नारदपुराणम्- पूर्वार्धः/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।।
सर्वकर्मवरिष्टं च त्वयोक्तं ध्वजधारणम् ।। २०-१ ।।

यस्तु वै सुमतिर्नाम ध्वजारोपपरो मुने ।।
त्वयोक्तस्तस्य चरितं विस्तरेण ममादिश ।। २०-२ ।।

सनक उवाच ।।
श्रृणुष्वैकमनाः पुण्यमितिहासं पुरातनम् ।।
ब्रह्मणा कथितं मह्यं सर्वपापप्रणाशनम् ।। २०-३ ।।

आसीत्पुरा कृतयुगे सुमतिर्नाम भूपतिः ।।
सोमवंशोद्भवः श्रीमान्सत्पद्वीपैकनायकः ।। २०-४ ।।

धर्‌मात्मा सत्यसंपन्नः शुचिवंश्योऽतिथिप्रियः ।।
सर्वलक्षणसंपन्नः सर्वसंपद्विभूषितः ।। २०-५ ।।

सदा हरिकथासेवी हरिपूजापरायणः ।।
हरिभक्तिपराणां च शुश्रूषुर्निरहंकृतिः ।। २०-६ ।।

पूज्यपूजारतो नित्यं समदर्शी गुणान्वितः ।।
सर्वभूतहितः शान्तः कृतज्ञः कीर्तिमांस्तथा ।। २०-७ ।।

तस्य भार्या महाभागा सर्वलक्षणसंयुता ।।
पतिव्रता पतिप्राणा नाम्रा सत्यमतिर्मुने ।। २०-८ ।।

तावुभौ दम्पती नित्यं हरिपूजापरायणौ ।।
जातिस्मरौ महाभागौ सत्यज्ञौ सत्परायणौ ।। २०-९ ।।

अन्नदानरतौ नित्यं जलदानपरायणौ ।।
तडागारामवप्रादौ नसंख्यातान्वितेनतुः ।। २०-१० ।।

सा तु सत्यमतिर्नित्यं शुचिर्विष्णुगृहे सती ।।
नृत्यत्यत्यन्तसन्तुष्टा मनोज्ञा मञ्जुवादिनी ।। २०-११ ।।

सोऽपि राजा महाभागो द्वादशीद्धादशीदिने ।।
ध्वजमारोपयत्येव मनोज्ञं बहुविस्तरम् ।। २०-१२ ।।

एवं हरिपरं नित्यं राजानं धर्मकोविदम् ।।
प्रियां सत्यमतिं चास्य देवा अपि सदास्तुवन् ।। २०-१३ ।।

त्रिलोके विश्रुतौ ज्ञात्वा दम्पती धर्मको विदौ ।।
आययौ बहुभिः शिष्यैर्द्रष्टुकामो विभाण्डकः ।। २०-१४ ।।

तमायांतं मुनिं श्रुत्वा स तु राजा विभाण्डकम् ।।
प्रत्युद्ययौ सपत्नीकः प्रजाभि र्बहुविस्तरम् ।। २०-१५ ।।

कृतातिथ्यक्रियं शान्तं कृतासनपरिग्रहम् ।।
नीचासनस्थितो भूयः प्राञ्जलिर्मुनिमब्रवीत् ।। २०-१६ ।।

राजो वाच ।।
भगवन्कृतकृत्योऽस्मिं त्वदभ्यागमनेन वै ।।
सतामायमनं सन्तं प्रशंसन्ति सुरवावहम् ।। २०-१७ ।।

यत्र स्यान्महतां प्रेम तत्र स्युः सर्वसम्पदः ।।
तेजः कीर्तिर्धनं पुत्रा इति प्राहुर्विपश्चितः ।। २०-१८ ।।

तत्र वृद्धिमुपायान्ति श्रेयांस्यनुदिनं मुने ।।
यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो ।। २०-१९ ।।

यो मृर्ध्नि धारयेदूह्यन्महत्पादजलं रजः ।।
स स्नातः सर्वतीर्थेषु पुण्यात्मा नात्र संशयः ।। २०-२० ।।

मम पुत्राश्च दाराश्च संपत्त्वयि समर्पिताः ।।
मामाज्ञापय विप्रेन्द्र किं प्रियं करवाणि ते ।। २०-२१ ।।

