नारदपुराणम्- पूर्वार्धः/अध्यायः ८६
सनत्कुमार उवाच ॥
सरस्वत्यवतारास्ते कथिताः सिद्धिदा नृणाम् ॥
अथ लक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान् ॥ ८६-१ ॥
वाणीमन्मथशक्त्याख्यं बीजत्रितयमीरितम् ॥
ऋषिः स्याद्दक्षिणामूर्तिः पंक्तिश्छंदः प्रकीर्तितम् ॥ ८६-२ ॥
देवता त्रिपुरा बाला मध्यांते शक्तिबीजके ॥
नाभेरापादमाद्यं तु नाभ्यंतं हृदयात्परम् ॥ ८६-३ ॥
मृर्ध्नो ह्रदंतं तर्तीयं क्रमाद्देहेषु विन्यसेत् ॥
आद्यं वामकरे दक्षकरे तदुभयोः परम् ॥ ८६-४ ॥
पुनर्बीजत्रयं न्यस्य मूर्ध्नि गुह्ये च वक्षसि ॥
नव योन्पाभिधं न्यासे नवकृत्वो मनुं न्यसेत् ॥ ८६-५ ॥
कर्णयोश्चिबुके न्यस्येच्छंखयोर्मुखपंकजे ॥
नेत्रयोर्नासिकायां च स्कंधयोरुदरे तथा ॥ ८६-६ ॥
न्यसेत्कूर्परयोर्नाभौ जानुनोर्लिंगमस्तके ॥
पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः ॥ ८६-७ ॥
स्तनयोः कंठदेशे च वामांगादिषु विन्यसेत् ॥
वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां हृदि ॥ ८६-८ ॥
कामबीजादिकान्पश्येद्भूमध्ये तु मनोभवाम् ॥
पुनर्वागकात्ममाद्यास्तिस्रएव च विन्यसेत् ॥ ८६-९ ॥
अमृतेशीं च योगेशीं विश्वयोनिं तृतीयकाम् ॥
मूर्ध्निं वक्त्रे हृदि न्यस्येद्गुह्ये चरणयोरपि ॥ ८६-१० ॥
कामेशी पंचबीजाढ्यां स्मरात्पञ्चन्यसेत्क्रमात् ॥
मायाकामौ च वाग्लक्ष्मी कामेशी पंचबीजकम् ॥ ८६-११ ॥
मनोभवश्च मकरध्वजकंदर्पमन्मथाः ॥
कामदेवः स्मरः पंच कीर्तितान्याससिद्धिदाः ॥ ८६-१२ ॥
शिरःपन्मुखागुह्येषु हृदये बाणदेवताः ॥
द्राविण्याद्याः क्रमान्न्यस्येद्वाणेशीबीजपूर्वकः ॥ ८६-१३ ॥
द्रांद्रीं क्लींजूंस इति वैबाणेशबीजकं च कम् ॥
द्राविणी क्षोभिणी वशीकरण्यांकर्षणी तथा ॥ ८६-१४ ॥
संमोहनी च बाणानां देवताः पञ्च कीर्तिताः ॥
तार्तीयवाग्मध्यगेन कामेन स्यात्षडंगकम् ॥ ८६-१५ ॥
षड्दीर्घस्वरयुक्तेन ततो देवीं विचिंतयेत् ॥
ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनम् ॥ ८६-१६ ॥
उद्यदर्कनिभां विद्यां मालाभयवरोद्वहाम् ॥
लक्षत्रयं जपेन्मंत्रं दशांशं किंशुकोद्भवैः ॥ ८६-१७ ॥
पुष्पैर्हयारिजैर्वापि जुहुयान्मधुरान्वितैः ॥
नवयोन्यात्मकं यंत्रं बहिरष्टदलावृतम् ॥ ८६-१८ ॥
केसरेषु स्वरान्न्यस्येद्वर्गानष्टौदलेष्वपि ॥
दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम् ॥ ८६-१९ ॥
एवं विलिखिते यंत्रे पीठशक्तीः प्रपूजयेत् ॥
इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी ॥ ८६-२० ॥
रती रतिप्रिया नंदा मनोन्मन्यपि चोदिताः ॥
पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत् ॥ ८६-२१ ॥
व्योमपूर्वे तु तार्तीयं सदाशिवमहापदम् ॥
प्रेतपद्मासनं ङेंतं नमोंतः पीठमन्त्रकः ॥ ८६-२२ ॥
षोडशार्णस्ततो मूर्तौ क्लृप्तायां मूलमंत्रतः ॥
आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः ॥ ८६-२३ ॥
देवीमिष्ट्वा मध्ययोनौ त्रिकोणे रतिपूर्विकाम् ॥
वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम् ॥ ८६-२४ ॥
योन्यन्तर्वह्निकोणादवंगान्यग्नेर्विदिक्ष्वपि ॥
मध्ययोमेर्हहिः पूर्वादिषु चाग्रे स्मरानपि ॥ ८६-२५ ॥
वाणदेवीस्तद्वदेव शक्तीरष्टसु योनिषु ॥
सुभगाख्या भागा पश्चात्तृतीया भगसर्पिणी ॥ ८६-२६ ॥
भगमाला तथानंगा नगाद्या कुसुमापरा ॥
अनंगमेखलानंगमदनेत्यष्टशक्तयः ॥ ८६-२७ ॥
पद्मकेशरगा ब्राह्मी मुखाः पत्रेषु भैरवाः ॥
दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्चाष्टभैरवाः ॥ ८६-२८ ॥
दलाग्रेष्वष्टपीठानि कामरूपाख्यमादिमम् ॥
मलयं कोल्लगिर्य्याख्यं चौहाराख्यं कुलांतकम् ॥ ८६-२९ ॥
जालंधरं तथोन्नासं कोटपीठमथाष्टमम् ॥
भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरांतकम् ॥ ८६-३० ॥
वैतालमग्नि जिह्वं च कमलांतकालिनौ ॥
एकपादं भीमरूपं विमलं हाटकेश्वरम् ॥ ८६-३१ ॥
शक्राद्यानायुधैः सार्द्धं स्वस्वदिक्षु समर्चयेत् ॥
तद्बहिर्दिक्षु बटुकं योगिनीं क्षेत्रनायकम् ॥ ८६-३२ ॥
गणेशं विदिशास्वर्चेद्वसून्सूर्याच्छिवांस्तथा ॥
भूतांश्चेत्थं भजन्बालामीशः स्याद्धनविद्ययोः ॥ ८६-३३ ॥
रक्तांभोजैर्हुतेर्नार्योवश्याः स्युः सर्षपैर्नृपाः ॥
नंद्यावर्तै राजवृक्षैः कुंदैः पाटलचंपकैः ॥ ८६-३४ ॥
पुष्पैर्बिल्वफलैर्वापि होमाल्लक्ष्मीः स्थिरा भवेत् ॥
अपमृत्युं जयेन्मन्त्री गुडूच्या दुग्धयुक्तया ॥ ८६-३५ ॥
यथोक्तदूर्वाहोमेन नीरोगायुः समश्नुते ॥
ज्ञानं कवित्वं लभते चन्द्रागुरुसुरैर्हुतैः ॥ ८६-३६ ॥
पलाशपुष्पैर्वाक्सिद्धिरन्नाप्तिश्चान्नहोमतः ॥
सुरभिक्षीरदध्यक्ताँल्लाजान्हुत्वा रुजो जयेत् ॥ ८६-३७ ॥
रक्तचन्दनकर्पूरकर्चूरागुरुरोचनाः ॥
