नारदपुराणम्- पूर्वार्धः/अध्यायः ८७
सनत्कुमार उवाच ॥
अवतारत्रयं लक्ष्म्याः कथित ते द्विजोत्तम ॥
दुर्गायाश्चाभिधास्यामि सर्वलोकोपकारकान् ॥ ८७-१ ॥
प्रणवः श्रीः शिवायुग्मं वाणीवैरोचनीपदम् ॥
वज्राद्यं क्षुधिता सूक्ष्मा मृता स्वाग्नींदुसंयुता ॥ ८७-२ ॥
प्रतिष्ठाप्य शिवा फट् च स्वाहांतोऽत्यष्टिवर्णवान् ॥
भैरवोऽस्य मुनिः सम्राट् छन्दो मन्त्रस्य देवता ॥ ८७-३ ॥
छिन्नमस्ता रमा बीजं स्वाहा शक्तिरुदीरिता ॥
आं खङ्गाय हृदाख्यातमीं खङ्गाय शिरः स्मृतम् ॥ ८७-४ ॥
ऊं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् ॥
औमंकुशाय नेत्रं स्याद्विसर्गो वसुरक्षयुक् ॥ ८७-५ ॥
मायायुग्मं चास्त्रमंगं मनवः प्रणवादिकाः ॥
स्वाहांताश्चैवमंगानि कृत्वा ध्यायेद्थांबिकाम् ॥ ८७-६ ॥
भानुमण्डलसंस्थानां प्रविकीर्णालकं शिरः ॥
छिन्नं स्वकं स्फारमुखं स्वरक्तं प्रपिबद्गलत् ॥ ८७-७ ॥
उपरिस्थां रतासक्तरतिमन्मथयोर्निजे ॥
डाकिनीवर्णिनीसख्यौ दृष्ट्वा मोदभराकुलाम् ॥ ८७-८ ॥
ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ॥
पालाशैर्विल्वजैर्वापि जुहुयात्कुसुमैः फलैः ॥ ८७-९ ॥
आधारशक्तिमारभ्य परतत्त्वांतपूजिते ॥
पीठे जयाख्या विजया जिता चापि पराजिता ॥ ८७-१० ॥
नित्या विलासिनी षष्ठी दोग्ध्य घोरा च मंगला ॥
दिक्षु मध्ये च संपूज्या नव पीठस्य शक्तयः ॥ ८७-११ ॥
सर्वबुद्धिप्रदे वर्णनीये सर्वभृगुः सदृक् ॥
सिद्धिप्रदे डाकिनीये तारो वज्रः सभौतिकः ॥ ८७-१२ ॥
खङ्गीशो रोचनीयेंते भगं धेहि नमोंतकः ॥
तारादिपीठमन्त्रोऽयं वेदरामाक्षरो मतः ॥ ८७-१३ ॥
समर्प्यासनमेतेन तत्र संपूजयेच्छिवाम् ॥
त्रिकोणमध्यषट्कोणपद्मभूपुरमध्यतः ॥ ८७-१४ ॥
बाह्यावरणमारभ्य पूजयेत्प्रतिलोमतः ॥
भूपुरे बाह्यभागेषु वज्रादीनि प्रपूजयेत् ॥ ८७-१५ ॥
तदंतः सुरराजादीन्पूजयेद्धरितां पतीन् ॥
भूपुरस्य चतुर्द्वार्षु द्वारपालान्यजेदथ ॥ ८७-१६ ॥
करालविकरालाख्यावतिकालस्तृतीयकः ॥
महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः ॥ ८७-१७ ॥
एकलिंगा योगिनी च डाकिनी भैरवी तथा ॥
महाभैरवकेंद्राक्षी त्वसितांगी तु सप्तमी ॥ ८७-१८ ॥
संहारिण्यष्टमी चेति षट्कोणेष्वंगमूर्तयः ॥
त्रिकोणगा छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम् ॥ ८७-१९ ॥
डाकिनीवर्णनीसंज्ञं तारावाग्भ्यां प्रपूजयेत् ॥
एवं पूजादिभिः सिद्धे मन्त्रे मंत्री मनोरथान् ॥ ८७-२० ॥
प्राप्नुयान्निखिलान्सद्यो दुर्लभांस्तत्प्रसादतः ॥
