सामग्री पर जाएँ

नारदपुराणम्- पूर्वार्धः/अध्यायः ७

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच-
कोऽसौ राक्षसभावाद्धि मोचितः सगरान्वये।
सगरः को मुनिश्रेष्ठ तन्ममाख्यातुमर्हसि 1.7.१।
सनक उवाच-
शृणुष्व मुनिशार्दूल गंगामाहात्म्यमुत्तमम्।
यज्जलस्पर्शमात्रेण पावितं सागरं कुलम्।
गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम् २।
आसीद्र विकुले जातो बाहुर्नाम वृकात्मजः।
बुभुजे पृथिवीं सर्वां धर्मतो धर्मतत्परः ३।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा श्चान्ये च जन्तवः।
स्थापिताःस्वस्वधर्मेषु तेन बाहुर्विशांपतिः ४।
अश्वमेधैरियाजासौ सप्तद्वीपेषु सप्तभिः।
अतर्प्पयद्भूमिदेवान् गोभूस्वर्णांशुकादिभिः ५।
अशासन्नीतिशास्त्रेण यथेष्टं परिपन्थिनः।
मेने कृतार्थमात्मानमन्यातपनिवारणम् ६।
चन्दनानि मनोज्ञानि बलि यत्सर्वदा जनाः।
भूषिता भूषणैर्दिव्यैस्तद्रा ष्ट्रे सुखिनो मुने ७।
अकृष्टपच्या पृथिवी फलपुष्पसमन्विता ८।
ववर्ष भूमौ देवेन्द्र ः! काले काले मुनीश्वर।
अधर्मनिरतापाये प्रजा धर्मेण रक्षिताः ९।
एकदा तस्य भूपस्य सर्वसम्पद्विनाशकृत्।
अहंकारो महाञ्जज्ञे सासूयो लोपहेतुकः १०।
अहं राजा समस्तानां लोकानां पालको बली।
कर्त्ता महाक्रतूनां च मत्तः पूज्योऽस्ति कोऽपरः ११।
अहं विचक्षणः श्रीमाञ्जिताः सर्वे मयारयः।
वेदवेदाङ्गतत्त्वज्ञो नीतिशास्त्रविशारदः १२।
अजेयोऽव्याहतैश्वर्यो मत्तः कोऽन्योऽधिको भुवि।
अहंकारपरस्यैवं जातासूया परेष्वपि १३।
असूयातोऽभवत्कामस्तस्य राज्ञो मुनीश्वर।
एषु स्थितेषु तु नरो विनाशं यात्यसंशयम् १४।
यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् १५।
तस्यासूया नु महती जाता लोकविरोधिनी।
स्वदेहनाशिनी विप्र सर्वसम्पद्विनाशिनी १६।
असूयाविष्टमनसि यदि संपत्प्रवर्त्तते।
तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत १७।
असूयोपेतमनसां दम्भाचारवतां तथा।
परुषोक्तिरतानां च सुखं नेह परत्र च १८।
असूयाविष्टचित्तानां सदा निष्ठुरभाषिणाम्।
प्रिया वा तनया वापि बान्धवा अप्यरातयः १९।
मनोभिलाषं कुरुते यः समीक्ष्य परस्त्रियम्।
स स्वसंपद्विनाशाय कुठारो नात्र संशयः २०।
यः स्वश्रेयोविनाशाय कुर्याद्यत्नं नरो मुने।
सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सरं कुधीः २१।
मित्रापत्यगृहक्षेत्रधनधान्यपशुष्वपि।
हानिमिच्छन्नरः कुर्यादसूयां सततं द्विज २२।
अथ तस्याविनीतस्य ह्यसूयाविष्टचेतसः।
हैहयास्तालजङ्घाश्च बलिनोऽरातयोऽभवन् २३।
यस्यानुकूलो लक्ष्मीशः सौभाग्यं तस्य वर्द्धते।
सएव विमुखो यस्य सौभाग्यं तस्य हीयते २४।
तावत्पुत्राश्च पौत्राश्च धनधान्यगृहादयः।
यावदीक्षेत लक्ष्मीशः कृपापाङ्गेन नारद २५।
अपि मूर्खान्धबधिरजडाः शूरा विवेकिनः।