चन्दनं केशरं मांसीं क्रमाद्भागैनिंयोजयेत् ॥ ८६-३८ ॥
भूमिचंद्रैकनन्दाब्धिदिक्सप्तनिगमोन्मितैः ॥
श्मशाने कृष्मभूतस्य निशि नीहारपाथसा ॥ ८६-३९ ॥
कुमार्या पेषयेत्तानि मंत्रेणाथाभिमंत्र्य च ॥
विदद्ध्यात्तिलकं तेन दर्शनाद्वशयेज्जनान् ॥ ८६-४० ॥
गजसिंहादिभूतानि राक्षसाञ्छाकिनीरपि ॥
प्रयोजनानां सिद्ध्यै तु देव्याः शापं निवर्त्य च ॥ ८६-४१ ॥
विधायोत्कीलितां पश्चाज्जपमस्य समाचरेत् ॥
यो जपेदादिमे बीजे वराहभृगुपावकान् ॥ ८६-४२ ॥
मध्यमादौ नभोहंसौ मध्यमांते तु पावकम् ॥
आदावंते च तार्तूयक्रमात्स्वं धूम्रकेतनम् ॥ ८६-४३ ॥
एवं जप्त्वा शतं विद्या शापहीना फलप्रदा ॥
यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत् ॥ ८६-४४ ॥
शापोद्धारप्रकारोऽन्यो यद्वायं कीर्तितो बुधैः ॥
आद्यमाद्यं हि तार्तीयं कामः कामोऽथ वाग्भवम् ॥ ८६-४५ ॥
अंत्यमंत्थमनंगश्च नवार्णः कीर्तितो मनुः ॥
जप्तोऽयं शतधा शापं बालाया विनिवर्तयेत् ॥ ८६-४६ ॥
चैतन्याह्लादिनूमन्त्रौ जप्तौ निष्कीलताकरौ ॥
त्रिस्वराश्चेतनं मन्त्री धरः शांतिरनुग्रहः ॥ ८६-४७ ॥
तारादिहृदयांतः स्यात्काम आह्लादिनीमनुः ॥
तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः ॥ ८६-४८ ॥
सुदीप्तानि विधायादौ जपेत्तानीष्टसिद्धये ॥
वदयुग्मं सदीर्घांबु स्मृतिवालावनंगतौ ॥ ८६-४९ ॥
सत्यः सनेत्रो नस्तादृग्वा वाग्वर्णाद्यदीपिनी ॥
क्लिन्ने क्लेदिनि वैकुंठो दीर्घं स्वं सद्यगोंतिमः ॥ ८६-५० ॥
निद्रा सचंद्रा कुर्वीत शिवार्णा मध्यदीपिनी ॥
तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी ॥ ८६-५१ ॥
दीपिनीमंतरा बाला साधितापि न सिद्ध्यति ॥
वागंत्यकामान् प्रजयेदरीणा क्षोभहेतवे ॥ ८६-५२ ॥
कामवागंत्यबीजानि त्रैलोक्यस्य वशीकृतौ ॥
कामांत्यवाणीबीजानि मुक्तये नियतो जपेत् ॥ ८६-५३ ॥
पूजारंभे तु बालायास्त्रिविधानर्चयेद्गुरून् ॥
दिव्यौघश्चैव सिद्धौघो मानवौघ इति त्रिधा ॥ ८६-५४ ॥
परप्रकाशः परमे शानः परशिवस्तथा ॥
कामेश्वरस्ततो मोक्षः षष्ठः कामोऽमृतोंऽतिमः ॥ ८६-५५ ॥
एते दप्तैव दिव्यौघा आनन्दपदपश्चिमाः ॥
ईशानाख्यस्तत्पुरुषोऽघोराख्योवामदेवकः ॥ ८६-५६ ॥
सद्योजात इमे पंच सिद्धौधाख्याः स्मृता मुने ॥
मानवौघाः परिज्ञेयाः स्वगुरोः सम्प्रदायतः ॥ ८६-५७ ॥