श्रीपुष्पैर्लभते लक्ष्मीं तत्फैलश्च समीहितम् ॥ ८७-२१ ॥
वाक्सिद्धिं मालतीपुष्पैश्चंपकैर्हवनात्सुखम् ॥
घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम् ॥ ८७-२२ ॥
मासमेकं तु वशगास्तस्य स्युः सर्वपार्थिवाः ॥
करवीरसुमैः श्वतैर्लक्षसंख्यैर्जुहोति यः ॥ ८७-२३ ॥
रोगजालं पराभूय सुखी जीवेच्छतं समाः ॥
रक्तौ स्तत्संख्यया हुत्वा वशयेन्मंत्रिणो नृपान् ॥ ८७-२४ ॥
फलैर्हुत्वामुयाल्लक्ष्मीमुदुंबरपलाशजैः ॥
गोमायुमांसैस्तामेव कवितां पायसांधसा ॥ ८७-२५ ॥
बंधूककुसुमैर्भाग्यं कर्मिकारैः समीहितम् ॥
तिलतंडुलहोमेन वशयेन्निखिलाञ्जनान् ॥ ८७-२६ ॥
नारीरजोभिराकृष्टैर्मृगमांसैः समीहितम् ॥
स्तंभनं माहिषैर्मांसैः पंकजैः सघृतैरपि ॥ ८७-२७ ॥
चिताग्नौ परभृत्पक्षैर्जुर्हुयादरिमृत्यवे ॥
उन्मत्तकाष्ठदीप्तेऽग्नौ तत्फलं वायसच्छदैः ॥ ८७-२८ ॥
द्यूते वने नृपद्वारे समरे वैरिसंकटे ॥
विजयं लभते मंत्री ध्यायन्देवीं जपन्मनुम् ॥ ८७-२९ ॥
भुक्त्यै मुक्त्यै सितां ध्यायेदुच्चाटे नीलरोचिषम् ॥
रक्तां वश्ये मृतौ धूम्रां स्तंभने कनकप्रभाम् ॥ ८७-३० ॥
निशि दद्याद्बलिं तस्यै सिद्धये मदिरादिना ॥
गोपनीयः प्रयोगोऽय प्रोच्यते सर्वसिद्धिदः ॥ ८७-३१ ॥
भूताहे कृष्णपक्षस्य मध्यरात्रे तमोघने ॥
स्नात्त्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः ॥ ८७-३२ ॥
आनीय पूजयेन्नारीं छिन्नमस्तास्वरूपिणीम् ॥
सुन्दरीं यौवनाक्रांतां नरपञ्चकगामिनीम् ॥ ८७-३३ ॥
सुस्मितां मुक्तकबीरीं भूषादानप्रतोषिताम् ॥
विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम् ॥ ८७-३४ ॥
बलिं दत्त्वा निशां नीत्वा संप्रेष्य धनतोषिताम् ॥
भोजयेद्विविधैरन्नैर्ब्राह्यणान्भोजनादिना ॥ ८७-३५ ॥
अनेन विधिना लक्ष्मीं पुत्रान्पौत्रान्धनं यशः ॥
नारीमायुः सुखं धर्ममिष्टं च समवाप्नुयात् ॥ ८७-३६ ॥
तस्यां रात्रौ व्रतं कार्यं विद्याकामेन मंत्रिणा ॥
मनोरथेषु चान्येषु गच्छेत्तां प्रजपन्मनुम् ॥ ८७-३७ ॥
उषस्युत्थाय शय्यायामुपविष्टो जपेच्छतम् ॥
षण्मासाभ्यन्तरेमन्त्री कवित्वेन जयेत्कविम् ॥ ८७-३८ ॥
शिवेन कीलिता चेयं तदुत्कीलनमुच्यते ॥
मायां तारपुटां मंत्री जपेदष्टोत्तरं शतम् ॥ ८७-३९ ॥
मन्त्रस्यादौ तथैवांते भवेत्सिद्धिप्रदा तु सा ॥
उदिता छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा ॥ ८७-४० ॥
अवतारांतरं देव्या वच्मि ते मुनिसत्तम ॥
ज्ञानामृतारुणा श्वेताक्रोधिनींदुसमन्विता ॥ ८७-४१ ॥
शांतिस्तथाविधा चापि नीचसर्गान्वितास्तथा ॥
