नारदपुराणम्- पूर्वार्धः/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
प्रायश्चित्तविधिं वक्ष्ये श्रृणु नारद सांप्रतम् ।।
प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ।। ३०-१ ।।

प्रायश्चित्तविहीनैस्तु यत्कर्म क्रियते मुने ।।
तत्सर्वं निष्फलं प्रोक्तं राक्षसैः परिसेवितम् ।। ३०-२ ।।

कामक्रोधविहीनैश्च धर्मशास्त्रविशारदैः ।।
प्रष्टव्या ब्राह्मणा धर्मं सर्वधर्मफलेच्छुभिः ।। ३०-३ ।।

प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखैः ।।
न निष्पुनंति विप्रेंद्र सुराभांडमिवापगाः ।। ३०-४ ।।

ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ।।
महापातकिननस्त्वेते तत्संसर्गी च पंचमः ।। ३०-५ ।।

यस्तु संवत्सरं ह्यतैः शयनासनभोजनैः ।।
संवसेत्सह तं विद्यात्पतितं सर्वकर्मसु ।। ३०-६ ।।

अज्ञानाद्वाह्मणं हत्वा चीरवासा जटी भवेत् ।।
स्वेनैव हतविप्रस्य कपालमपि धारयेत् ।। ३०-७ ।।

तदभावे मुनिश्रष्ट कपालं वान्यमेव वा ।।
तद्द्रव्यं ध्वजदंडे तु धृत्वा वनचरो भवेत् ।। ३०-८ ।।

वन्याहारो वसेतत्र वारमेकं मिताशनः ।।
सम्यक्संध्यामुपासीत त्रिकालं स्नानमाचरेत् ।। ३०-९ ।।

अध्ययनाध्यापनादून्वर्जयेत्संस्मरेद्धरिम् ।।
ब्रह्मचारी भवेन्नित्यं गंधमाल्यादि वर्जयेत् ।। ३०-१० ।।

तीर्थान्यनुवसेच्चैव पुण्याश्चावाश्रमांस्तथा ।।
यदि वन्यैर्न जीवेत ग्रामे भिक्षां समाचरेत् ।। ३०-११ ।।

द्वादशाब्दं व्रतं कुर्यादेवं हरिपरायणः ।।
ब्रह्महा शुद्धिमाप्नोति कर्मार्हश्चैव जायते ।। ३०-१२ ।।

व्रतमध्ये मृगैर्वापि रोगैर्वापि निषूदितः ।।
गोनिमित्तं द्विजार्थं वा प्राणान्वापि परित्यजेत् ।। ३०-१३ ।।

यद्वा दद्याद्द्विजेंद्राणां गवामयुतमुत्तसम् ।।
एतेष्वन्यतमं कृत्वा ब्रह्महा शुद्धिमान्पुयात् ।। ३०-१४ ।।

दीक्षितं क्षत्रियं हत्वा चरेद्धि ब्रह्महव्रतम् ।।
अग्निप्रवेशनं वापि मरुत्प्रपतनं तथा ।। ३०-१५ ।।

दीक्षीतं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेत् ।।
आचार्यादिवधे चैव व्रतमुक्तं चतुर्गुणम् ।। ३०-१६ ।।

हत्वा तु विप्रमात्रं च चरेत्संवत्सरं व्रतम् ।।
एवं विप्रस्य गदितः प्रायश्चित्तविधिर्द्विज ।। ३०-१७ ।। ।।

द्विगुणं क्षत्रियस्योक्तं त्रिगुणं तु विशः स्मृतम् ।।
ब्राह्मणं हंति यः शूद्रस्तं मुशल्यं विर्दुर्बुधाः ।। ३०-१८ ।।

राज्ञैव शिक्षा कर्तव्या इति शास्तेषु निश्चयः ।।
ब्राह्मणीनां वधे त्वर्द्धं पादः स्यात्कन्यकावधे ।। ३०-१९ ।।

हत्वा त्वनुपनीतांश्च तथा पादव्रतं चरेत् ।।
हत्वा तु क्षत्रियं विप्रः षडब्दं कुच्छ्रमाचरेत् ।। ३०-२० ।।

