । भा एवाव रुन्धे । देवस्य त्वा सवितुः प्रसव् । अ इत्यभ्रिमा दत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । वज्र इव वा एषा । यदभ्रिः । अभ्रिरसि नारिरसीत्याह शान्त्यै ५ अध्वरकृद्देवेभ्य इत्याह । यज्ञो वा अध्वरः । यज्ञकृद्देवेभ्य इति वावैतदाह । उत्तिष्ठ ब्रह्मणस्पत इत्याह । ब्रह्मणैव यज्ञस्य शिरोऽच्छैति । प्रैतु ब्रह्मणस्पतिरित्याह । प्रेत्यैव यज्ञस्य शिरोऽच्छैति । प्र देव्येतु सूनृतेत्याह । यज्ञो वै सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसमित्याह ६ पाङ्क्तो हि यज्ञः । देवा यज्ञं नयन्तु न इत्याह । देवानेव यज्ञनियः कुरुते । देवी द्यावापृथिवी अनु मे मꣳसाथामित्याह आभ्यामेवानुमतो यज्ञस्य शिरः सं भरति । ऋध्यासमद्य मखस्य शिर इत्याह । यज्ञो वै मखः । ऋध्यासमद्य यज्ञस्य शिर इति वावैतदाह । मखाय त्वा मखस्य त्वा शीर्ष्ण इत्याह । निर्दिश्यैवैनद्धरति ७ त्रिर्हरति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो यज्ञस्य शिरः सं भरति । तूष्णीं चतुर्थꣳ हरति । अपरिमितादेव यज्ञस्य शिरः सं भरति । मृत्खनादग्रे हरति । तस्मान्मृत्खनः करुण्यतमः । इयत्यग्र आसीरित्याह । अस्यामेवाच्छंबट्कारं यज्ञस्य शिरः सं भरति । ऊर्जं वा एतꣳ रसं पृथिव्या उपदीका उद्दिहन्ति ८ यद्वल्मीकम् । यद्वल्मीकवपा संभारो भवति । ऊर्जमेव रसं पृथिव्या अव रुन्धे । अथो श्रोत्रमेव । श्रोत्रꣳ ह्येतत्पृथिव्याः । यद्वल्मीकः । अबधिरो भवति । य एवं वेद । इन्द्रो वृत्राय वज्रमुदयच्छत् । स यत्रयत्र पराक्रमत ९ तन्नाध्रियत । स पूतीकस्तम्बे पराक्रमत । सोऽध्रियत । सोऽब्रवीत् । ऊतिं वै मेऽधा इति । तदूतीकानामूतीकत्वम् । यदूतीका भवन्ति । यज्ञायैवोतिं दधति । अग्निजा असि प्रजापते रेत इत्याह । य एव रसः पशून्प्राविशत् १० तमेवाव रुन्धे । पञ्चैते संभारा भवन्ति । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः सं भरति । यद्ग्राम्याणां पशूनां चर्मणा संभरेत् । ग्राम्यान्पशूञ् छुचार्पयेत् । कृष्णाजिनेन सं भरति । आरण्यानेव पशूञ् छुचार्पयति । तस्मात्समावत्पशूनां प्रजायमानानाम् ११ आरण्याः पशवः कनीयाꣳसः । शुचा ह्यृताःलोमतः सं भरति । अतो ह्यस्य मेध्यम् । परिगृह्या यन्ति । रक्षसामपहत्यै । बहवो हरन्ति । अपचितिमेवास्मिन्दधति । उद्धते सिकतोपोप्ते परिश्रिते नि दधति शान्त्यै । मदन्तीभिरुप सृजति १२ तेज एवास्मिन्दधाति । मधु त्वा मधुला करोत्वित्याह । ब्रह्मणैवास्मिन्तेजो दधाति । यद्ग्राम्याणं पात्राणां कपालैः सꣳसृजेत् । ग्राम्याणि पात्राणि शुचार्पयेत् । अर्मकपालैः सꣳ सृजति । एतानि वा अनुपजीवनीयानि । तान्येव शुचार्पयति । शर्कराभिः सꣳ सृजति धृत्यै । अथो शंत्वाय । अजलोमैः सꣳ सृजति । एषा वा अग्नेः प्रिया तनूः । यदजा । प्रिययैवैनं तनुवा सꣳ सृजति । अथोतेजसा । कृष्णाजिनस्य लोमभिः सꣳ सृजति । यज्ञो वै कृष्णाजिनम् । यज्ञेनैव यज्ञꣳ सꣳ सृजति १३ याज्यायै न जुहुयादविश्द्वेणुः शान्त्यै पङ्क्तिराधसमित्याह
हरति दिहन्ति पराक्रमताविशत्प्रजायमानानाꣳ सृजति शंत्वायाष्टौ च
5.3 अनुवाक ३
परिश्रिते करोति । ब्रह्मवर्चसस्य परिगृहीत्यै । न कुर्वन्नभि प्राण्यात् । यत्कुर्वन्नभिप्राण्यात् । प्राणाञ् छुचार्पयेतपहाय प्राणिति । प्राणानां गोपीथाय । न प्रवर्ग्यं चादित्यं चान्तरेयात् । यदन्तरेयात् । दुश्चर्मा स्यात् १ तस्मान्नान्तराय्यम् । आत्मनो गोपीथाय । वेणुना करोति । तेजो वै वेणुः । तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति । मखस्य शिरोऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत्प्रवर्ग्यः २ तस्मादेवमाह । यज्ञस्य पदे स्थ इत्याह । यज्ञस्य ह्येते पदे । अथो प्रतिष्ठित्यै । गायत्रेण त्वा छन्दसा करोमीत्याह । छन्दोभिरेवैनं करोति । त्र्! युद्धिं करोति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । छन्दोभिः करोति ३ वीर्यं वै छन्दाꣳसि । वीर्येणैवैनं करोति । यजुषा बिलं करोति व्यावृत्त्यै । इयन्तं करोति । प्रजापतिना यज्ञमुखेन संमितम् । इयन्तं करोति । यज्ञपरुषा संमितम् । इयन्तं करोति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमितम् ४ अपरिमितं करोति । अपरिमितस्यावरुद्ध्यै । परिग्रीवं करोति धृत्यै । सूर्यस्य हरसा श्रायेत्याह । यथायजुरेवैतत् । अश्वशकेन धूपयति । प्राजापत्यो वा अश्वः सयोनित्वाय । वृष्णो अश्वस्य निष्पदसीत्याह । असौ वा आदित्यो वृशाश्वः । तस्य छन्दाꣳसि निष्पत् ५ छन्दोभिरेवैनं धूपयति । अर्चिषे त्वा शोचिषे त्वेत्याह । तेज एवास्मिन्दधाति । वारुणो भीद्धः । मैत्रियोपैति शान्त्यै । सिद्ध्यै त्वेत्याह । यथायजुरेवैतत् । देवस्त्वा सवितोद्वपत्वित्याह । सवितृप्रसूत एवैनं ब्रह्मणा देवताभिरुद्वपति । अपद्यमानः पृथिव्यामाशा दिश आपृणेत्याह ६ तस्मादग्निः सर्वा दिशोऽनु वि भाति । उत्तिष्ठ बृहन्भवोर्ध्वस्तिष्ठ ध्रुवस्त्वमित्याह प्रतिष्ठित्यै । ईश्वरो वा एशोऽन्धो भवितोः । यः प्रवर्ग्यमन्वीक्षते । सूर्यस्य त्वा चक्षुषान्वीक्ष इत्याह । चक्षुषो गोपीथाय । ऋजवे त्वा साधवे त्वा सुक्षित्यै त्वा भूत्यै त्वेत्याह । इयं वा ऋजुः । अन्तरिक्षꣳ साधु । असौ सुक्षितिः ७ दिशो भूतिः । इमानेवास्मै लोकान्कल्पयति । अथो प्रतिष्ठित्यै । इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीत्याह । विशैवैनं पशुभिर्ब्रह्मवर्चसेन पर्यूहति । विशेति राजन्यस्य ब्रूयात् । विशैवैनं पर्यूहति । पशुभिरिति वैश्यस्य । पशुभिरेवैनं पर्यूहति । असुर्यं पात्रमनाच्छृण्णम् ८ आ च्छृणत्ति । देवत्राकः । अजक्षीरेणा च्छृणत्ति । परमं वा एतत्पयः । यदजक्षीरम् । परमेणैवैनं पयसा च्छृणत्ति । यजुषा व्यावृत्त्यै । छन्दोघिरा च्छृणत्ति । छन्दोभिर्वा एष क्रियते । छन्दोभिरेव छन्दाꣳस्या च्छृणत्ति । छृन्धि वाचमित्याह । वाचमेवाव रुन्धे । छृन्ध्यूर्जमित्याह । ऊर्जमेवाव रुन्धे । छृन्धि हविरित्याह । हविरेवाकः । देव पुरश्चर सघ्यासं त्वेत्याह । यथायजुरेवैतत् ९ स्याद्यत्प्रवर्ग्यश्छन्दोभिः करोति वीर्यसमितं छन्दाꣳसि निष्पत्पृणेत्याह
सुक्षितिरनाच्छृण्णं छन्दाꣳस्याच्छृणत्त्यष्टौ च
5.4 अनुवाक ४
ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभि ष्टुहीत्याह । एष वा एतर्हि बृहस्पतिः । यद्ब्रह्मा । तस्मा एव प्रतिप्रोच्य प्रचरति । आत्मनोऽनार्त्यै । यमाय त्वा मखाय त्वेत्याह । एता वा एतस्य देवताः । ताभिरेवैनꣳ समर्धयति । मदन्तीभिः प्रोक्षति । तेज एवास्मिन्दधाति १अभिपूर्वं प्रोक्षति । अभिपूर्वमेवास्मिन्तेजो दधाति । त्रिः प्रोक्षति । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । होतान्वाह । रक्षसामपहत्यै । अनवानम् । प्राणानाꣳ सन्तत्यै । त्रिष्टुभः सतीर्गायत्रीरिवान्वाह २ गायत्रो हि प्राणः । प्राणमेव यजमाने दधाति । सन्ततमन्वाह । प्राणानामन्नाद्यस्य सन्तत्यै । अथो रक्षसामपहत्यै । यत्परिमिता अनुब्रूयात् । परिमितमव रुन्धीत । अपरिमिता अन्वाह । अपरिमितस्यावरुद्ध्यै । शिरो वा एतद्यज्ञस्य ३ यत्प्रवर्ग्यः । ऊर्ङ्मुञ्जाः । यन्मौञ्जो वेदो भवति । ऊर्जैव यज्ञस्य शिरः समर्धयति । प्राणाहुतीर्जुहोति । प्राणानेव यजमाने दधाति । सप्त जुहोति । सप्त वै शीर्षण्याः प्राणाः । प्राणानेवास्मिन्दधाति । देवस्त्वा सविता मध्वानक्त्वित्याह ४ तेजसैवैनमनक्ति । पृथिवीं तपसस्त्रायस्वेति हिरण्यमुपास्यति । अस्या अनतिदाहाय । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । अग्निः सर्वा देवताः । प्रलवानादीप्योपास्यति । देवतास्वेव यज्ञस्य शिरः प्रति दधाति । अप्रतिशीर्णाग्रं भवति । एतद्बर्हिर्ह्येषः ५ अर्चिरसि शोचिरसीत्याह । तेज एवास्मिन्ब्रह्मवर्चसं दधाति । सꣳ सीदस्व महाꣳ असीत्याह । महान्ह्येषः । ब्रह्मवादिनो वदन्ति । एते वाव त ऋत्विजः । ये दर्शपूर्णमासयोः । अथ कथा होता यजमानायाशिषो ना शास्त इति । पुरस्तादाशीः खलु वा अन्यो यज्ञः । उपरिष्टादाशीरन्यः ६ अनाधृष्या पुरस्तादिति यदेतानि यजूꣳष्याह । शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुन्धे । आयुः पुरस्तादाह । प्रजां दक्षिणतः । प्राणं पश्चात् । श्रोत्रमुत्तरतः । विधृतिमुपरिष्टात् । प्राणानेवास्मै समीचो दधाति । ईश्वरो वा एष दिशोऽनून्मदितोः । यं दिशोऽनु व्यास्थापयन्ति ७ मनोरश्वासि भूरिपुत्रेतीमामभि मृशति । इयं वै मनोरश्वा भूरिपुत्रा । अस्यामेव प्रति तिष्ठत्यनुन्मादाय । सूपसदा मे भूया मा मा हिꣳसीरित्याहाहिꣳसायै । चितः स्थ परिचित इत्याह । अपचितिमेवास्मिन्दधाति । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । असौ खलु वा आदित्यः प्रवर्ग्यः । तस्य मरुतो रश्मयः ८ स्वाहा मरुद्भिः परि श्रयस्वेत्याह । अमुमेवादित्यꣳ रश्मिभिः पर्यूहति । तस्मादसावादित्योऽमुष्मिल्ꣳलोके रश्मिभिः पर्यूढः । तस्माद्रा जा विशा पर्यूढः । तस्माद्ग्रामणीः सजातैः पर्यूढः । अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्छत् । यद्वैकङ्कताः परिधयो भवन्ति । भा एवाव रुन्धे । द्वादश भवन्ति ९ द्वादश मासाः संवत्सरः । संवत्सरमेवाव रुन्धे । अस्ति त्रयोदशो मास इत्याहुः । यत्त्रयोदशः परिधिर्भवति । तेनैव त्रयोदशं मासमव रुन्धे । अन्तरिक्षस्यान्तर्धिरसीत्याह व्यावृत्त्यै । दिवं तपसस्त्रायस्वेत्युपरिष्टाद्धिरण्यमाधि नि दधाति । अमुष्या अनतिदाहाय । अथो आभ्यामेवैनमुभयतः परि गृह्णाति । अर्हन्बिभर्षि सायकानि धन्वेत्याह १० स्तौत्येवैनमेतत् । गायत्रमसि त्रैष्टुभमसि जागतमसीति धवित्राण्या दत्ते । छन्दोभिरेवैनान्या दत्ते । मधु मध्विति धूनोति । प्राणो वै मधु । प्राणमेव यजमाने दधाति । त्रिः परि यन्ति । त्रिवृद्धि प्राणः । त्रिः परि यन्ति । त्र्! यावृद्धि यज्ञः ११ अथो रक्षसामपहत्यै । त्रिः पुनः परि यन्ति । षट्सं पद्यन्ते । षड्वा ऋतवः । ऋतुष्वेव प्रति तिष्ठन्ति । यो वै घर्मस्य प्रियां तनुवमाक्रामति । दुश्चर्मा वै स भवति । एष ह वा अस्य प्रियां तनुवमा क्रामति । यस्त्रिः परीत्य चतुर्थं पर्येति । एताꣳ ह वा अस्योग्रदेवो राजनिरा चक्राम १२ ततो वै स दुश्चर्माभवत् । तस्मात्त्रिः परीत्य न चतुर्थं परीयात् । आत्मनो गोपीथाय । प्राणा वै धवित्राणि । अव्यतिषङ्गं धून्वन्ति । प्राणानामव्यतिषङ्गाय क्ळ्प्त्यै । विनिषद्य धून्वन्ति । दिक्ष्वेव प्रति तिष्ठन्ति । ऊर्ध्वं धून्वन्ति । सुवर्गस्य लोकस्य समष्ट्यै । सर्वतो धून्वन्ति । तस्मादयं सर्वतः पवते १३ दधातीवान्वाह यज्ञस्याहैष उपरिष्टादा । षीरन्यो व्यास्थापयन्ति रश्मयो भवन्ति धन्वेत्याह यज्ञश्चक्राम समष्ट्यै द्वे च
5.5 अनुवाक ५
अग्निष्ट्वा वसुभिः पुरस्ताद्रोचयतु गायत्रेण छन्दसेत्याह । अग्निरेवैनं वसुभिः पुरस्ताद्रो चयति गायत्रेण छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामा शास्ते । इन्द्र स्त्वा रुद्रै र्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसेत्याह । इन्द्र एवैनꣳ रुद्रैर्दक्षिणतो रोचयति त्रैष्टुभेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामा शास्ते । वरुणस्त्वादित्यैः पश्चाद्रोचयतु जागतेन छन्दसेत्याह । वरुण एवैनं आदित्यैः पश्चाद्रो चयति जागतेन छन्दसा १ स मा रुचितो रोचयेत्याह । आशिषमेवैतामा शास्ते । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयत्वानुष्टुभेन छन्दसेत्याह । द्युतान एवैनं मारुतो मरुद्भिरुत्तरतो रोचयत्यानुष्टुभेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते । बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रो चयतु पाङ्क्तेन छन्दसेत्याह । बृहस्पतिरेवैनं विश्वैर्देवैरुपरिष्टाद्रो चयतु पाङ्क्तेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामाशास्ते । रोचितस्त्वं देव घर्म देवेष्वसीत्याह । रोचितो ह्येष देवेषु । रोचिषीयाहं मनुष्येष्वित्याह । रोचत एवैष मनुष्येषु (४) । सम्राड्घर्म रुचितस्त्वं देवेष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चस्यसीत्याह । रुचितो ह्येष देवेष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी । रुचितोऽहं मनुष्येष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी भूयासमित्याह । रुचित एवैष मनुष्येष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी भवति । रुगसि रुचं मयि धेहि मयि रुगित्याह । आशिषमेवैतामा शास्ते । तं यदेतैर्यजुर्भिररोचयित्वा । रुचितो घर्म इति प्रब्रूयात् । अरोचुकोऽध्वरुः स्यात् । अरोचुको यजमानः । अथ यदेनमेतैर्यजुर्भी रोचयित्वा । रुचितो घर्म इति प्राह । रोचुकोऽध्वर्युर्भवति । रोचुको यजमानः १ पश्चाद्रो चयति जागतेन छन्दसा स मा रुचितो रोचये
त्याहाशिषमेवैतामाशास्तेऽष्टौ च
5.6 अनुवाक ६
शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । ग्रीवा उपसदः । पुरस्तादुपसदां प्रवर्ग्यं प्र वृणक्ति । ग्रीवास्वेव यज्ञस्य शिरः प्रति दधाति । त्रिः प्र वृणक्ति । त्रय इमे लोकाः । एभ्य एव लोकेभो यज्ञस्य शिरोऽव रुन्धे । षट्सं पद्यन्ते । षड्वा ऋतवः १ ऋतुभ्य एव यज्ञस्य शिरोऽव रुन्धे । द्वादश कृत्वः प्र वृणक्ति । द्वादश मासाः संवत्सरः । संवत्सरादेव यज्ञस्य शिरोऽव रुन्धे । चतुर्विꣳशतिः सं पद्यन्ते । चतुर्विꣳशतिरर्धमासाः । अर्धमासेभ्य एव यज्ञस्य शिरोऽव रुन्धे । अथो खलु । सकृदेव प्रवृज्यः । एकꣳ हि शिरः २ अग्निष्टोमे प्र वृणक्ति । एतावान्वै यज्ञः । यावानग्निष्टोमः । यावानेव यज्ञः । तस्य शिरः प्रति दधाति । नोक्थ्ये प्र वृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थ्ये प्रवृञ्ज्यात् । प्रजां पशूनस्य