वाग्भवं कामराजाख्यं शक्तिबीजाह्वयं तथा ॥ ८७-४२ ॥
त्रिभिर्बीजैः पंचकूटात्मिका त्रिपुरभैरवी ॥
ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पंक्तिरुदीरिता ॥ ८७-४३ ॥
देवता देशिकैरुक्ता देवी त्रिपुरभैरवी ॥
नाभेराचरणं न्यस्य वाग्भवं मन्त्रवित्पुनः ॥ ८७-४४ ॥
हृदयान्नाभिपर्यंतं कामबीजं प्रविन्यसेत् ॥
शिरसो हृत्प्रदेशांतं तार्तीयं विन्यसेत्ततः ॥ ८७-४५ ॥
आद्यं द्वितीयं करयोस्तार्तीयमुभयं न्यसेत् ॥
मूलाधारे हृदि न्यस्य भूयो बीजत्रयं क्रमात् ॥ ८७-४६ ॥
नवयोन्यात्मकं न्यासं कुर्याद्बीजैस्त्रिभिः पुनः ॥
बालोदितप्रकारेण मूर्तिन्यासमथाचरेत् ॥ ८७-४७ ॥
स्वस्वबीजादिकं पूर्वं मूर्ध्नीशानमनोभवम् ॥
न्यसेद्वक्त्रे तत्पुरुषं मकरध्वजमात्मवित् ॥ ८७-४८ ॥
हृद्यघोरकुमारादिकंदर्प्पं तदनंतरम् ॥
गुह्यदेशे प्रविन्यस्येद्वामदेवादिमन्मथम् ॥ ८७-४९ ॥
सद्योजातं कामदेवं पादयोर्विन्यसेत्ततः ॥
ऊर्द्ध्वंप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान् ॥ ८७-५० ॥
प्रविन्यसेद्य धापूर्व भृगुर्व्योमाग्निसंस्थितः ॥
सद्यादिपञ्चह्रस्वाद्या बीजमेषां प्रकीर्तितम् ॥ ८७-५१ ॥
षड्दीर्घयुक्तेनाद्येन बीजेनांगक्रिया मता ॥
पञ्चबाणांस्ततो न्यस्येन्मन्त्री त्रैलोक्यमोहनान् ॥ ८७-५२ ॥
द्रामाद्यां द्राविणीं मूर्ध्निं द्रामाद्यां क्षोभणी पदे ॥
क्लींवशीकरणीं वक्त्रे गुह्ये ब्लृं बीजपूर्विकाम् ॥ ८७-५३ ॥
आकर्षणीं हृदि पुनः सर्वांतभृगुसंस्थिताम् ॥
संमोहनीं क्रमादेवं बाणन्यासोऽयमीरितः ॥ ८७-५४ ॥
भालभ्रूमध्यवदने घंटिकाकण्ठहृत्सु च ॥
नाभ्यधिष्ठानयोः पञ्च ताराद्याः सुभगादिकाः ॥ ८७-५५ ॥
मस्तकाविधि नाभेश्च मंत्रिणा सुभगा भगा ॥
भगसर्पिण्यथ परा भगमालिन्यनंतरम् ॥ ८७-५६ ॥
अनंगानंगकुसुमा भूयश्चानंगमेखला ॥
अनंगमदना सर्वा मदविभ्रममंथरा ॥ ८७-५७ ॥
प्रधानदेवता वर्णभूषणाद्यैरलंकृताः ॥
अक्षस्रक्पुस्तकाभीतिवरदाढ्यकरांबुजाः ॥ ८७-५८ ॥
वाक्कामब्लूं स्त्रीं सरांते ताराः पंच प्रकीर्तिताः ॥
ततः कुर्याद्भूषणाख्यं न्यासमुक्तदिशा मुने ॥ ८७-५९ ॥
एवं न्यस्तशरीरोऽसौ ध्यायेत्त्रिपुरभैरवीम् ॥
सहस्रभानुसंकाशामरुणक्षौमवाससीम् ॥ ८७-६० ॥
शिरोमालामसृग्लिप्तस्तनीं जपवटीं करैः ॥
विद्यामभीतिं च वरं दधतीं त्रीक्षणाननाम् ॥ ८७-६१ ॥
दीक्षां प्राप्य जपेन्मंत्रं तत्त्वलक्षं जितेंद्रियः ॥
पुष्पैर्भानुसहस्राणि जुहुयाद्बह्मवृक्षजैः ॥ ८७-६२ ॥
त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः ॥