नवयोन्यात्मके यन्त्रे विलिखेन्मध्ययोनितः ॥
प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः ॥ ८६-५८ ॥
त्रींस्त्रीन्वर्णांस्तु गायत्र्या अष्टपत्रेषु संलिखेत् ॥
बहिर्मातृकयाऽऽवेष्ट्य तद्बहिर्भूपुरद्वयम् ॥ ८६-५९ ॥
कामबीजलसत्कोण व्यतिभिन्नं परस्परम् ॥
पत्रे त्रैपुरमाख्यातं जपसंपातसाधितम् ॥ ८६-६० ॥
बाहुना विधृते दद्याद्धनं कीर्तिं सुखं सुतान् ॥
कामांते त्रिपुरा देवी विद्महे कविषं भहिम् ॥ ८६-६१ ॥
बकः खङ्गी समारूढः सनेत्रोऽग्निश्च धीमहि ॥
तत्र क्लिन्ने प्रचोदांते यादित्येषा प्रकीर्तिता ॥ ८६-६२ ॥
गायत्री त्रैपुरा सर्सिद्धिदा सुरसेविता ॥
अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते सिद्धिदो नृणाम् ॥ ८६-६३ ॥
वेदादिर्गिरिजा पद्मा मन्यथो हृदयं भृगुः ॥
भगवति माहेश्वरी ङेन्तेऽन्नपूर्णे दहनांगना ॥ ८६-६४ ॥
प्रोक्ता विंशतिवर्णेयं विद्या स्याद्द्रुहिणो मुनिः ॥
धृतिश्छंदोऽन्नपूर्णेशी देवता परिकीर्तिता ॥ ८६-६५ ॥
षड्दीर्घाढ्येन हृल्लेखाबीऽजेन स्यात्षडंगकम् ॥
मुखनासाक्षिकर्णांसगुदेषु नवसु न्यसेत् ॥ ८६-६६ ॥
पदानि नव तद्वर्णसंख्येदानीमुदीर्यते ॥
भूमिचंद्रधरैकाक्षिवेदाब्धियुगबाहुभिः ॥ ८६-६७ ॥
पदसंख्यामिता वर्णैस्ततो ध्यायेत्सुरेश्वरीम् ॥
स्वर्णाभांगां त्रिनयनां वस्त्रालंकारशोभिताम् ॥ ८६-६८ ॥
भूरमासं युतां देवीं स्वर्णामत्रकरांबुजाम् ॥
लक्षं जपोऽयुतं होमो घृताक्तचरुणा तथा ॥ ८६-६९ ॥
जयादिनवशक्तयाढ्ये पीठे पूजा समीरिता ॥
त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके ॥ ८६-७० ॥
भूपुरेण युते यंत्रे प्रदद्यान्मायया मनुम् ॥
अग्न्यादिकोणत्रितये शिववाराहमाधवान् ॥ ८६-७१ ॥
अचर्ययेत्स्वस्वमंत्रैस्तु प्रोच्यंते मनवस्तु ते ॥
प्रणवो मनुचन्द्राढ्यं गगनं हृदयं शिवा ॥ ८६-७२ ॥
मारुतः शिवमंत्रोऽयं सप्तार्णः शिवपूजने ॥
वाराहनारायणयोर्मंत्रौ पूर्वमुदीरयेत् ॥ ८६-७३ ॥
षडंगानि ततोऽभ्यर्च्य वामे दक्षे धरां रमाम् ॥
यजेत्स्वस्वमनुभ्यां तु तावुच्येते मुनीश्वर ॥ ८६-७४ ॥
अन्नं मह्यन्नमित्युक्त्वा मे देह्यन्नाधिपोर्णकाः ॥
नयेममन्नं प्राणांते दापयानलसुंदरी ॥ ८६-७५ ॥
द्वाविंशत्यक्षरो मंत्रो भूमीष्टौ भूमिसंपुटः ॥
लक्ष्मीष्टौ श्रीपुटो विप्र स्नृतिर्लभनुचंद्रयुक् ॥ ८६-७६ ॥
भुवो बीजमिति प्रोक्तं श्रीबीजं प्रागुदाहृतम् ॥