संवत्सरं त्रयं वेश्यं शूर्द्रं हत्वा तु वत्सरम् ।।
दीक्षितस्य स्त्रियं हत्वा ब्राह्मणी चाष्टवत्सरान् ।। ३०-२१ ।।

ब्रह्महत्याव्रतं कृत्वा शुद्धो भवति निश्चितम् ।।
प्रायश्चित्तं विधानं तु सर्वत्र मुनिसत्तम ।। ३०-२२ ।।

वृद्धातुरस्त्रीबालानामर्द्धमुक्तं मनीषिभिः ।।
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।। ३०-२३ ।।

चातुर्वर्ण्यारपेया स्यात्तथा स्त्रीभिश्च नारद ।।
क्षीरं घृतं वा गोमूत्रमेतेष्वन्यतमं मुने ।। ३०-२४ ।।

स्नात्वर्द्रवासा नियतो नारायणमनुस्मरन् ।।
पक्वायसनिभं कृत्वा पिबेज्चैवोदकं ततः ।। ३०-२५ ।।

तत्तु लौहेन पात्रेण ह्यायसेनाथवा पिबेत् ।।
ताम्रेण वाथं पात्रेण तत्पीत्वा मरणं व्रजेत् ।। ३०-२६ ।।

सुरापी शुद्धिमाप्नोति नान्यथा शुद्धिरिष्यते ।।
अज्ञानादात्मबुद्द्या तु सुरां पीत्वा द्विजश्चरेत् ।। ३०-२७ ।।

ब्रह्महत्याव्रतं सम्यक्तच्चिह्नपरिवर्जितः ।।
यदि रोगानिवृत्त्यर्थमौषधार्थं सुरां पिबेत् ।। ३०-२८ ।।

तस्योपनयनं भूयस्तथा चांद्रायणद्वयम् ।।
सुरासंस्पृष्टपात्रं तु सुराभांडोदकं तथा ।। ३०-२९ ।।

सुरापानसमं प्राहुस्तथा चन्द्रस्य भक्षणम् ।।
तालं च पानसं चैव द्राक्षं खार्जूरसंभवम् ।। ३०-३० ।।

माधुक शैलमारिष्टं मैरेयं नालिकेरजम् ।।
गौडी माध्वी सुरा मद्यमेवमेकादश स्मृताः ।। ३०-३१ ।।

एतेष्वन्यतमं विप्रो न पिबेद्वै कदाचन ।।
एतेष्वन्यतमं यस्तु पिबेदज्ञानतो द्विजः ।। ३०-३२ ।।

तस्योपनयनं भूयस्तप्तकृच्छ्रं चरेत्तथा ।।
समक्षं वा परोक्षं वा बलाच्चौयण वा तथा ।। ३०-३३ ।।

परस्वानामुपादानं स्तेयमित्युच्यते बुधैः ।।
सुवर्णस्य प्रमाणं तु मन्वाद्यैः परिभाषितम् ।। ३०-३४ ।।

वक्ष्ये श्रृणुष्व विप्रेंद्र प्रायश्चजितोक्तिसाधनम् ।।
गवाक्षागतमार्तण्डरश्मिमध्ये प्रदृश्यते ।। ३०-३५ ।।

त्रसरेणुप्रमाणं तु रज इत्युच्यते बुधैः ।।
त्रसरेण्वष्टकं निष्कस्तत्रयं राजसर्षपः ।। ३०-३६ ।।

गौरसर्षपस्तर्त्रयं स्यात्तत्षट्कं यव उच्यते ।।
यवत्रयं कृष्णलः स्यान्माषस्तत्पंचकं स्मृतः ।। ३०-३७ ।।

माषषोडषमानं स्यात्सुवर्णमिति नारद ।।
हत्वा ब्रह्मस्वमज्ञानाद्द्वादशांब्दं तु पूर्ववत् ।। ३०-३८ ।।

