नारदपुराणम्- पूर्वार्धः/अध्यायः ९२
सूत उवाच ।।
एतच्छ्रुत्वा नारदस्तु कुमारस्य वचो मुदा ।।
पुनरप्याह सुप्रीतो जिज्ञासुः श्रेय उत्तमम् ।। १ ।।
नारद उवाच ।।
साधु साधु महाभाग सर्वलोकोपकारकम् ।।
महातंत्रं त्वया प्रोक्तं सर्वतंत्रोत्तमोत्तमम् ।। २ ।।
अधुना श्रोतुमिच्छामि पुराणाख्यानमुत्तमम् ।।
यस्मिन्यस्मिन्पुराणे तु यद्यदाख्यानकं मुने ।।
तत्सर्वं मे समाचक्ष्व सर्वज्ञस्त्वं यतो मतः ।। ३ ।।
सूत उवाच ।।
तच्छ्रुत्वा वचनं विप्रा नारदस्य शुभावहम् ।।
पुराणाख्यानसंप्रश्नं कुमारः प्रत्युवाच ह ।। ४ ।।
सनत्कुमार उवाच ।।
पाराणाख्यानकं विप्र नानाकल्पसमुद्भवम् ।।
नानाकथासमायुक्तमद्भुतं बहुविस्तरम् ।। ५ ।।
ऋषिः सनातनश्चायं यथा वेद तथाऽपरः ।।
न वेद तस्मात्पृच्छ त्वं बहुकल्पविदां वरम् ।। ६ ।।
श्रुत्वेत्थं नारदो वाक्यं कुमारस्य महात्मनः ।।
प्रणम्य विनयोपेतः सनातनमथाब्रवीत् ।। ७ ।।
नारद उवाच ।।
ब्रह्मन्पुराणविच्छ्रेष्ठ ज्ञानविज्ञानतत्पर ।।
पुराणानां विभागं मे साकल्ये नानुकीर्तय ।। ८ ।।
यस्मिञ् श्रुते श्रुतं सर्वं ज्ञातं कृते कृतम् ।। ९ ।।
वर्णाश्रमाचारधर्मं साक्षात्कारमुपैष्यति ।।
कियंति च पुराणानि कियत्संख्यानि मानतः ।। १० ।।
किंकिमाख्यानयुक्तानि तद्वदस्व मम प्रभो ।।
चातुर्वर्ण्याश्रया नानाव्रतादीनां कथास्तथा ।। ११ ।।
सृष्टिक्रमेण वंशानां कथाः सम्यक्प्रकाशय ।।
त्वत्तोऽधिको न चान्योऽस्ति पुराणाख्यानवित्प्रभो ।। १२ ।।
तस्मादाख्याहि मह्यं त्वं सर्वसन्देहभंजनम् ।।
सूत उवाच ।।
ततः सनातनो विप्राः श्रुत्वा नारदभाषितम् ।। १३ ।।
नारायणं क्षणं ध्यात्वा प्रोवाचाथ विदां वरः ।।
सनातन उवाच ।।
साधु साधु मुनिश्रेष्ठ सर्वलोकोपकारिका ।। १४ ।।
पुराणाख्यानविज्ञाने यज्जाता नेष्ठिकी मतिः ।।
तुभ्यं समभिधास्यामि यत्प्रोक्तं ब्रह्मणा पुरा ।। १५ ।।
मरीच्यादिऋषिभ्यस्तु पुत्रस्नेहावृतात्मना ।।
एकदा ब्रह्मणः पुत्रो मरीचिर्नाम विश्रुतः ।। १६ ।।
स्वाध्यायश्रुतसंपन्नो वेदवेदागपारगः ।।
उपसृत्य स्वपितरं ब्रह्मणं लोकभावनम् ।। १७ ।।
प्रणम्य भक्त्या पप्रच्छ इदमेव मुनिश्वर ।।
पुराणाख्यानममलं यत्त्वं पृच्छसि मानद ।। १८ ।।
मरीचिरुवाच ।।
भगवन्देवदेवेश लोकानां प्रभवाप्यय ।।
सर्वज्ञ सर्वकल्याण सर्वाध्यक्ष नमोऽस्तु ते ।। १९ ।।
पुराणबीजमाख्यहि मह्यं शुश्रूषवे पितः ।।
लक्षणं च प्रमाणं च चं वक्तारं पृच्छकं तथा ।। २० ।।
ब्रह्मोवाच ।।
श्रृणु वत्स प्रवक्ष्यामि पुराणानां समुच्चयम् ।।
यस्मिञ्ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम् ।। २१ ।।
पुराणमेकमेवासीत्सर्वकल्पेषु मानद ।।
चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम् ।। २२ ।।
प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः ।।
कालेनाग्रहणं दृष्ट्वा पुराणस्य महामतिः ।। २३ ।।
हरिर्व्यासस्वरूपेण जायते च युगे युगे ।।
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ।। २४ ।।
तदष्टादशधा कृत्वा भूर्लोके निर्द्दिशत्यपि ।।