विनञ्चवनतं भूपं स निरीक्ष्य मुनीश्वरः ।।
स्पृशन्करेण तं प्रीत्युवाचातिहर्षितः ।। २०-२२ ।।


ऋषिरुवाच ।।
गजन्यदुक्तं भवता तत्सर्वं त्वत्कुलोचितम् ।।
विनयावनतः सर्वो बहुश्रेयो लभेदिह ।। २०-२३ ।।

धर्मश्चार्थश्च कामश्च मोक्षश्च नृपसत्तम ।।
विनयाल्लभते मर्त्यो दुर्लभं किं महात्मनाम् ।। २०-२४ ।।

प्रीतोऽस्मि तव भूपाल सन्मार्गपरिवर्त्तिनः ।।
स्वस्ति ते सततं भूयाद्यत्पृच्छामि तदुच्यताम् ।। २०-२५ ।।

पूजा बहुविधाः सन्ति हरितुष्टिविधायिकाः ।।
तासु नित्यं ध्वजारोपे वर्त्त्से त्वं सदोद्यतः ।। २०-२६ ।।

भार्यापि तव साध्वीयं नित्यं नृत्यपरायणा ।।
किमर्थमेतद्वृत्तान्तं यथावद्वक्तुमर्हसि ।। २०-२७ ।।

राजोवाच ।।
श्रृणुष्व भगवन्सर्वं यत्पृच्छसि वदामि तत् ।।
आश्चर्यभूतं लोकानामावयोश्चरितं त्विह ।। २०-२८ ।।

अहमासं पुरा शूद्रो मालिनिर्नाम सत्तम ।।
कुमार्गनिरतो नित्यं सर्वलोकाहिते रतः ।। २०-२९ ।।

पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः ।।
गोध्नश्च ब्रह्महा चौरः सर्वप्राणिवधे रतः ।। २०-३० ।।

नित्यं निष्ठुरवक्ता च पापी वेश्यापरायणः ।।
एवं स्थितः कियत्कालमनाहत्यं महदृचः ।। २०-३१ ।।

सर्वबन्धुपरित्यक्तो दुःखी वनमुपागतः ।।
मृगमांसाशनो नित्यं तथा पान्थाविलुम्पकः ।। २०-३२ ।।

एकाकी दुःखबहुलो न्यवसन्निर्जने वने ।।
एकदा क्षुत्परिश्रान्तो निदाघार्त्तः पिपासितः ।। २०-३३ ।।

जीर्णं देवालयं विष्णोरपश्यं विजने वने ।।
हंसकारण्डवाकीर्णं तत्समीपे महत्सरः ।। २०-३४ ।।

पर्यन्तवनपुष्पौघच्छादितं तन्मुनीश्वर ।।
अपिबं तत्र पानीयं तत्तीरे विगतश्रमः ।। २०-३५ ।।

फलानि जग्ध्वा शीर्णानि स्वयं क्षुच्च निवारिता ।।
तस्मिञ्जीर्णीलये विष्णोनर्निवासं कृतकवानहम् ।। २०-३६ ।।

जीर्णस्फुटितसंधानं तस्य नित्यमकारिषम् ।।
पर्णैस्तृणैश्च काष्ठैघै र्गृहं सम्यक् प्रकल्पितम् ।। २०-३७ ।।

स्वसुऱार्थं तु तद्भमिर्मया लिप्ता मुनीश्वर ।।
तत्राहं व्याधवृत्तिस्थो हत्वा बहुविधान्मृगान् ।। २०-३८ ।।

आजीवं वर्तय न्नित्यं वर्षाणां विंशतिः स्थितः ।।
अथेयमागता साध्वी विन्ध्यदेशसमुद्भवा ।। २०-३९ ।।

निषादकुलजा विप्रा नान्मा ख्याताऽवकोकिला ।।
बन्धुवर्गपरित्यक्ता दुःखिता जीर्णविग्रहा ।। २०-४० ।।

क्षुत्तृड्घर्मपरिश्रान्ता शोचन्ती स्वकृतं ह्यघम् ।।
दैवयोगाकत्समायाताभ्रमन्ती विजने वने ।। २०-४१ ।।

ग्रीष्मतापार्द्दिता बाह्ये स्वान्ते चाधिनिपूडिता ।।
इमां दुःखार्दितां दृष्ट्वा जाता मे विपुला दया ।। २०-४२ ।।