कपालध्वजहीनं तु ब्रह्महत्याव्रतं चरेत् ।।
गुरुणां यज्ञकतॄणां धार्मिष्टानां तथैव च ।। ३०-३९ ।।

श्रोत्रियाणां द्विजानां तु हृत्वा हेमैवमाचरेत् ।।
कृतानुतापो देहे च संपूर्णे लेपयेद् धृतम् ।। ३०-४० ।।

करीषच्छादितो दग्‌धः स्तेयपापाद्विमुच्यते ।।
ब्रह्मस्वं क्षत्रियो हृत्वा पश्चात्तापमवाप्य च ।। ३०-४१ ।।

पुनर्ददाति तत्रैव तद्विधानं श्रृणुष्व मे ।।
तत्र सांतपनं कृत्वा द्वादशाहोपवासतः ।। ३०-४२ ।।

शुद्धिमाप्नोति देवर्षे ह्यन्यथा पतितो भवेत् ।।
रत्नासनमनुष्यस्त्रीधेनुभूम्यादिकेषु च ।। ३०-४३ ।।

सुवर्णसहृशेष्वेषु प्रायश्चितार्द्धमुच्यते ।।
त्रसरेणुसमं हेम हृत्वा कुर्यात्समाहितः ।। ३०-४४ ।।

प्राणायामद्वयं सम्यक् तेन शुद्धच्चति मानवः ।।
प्राणायामत्रयं कुर्याद्धृत्वा निष्कप्रमाणकम् ।। ३०-४५ ।।

प्राणायामाश्च चत्वारो राजसर्षपमात्रके ।।
गौरसर्षपमानं तु हृत्वा हेम विचक्षणः ।। ३०-४६ ।।

स्नात्वा च विधिवज्जप्याद्गायत्र्यष्टसहस्त्रकम् ।।
यवमात्रसुवर्णस्य स्तेयाच्छुद्धो भवेद्दिजः ।। ३०-४७ ।।

आसायं प्रातरारभ्य जप्त्वा वै वेदमातरम् ।।
हेम कृष्णलमात्रं तु हृत्वा सांतपनं चरेत् ।। ३०-४८ ।।

माषप्रमाणे हेम्नस्तु प्रायश्चित्तं निगद्यते ।।
गोमूत्रपक्वयवभुग्वर्षेणैकेन शुद्ध्यति ।। ३०-४९ ।।

संपूर्णस्य सुवर्णस्य स्तेयं कृत्वा मुनीश्वर ।।
ब्रह्महत्याव्रतं कुर्याद्द्वादशाब्दं समाहितः ।। ३०-५० ।।

सुवर्णमानान्न्यूने तु रजतस्तेयकर्मणि ।।
कुर्यात्सांतपनं सम्यगन्यथा पतितो भवेत् ।। ३०-५१ ।।

दशनिष्कांतपर्यंतमूर्द्धूं निष्कचतुष्टयात् ।।
हत्वा च रजतं विद्वान्कुर्याच्चांद्रायणं मुने ।। ३०-५२ ।।

दशादिशतिष्कांतं यः स्तेयी रजतस्य तु ।।
चांद्रायणद्वयं तस्य प्रोक्तं पापविशोधकम् ।। ३०-५३ ।।

शतादूर्द्धूं सहस्त्रांतं प्रोक्तं चांद्रायणत्रयम् ।।
सहस्त्रादधिकस्तेये ब्रह्महत्याव्रतं चरेत् ।। ३०-५४ ।।

कांस्यपित्तलमुख्येषु ह्ययस्कांते तथैव च ।।
सहस्रनिष्कमाने तु पराकं परिकीर्तितम् ।। ३०-५५ ।।

प्रायश्चित्तं तु रत्नानां स्तेये राजतवत्स्मृतम् ।।
गुरुतल्पगतानां च प्रायश्चित्तमुदीर्यते ।। ३०-५६ ।।

अज्ञानान्मातरं गत्वा तत्सपत्नीमथापि वा ।।
स्वयमेव स्वमुष्कं तु च्छिंद्यात्पापमुदीरयन् ।। ३०-५७ ।।