मंत्रादिस्थचतुर्बीजपूर्विकाः परिपूजयेत् ॥ ८६-७७ ॥
शक्तीश्चतस्रो वेदास्रे परा च भुवनेश्वरी ॥
कमला सुभगा चति ब्राह्म्याद्या अष्टपत्रगाः ॥ ८६-७८ ॥
षोडशारे स्मृते चव मानदातुष्टिपुष्टयः ॥
प्रीती रतिर्ह्नीः श्रीश्चापि स्वधा स्वाहा दशम्यथ ॥ ८६-७९ ॥
ज्योत्स्ना हैमवती छाया पूर्णिमा संहतिस्तथा ॥
अमावास्येति संपूज्या मंत्रेशे प्राणपूर्विका ॥ ८६-८० ॥
भूपुरे लोकपालाः स्युस्तदस्त्राणि तदग्रतः ॥
इत्थं जपादिभिः सिद्धे मंत्रेऽस्मिन्धनसंचयैः ॥ ८६-८१ ॥
कुबेरसदृशो मंत्री जायते जनवंदितः ॥
अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते मुनिसत्तम ॥ ८६-८२ ॥
प्रणवः शांतिररुणाक्रियाढ्याचन्द्रभूषिताः ॥
बगलामुखसर्वांते इंधिकाह्रादिनीयुता ॥ ८६-८३ ॥
पीताजरायुक्प्रतिष्ठा पुनर्दीर्धोदसंयुता ॥
वाचं मुखं पदं स्तंभयांते जिह्वापदं वदेत् ॥ ८६-८४ ॥
कीलयेति च बुद्धिं विनाशयांते स्वबीजकम् ॥
तारोऽग्निसुंदरी मंत्रो बगलायाः प्रकीर्तितः ॥ ८६-८५ ॥
मुनिस्तु नारदश्छदो बृहती बगलामुखी ॥
देवता नेत्रपंचेषुनवपंचदिगर्णकैः ॥ ८६-८६ ॥
अंगानि कल्पयित्वा च ध्यायेत्पीताम्बरां ततः ॥
स्वर्णासनस्थां हेमाभां स्तंभिनीमिंदुशेखराम् ॥ ८६-८७ ॥
दधतीं मुद्गरं पाशं वज्रं च रसनां करैः ॥
एवं ध्यात्वाजपेल्लक्षमयुतं चंपकोद्भवैः ॥ ८६-८८ ॥
कुसुमैर्जुहुयात्पीठे बालायाः पूजयेदिमाम् ॥
चंदनागुरुचंद्राद्यैः पूजार्थं यंत्रमालिखेत् ॥ ८६-८९ ॥
त्रिकोणषड्दलाष्टास्रषोडशारे यजेदिमाम् ॥
मंगला स्तंभिनी चैव जृंभिणी मोहिनी तथा ॥ ८६-९० ॥
वश्या चला बलाका च भूधरा कल्मषाभिधा ॥
धात्री च कलना कालकर्षिणी भ्रामिकापि च ॥ ८६-९१ ॥
मंदगापि च भोगस्था भाविका षोडशी स्मृता ॥
भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमात् ॥ ८६-९२ ॥
गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् ॥
इंद्रादींश्च ततो बाह्ये निजायुधसमन्वितान् ॥ ८६-९३ ॥
इत्थं सिद्धे मनौ मंत्री स्तंभयेद्देवतादिकान् ॥
पीतवस्त्रपदासीनः पीतमाल्यानुलेपनः ॥ ८६-९४ ॥
पीतपुष्पैर्यजेद्देवीं हरिद्रोत्थस्रजा जपेत् ॥
पीतां ध्यायन्भगवतीं पयोमध्येऽयुतं जपेत् ॥ ८६-९५ ॥
त्रिमध्वा ज्यतिलैर्होमो नॄणां वश्यकरो मतः ॥
मधुरत्रितयाक्तैः स्यादाकर्षो लवर्णैर्ध्रुवम् ॥ ८६-९६ ॥