दत्तं मया जलं चास्यै मांसं वन्यफलानि च ।।
गतश्रमात्वियं ब्रह्मन्मया पृष्टा यथा तथम् ।। २०-४३ ।।

अवेदयत्स्ववृत्तान्तं तच्छृणुष्व महामुने ।।
नान्मावकोकिला चाहं निषादकुलसम्भवा ।। २०-४४ ।।

दारुकस्य सुता चाहं विन्ध्यपर्वतवासिनी ।।
परस्वहारिणी नित्यं सदा पैशुन्यवादिनी ।। २०-४५ ।।

पुंश्चलूत्येवमुक्त्वा तु बन्धुवर्गैः समुज्झिता ।।
कियत्कालं ततः पत्या भृताहं लोकनिन्दिता ।। २०-४६ ।।

दैवात्सोऽपि गतो लोकं यमस्यात्र विहाय माम् ।।
कान्तारे विजने चैका भ्रमन्ती दुःखपीडिता ।। २०-४७ ।।

दैवात्त्वत्सविधं प्राप्ता जीविताहं त्वयाधुना ।।
इत्येवं स्वकृतं कर्म मह्यं सर्वं न्यवेदयत् ।। २०-४८ ।।

ततो देवालये तस्मिन्दम्‌पतीभावमाश्रितौ ।।
स्थितौ वर्षाणि दश च आवां मांसफलाशिनौ ।। २०-४९ ।।

एकदा मद्यपानेन प्रमत्तौ निर्भरैमुने ।।
तत्र देवालये रात्रौ मुदितौ मांसभोजनात् ।। २०-५० ।।

तनुवस्त्रापरिज्ञानौ नृत्यं चकृव मोहितौ ।।
प्रारब्धकर्म भोगान्तमावां युगपदागतौ ।। २०-५१ ।।

यमदूतास्तदायाताः पाशहस्ता भयंकराः ।।
नेतुमावां नृत्यरतौ सुधोरां यमयातनाम् ।। २०-५२ ।।

ततः प्रसन्नो भगवान्कर्मणा मम मानद ।।
देवावसथसंस्कारसंज्ञितेन कृतेन नः ।। २०-५३ ।।

स्वदूतान्प्रेषयामास स्वभक्तावनतत्परः ।।
ते दूता देवदेवस्य शङ्खचक्र गदाधराः ।। २०-५४ ।।

सहस्रसूर्यासंकाशाः सर्वे चारुचतुर्भुजाः ।।
किरीटकुण्डलधरा हारिणो वनमालिनः ।। २०-५५ ।।

दिशो वितिमिरा विप्र कुर्वन्तः स्वेन तेजसा ।।
भयंकरान्याशहस्तान्दंष्ट्रिणो यमकिङ्करान् ।। २०-५६ ।।

आवयोग्राहणे यत्तानृचुः कृष्णपरायणाः ।। २०-५७ ।।

विष्णुदूता ऊचुः ।।
भो भो क्रूरा दूराचारा विवेकपरिवर्जिताः ।।
मुञ्चध्वमेतौ निष्पापौ दम्पती हरिवल्लभौ ।। २०-५८ ।।

विवेकस्त्रिषु लोकेषु संपदामादिकारणम् ।।
अपापे पापधीर्यस्तु तं विद्यात्पुरुषाधमम् ।। २०-५९ ।।

पापे त्वपापधीर्यस्तु तं विद्यादधमाधमम् ।। २०-६० ।।

यमदूता ऊचुः ।।
युष्माभिः सत्यमेवोक्तं किं त्वेतौ पापिसत्तमौ ।।
यमेन पापिनो दण्ड्यास्तन्नेष्यामो वयं त्विमौ ।। २०-६१ ।।

श्रुतिप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।।
धर्माधर्मविवेकोऽयं तन्नेष्यामो यमान्तिकम् ।। २०-६२ ।।

एतच्त्छुवातिकुपिता विष्णुदूता महौजसः ।।
प्रत्यूचूस्तान्यमभटानधर्मे धर्ममानिनः ।। २०-६३ ।।

विष्णदूता ऊचुः ।।
अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् ।।
सम्यग्विवेकशून्यानां निदानं ह्यापदां महत् ।। २०-६४ ।।

तर्काणाद्यविशेषेण नरकाध्यक्षतां गताः ।।
यूयं किमर्थमद्यापि कर्त्तुं पापानि सोद्यमाः ।। २०-६५ ।।