हस्ते गृहीत्वा मुष्कं तु गच्छंद्वै नैऋतीं दिशम् ।।
गच्छन्मार्गै सुखं दुःखं न कदाचिद्विचारयेत् ।। ३०-५८ ।।

अपश्यन्गच्छतो गच्छेत्पाणान्तं यः स शुद्ध्यति ।।
मरुत्प्रपतनं वापि कुर्यात्पापमुदाहरन् ।। ३०-५९ ।।

स्ववर्णोत्तमवर्णस्त्रीगमने त्वविचारतः ।।
ब्राह्महत्याव्रतं कुर्याद्वादशाब्दं समाहितः ।। ३०-६० ।।

अमत्याभ्यासतो गच्छेत्सवर्णां चोत्तमां तथा ।।
कारीषवह्निना दग्धः शुद्धिं याति द्विजोत्तम ।। ३०-६१ ।।

रेतःसेकात्पूर्वमेव निवृत्तो यदि मातरि ।।
ब्रह्महत्याव्रतं कुर्याद्रेतः सेकेऽग्निदाहनम् ।। ३०-६२ ।।

सवर्णोत्तमवर्णासु निवृत्तो वीर्यसेचनात् ।।
ब्रह्महत्याव्रतं कुर्यान्नवाब्दान्विष्णुतत्परः ।। ३०-६३ ।।

वैश्यायां पितृपत्न्यां तु षडब्दं व्रतमाचरेत् ।।
गत्वा शूद्वां गुरोर्भार्यां त्रिवर्षं व्रतमाचरेत् ।। ३०-६४ ।।

मातृष्वसारं च पितृष्वसारमाचार्यभार्यां श्वशुरस्य पत्नीम् ।।
पितृव्यभार्यामथ मातुलानीं पुत्रीं च गच्छेद्यदि काममुग्धः ।। ३०-६५ ।।

दिनद्वये ब्रह्महत्याव्रतं कुर्याद्यथाविधि ।।
एकस्मिन्नेव दिवसे बहुवारं त्रिवार्षिकम् ।। ३०-६६ ।।

एकवारं गते ह्यब्दंव्रतं कृत्वा विशुद्ध्यति ।।
दिनत्रये गते वह्निदग्धः शुध्येत नान्यथा ।। ३०-६७ ।।


चांजालीं पुष्कसीं चैव स्नुषां च भगिनीं तथा ।।
मित्रस्त्रियं शिष्यपत्नीं यस्तु वै कामतो व्रजेत् ।। ३०-६८ ।।

ब्रह्महत्याव्रतं कुर्यात्स षडब्दं मुनीश्वर ।।
अकामतो व्रजेद्यस्तु सोऽब्दकृच्छ्रं समाचरेत् ।। ३०-६९ ।।

महापातकिसंसर्गे प्रायश्चित्तं निगद्यते ।।
प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत् ।। ३०-७० ।।

यस्य येन भवेत्संगो ब्रह्महांदिचतुर्ष्वपि ।।
तत्तद्व्रतं स निव्रर्त्य शुद्धिमान्पोत्यसंशयम् ।। ३०-७१ ।।

अज्ञानात्पंचरात्रं तु संगमेभिः करोतियः ।।
कायकृच्छ्रं चरेत्सम्यगन्यथा पतितो भवेत् ।। ३०-७२ ।।

द्वादशाहेतु संसर्गे महासांतपनं स्मृतम् ।।
संगंकृत्वार्द्धमासं तु द्वादशाहमुपावसेत् ।। ३०-७३ ।।

पराको माससंसर्गे चांद्रमासत्रयेस्मृतम् ।।
कृत्वा संगं तु षण्मासं चरेच्चांद्रायणद्वयम् ।। ३०-७४ ।।

किंचिन्न्यूनाब्दसंगे तु षण्मासव्रतमाचरेत् ।।
एतच्च त्रिगुणं प्रोक्तं ज्ञानात्संगे यथाक्रमम् ।। ३०-७५ ।।

