नारदपुराणम्- पूर्वार्धः/अध्यायः ११४
सनातन उवाच ।।
श्रृणु विप्र प्रवक्ष्यामि पंचम्यास्ते व्रतान्यहम् ।।
यानि भक्त्या समास्थाय सर्वान्कामानवाप्नुयात् ।। ११४-१ ।।
प्रोक्ता मत्स्यजयंती तु पंचमी मधुशुक्लगा ।।
अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा ।। ११४-२ ।।
श्रीपंचमीति चैषोक्ता तत्र कार्यं श्रियोऽर्चनम् ।।
गंधाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः ।। ११४-३ ।।
यो लक्ष्मीं पूजयेच्चात्र तं वै लक्ष्मीर्न मुंचति ।।
पृथ्वीव्रतं तथा चांद्रं हयग्रीवव्रतं तथा ।। ११४-४ ।।
कार्यं तत्तद्विधानेन तत्तत्सिद्धिमभीप्सुभिः ।।
अथ वैशाखपंचम्यां शेषं चाभ्यर्च्य मानवः ।। ११४-५ ।।
सर्वैर्नागगणैर्युक्तमभीष्टं लभते फलम् ।।
तथा ज्येष्ठस्य पंचम्यां पितॄनभ्यर्चयेत्सुधीः ।। ११४-६ ।।
सर्वकामफलावाप्तिर्भवेद्वै विप्रभोजनैः ।।
अथाषाढस्य पंचम्यां वायुं सर्वगतं मुने ।। ११४-७ ।।
ग्रामाद्बहिर्विनिर्गत्य धरोपस्थे समास्तितः ।।
ध्वजं च पंचवर्णं तु वंशदंडाग्रसंस्थितम् ।। ११४-८ ।।
समुच्छ्रितं निदध्यात्तु कल्पिताब्जे तु मध्यतः ।।
ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद ।। ११४-९ ।।
लोकपालान्समभ्यर्च्य कुर्याद्वायुपरीक्षणम् ।।
प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते ।। ११४-१० ।।
तस्मै तस्मै दिगीशाय पूजां सम्यक् प्रकल्पयेत् ।।
एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम् ।। ११४-११ ।।
सायमागत्य गेहं स्वं भुक्त्वा स्वल्पं समाहितः ।।
लोकपालान्नमस्कृत्य स्वप्याद्भूमितले शुचौ ।। ११४-१२ ।।
यः स्वप्नो जायते तस्यां रात्रौ यामे चतुर्थके ।।
स एव भविता नूनं स्वप्न इत्याह वै शिवः ।। ११४-१३ ।।
अशुभे तु समुत्पन्ने शिवपूजापरायणः ।।
सोपवासो नयेदष्टयामं तद्दिनमेव वा ।। ११४-१४ ।।
भोजयित्वा द्विजानष्टौ ततः शुभफलं लभेत् ।।
व्रतमेतत्समुदितं शुभाशुभनिदर्शनम् ।। ११४-१५ ।।
नृणां सौभाग्यजनकमिह लोके परत्र च ।।
श्रावणे कृष्णपंचम्यां व्रतं ह्यन्नसमृद्धिदम् ।। ११४-१६ ।।
चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि नारद ।।
पृथक् पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः ।। ११४-१७ ।।
ततो पात्रांतरे तत्तु निष्कास्यांबु निधापयेत् ।।
प्रातर्भानौ समुदिते पितॄंश्चैव तथा ऋषीन् ।। ११४-१८ ।।
देवांश्चाभ्यर्च्य सुस्नातं कृत्वा नैवेद्यमग्रतः ।।
तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः ।। ११४-१९ ।।
सर्वं दिनं क्षिपेदेवं प्रदोषे तु शिवालये ।।
गत्वा संपूजयेद्देवं लिंगरूपिणमीश्वरम् ।। ११४-२० ।।
गंधपुष्पादिभिः सम्यक्पूजयित्वा महेश्वरम् ।।
जपेत्पञ्चाक्षरी विद्यां शतं चापि सहस्रकम् ।। ११४-२१ ।।
जपं निवेद्य देवाय भवाय भवरूपिणे ।।
स्तुत्वा सर्वैर्वौदिकैश्च पौराणैश्चाप्यनाकुलः ।। ११४-२२ ।।
प्रार्थयेद्देवमीशानं शश्वत्सर्वान्नसिद्धये ।।
शारदीयानि चान्नानि तथा वासंतिकान्यपि ।। ११४-२३ ।।
यानि स्युस्तैः समृद्धोऽहं भूयां जन्मनि जन्मनि ।।