पद्मं वसुदलोपेतं नवयोन्यष्टकर्णिकम् ॥ ८७-६३ ॥
इच्छादिशक्तिभिर्युक्तं भैरव्याः पीठमर्चयेत् ॥
इच्छा ज्ञाना क्रिया पश्चात्कामिनी कामदायिनी ॥ ८७-६४ ॥
रतिप्रिया मदानन्दा नवमी स्यान्मनोन्मनी ॥
वरदाभयधारिण्यः संप्रोक्ता नव शक्तयः ॥ ८७-६५ ॥
वाग्भवं लोहितो रायै श्रीकंठो लोहितोऽनलः ॥
दीर्घवान्यै परा पश्चादपरायौ हसौ युतः ॥ ८७-६६ ॥
सदाशिवमहाप्रेतङेंतं पद्मासनं नमः ॥
अनेन मनुना दद्यादासनं श्रीगुरुक्रमम् ॥ ८७-६७ ॥
प्राङ्मध्ययोन्यंतराले पूजयेत्कल्पयेत्ततः ॥
पंचभिः प्रणवैर्मूर्तिं तस्यामावाह्य देवताम् ॥ ८७-६८ ॥
पूजयेदगमोक्तेन विधानेन समाहितः ॥
तारावाक्छक्तिकमला हसखूफ्रें हसौः स्मृताः ॥ ८७-६९ ॥
वामकोणे यजेद्देव्या रतिमिंदुसमप्रभाम् ॥
सृणिपाशधरां सौम्यां मदविभ्रमविह्वलाम् ॥ ८७-७० ॥
प्रीतिं तक्षिणकोणस्थां तप्तकांचनसन्निभाम् ॥
अङ्कुशं प्रणतं दोभ्यां धारयन्तीं समर्चयेत् ॥ ८७-७१ ॥
अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलंकृताम् ॥
इक्षुकार्मुकपुष्पेषुधारिणीं सस्मिताननाम् ॥ ८७-७२ ॥
अङ्गान्यभ्यर्चयेत्पश्चाद्यथापूर्वं विधानवित् ॥
दिक्ष्वग्रे च निजैर्मंत्रैः पूजयेद्बाणदेवताः ॥ ८७-७३ ॥
हस्ताब्जैर्धृतपुष्पेषुप्रणामामृतसप्रभाः ॥
अष्टयोनिष्वष्टशक्तीः पूजयेत्सुभगादिकाः ॥ ८७-७४ ॥
मातरो भैरवांकस्था मदविभ्रमविह्वलाः ॥
अष्टपत्रेषु संपूज्या यथावत्कुसुमादिभिः ॥ ८७-७५ ॥
लोकपालांस्ततो दिक्षु तेषामस्त्राणि तद्बहिः ॥
पूर्वजन्मकृतैः पुण्यैर्ज्ञात्वैनां परदेवताम् ॥ ८७-७६ ॥
यो भजेदुक्तमार्गेण स भवेत्संपदां पदम् ॥
एवं सिद्धमनुर्मंत्री साधयेदिष्टमात्मनः ॥ ८७-७७ ॥
जुहुयादरुणांभोंजैरदोषैर्मधुराप्लुतैः ॥
लक्षसंख्यं तदर्द्धं वा प्रत्यहं भोजयेद्द्विजान् ॥ ८७-७८ ॥
वनिता युवती रम्याः प्रीणयेद्देवताधिया ॥
होमांते धनधान्याद्यैस्तोषयेद्गुरुमात्मनः ॥ ८७-७९ ॥
एवं कृते जगद्वश्यो रमाया भवनं भवेत् ॥
रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः ॥ ८७-८० ॥
पुष्पैः पयोन्नैः सघृतैर्होमाद्विश्वं वशं नयेत् ॥
वाक्सिद्धं लभते मन्त्री पलाशकुसुमैर्हुतैः ॥ ८७-८१ ॥
कर्पूरागुरुसंयुक्तं गुग्गुलं जुहुयात्सुधीः ॥
ज्ञानं दिव्यमवाप्नोति तेनैव स भवेत्कविः ॥ ८७-८२ ॥
क्षीराक्तैरमृताखंडैर्होमः सर्वापमृत्युजित् ॥
दूर्वाभघिरायुषे होमः क्षीराक्ताभिर्दिनत्रयम् ॥ ८७-८३ ॥
गिरिकर्णीभवैः पुष्पैर्ब्राह्यणान्वशयेद्धुतैः ॥
कह्लारैः पार्थिवान्पुष्पैस्तद्वधूः कर्णिकारजैः ॥ ८७-८४ ॥