मंडूकं नकुलं काकं वराहं मूषकं तथा ।।
मार्जाराजाविकं श्वानं हत्वा कुक्कुटकं तथा ।। ३०-७६ ।।

कृच्छ्रार्द्धमाचरेद्विप्रोऽतिकृच्छ्रं चाश्वह चरेत् ।।
जतप्तकृच्छ्रं करिवधे पराकं गोवधे स्मृतम् ।। ३०-७७ ।।

कामतो गोवधे नैव शुद्धिर्द्दष्टा मनीषिभिः ।।
पानशय्यासनाद्येषु पुष्पमूलफलेषु च ।। ३०-७८ ।।

भक्ष्यभोज्यापहारेषु पंचगव्यविशोधनम् ।।
शुष्ककाष्टतृणानां च द्रुमाणां च गुडस्य च ।। ३०-७९ ।।

चर्मवस्त्रामिषाणां च त्रिरात्रं स्‌यादभोजनम् ।।
टिट्टिभं चक्रवाकं च हंसं कारंडवं तथा ।। ३०-८० ।।

उलूकं सारसं चैव पकोतं जलपादकम् ।।
शुकं चाषं बलाकं च शिशुमारं च कच्छपम् ।। ३०-८१ ।।

एतेष्वन्यतमं हत्वा द्वादशाहमभोजनम् ।।
प्राजापत्यव्रतं कुर्याद्रेतोविण्मूत्रभोजने ।। ३०-८२ ।।

चांद्रायणत्रयं प्रोक्तं शूद्रोच्छिष्टस्य भोजने ।।
रजस्वलां च चांडालं महापातकिनं तथा ।। ३०-८३ ।।

सूतिकां पतितं चैव उच्छिष्टं रजकादिकम् ।।
स्पृष्ट्वा सचैलं स्नायीत घृतं संप्राशेयत्तथा ।। ३०-८४ ।।

गायत्रीं च विशुद्धात्मा जपेदष्टशतं द्विज ।।
एतेष्वन्यतमं स्पृष्ट्वा अज्ञानाधद्यदि भोजने ।। ३०-८५ ।।

त्रिरात्रो पोषणाच्छुद्ध्ये त्पंचगव्याशनाद्विज ।।
स्नानदानजपादौ च भोजनादौ च नारद ।। ३०-८६ ।।

एषामन्यतमस्यापि शब्दं यः श्रृणुयाद्वदेत् ।।
उद्वमेद्धुक्तमंन्नतत्स्त्रात्वा चोपवसेत्तथा ।। ३०-८७ ।।

द्वितीयेऽह्नि घृतं प्राश्य शुद्धिमाप्नोति नारद ।।
व्रतादिमध्ये यद्येषा श्रृणुयाद्धूनिमप्युत ।। ३०-८८ ।।

अष्टोत्तरसहस्रं तु जपेद्वै वेदमातरम् ।।
पापानामधिकं पापं द्विजदैवतनिंदनम् ।। ३०-८९ ।।

न दृष्ट्वा निष्कृतिस्तस्य सर्वशास्त्रेषु नारद ।।
महापातकतुल्यानि यानि प्रोक्तानि सूरिभिः ।। ३०-९० ।।

प्रायश्चित्तं तु तेषां च कुर्यादेवं यथाविधि ।।
प्रायश्चित्तानि यः कुर्यान्नारायणपरायणः ।। ३०-९१ ।।

तस्य पापानि नश्यंतिह्यन्यथा पतितो भवेत् ।।
यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः ।। ३०-९२ ।।

सर्वभूतययायुक्तो विष्णुस्मरणतत्परः ।।
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।। ३०-९३ ।।

विमुक्त एव पापेभ्यो ज्ञेयो विष्णुपरो यतः ।।
नारायणमनांद्यंतं विश्वाकारमनामयम् ।। ३०-९४ ।।

यस्तु संस्मरते मर्त्यः स मुक्तः पापकोटिभिः ।।
स्मृतो वा पूजितो वापि ध्यातः प्रणमितोऽपि वा ।। ३०-९५ ।।