श्लाघ्या भवन्ति विप्रेन्द्र प्रेक्षिता माधवेन ये २६।
सौभाग्यं तस्य हीयेत यस्यासूयादिलाञ्छनम्।
जायते नात्र संदेहो जन्तुद्वेषो विशेषतः २७।
सततं यस्य कस्यापि यो द्वेषं कुरुते नरः।
तस्य सर्वाणि नश्यन्ति श्रेयांसि मुनिसत्तम २८।
असूया वर्द्धते यस्य तस्य विष्णुः पराङ्मुखः।
धनं धान्यं मही संपद्विनश्यति ततो ध्रुवम् २९।
विवेकं हन्त्यहंकारस्त्वविवेकात्तु जीविनाम्।
आपदः संभवन्त्येवेत्यहंकारं त्यजेत्ततः ३०।
अहंकारो भवेद्यस्य तस्य नाशोऽतिवेगतः।
असूयाविष्टमनसस्तस्य राज्ञः परैः सह ३१।
आयोधनमभूद् घोरं मासमेकं निरन्तरम्।
हैहयैस्तालजङ्घैश्च रिपुभिः स पराजितः ३२।
वनं गतस्ततो बाहुरन्तर्वत्न्या स्वभार्यया।
अवाप परमां तुष्टिं तत्र दृष्ट्वा महत्सरः ३३।
असूयोपेतमनसस्तस्य भावं निरीक्ष्य च।
सरोगतविहंगास्ते लीनाश्चित्रमिदं महत् ३४।
अहो कष्टमहो रूपं घोरमत्र समागतम्।
विशन्तस्त्वरया वासमित्यूचुस्ते विहंगमाः ३५।
सोऽवगाह्य सरो भूपः पत्नीभ्यां सहितो मुदा।
पीत्वा जलं च सुखदं वृक्षमूलमुपाश्रिताः ३६।
तस्मिन्बाहौ वनं याते तेनैव परिरक्षिताः।
दुर्गुणान्विगणय्यास्य धिग्धिगित्यब्रुवन्प्रजाः ३७।
यो वा को या गुणी मर्त्यः सर्वश्लाघ्यतरो द्विज।
सर्वसंपत्समायुक्तोऽप्यगुणी निन्दितो जनैः ३८।
अपकीर्तिसमो मृत्युर्लोकेष्वन्यो न विद्यते।
यदा बाहुर्वनं यातस्तदा तद्रा ज्यगा जनाः।
सन्तुष्टिं परमां याता दवथौ विगते यथा ३९।
निन्दितो बहुशो बाहुर्मृतवत्कानने स्थितः।
निहत्य कर्म च यशो लोके द्विजवरोत्तम ४०।
नास्त्यकीर्तिसमो मृत्युर्नास्ति क्रोधसमो रिपुः।
नास्ति निंदासमं पापं नास्ति मोहसमासवः ४१।
नास्त्यसूयासमाकीर्तिर्नास्ति कामसमोऽनलः।
नास्ति रागसमः पाशो नास्ति संगसमं विषम् ४२।
एवं विलप्य बहुधा बाहुरत्यन्तदुःखितः।
जीर्णाङ्गो मनसस्तापाद् वृद्धभावादभूदसौ ४३।
गते बहुतिथे काले और्वाश्रमसमीपतः।
स बाहुर्व्याधिना ग्रस्तो ममार मुनिसत्तम ४४।
तस्य भार्या च दुःखार्ता कनिष्ठा गर्भिणी तदा।
चिरं विलप्य बहुधा सह गन्तुं मनो दधे ४५।
समानीय च सैधांसि चितां कृत्वातिदुःखिता।
समारोप्य तमारूढं स्वयं समुपचक्रमे ४६।
एतस्मिन्नन्तरे धीमानौर्वस्तेजोनिधिर्मुनिः।
एतद्विज्ञातवान्सर्वं परमेण समाधिना ४७।
भूतं भव्यं वर्त्तमानं त्रिकालज्ञा मुनीश्वराः।
गतासूया महात्मानः पश्यन्ति ज्ञानचक्षुषा ४८।
तपोभिस्तेजसां राशिरौर्वपुण्यसमो मुनिः।
संप्राप्तस्तत्र साध्वी च यत्र बाहुप्रिया स्थिता ४९।
चितामारोढुमुद्युक्तां तां दृष्ट्वा मुनिसत्तमः।
प्रोवाच धर्ममूलानि वाक्यानि मुनिसत्तमः ५०।
और्व उवाच-
राजवर्यप्रिये साध्वि मा कुरुष्वातिसाहसम्।
तवोदरे चक्रवर्ती शत्रुहन्ता हि तिष्ठति ५१।
बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा।