मल्लिकाकुसुमैर्हुत्वा राजपुत्रान्वशं नयेत् ॥
कोरंटकुसुमैर्वैंश्यान्वृषलान्पाटलोद्भवैः ॥ ८७-८५ ॥
अनुलोमां विलोमांतस्थितसाध्याह्वयान्वितम् ॥
मन्त्रमुच्चार्य जुहुयान्मंत्री मधुरलोलितैः ॥ ८७-८६ ॥
सर्षपैर्मधुसंमिश्रैर्वशयेत्पार्थिवान् क्षणात् ॥
अनेनैव विधानेन तत्पत्नीस्तत्सुतानपि ॥ ८७-८७ ॥
जातिबिल्वभवैः पुष्पैर्मधुरत्रयसंयुतैः ॥
नरनारीनरपतीन्होमेन वशयेत्क्रमात् ॥ ८७-८८ ॥
मालतीबकुलोद्भूतैः पुष्पैश्चन्दनलोलितैः ॥
जुहुयात्कवितां मन्त्री लभते वत्सरांतरे ॥ ८७-८९ ॥
मधुरत्रघयसंयुक्तैः फलैर्बिल्वसमुद्भवैः ॥
जुहुयाद्वाशयेल्लोकं श्रियं प्राप्नोति वांछिताम् ॥ ८७-९० ॥
साज्यमन्नं प्रजुहुयाद्भवेदन्नसमृद्धिमान् ॥
कस्तूरीकुंकुमोपेतं कर्पूरं जुहुयाद्वशी ॥ ८७-९१ ॥
कन्दर्पादधिकं सद्यः सौंदर्यमधिगच्छति ॥
लाजान्प्रजुहुयान्मंत्री दधिक्षीरमधुप्लुतान् ॥ ८७-९२ ॥
विजित्य रोगानखिलान्स जीवेच्छरदां शतम् ॥
पादद्वयं मलयजं पादं कुंकुमकेसरम् ॥ ८७-९३ ॥
पादं गोरोचनांतानि त्रीणि पिष्ट्वाहिमांभसा ॥
विदध्यात्तिलकं भाले यान्पश्येद्यैर्विलोक्यते ॥ ८७-९४ ॥
यान्स्पृशेत्स्पृश्यते यैर्वा वश्याः स्युस्तस्य तेऽचिरात् ॥
कर्पूरकपिचोराणि समभागानि कल्पयेत् ॥ ८७-९५ ॥
चतुर्भुजा जटामांसी तावती रोचना मता ॥
कुंकुमं समभागं स्याद्दिग्भातं चन्दनं मतम् ॥ ८७-९६ ॥
अगुरुर्नवभागं स्यादितिभागक्रमेण च ॥
हिमाद्भिः कन्यया पिष्टमेतत्सर्वं सुसाधितम् ॥ ८७-९७ ॥
आदाय तिलकं भाले कुर्य्याद्भूमिपतीन्नरान् ॥
वनितामदगर्वाढ्या मदोन्मत्तान्मतंदजान् ॥ ८७-९८ ॥
सिंहव्याघ्रान्महासर्पान्भूतवेतालराक्षसान् ॥
दर्शनादेव वशयेत्तिलकं धारयन्नरः ॥ ८७-९९ ॥
इत्येषा भैरवी प्रोक्ता ह्यवतारांतरं श्रृणु ॥
वाङ्माया कमला तारो नमोंते भगवत्यथ ॥ ८७-१०० ॥
श्रीमातंगेश्वरि वदेत्सर्वजनमनोहरि ॥
सर्वादिसुखराज्यंते सर्वादिसुखरंजनी ॥ ८७-१०१ ॥
सर्वराजवशं पश्चात्करिसर्वपदं वदेत् ॥
स्त्रीपुरुषवशं सृष्टिविद्याक्रोधिनिकान्विता ॥ ८७-१०२ ॥
सर्वं दुष्टमृगवशं करिसर्वपदं ततः ॥
सर्वसत्त्ववशंकरिसर्वलोकं ततः परम् ॥ ८७-१०३ ॥
अमुकं मे वशं पश्चादानयानलसुन्दरी ॥
अष्टाशीत्यक्षरो मन्त्रो मुन्याद्या भैरवीगताः ॥ ८७-१०४ ॥
न्यासान्मंत्री तनौ कुर्याद्वक्ष्यमाणान्यथाक्रमम् ॥
शिरोललाटभ्रूमध्ये तालुकण्ठगलोरसि ॥ ८७-१०५ ॥
अनाहते भुजद्वंद्वे जठरे नाभिमण्डले ॥
स्वाधिष्ठाने गुप्तदेशे पादयोर्दक्षवामयोः ॥ ८७-१०६ ॥
मूलाधारे गुदे न्यस्येत्पदान्यष्टादश क्रमात् ॥