नाशयत्येव पापानि विष्णुर्हृद्गमनः सताम् ।।
संपर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम् ।। ३०-९६ ।।

सर्वपापविनिर्मुक्तः स प्रयाति हरेः पदम् ।।
सकृत्संस्मरणाद्विष्णोर्नश्यंति क्लेशसंचयाः ।। ३०-९७ ।।

स्वर्गादिभोगप्रात्पिस्तु तस्य विप्रानुमीयते ।।
मानुषं दुर्लभं जन्म प्राप्यते यैर्मुनीश्वर ।। ३०-९८ ।।

तत्रापि हरिभक्तिस्तु दुर्लभा परिकीर्त्तिता ।।
तस्मात्तडिल्लतालोलं मानुष्यं प्राप्य दुर्लभम् ।। ३०-९९ ।।

हरिं संपूजयेद्भक्त्या पशुपाशविमोचनम् ।।
सर्वेऽन्तराया नश्यंति मनःशुद्धिश्च जायते ।। ३०-१०० ।।

परं मोक्षं लभेश्चैव पूजिते तु जनार्दने ।।
धर्मार्थकामोक्षाख्याः पुरुषार्थाः सनातनाः ।। ३०-१०१ ।।

हरिपूजापराणां तु सिध्यन्ति नात्र संशयः ।।
पुत्रदारगृहक्षेत्रधनधान्याभिधावतीम् ।। ३०-१०२ ।।

लब्ध्वेमां मानुषीं वृत्तिं रेरे दर्पं तु मा कृथाः ।।
संत्यज्य कामं क्रोधं च लोभं मोहं मदं तथा ।। ३०-१०३ ।।

परापवादं निंदां च भजध्वं भक्तितो हरिम् ।।
व्यापारान्सकलांसत्यक्तवा पूजयध्वं जनार्दनम् ।। ३०-१०४ ।।

निकटा एव दृश्यंते कृतांतनगरद्रुमाः ।।
यावन्नायाति मरणं यावन्नायाति वै जरा ।। ३०-१०५ ।।

यावन्नेन्द्रियवैकल्यं तावदेवाचर्येद्धरिम् ।।
धीमान्नकुर्याद्विश्वासं शरीरेऽस्मिन्विनश्वरे ।। ३०-१०६ ।।

नित्यं सन्निहितो मृत्युः संपदत्यंतचंचला ।।
आसन्नमरणो देहस्तस्माद्दर्प्पं विमुचत ।। ३०-१०७ ।।

संयोगा विप्रयोगांताः सर्वं च क्षणभंगुरम् ।।
एतज्ज्ञात्वा महाभाग पूजयस्व जनार्दनम् ।। ३०-१०८ ।।

आशया व्यथते चैव मोक्षस्त्वत्यंतदुर्लभः ।।
भक्त्या यजति यो विष्णुं महापातकवानपि ।। ३०-१०९ ।।

सोऽपि याति परं स्थानं यत्र गत्वा न शोचति ।।
सर्वतीर्थानि यज्ञाश्च सांगा वेदाश्च सत्तम ।। ३०-११० ।।

नारायणार्चनस्यैते कलां नार्हंति षोडशीम् ।।
किं वै वेदैर्मखैः शास्त्रैः किंवा तीर्थनिषेवणैः ।। ३०-१११ ।।

विष्णुभक्तिविहीनानां किं तपोभिर्व्रतैरपि ।। ३०-११२ ।।

यजंति ये विष्णुमनंतमूर्तिं निरीक्ष्य चाकारगतं वरेण्यम् ।।
वेदांतवेद्यं भवरोगवैद्यं ते यांति मर्त्याः पदमच्युतस्य ।। ३०-११३ ।।

अनादिमात्मानमनंतशक्तिमाधारभूतं जगतः सुरेड्यम् ।।
ज्योतिः स्वरुपं परमच्युताख्यं स्मृत्वा समभ्येति नरः सखायम् ।। ३०-११४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे प्रायश्चित्तविधिर्नाम त्रिंशोऽध्यायः ।।