रजस्वला राजसुते नारोहन्ति चितां शुभे ५२।
ब्रह्महत्यादिपापानां प्रोक्ता निष्कृतिरुत्तमैः।
दम्भिनो निंदकस्यापि भ्रूणघ्नस्य न निष्कृतिः ५३।
नास्तिकस्य कृतघ्नस्य धर्मोपेक्षाकरस्य च।
विश्वासघातकस्यापि निष्कृतिर्नास्ति स्रुवते ५४।
तस्मादेतन्महत्पापं कर्त्तुं नार्हसि शोभने।
यदेतद्दुःखमुत्पन्नं तत्सर्वं शांतिमेष्यति ५५।
इत्युक्ता मुनिना साध्वी विश्वस्य तदनुग्रहम्।
विललापातिदुःखार्ता समुह्यधवपत्कजौ ५६।
और्वोऽपि तां पुनः प्राह सर्वशास्त्रार्थकोविदः।
मा रोदी राजतनये श्रियमग्र्ये गमिष्यसि ५७।
मा मुंचास्रं महाभागे प्रेतो दाह्योऽद्य सज्जनैः।
तस्माच्छोकं परित्यज्य कुरु कालोचितां क्रियाम् ५८।
पंडिते वापि मूर्खे वा दरिद्रे वा श्रियान्विते।
दुर्वृत्ते वा सुवृत्ते वा मृत्योः सर्वत्र तुल्यता ५९।
नगरे वा तथारण्ये दैवमत्रातिरिच्यते ६०।
यद्यत्पुरातनं कर्म तत्तदेवेह युज्यते।
कारणं दैवमेवात्र मन्ये सोपाधिका जनाः ६१।
गर्भे वा बाल्यभावे वा यौवने वापि वार्द्धके।
मृत्योर्वशं प्रयातव्यं जन्तुभिः कमलानने ६२।
हन्ति पाति च गोविन्दो जन्तून्कर्मवशे स्थितान्।
प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु ६३।
तस्माद्दुःखं परित्यज्य सुखिनी भव सुव्रते।
कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव ६४।
एतच्छरीरं दुःखानां व्याधीनामयुतैर्वृतम्।
सुखाभासं बहुक्लेशं कर्मपाशेन यन्त्रितम् ६५।
इत्याश्वास्य महाबुद्धिस्तया कार्याण्यकारयत्।
त्यक्तशोका च सा तन्वी नता प्राह मुनीश्वरम् ६६।
किमत्र चित्रं यत्सन्तः परार्थफलकांक्षिणः।
नहि द्रुमाश्च भोगार्थं फलन्ति जगतीतले ६७।
योऽन्यदुःखानि विज्ञाय साधुवाक्यैः प्रबोधयेत्।
स एव विष्णुस्तत्त्वस्थो यतः परहिते स्थितः ६८।
अन्यदुःखेन यो दुःखी योऽन्य हर्षेण हर्षितः।
स एव जगतामीशो नररूपधरो हरिः ६९।
सद्भिः श्रुतानि शास्त्राणि परदुःखविमुक्तये।
सर्वेषां दुःखनाशाय इति सन्तो वदन्ति हि ७०।
यत्र सन्तः प्रवर्त्तन्ते तत्र दुःखं न बाधते।
वर्तते यत्र मार्तण्डः कथं तत्र तमो भवेत् ७१।
इत्येवं वादिनी सा तु स्वपत्युश्चापराः क्रियाः।
चकार तत्सरस्तीरे मुनिप्रोक्तविधानतः ७२।
स्थिते तत्र मुनौ राजा देवराडिव संज्वलन्।
चितामध्याद्विनिष्क्रम्य विमानवरमास्थितः ७३।
प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरम्।
महापातकयुक्ता वा युक्ता वा चोपपातकैः।
परं पदं प्रयान्त्येव महद्भिरवलोकिताः ७४।
कलेवरं वा तद्भस्म तद्धूमं वापि सत्तम।
यदि पश्यति पुण्यात्मा स प्रयाति परां गतिम् ७५।
पत्युः कृतक्रिया सा तु गत्वाश्रमपदं मुनेः।
चकार तस्य शुश्रूषां सपत्न्या सह नारद ७६।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम सप्तमोऽध्यायः७।