स्वकर्मक्षयपर्यन्तं महापातकिनोऽपि च ।।
तिष्टन्ति नरके घोरे यावच्चन्द्रार्कतारकम् ।। २०-६६ ।।

पूर्वसंचितपापानामदृष्ट्वा निष्कृतिं वृथा ।।
किमर्थं पापकर्माणि करिष्येऽथ पुनः पुनः ।। २०-६७ ।।

श्रुतिप्रणिहितो धर्मः सत्यं सत्यं न संशयः ।।
किन्त्वाभ्यां चरितान्धर्मान्प्रवक्ष्यामो यथातथम् ।। २०-६८ ।।

एतौ पापविनिर्मुक्तौ हरिशुश्रूषणे रतौ ।।
हरिणात्रायमाणौ च मुञ्चध्वमविलम्बितम् ।। २०-६९ ।।

एषा च नर्तनं चक्रे तथैव ध्वजरोषणम् ।।
अन्तकाले विष्णुगृहे तेन निष्पापतां गतौ ।। २०-७० ।।

अन्तकाले तु यन्नाम श्रुत्वोक्त्वापि च वै सकृत् ।।
लभते परमं स्थानं किमु शूश्रूषणे रताः ।। २०-७१ ।।

महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।.।
कृष्णसेवी नरोऽन्तेऽपि लभते परमां गतिम् ।। २०-७२ ।।

यतीनां विष्णुभक्तानां परिचर्या परायणाः ।।
ते दूताः सहसा यान्ति पापिनोऽपि परां गतिम् ।। २०-७३ ।।

मुहुर्तं वा मुहुर्तार्द्धं यस्तिष्टोद्धरिमन्दिरे ।।
सोऽपि याति परं स्थानं किमुद्वात्रघिंशवत्सरान् ।। २०-७४ ।।

उपलेपनकर्त्तारौ संमार्जनपरायणौ ।।
एतौ हरिगृहे नित्यं जीर्णशीर्णाधिरोपकौ ।। २०-७५ ।।

जलसेचनकर्त्तारौ दीपदौ हरिमन्दिरे ।।
कथमेतौ महाभागौ यातनाभोगमर्हथ ।। २०-७६ ।।

इत्युक्ता विष्णुदूतास्ते च्छित्वा पाशांस्तदैव हि ।।
आरोप्यावां विमानाग्रयं ययुर्विष्णोः परं पदम् ।। २०-७७ ।।

तत्र सामीप्यमापन्नौ देवदेवस्य चक्रिणः ।।
दिव्यान्भोगान्भुक्तवन्तौ तावत्कालं मुनीश्वर ।। २०-७८ ।।

दिव्यान्भोगांस्तु तत्रापि भुक्त्वा यातौ महीमिमाम् ।।
अत्रापि संपदतुला हरिसेवाप्रसादतः ।। २०-७९ ।।

अनिच्छया कृतेनापि सेवनेन हरेर्मुने ।।
प्राप्तमीदृक् फलं विप्र देवानामपि दुर्लभम् ।। २०-८० ।।

इच्छयाराध्य विश्वेशं भक्तिभावेन माधवम् ।।
प्राप्स्यावः परमं श्रेय इति हेतुर्निरुपितः ।। २०-८१ ।।

अवशेनापि यत्कर्म कृतं स्यात्सुमहत्फलम् ।।
जायते भूमिदेवेन्द्र किं पुनः श्रद्धया कृतम् ।। २०-८२ ।।

एतदुक्तं निशम्यासौ स मुनीन्द्रो विभण्डकः ।।
प्रशस्य दम्पती तौ तु प्रययौ स्वतपोवनम् ।। २०-८३ ।।

तस्माज्जानीहि देवर्षे देवदेवस्य चक्रिणः ।।
परिचर्या तु सर्वेषां कामधेनूपमा स्मृता ।। २०-८४ ।।

हरिपूजापराणां तु हरिरेव सनातनः ।।
ददाति परमं श्रेयः सर्वकामफलमप्रदः ।। २०-८५ ।।

य इदं पुण्यमाख्यानं सर्वपापप्रणाशनम् ।।
पठेच्च श्रृणुयाद्वापि सोऽपि याति परां रातिम् ।। २०-८६ ।।

इति श्रबृहन्नारदीयपराणे पूर्वभागे प्रथमपादे सुमतिभूपकथावर्णनं नाम विंशऽध्यायः ।।