गुणैकद्विचतुः षड्भिर्वसुपर्वनवाष्टभिः ॥ ८७-१०७ ॥
नंदपंक्त्यष्टवेदाग्निचन्द्रयुग्मगुणा क्षिभिः ॥
यदुक्लृप्तिरियं प्रोक्ता मंत्रवर्णैर्यथाक्रमम् ॥ ८७-१०८ ॥
रत्याद्या मृलहृदयभ्रुमध्येषु विचक्षणः ॥
वाक्शक्तिलक्ष्मीबीजाद्या मातंग्यंताः प्रविन्यसेत् ॥ ८७-१०९ ॥
शिरोवदनहृद्गुह्यपादेषु विधिना न्यसेत् ॥
हृल्लेखां गगनां रक्तां भूयो मन्त्री करालिकाम् ॥ ८७-११० ॥
महोच्छुष्मां स्वनामादिवर्णबीजपुरः सराः ॥
मातंग्यंताः षडंगानि ततः कुर्वीत साधकः ॥ ८७-१११ ॥
वर्णैश्चतुर्विंशतिभिर्हृत्त्रयोदशभिः शिरः ॥
शिखाष्टादशभिः प्रोक्ता वर्म तावद्भिरक्षरैः ॥ ८७-११२ ॥
स्यात्त्रयोदशभिर्नेत्रं द्वाभ्यामस्त्रं प्रकीर्तितम् ॥
बाणन्यासं ततः कुर्याद्भैरवीप्रोक्तवर्त्मना ॥ ८७-११३ ॥
मातंगीपदयोश्चान्यं मन्मथान्वदनांशयोः ॥
पार्स्वकट्योर्नाभिदेशे कटिपार्श्वांशके पुनः ॥ ८७-११४ ॥
बीजत्रयादिकान्मंत्री मन्मथं मकरध्वजम् ॥
मदनं पुष्पधन्वानं पंचमं कुसुमायुधम् ॥ ८७-११५ ॥
षष्ठं कन्दर्पनामानं मनोभवरतिप्रियौ ॥
मातंग्यंतास्ततो न्यस्येत्स्थानेष्वेतेषु मंत्रवित् ॥ ८७-११६ ॥
कुसुमा मेखला चैव मदना मदना तुरा ॥
मदनवेगा सम्भवा च भुवनपालेंदुरेखिका ॥ ८७-११७ ॥
अनंगपदपूर्वाश्च मातंग्यंताः समीरिताः ॥
विन्यस्तव्यास्ततो मूलेऽधिष्ठाने मणिपूरके ॥ ८७-११८ ॥
हृत्कंठास्ये भ्रुवोर्मध्ये मस्तके चापि मत्रिणा ॥
आद्ये लक्ष्मीसरस्वत्यौ रतिः प्रीतिश्च कृत्तिका ॥ ८७-११९ ॥
शांतिः पुष्टिः पुनस्तुष्टिमार्तगंपदशेखरा ॥
मूलमन्त्रं पृथङ्न्यस्येन्निजमूर्द्धनि मन्त्रवित् ॥ ८७-१२० ॥
आधारदेशेऽधिष्ठाने नाभौ पश्चादनाहते ॥
कंठदेशे भ्रवोर्मध्ये बिंदौ भूयः कला पदोः ॥ ८७-१२१ ॥
निरोधिकायामर्द्धेंदुनादे नादांतयोः पुनः ॥
उन्नतांसेषु वक्त्रे च ध्रुवमण्डलके शिवे ॥ ८७-१२२ ॥
मातंग्यंताः प्रविन्यस्ये द्वामां ज्येष्ठमतः परम् ॥
रौद्रीं प्रशांतां श्रद्धाख्यां पुनर्माहेश्वरीमथ ॥ ८७-१२३ ॥
क्रियाशक्तिं सुलक्ष्मीं च सृष्टिं संज्ञां च मोहिनीम् ॥
प्रमथाश्वासिनीं विद्युल्लतां चिच्छक्तिमप्यथ ॥ ८७-१२४ ॥
ततश्च सुन्दरीं निंदां नन्दबुद्धिमिमाः क्रमात् ॥
शिरोभालहृदाधारेष्वेता बीजत्रयाधिकाः ॥ ८७-१२५ ॥
मातंग्याद्याः प्रविन्यस्येद्यथावद्देशिकोत्तमः ॥
मातंगीं महदाद्यां तां महालक्ष्मीपदादिकाम् ॥ ८७-१२६ ॥
सिद्धलक्ष्मीपदाद्यां च मूलमाधारमण्डलम् ॥
न्यसेत्तेनैव कुर्वीत व्यापकं देशिकोत्तमः ॥ ८७-१२७ ॥
एवं न्यस्तशरीरोऽसौ चिंतयेन्मंत्रदेवताम् ॥