निर्दहेत् । विश्वजिति सर्वपृष्ठे प्र वृणक्ति ३ पृष्ठानि वा अच्युतं च्यावयन्ति । पृष्ठैरेवास्मा अच्युतं च्यावयित्वाव रुन्धे । अपश्यं गोपामित्याह । प्राणो वै गोपाः । प्राणमेव प्रजासु वि यातयति । अपश्यं गोपामित्याह । असौ वा आदित्यो गोपाः । स हीमाः प्रजा गोपायति । तमेव प्रजानां गोप्तारं कुरुते । अनिपद्यमानमित्याह ४ न ह्येष निपद्यते । आ च परा च पथिभिश्चरन्तमित्याह । आ च ह्येश परा च पथिभिश्चरति । स सध्रीचीः स विषूचीर्वसान इत्याह । सध्रीचीश्च ह्येष विषूचीश्च वसानः प्रजा अभि विपश्यति । आ वरीवर्ति भुवनेष्वन्तरित्याह । आ ह्येष वरीवर्ति भुवनेष्वन्तः । अत्र प्रावीर्मधु माध्वीभ्यां मधु माधूचीभ्यामित्याह । वासन्तिकावेवास्मा ऋतू कल्पयति । समग्निरग्निनागतेत्याह ५ ग्रैष्मावेवास्मा ऋतू कल्पयति । समग्निरग्निनागतेत्याह । अग्निर्ह्येवैषोऽग्निना संगच्छते स्वाहा समग्निस्तपसागतेत्याह । पूर्वमेवोदितम् । उत्तरेणाभि गृणाति । धर्ता दिवो वि भासि रजसः पृथिव्या इत्याह । वार्षिकावेवास्मा ऋतू कल्पयति । हृदे त्वा मनसे त्वेत्याह । शारदावेवास्मा ऋतू कल्पयति ६ दिवि देवेषु होत्रा यच्छेत्याह । होत्राभिरेवेमाल्ꣳलोकान्त्सं दधाति । विश्वासां भुवां पत इत्याह । हैमन्तिकावेवास्मा ऋतू कल्पयति । देवश्रूस्त्वं देव घर्म देवान्पाहीत्याह । शैशिरावेवास्मा ऋतू कल्पयति । तपोजां वाचमस्मे नि यच्छ देवायुवमित्याह । या वै मेध्या वाक् । सा तपोजाः । तामेवाव रुन्धे ७ गर्भो देवानामित्याह । गर्भो ह्येष देवानाम् । पिता मतीनामित्याह । प्रजा वै मतयः । तासामेष एव पिता । यत्प्रवर्ग्यः । तस्मादेवमाह । पतिः प्रजानामित्याह । पतिर्ह्येष प्रजानाम् । मतिः कवीनामित्याह ८ मतिर्ह्येष कवीनाम् । सं देवो देवेन सवित्रायतिष्ठ सं सूर्येणारुक्तेत्याह । अमुं चैवादित्यं प्रवर्ग्यं च सं शास्ति । आयुर्दास्त्वमस्मभ्यं घर्म वर्चोदा असीत्याह । आशिषमेवैतामा शास्ते । पिता नोऽसि पिता नो बोधेत्याह । बोधयत्येवैनम् । नवैतेऽवकाशा भवन्ति । पत्नियै दशमः । नव वै पुरुषे प्राणाः ९ नाभिर्दशमी । प्राणानेव यजमाने दधाति । अथो दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । यज्ञस्य शिरोऽच्छिद्यत । तद्देवा होत्राभिः प्रत्यदधुः । ऋत्विजोऽवेक्षन्ते । एता वै होत्राः । होत्राभिरेव यज्ञस्य शिरः प्रतिदधाति १० रुचितमवेक्षन्ते । रुचिताद्वै प्रजापतिः प्रजा असृजत । प्रजानाꣳ सृष्ट्यै । रुचितमवेक्षन्ते । रुचिताद्वै पर्जन्यो वर्षति । वर्षुकः पर्जन्यो भवति । सं प्रजा एधन्ते । रुचितमवेक्षन्ते । रुचितं वै ब्रह्मवर्चसम् । ब्रह्मवर्चसिनो भवन्ति ११ अधीयन्तोऽवेक्षन्ते । सर्वमायुर्यन्ति । न पत्न्यवेक्षेत । यत्पत्न्यवेक्षेत । प्र जायेत । प्रजां त्वस्यै निर्दहेत् । यन्नावेक्षेत । न प्र जायेत । नास्यै प्रजां निर्दहेत् । तिरस्कृत्य यजुर्वाचयति १२ प्र जायते । नास्यै प्रजां निर्दहति । त्वष्टीमती ते सपेयेत्याह । सपाद्धि प्रजाः प्रजायन्ते १३ ऋतवो हि शिरः सर्वपृष्ठे प्रवृणक्त्यनिपद्यमानमित्याह शारदावेवास्मा ऋतू कल्पयति रुन्धे कवीनामित्याह प्राणाः प्रति दधाति
भवन्ति वाचयति चत्वारि च
5.7 अनुवाक ७
देवस्य त्वा सवितुः प्रसव इति रशनामा दत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । आ ददेऽदित्यै रास्नासीत्याह यजुष्कृत्यै । इड एह्यदित एहि सरस्वत्येहीत्याह । एतानि वा अस्यै देवनामानि । देवनामैरेवैनामा ह्वयति । असावेह्यसावेह्यसावेहीत्याह । एतानि वा अस्यै मनुष्यनामानि १ मनुष्यनामैरेवैनामा ह्वयति । षट्सं पद्यन्ते । षड्वा ऋतवः। ऋतुभिरेवैनामाह्वयति । अदित्या उष्णीषमसीत्याह । यथायजुरेवैतत् । वायुरस्यैड इत्याह । वायुदेवत्यो वै वत्सः । पूषा त्वोपावसृजत्वित्याह । पौष्णा वै देवतया पशवः २ स्वयैवैनं देवतयोपावसृजति । अश्विभ्यां प्र दापयेत्याह । अश्विनौ वै देवानां भिषजौ । ताभामेवास्मै भेषजं करोति । यस्ते स्तनः शशय इत्याह । स्तौत्येवैनाम् । उस्र घर्मꣳ शिꣳषोस्र घर्मं पाहि घर्माय शिꣳषेत्याह । यथा ब्रूयादमुष्मै देहीति । तादृगेव तत् । बृहस्पतिस्त्वोपसीदत्वित्याह ३ ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवैनामुपसीदति । दानवः स्थ पेरव इत्याह । मेध्यानेवैनान्करोति । विष्वग्वृतो लोहितेनेत्याह व्यावृत्यै । अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेत्याह । एताभ्यो ह्येषा देवताभ्यः पिन्वते । इन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेत्याह । इन्द्र मेव भागधेयेन समर्धयति । द्विरिन्द्रायेत्याह ४ तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तमः । गायत्रोऽसि त्रैष्टुभोऽसि जागतमसीति शफोपयमानादत्ते । छन्दोभिरेवैनानादत्ते । सहोर्जो भागेनोपमेहीत्याह । ऊर्ज एवैनं भागमकः । अश्विनौ वा एतद्यज्ञस्य शिरः प्रतिदधतावब्रूताम् । आवाभ्यामेव पूर्वाभ्यां वषट्क्रियाता इति । इन्द्रा श्विना मधुनः सारघस्येत्याह । अश्विभ्यामेव पूर्वाभ्यां वषट्करोति । अथो अश्विनावेव भागधेयेन समर्धयति ५ घर्मं पात वसवो यजता वडित्याह । वसूनेव भागधेयेन समर्धयति । यद्वषट्कुर्यात् । यातयामास्य वषट्कारः स्यात् । यन्न वषट्कुर्यात् । रक्षाꣳसि यज्ञं हन्युः । वडित्याह । परोक्षमेव वषट्करोति । नास्य यातयामा वषट्कारो भवति । न यज्ञꣳ रक्षाꣳसि घ्नन्ति ६ स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्याह । यो वा अस्य पुण्यो रश्मिः । स वृष्टिवनिः । तस्मा एवैनं जुहोति । मधु हविरसीत्याह । स्वदयत्येवैनम् । सूर्यस्य तपस्तपेत्याह । यथायजुरेवैतत् । द्यावापृथिवीभ्यां त्वा परि गृह्णामीत्याह । द्यावापृथिवीभ्यां एवैनं परि गृह्णाति ७ अन्तरिक्षेण त्वोपयच्छामीत्याह । अन्तरिक्षेणैवैनमुप यच्छति । न वा एतं मनुष्यो भर्तुमर्हति । देवानां त्वा पितृणामनुमतो भर्तुꣳ शकेयमित्याह । देवैरेवैनं पितृभिरनुमत आ दत्ते । वि वा एनमेतदर्धयन्ति । यत्पश्चात्प्रवृज्य पुरो जुह्वति । तेजोऽसि तेजोऽनु प्रेहीत्याह । तेज एवास्मिन्दधाति । दिविस्पृङ्मा मा हिꣳसीरन्तरिक्षस्पृङ्मा मा हिꣳसीः पृथिविस्पृङ्मा मा हिꣳसीरित्याहाहिꣳसायै ८ सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीत्याह । आशिषमेवैतामाशास्ते । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । आत्मा वायुः । उद्यत्य वातनामान्याह । आत्मन्नेव यज्ञस्य शिरः प्रति दधाति । अनवानम् । प्राणानाꣳ संतत्यै । पञ्चाह ९ पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः प्रति दधाति । अग्नये त्वा वसुमते स्वाहेत्याह । असौ वा आदित्योऽग्निर्वसुमान् । तस्मा एवैनं जुहोति । सोमाय त्वा रुद्र वते स्वाहेत्याह । चन्द्रमा वै सोमो रुद्रवान् । तस्मा एवैनं जुहोति । वरुणाय त्वादित्यवते स्वाहेत्याह १० अप्सु वै वरुण आदित्यवान् । तस्मा एवैनं जुहोति । बृहस्पतये त्वा विश्वदेव्यावते स्वाहेत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मण एवैनं जुहोति । सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहेत्याह । संवत्सरो वै सवितुर्भुमान्!विभुमान्प्रभुमान्वाजवान् । तस्मा एवैनं जुहोति । यमाय त्वाङ्गिरस्वते पितृमते स्वाहेत्याह । प्राणो वै यमोऽङ्गिरस्वान्पितृवान् ११ तस्मा एवैनं जुहोति । एताभ्य एवैनं देवताभ्यो जुहोति । दश संपद्यन्ते । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । रौहिणाभ्यां वै देवाः सुवर्गमायन् । तद्रौहिणयो रौहिणत्वम् । यद्रौहिणौ भवतः । रौहिणाभ्यामेव तद्यजमानः सुवर्गं लोकमेति । अहर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्योतिषाꣳ स्वाहा रात्रिर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्योतिषाꣳ स्वाहेत्याह । आदित्यमेव तदमुष्मिँल्लोकेऽह्ना परस्ताद्दाधार । रात्रिया अवस्तात् । तस्मादसावादित्योऽमुष्मिꣳ लोकेऽहोरात्राभ्यं धृतः १२ मनुष्यनामानि पशवः सीदत्वित्याहेन्द्रा येत्याहार्धयति घ्नन्ति गृह्णात्यहिꣳसायै
पञ्चाहादित्यवते स्वाहेत्याह पितृमानेति चत्वारि च
5.8 अनुवाक ८
विश्वा आशा दक्षिणसदित्याह । विश्वानेव देवान्प्रीणाति । अथो दुरिष्ट्या एवैनं पाति । विश्वान्देवानयाडिहेत्याह । विश्वानेव देवान्भागधेयेन समर्धयति । स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विनेत्याह । अश्विनावेव भागधेयेन समर्धयति । स्वाहाग्नये यज्ञियाय शं यजुर्भिरित्याह । अभ्येवैनं घारयति । अथो हविरेवाकः १ अश्विना घर्मं पातꣳ हार्दिवानमहर्दिवाभिरूतिभिरित्याह । अश्विनावेव भागधेयेन समर्धयति । अनु वां द्यावापृथिवी मꣳसातामित्याहानुमत्यै । स्वाहेन्द्रा य स्वाहेन्द्रा वडित्याह । इन्द्रा य हि पुरो हूयते । आश्राव्याह घर्मस्य यजेति । वषट्कृते जुहोति । रक्षसामपहत्यै । अनु यजति स्वगाकृत्यै । घर्ममपातमश्विनेत्याह २ पूर्वमेवोदितम् । उत्तरेणाभि गृणाति । अनु वां द्यावापृथिवी अमꣳसातामित्याहानुमत्यै । तं प्राव्यं यथावण्णमो दिवे नमः पृथिव्या इत्याह । यथायजुरेवैतत् । दिवि धा इमं यज्ञं यज्ञमिमं दिवि धा इत्याह । सुवर्गमेवैनं लोकं गमयति । दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छेत्याह । एष्वेवैनं लोकेषु प्रति ष्ठापयति । पञ्च प्रदिषो गच्छेत्याह ३ दिक्ष्वेवैनं प्रति ष्ठापयति । देवान्घर्मपान्गच्छ पितॄन्घर्मपान्गच्छेत्याह । उभयेष्वेवैनं प्रति ष्ठापयति । यत्पिन्वते । वर्षुकः पर्जन्यो भवति । तस्मात्पिन्वमानः पुण्यः । यत्प्राङ् पिन्वते । तद्देवानाम् । यद्दक्षिणा । तत्पितृणाम् ४ यत्प्रत्यक् । तन्मनुष्यानाम् । यदुदङ् । तद्रुद्रा णाम् । प्राञ्चमुदञ्चं पिन्वयति । देवत्राकः । अथो खलु । सर्वा अनु दिशः पिन्वयति । सर्वा दिशः समेधन्ते । अन्तःपरिधि पिन्वयति ५ तेजसोऽस्कन्दाय । इषे पीपिह्यूर्जे पीपिहीत्याह । इषमेवोर्जं यजमाने दधाति । यजमानाय पीपिहीत्याह । यजमानायैवैतामाशिषमा शास्ते । मह्यं ज्यैष्ठ्याय पीपिहीत्याह । आत्मन एवैतामाशिषमा शास्ते । त्विष्यै त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वेत्याह । यथायजुरेवैतत् । धर्मासि सुधर्मामेन्यस्मे ब्रह्माणि धारयेत्याह ६ ब्रह्मन्नेवैनं प्रति ष्ठापयति । नेत्त्वा वातः स्कन्दयादिति यद्यभिचरेत् । अमुष्य त्वा प्राणे सादयाम्यमुना सह निरर्थं गच्छेति ब्रूयाद्यं द्विष्यात् । यमेव द्वेष्टि । तेनैनꣳ सह निरर्थं गमयति । पूष्णे शरसे स्वाहेत्याह । या एव देवता हुतभागाः । ताभ्य एवैनं जुहोति । ग्रावभ्यः स्वाहेत्याह । या एवान्तरिक्षे वाचः ७ ताभ्य एवैनं जुहोति । प्रतिरेभ्यः स्वाहेत्याह । प्राणा वै देवाः प्रतिराः । तेभ्य एवैनं जुहोति । द्यावापृथिवीभ्यः स्वाहेत्याह । द्यावापृथिवीभ्यामेवैनं जुहोति । पितृभ्यो घर्मपेभ्यः स्वाहेत्याह । ये वै यज्वानः । ते पितरो घर्मपाः । तेभ्य एवैनं जुहोति ८ रुद्रा य रुद्र होत्रे स्वाहेत्याह । रुद्र मेव भागधेयेन समर्धयति । सर्वतः समनक्ति । सर्वत एव रुद्रं निरवदयते । उदञ्चं निरस्यति । एषा वै रुद्र स्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते । अप उप स्पृशति मेध्यत्वाय । नान्वीक्षते । यदन्वीक्षेत ९ चक्षुरस्य प्रमायुकꣳ स्यात् । तस्मान्नान्वीक्ष्यः । अपीपरो माह्नो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति । अपीपरो मा रात्रिया अह्नो मा पाह्येषा ते अग्ने समित्तया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेत्याह । यथायजुरेवैतत् । ब्रह्मवादिनो वदन्ति । होतव्यमग्निहोत्रा३ं! न होतव्या३मिति १० यद्यजुषा जुहुयात् । अयथापूर्वमाहुती जुहुयात् । यन्न जुहुयात् । अग्निः परा भवेत् । भूः स्वाहेत्येव होतव्यम् । यथापूर्वमाहुती जुहोति । नाग्निः परा भवति । हुतꣳ हविर्मधु हविरित्याह । स्वदयत्येवैनम् । इन्द्र तमेऽग्नावित्याह ११ प्राणो वा इन्द्र तमोऽग्निः । प्राण एवैनमिन्द्र तमेऽग्नौ जुहोति । पिता नोऽसि मा मा हिꣳसीरित्याहाहिꣳसायै । अश्याम ते देव घर्म मधुमतो वाजवतः पितुमत इत्याह । आशिषमेवैतामा शास्ते । स्वधाविनोऽशीमहि त्वा मा मा हिꣳसीरित्याहाहिꣳसायै । तेजसा वा एते व्यृध्यन्ते । ये प्रवर्ग्येण चरन्ति । प्राश्नन्ति । तेज एवात्मन्दधते १२ संवत्सरं न माꣳसमश्नीयात् । न रामामुपेयात् । न मृन्मयेन पिबेत् । नास्य राम उच्छिष्टं पिबेत् । तेज एव तत्सꣳश्यति । देवासुराः संयत्ता आसन् । ते देवा विजयमुपयन्तः । विभ्राजि सौर्ये ब्रह्म सं न्यदधत । यत्किं च दिवाकीर्त्यम् । तदेतेनैव व्रतेनागोपायत् । तस्मादेतद्व्रतं चार्यम् । तेजसो गोपीथाय । तस्मादेतानि यजूꣳषि विभ्राजः सौर्यस्येत्याहुः । स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः सꣳ सादयति । स्वाहा त्वा नक्षत्रेभ्य इति सायम् । एता वा एतस्य देवताः । ताभिरेवैनꣳ समर्धयति १३ अजरश्विनेत्याह प्रदिशो गच्छेत्याह पितृणामन्तःपरिधि पिन्वयति धारयेत्याह वाचो घर्मपास्तेभ्य एवैनं जुहोत्यन्वीक्षेत होतव्या३मित्यग्नावित्याह दधतेऽगोपायत्सप्त च
5.9 अनुवाक ९