अद्यापि देवलोके तु शतकोटिप्रविस्तरम् ।। २५ ।।
अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते ।।
ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च ।। २६ ।।
भागवतं नारदीयं मार्कंडेयं च कीर्तितम् ।।
आग्नेयं च भविष्यं च ब्रह्मवैवर्त्तलिंगके ।। २७ ।।
वाराहं च तथा स्कांदं वामनं कूर्मसंज्ञकम् ।।
मात्स्यं च गारुडं तद्वद्ब्रह्मांडाख्यमिति त्रिषट् ।। २८ ।।
एकं कथानकं सूत्रं वक्तुः श्रोतुः समाह्वयम् ।।
प्रवक्ष्यामि समासेन निशामय समाहितः ।। २९ ।।
ब्रह्मं पुराणं तत्रादौ सर्वलोकहिताय वै ।।
व्यासेन वेदविदुषा समाख्यातं महात्मना ।। ३० ।।
तद्वै सर्वपुराणाऽग्र्यं धर्मकामार्थमोक्षदम् ।।
नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते ।। ३१ ।।
देवानां च सुराणां च यत्रोत्पत्तिः प्रकीर्तिता ।।
प्रजापतीनां च तथा दक्षादीनां मुनीश्वर ।। ३२ ।।
ततो लोकेश्वरस्यात्र सूर्यस्य परमात्मनः ।।
वंशानुकीर्तनं पुण्यं महापातकनाशनम् ।। ३३ ।।
यत्रावतारः कथितः परमानंदरूपिणः ।।
श्रीमतो रामचंद्रस्य चतुर्व्यूहावतारिणः ।। ३४ ।।
ततश्च सोमवंशस्यं कीर्तनं यत्र वर्णितम् ।।
कृष्णस्य जगदीशस्य चरितं कल्मषापहम् ।। ३५ ।।
द्वीपानां चैव सर्वेषां वर्षाणां चाप्यशेषतः ।।
वर्णनं यत्र पातालस्वर्गाणां च प्रदृश्यते ।। ३६ ।।
नरकाणां समाख्यानं सूर्यस्तुतिकथानकम् ।।
पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते ।। ३७ ।।
दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् ।।
पूर्वभागोऽयमुदितः पुराणस्यास्य नारद ।। ३८ ।।
अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम् ।।
विस्तरेण समाख्यातं तीर्थयात्राविधानतः ।। ३९ ।।
अत्रैव कृष्णचरितं विस्तरात्समुदीरितम् ।।
वर्णनं यमलोकस्य पितृश्राद्धविधिस्तथा ।। ४० ।।
वर्णाश्रमाणां धर्माश्च कीर्तिता यत्र विस्तरात् ।।
विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम् ।। ४१ ।।
योगानां च समाख्यानं सांख्यानां चापि वर्णनम् ।।
ब्रह्मवादसमुद्देशः पुराणस्य प्रशंसनम् ।। ४२ ।।
एतद्ब्रह्मपुराणं तु भागद्वयसमन्वितम् ।।
वर्णितं सर्वपापघ्नं सर्वसौख्यप्रदायकम् ।। ४३ ।।
सूतशौनकसंवादं भुक्तिमुक्तिप्रदायकम् ।।
लिखित्वैतत्पुराणं यो वैशाख्यां हेमसंयुतम् ।। ४४ ।।
जलधेनुयुतं चापि भक्त्या दद्याद्द्विजातये ।।
पौराणिकाय संपूज्य वस्त्रभोज्यविभूषणैः ।। ४५ ।।
स वसेद्ब्रह्मणो लोके यावच्चंद्रार्कतारकम् ।।
यः पठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्विज ।। ४६ ।।
सोऽपि सर्वपुराणस्य श्रोतुर्वक्तुः फलं लभेत् ।।
श्रृणोति यः पुराणं तु ब्रह्मं सर्वं जितेंद्रियः ।। ४७ ।।
हविष्याशी च नियमात्स लभेद्ब्रह्मणः पदम् ।।
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।।
तत्सर्वं लभते वत्स पुराणस्यास्य कीर्तनात् ।। ४८ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्राह्मपुराणेतिहासकथनं नाम द्विनवतितमोऽध्यायः ।। ९२ ।।