तैलाभ्यक्तैर्निम्बपत्रैर्होमो विद्वेषकारकः ॥
ताललोणहरिद्राभिर्द्विषां संस्तंभनं भवेत् ॥ ८६-९७ ॥
आगारधूमं राजीश्च माहिषं गुग्गुलं निशि ॥
श्मशाने पावके हुत्वा नाशयेदचिरादरीन् ॥ ८६-९८ ॥
गरुतो गृध्रकाकानां कटुतैलं विभीतकम् ॥
गृहधूमं चितावह्नौ हुत्वा प्रोच्चाटयेद्रिपून् ॥ ८६-९९ ॥
दूवार्गुडूचीलाजान्यो मधुरत्रितयान्वितान् ॥
जुहोति सोऽखिलान् रोगान् शमयेद्दर्शनादपि ॥ ८६-१०० ॥
पर्वताग्रे महारण्ये नदीसंगे शिवालये ॥
ब्रह्मचर्यरतो लक्षं जपेदखिलसिद्धये ॥ ८६-१०१ ॥
एक वर्णगवीदुग्धं शर्करामधुसंयुतम् ॥
त्रिशतं मंत्रितं पीतं हन्याद्विषपराभवम् ॥ ८६-१०२ ॥
श्वेतपालशकाष्ठेन रचिते रम्यपादके ॥
अलक्तरंजिते लक्षं मन्त्रयेन्मनुनामुना ॥ ८६-१०३ ॥
तदारूढः पुमान् गच्छत्क्षणेन शतयोजनम् ॥
पारदं च शिलां तालं पिष्टं मधुसमन्वितम् ॥ ८६-१०४ ॥
मनुना मन्त्रयेल्लक्षं लिंपेत्तेनाखिलां तनुम् ॥
अदृश्यः स्यान्नृणामेष आश्चर्य्यं दृश्यतामिदम् ॥ ८६-१०५ ॥
षट्कोणं विलिखद्बीजं साध्यनामान्वितं मनोः ॥
हरितालनिशाचूर्णैरुन्मत्तुरससंयुतैः ॥ ८६-१०६ ॥
शेषाक्षरैः समानीतं धरागेहविराजितम् ॥
तद्यंत्रं स्थापितप्राणं पीतसूत्रेण वेष्टयेत् ॥ ८६-१०७ ॥
भ्राम्यत्कुलालचक्रस्थां गृहीत्वा मृत्तिकां तथा ॥
रचयेदृषभं रम्यं यंत्रं तन्मध्यतः क्षिपेत् ॥ ८६-१०८ ॥
हरितालेन संलिप्य वृषं प्रत्यहमर्चयेत् ॥
स्तंभयेद्विद्विषां वाचं गतिं कार्यपरंपराम् ॥ ८६-१०९ ॥
आदाय वामहस्तेन प्रेतभूस्थितकर्परम् ॥
अंगारेण चितास्थेन तत्र यंत्रं समालिखेत् ॥ ८६-११० ॥
मंत्रितं निहितं भूमौ रिपूणां स्तंभयेद्गतिम् ॥
प्रेतवस्त्रे लिखेद्यंत्रं अंगारेणैव तत्पुनः ॥ ८६-१११ ॥
मंडूकवदने न्यस्येत्पीतसूत्रेण वेष्टितम् ॥
पूजितं पीतपुष्पैस्तद्वाचं संस्तंभयेद्द्विषाम् ॥ ८६-११२ ॥
यद्भूमौ भविता दिव्यं तत्र यंत्रं समालिखेत् ॥
मार्जितं तद्द्विषां पात्रैर्दिव्यस्तम्भनकृद्भवेत् ॥ ८६-११३ ॥
इन्द्रवारुणिकामूलं सप्तशो मनुमंत्रितम् ॥
क्षिप्तं जले दिव्यकृतं जलस्तंभनकारकम् ॥ ८६-११४ ॥
किं बहूक्त्या साधकेन मन्त्रः सम्यगुपासितः ॥
शत्रूणां गतिबुद्ध्यादेः स्तंभनो नात्र संशयः ॥ ८६-११५ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रसाधननिरूपणं नाम षडशीतितमोऽध्यायः ॥ ८६ ॥