श्यामां शुकोक्तिं श्रृण्वंतीं न्यस्तैकांघ्रिशिरोरुहाम् ॥ ८७-१२८ ॥
शशिखण्डधरां वीणां वादयंतीं मधून्मदाम् ॥
रक्तांशुकां च कह्लारमालाशोभितचूलिकाम् ॥ ८७-१२९ ॥
शंखपत्रां तु मातंगीं चित्रकोद्भासिमस्तकाम् ॥
अयुतं प्रजपेन्मंत्रं तद्दशांशं मधूकजैः ॥ ८७-१३० ॥
पुष्पैस्त्रिमधुरोपेतैर्जुहुयान्मंत्रसिद्धये ॥
त्रिकोणकर्णिकं पद्ममष्टपत्रं प्रकल्पयेत् ॥ ८७-१३१ ॥
अष्टपत्रावृतं बाह्ये वृतं षोडशभिर्दलैः ॥
चतुरस्रीकृतं बाह्ये कांत्या दृष्टिमनोहरम् ॥ ८७-१३२ ॥
एतस्मिन्पूजयेत्पीठे नवशक्तीः क्रमादिमाः ॥
विभूतिपूर्वाः पूर्वोक्ता मातंगीपदपश्चिमाः ॥ ८७-१३३ ॥
सर्वांते शक्तिकमलासनाय नम इत्यथ ॥
वाक्सत्यलक्ष्मी बीजाद्य उक्तः पीठार्चने मनुः ॥ ८७-१३४ ॥
मूलेन मूर्तिं संकल्प्य तस्यामावाह्य देवताम् ॥
अर्चयेद्विधिनानेन वक्ष्यमाणेन मन्त्रवित् ॥ ८७-१३५ ॥
रत्याद्यास्त्रिषु कोणेषु पूजयेत्पूर्ववत्सुधीः ॥
हृहृल्लेखाः पंचपूज्या मध्ये दिक्षु च मंत्रिणा ॥ ८७-१३६ ॥
पाशांकुशाभयाभीष्टधारिण्यो भूतसप्रभाः ॥
अंगानि पूजयेत्पश्चाद्यथापूर्वं विधानवित् ॥ ८७-१३७ ॥
बाणानभ्यर्चयेद्दिक्षु पंचमं पुरतो यजेत् ॥
दलमध्येऽथ संपूज्या अनंगकुसुमादिकाः ॥ ८७-१३८ ॥
पाशांकुशाभयाभीष्टधारिण्योऽरुणविग्रहाः ॥
पत्राग्रेषु पुनः पूज्या लक्ष्म्याद्या वल्लकीकराः ॥ ८७-१३९ ॥
बहिरष्टदलेष्वर्च्या मन्मथाद्या मदोद्धताः ॥
अपरांगा निषंगाद्याः पुष्पास्त्रेषुधनुर्द्धराः ॥ ८७-१४० ॥
पत्रस्था मातरः पूज्या ब्राह्याद्याः प्रोक्तलक्षणाः ॥
तदग्रेष्वर्चयेद्विद्वानसितांगादिभैरवान् ॥ ८७-१४१ ॥
पुनः षोडश पत्रेषु पूज्याः षोडश शक्तयः ॥
वामाद्याः कलवीणाभिर्गायंत्यः श्यामविग्रहाः ॥ ८७-१४२ ॥
चतुरस्रे चतुर्दिक्षु चतस्रः पूजयेत्पुनः ॥
मातंग्याद्यामदोन्मत्ता वीणोल्लसितपाणयः ॥ ८७-१४३ ॥
आग्नेयकोणे विघ्नेशं दुर्गां नैशाचरेः यजेत् ॥
वायव्ये बटुकान् पश्चादीशाने क्षेत्रपं यजेत् ॥ ८७-१४४ ॥
लोकपाला बहिः पूज्या वज्राद्यैरायुधैः सह ॥
मंत्रेऽस्मिन्संधिते मन्त्री साधयेदिष्टमात्मनः ॥ ८७-१४५ ॥
मल्लिकाजातिपुन्नागैर्होमाद्भाग्यालयो भवेत् ॥
फलौर्बिल्यसमुद्भूतैस्तत्पत्रैर्वा हुताद्भवेत् ॥ ८७-१४६ ॥
राजपुत्रस्य राज्याप्तिः पंकजैः श्रियमाप्नुयात् ॥
उत्पलैर्वशयेद्विश्वं क्षारैर्मध्वाश्रितैः स्त्रियम् ॥ ८७-१४७ ॥
वंजुलस्य समिद्भोमो वृष्टिं वितनुतेऽचिरात् ॥
क्षीराक्तैरमृताखंडैर्होमान्नाशयति ज्वरम् ॥ ८७-१४८ ॥
दूर्वाभिरायुराप्नोति तन्दुलैर्धनवान्भवेत् ॥