घर्म या ते दिवि शुगिति तिस्र आहुतीर्जुहोति । छन्दोभिरेवास्यैभ्यो लोकेभ्यः शुचमव यजते । इयत्यग्रे जुहोति । अथेयत्यथेयति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यः शुचमव यजते । अनु नोऽद्यानुमतिरित्याहानुमत्यै । दिवस्त्वा परस्पाया इत्याह । दिव एवेमाꣳलोकान्दाधार । ब्रह्मणस्त्वा परस्पाया इत्याह १ एष्वेव लोकेषु प्रजा दाधार । प्राणस्य त्वा परस्पाया इत्याह । प्रजास्वे । व प्राणान्दाधार । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । असौ खलु वा आदित्यः प्रवर्ग्यः । तं यद्दक्षिणा प्रत्यञ्चमुदञ्चमुद्वासयेत् । जिह्मं यज्ञस्य शिरो हरेत् । प्राञ्चमुद्वासयति । पुरस्तादेव यज्ञस्य शिरः प्रति दधाति २ प्राञ्चमुद्वासयति । तस्मादसावादित्यः पुरस्तादुदेति । शफोपयमान्धवित्राणि धृष्टी इत्यन्ववहरन्ति । सात्मानमेवैनꣳ सतनुं करोति । सात्माऽमुष्मिꣳ लोके भवति । य एवं वेद । औदुम्बराणि भवन्ति । ऊर्ग्वा उदुम्बरः । ऊर्जमेवाव रुन्धे । वर्त्मना वा अन्!वित्य ३ यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति । साम्ना प्रस्तोताऽन्ववैति । साम वै रक्षोहा । रक्षसामपहत्यै । त्रिर्निधनमुपैति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो रक्षाꣳस्यप हन्ति । पुरुषःपुरुषो निधनमुपैति । पुरुषःपुरुषो हि रक्षस्वी । रक्षसामपहत्यै ४ यत्पृथिव्यामुद्वासयेत् । पृथिवीꣳ शुचार्पयेत् । यदप्सु । अपः शुचार्पयेत् । यदोषधीषु । ओषधीः शुचार्पयेत् । यद्वनस्पतिषु । वनस्पतीञ् छुचार्पयेत् । हिरण्यं निधायोद्वासयति । अमृतं वै हिरण्यम् ५ अमृत एवैनं प्रति ष्ठापयति । वल्गुरसि शंयुधाया इति त्रिः परिषिञ्चन्पर्येति । त्रिवृद्वा अग्निः । यावानेवाग्निः । तस्य शुचꣳ शमयति । त्रिः पुनः पर्येति । षट्सं पद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवास्य शुचꣳ शमयति । चतुःस्रक्तिर्नाभिरृतस्येत्याह ६ इयं वा ऋतम् । तस्या एष एव नाभिः । यत्प्रवर्ग्यः । तस्मादेवमाह । सदो विश्वायुरित्याह । सदो हीयम् । अप द्वेषो अप ह्वर इत्याह भ्रातृव्यापनुत्यै । घर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्ना मधुमिश्रेण पूरयति । ऊर्ग्वा अन्नाद्यं दधि । ऊर्जैवैनमन्नाद्येन समर्धयति ७ अनशनायुको भवति । य एवं वेद । रन्तिर्नामासि दिव्यो गन्धर्व इत्याह । रूपमेवास्यैतन्महिमानꣳ रन्तिं बन्धुतां व्या चष्टे । समहमायुषा सं प्राणेनेत्याह । आशिषमेवैतामा शास्ते । व्यसौ योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह । अभिचार एवास्यैषः । अचिक्रदद्वृषा हरिरित्याह । वृषा ह्येषः ८ वृषा हरिः । महान्मित्रो न दर्शत इत्याह । स्तौत्येवैनमेतत् । चिदसि समुद्र योनिरित्याह । स्वामेवैनं योनिं गमयति । नमस्ते अस्तु मा मा हिꣳसीरित्याहाहिꣳसायै । विश्वावसुꣳ सोम गन्धर्वमित्याह । यदेवास्य क्रियमाणस्यान्तर्यन्ति । तदेवास्यैतेना प्याययति । विश्वावसुरभि तन्नो गृणात्वित्याह ९ पूर्वमेवोदितम् । उत्तरेणाभि गृणाति । धियो हिन्वानो धिय इन्नो अव्यादित्याह । ऋतूनेवास्मै कल्पयति । प्रासां गन्धर्वो अमृतानि वोचदित्याह । प्राणा वा अमृताः । प्राणानेवास्मै कल्पयति । एतत्त्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन्देवानुपैति । इदमहं मनुष्यो मनुष्यानित्याह १० मनुष्यो हि । एष सन्मनुष्यानुपैति । ईश्वरो वै प्रवर्ग्यमुद्वासयन् । प्रजां पशून्त्सोमपीथमनूद्वासः सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्त्सोमपीथमात्मन्धत्ते । सुमित्रा न आप ओषधयः सन्त्वित्याह । आशिषमेवैतामा शास्ते । दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह । अभिचार एवास्यैषः । प्र वा एषोऽस्माल्लोकाच्च्यवते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरीभ्यामृग्भ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको गार्हपत्यः । अस्मिन्नेव लोके प्रति तिष्ठति । असौ खलु वा आदित्यः सुवर्गो लोकः । यत्सौरी भवतः । तेनैव सुवर्गाल्लोकान्नैति ११ ब्रह्मणस्त्वा परस्पाया इत्याह दधात्यन्!वित्य रक्षस्वी रक्षसामपहत्यै वै हिरण्यमाहार्धयति ह्येष गृणात्वित्याह
मनुष्यानित्याहास्यैषोऽष्टौ च
5.10 अनुवाक १०
प्रजापतिं वै देवाः शुक्रं पयोऽदुह्रन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामान्यभवन् । तेषां यो रसोऽत्यक्षरत् । तानि शुक्रयजूꣳष्यभवन् । शुक्रियाणां वा एतानि शुक्रियाणि । सामपयसं वा एतयोरन्यत् । देवानामन्यत्पयः । यद्गोः पयः १ तत्साम्नः पयः । यदजायै पयः । तद्देवानां पयः । तस्माद्यत्रैतैर्यजुर्भिश्चरन्ति । तत्पयसा चरन्ति । प्रजापतिमेव तद्देवान्पयसान्नाद्येन समर्धयन्ति । एष ह त्वै साक्षात्प्रवर्ग्यं भक्षयति । यस्यैवं विदुषः प्रवर्ग्यः प्रवृज्यते । उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य । तेजो वा उत्तरवेदिः २ तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति । उत्तरवेद्यामुद्वासयेदन्नकामस्य । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । मुखमुत्तरवेदिः । शीर्ष्णैव मुखꣳ सं दधात्यन्नाद्याय । अन्नाद एव भवति । यत्र खलु वा एतमुद्वासितं वयाꣳसि पर्यासते । परि वै तां समां प्रजा वयाꣳस्यासते ३ तस्मादुत्तरवेद्यामेवोद्वासयेत् । प्रजानां गोपीथाय । पुरो वा पश्चाद्वोद्वासयेत् । पुरस्ताद्वा एतज् ज्योतिरुदेति । तत्पश्चान्नि म्रोचति । स्वामेवैनं योनिमनूद्वासयति । अपां मध्य उद्वासयेत् । अपां वा एतन्मध्याज् ज्योतिरजायत । ज्योतिः प्रवर्ग्यः । स्व एवैनं योनौ प्रति ष्ठापयति ४ यं द्विष्यात् । यत्र स स्यात् । तस्यां दिश्युद्वासयेत् । एष वा अग्निर्वैश्वानरः । यत्प्रवर्ग्यः । अग्निनैवैनं वैश्वानरेणाभि प्र वर्तयति । औदुम्बर्याꣳ शाखायामुद्वासयेत् । ऊर्ग्वा उदुम्बरः । अन्नं प्राणः । शुग्घर्मः ५ इदमहममुष्यामुष्यायणस्य शुचा प्राणमपि दहामीत्याह । शुचैवास्य प्राणमपि दहति । ताजगार्तिमार्च्छति । यत्र दर्भा उपदीकसन्तताः स्युः । तदुद्वासयेद्वृष्टिकामस्य । एता वा अपामनूज्झावर्यो नाम । यद्दर्भाः । असौ खलु वा आदित्य इतो वृष्टिमुदीरयति । असावेवास्मा आदित्यो वृष्टिं नि यच्छति । ता आपो नियता धन्वना यन्ति ६ गोः पय उत्तरवेदिरासते स्थापयति घर्मो यन्ति
5.11 अनुवाक ११
प्रजापतिः संभ्रियमाणः । सम्राट्संभृतः । घर्मः प्रवृक्तः । महावीर उद्वासितः । असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत । य एवं वेद । विदुरेनं नाम्ना । ब्रह्मवादिनो वदन्ति १ यो वै वसीयाꣳसं यथानाममुपचरति । पुण्यार्तिं वै स तस्मै कामयते । पुण्यार्तिं अस्मै कामयन्ते । य एवं वेद । तस्मादेवं विद्वान् । घर्म इति दिवा चक्षीत । संराडिति नक्तम् । एते वा एतस्य प्रिये तनुवौ । एते अस्य प्रिये नामनी । प्रिययैवैनं तनुवा २ प्रियेण नाम्ना समर्धयति । कीर्तिरस्य पूर्वा गच्छति जनतामायतः । गायत्री देवेभ्योऽपाक्रामत् । तां देवाः प्रवर्ग्येणैवानु व्यभवन् । प्रवर्ग्येणाप्नुवन् । यच्चतुर्विꣳशतिः कृत्वः प्रवर्ग्यं प्रवृणक्ति । गायत्रीमेव तदनु वि भवति । गायत्रीमाप्नोति । पूर्वास्य जनं यतः कीर्तिर्गच्छति । वैश्वदेवः सꣳसन्नः ३ वसवः प्रवृक्तः । सोमोऽभिकीर्यमाणः । आश्विनः पयस्यानीयमाने । मारुतः क्वथन् । पौष्ण उदन्तःसारस्वतो विष्यन्दमानः । मैत्रः शरोगृहीतः । तेज उद्यतो वायुः । ह्रियमाणः प्रजापतिः । हूयमानो वाग्घृतः ४ असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत । य एवं वेद । विदुरेनं नाम्ना । ब्रह्मवादिनो वदन्ति । यन्मृन्मयमाहुतिं नाश्नुतेऽथ । कस्मादेषोऽश्नुत इति । वागेष इति ब्रूयात् । वाच्येव वाचं दधाति ५ तस्मादश्नुते । प्रजापतिर्वा एष द्वादशधा विहितः । यत्प्रवर्ग्यः । यत्प्रागवकाशेभ्यः । तेन प्रजा असृजत । अवकाशैर्देवासुरानसृजत । यदूर्ध्वमवकाशेभ्यः । तेनान्नमसृजत । अन्नं प्रजापतिः । प्रजापतिर्वावैषः
६ वदन्ति तनुवा सꣳसन्नो हूयमानो वाग्घुतो दधात्येषः
5.12 अनुवाक १२
सविता भूत्वा प्रथमेऽहन्प्र वृज्यते । तेन कामाꣳ एति । यद्द्वितीयेऽहन्प्रवृज्यते । अग्निर्भूत्वा देवानेति । यत्तृतीयेऽहन्प्रवृज्यते । वायुर्भूत्वा प्राणानेति । यच्चतुर्थेऽहन्प्रवृज्यते । आदित्यो भूत्वा रश्मीनेति । यत्पञ्चमे हन्प्रवृज्यते । चन्द्रमा भूत्वा नक्षत्राण्येति १ यत्षष्ठेऽहन्प्रवृज्यते । ऋतुर्भूत्वा संवत्सरमेति । यत्सप्तमेऽहन्प्रवृज्यते । धाता भूत्वा शक्वरीमेति । यदष्ठमेऽहन्प्रवृज्यते । बृहस्पतिर्भूत्वा गायत्रीमेति । यन्नवमेऽहन्प्रवृज्यते । मित्रो भूत्वा त्रिवृत इमाꣳ लोकानेति । यद्दशमेऽहन्प्रवृज्यते । वरुणो भूत्वा विराजमेति २ यदेकादशेऽहन्प्रवृज्यते । इन्द्रो भूत्वा त्रिष्टुभमेति । यद्द्वादशेऽहन्प्रवृज्यते । सोमो भूत्वा सुत्यामेति । यत्पुरस्तादुपसदां प्रवृज्यते । तस्मादितः पराङ् अमूꣳ लोकाꣳस्तपन्नेति । यदुपरिष्टादुपसदां प्रवृज्यते । तस्मादमुतोऽर्वाङ् इमाङ् लोकाꣳस्तपन्नेति । य एवं वेद । ऐव तपति ३ नक्षत्राण्येति विराजमेति
तपति शं नः तन्नो मा हासीत्
ॐ शान्तिः शान्तिः शान्तिः
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठकः समाप्तः
टिप्पणी
५.१२.१ सविता भूत्वा इति
तु. सविता प्रथमे ऽहन्न् अग्निर् द्वितीये वायुस् तृतीय ऽ आदित्यश् चतुर्थे चन्द्रमाः पञ्चम ऽ ऋतुः षष्ठे मरुतः सप्तमे बृहस्पतिर् अष्टमे । मित्रो नवमे वरुणो दशम ऽ इन्द्र ऽ एकादशे विश्वे देवा द्वादशे ॥ - शुक्लयजुर्वेदः ३९.६
कर्मकाण्डे क्रमिकरूपेणे येषां प्रवर्ग्याणां संपादनं भवति, आभासीरूपेण तेषु न कोपि अन्तरं भवति। अयं जामिदोषः प्रतीयते। प्रस्तुतसूत्रः अस्य व्याख्यां करोति।