कदंबैर्वश्यमाप्नोति सर्वं त्रिमधुरप्लुतम् ॥ ८७-१४९ ॥
नंद्यावर्तभवैः पुष्पैर्होमो वाक्सिद्धिदायकः ॥
निंबप्रसूनैर्जुहुयादीप्सितश्रीसमृद्धये ॥ ८७-१५० ॥
पलाशकुसुमैर्होमात्तेजस्वी जायते नरः ॥
चन्दनागुरुकस्तूरी चन्द्रकुंकुमरोचनाः ॥ ८७-१५१ ॥
वश्याय च प्रियत्वाय हुताश्च तिलकीकृताः ॥
निर्गुंडीमूलहोमेन निगडान्मुच्यते नरः ॥ ८७-१५२ ॥
निंबतैलान्वितैर्लोणैर्होमः शत्रुविनाशनः ॥
हरिद्राचूर्णसंमिश्रैर्लवणैः स्तंभयेज्जगत् ॥ ८७-१५३ ॥
मातंगीसिद्धविद्यैषा प्रोक्ता ते द्विजसत्तम ॥
अवतारांतरं भूयो वर्णयामि निशामय ॥ ८७-१५४ ॥
दीपकाप्रीतिचन्द्राढ्या द्विधा चेद्रञ्जितापुनः ॥
वतिवह्निप्रियामंत्रो धूमावत्या गजाक्षरः ॥ ८७-१५५ ॥
पिप्पलादो मुनिश्छंदो निवृद्धूमावतीश्वरी ॥
बीजेन षड्दीर्घजातियुक्तेन परिकल्पयेत् ॥ ८७-१५६ ॥
ततो धूमावतीं ध्यायेच्छत्रुनिग्रहकारिणीम् ॥
विवर्णां चंचलां दुष्टां दीर्घां च मलिनांबराम् ॥ ८७-१५७ ॥
विमुक्तकुंतलां सूक्ष्मां विधवां विरलद्विजाम् ॥
कंकध्वजरथारूढां प्रलंबितपयोधरम् ॥ ८७-१५८ ॥
सूर्यहस्तां निरुक्षांकधृतहस्तांबरान्विताम् ॥
प्रवृद्धलोमां तु भृशं कुटिलाकुटिलेक्षणाम् ॥ ८७-१५९ ॥
क्षुत्पिपासार्दितां नित्यं भयदां कलहप्रियाम् ॥
एवंविधां तु संचिंत्य नमः स्वाहा फडंतकम् ॥ ८७-१६० ॥
बीजं साध्योपरि न्यस्य तस्मिन्स्थाप्य शवं जपेत् ॥
अवष्टभ्य शवं शत्रुनाम्नाथ प्रजपेन्मनुम् ॥ ८७-१६१ ॥
सोष्णीषकंचुको विद्वान्कृष्णे भूते दिवानिशम् ॥
उपवासी श्मशाने वा विपिने शून्यमंदिरे ॥ ८७-१६२ ॥
मंत्रस्य सिद्ध्यै यतवाग्ध्यायन्देवीं निरंतरम् ॥
सहस्रादूर्द्धूतः शत्रुर्ज्वरेण परिगृह्यते ॥ ८७-१६३ ॥
पंचगव्येन शांतिः स्याज्ज्वरस्य पयसापि वा ॥
मंत्राद्या क्षरमालिख्य शत्रूनाम ततः परम् ॥ ८७-१६४ ॥
द्वितीयं मनुवर्णं च शत्रुनामैवमालिखेत् ॥
सर्वं मनुदिक्सहस्रजपाच्छवमृतिर्भवेत् ॥ ८७-१६५ ॥
दग्ध्वा कंकं श्यशानाग्नौ तद्भस्मादाय मन्त्रवित् ॥
विरोधिनाम्नाष्टशतं जप्तमुच्चाटनं रिपोः ॥ ८७-१६६ ॥
श्मशानभस्मना कृत्वा शवं तस्योपरि न्यसेत् ॥
विरोधिनामसंरुद्धं कृष्णे पक्षे समुच्चरेत् ॥ ८७-१६७ ॥
महिषीक्षीरधूपं च दद्याच्छत्रुविपत्करम् ॥
एवं संक्षेपतः प्रोक्तं अवतारचतुष्टयम् ॥ ८७-१६८ ॥
दुर्गाया जगदंबायाः किं पुनः प्रष्टुमिच्छसि ॥ ८७-१६९ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दुर्गामन्त्रचतुष्टयवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