एवं संप्रार्थ्य देवेशं गृहमागत्य वै स्वकम् ।। ११४-२४ ।।
दत्वान्नं ब्राह्मणादिभ्यः पक्वं भुञ्जीत वाग्यतः ।।
एतदन्नव्रतं विप्र विधिनाऽऽचरितं नृभिः ।। ११४-२५ ।।
सर्वान्नसंपज्जनकं परलोके गतिप्रदम् ।।
श्रावणे शुक्लपञ्चजम्यां नृभिरास्तिक्यतत्परैः ।। ११४-२६ ।।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ।।
गंधाद्यैः पूजयेत्तांश्च तथेंद्राणीमनंतरम् ।। ११४-२७ ।।
संपूज्य स्वर्णरूप्यादिदध्यक्षतकुशांबुभिः ।।
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यसंचयैः ।। ११४-२८ ।।
ततः प्रदक्षिणीकृत्य तद्द्रव्यं संप्रणम्य च ।।
संप्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्पयेत् ।। ११४-२९ ।।
यदिदं स्वर्णरौप्यादि द्रव्यं वै विप्रसात्कृतम् ।।
तदनंतफलं भूयान्मम जन्मनि जन्मनि ।। ११४-३० ।।
इत्येवं ददतो द्रव्यं भक्तिभावेन नारद ।।
प्रसन्नः स्याद्धनाध्यक्षः स्वर्णादिकसमृद्धिदः ।। ११४-३१ ।।
एतद्व्रतं नरः कृत्वा विप्रान्संभोज्य भक्तितः ।।
पश्चात्स्वयं च भुञ्जीत दारापत्यसुहृद्दृतः ।। ११४-३२ ।।
भाद्रे तु कृष्णपंचम्यां नागान् क्षीरेण तर्पयेत् ।। ११४-३३ ।।
यस्तस्याऽऽसप्तमं यावत्कुलं सर्पात्सुनिर्भयम् ।।
भाद्रस्य शुक्लपंचम्यां पूजयेदृषिसत्तमान् ।। ११४-३४ ।।
प्रातर्नद्यादिके स्नात्वा कृत्वा नित्यमतंद्रितः ।।
गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा ।। ११४-३५ ।।
गोमयेनोपलिप्याथ कृत्वा पुष्पोपशोभिताम् ।।
तत्रास्तीर्य कुशान्विप्रऋषीन्सप्त समर्चयेत् ।। ११४-३६ ।।
गन्धैश्च विविधैः पुष्पैर्धूपैर्दीपैः सुशोभनेः ।।
कश्यपोऽत्रिर्भरद्वाजौ विश्वामित्रोऽथ गौतमः ।। ११४-३७ ।।
जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ।।
एतैभ्योऽघ्य च विधिवत्कल्पयित्वा प्रदाय च ।। ११४-३८ ।।
नैवेद्यं विपचेद्वीमान्श्यामाकाद्यैरकृष्टकैः ।।
तन्निवेद्य विसृज्येमान्स्वयं चाद्यात्तदेव हि ।। ११४-३९ ।।
अनेन विधिना सप्त वर्षाणि प्रतिवत्सरम् ।।
कृत्वा व्रतांते वरयेदाचार्यान् सप्त वैदिकान् ।। ११४-४० ।।
प्रतिमाः सप्तकुर्वींत सुवर्णेन स्वशक्तितः ।।
जटिलाः साक्षसूत्राश्च कमण्डलुसमन्विताः ।। ११४-४१ ।।
संस्थाप्य कलशेष्वेतांस्ताम्रेषु मृन्मयेषु वा ।।
स्नापयेद्विधिवद्भक्त्या पृथक्पंचामृतैरपि ।। ११४-४२ ।।
उपचारैः षोडशभिस्ततः संपूज्य भक्तितः ।।
अर्घ्यं दत्वा ततो होमं तिलव्रीहियवादिभिः ।। ११४-४३ ।।
`
सहस्तोमा'इति ऋखा नामनन्त्रैस्तु वा पृथक् ।।
पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत् ।। ११४-४४ ।।
ततस्तु सप्त गा दद्याद्वस्त्रालंकारसंयुताः ।।
आचार्यं पूजयेज्जैव वस्त्रालंकारभूषणैः ।। ११४-४५ ।।
अनुज्ञया गुरोः पश्चान्मूर्तीर्विप्रेषु चार्पयेत् ।।
भोजयित्वा तु तान्भक्त्या प्रणिपत्य विसर्जयेत् ।। ११४-४६ ।।
ततश्चेष्टैः सहासीनः स्वयं ब्राह्मणशेषितम् ।।
भुंक्त्वा वै षड्रसोपेतं प्रमुद्यात्सह बंधुभिः ।। ११४-४७ ।।
एतत्कृत्वा व्रतं गांगं भोगान्भुक्त्वाथ वाञ्छितान् ।।
सप्तर्षीणां प्रसादेन विमानवरगो भवेत् ।। ११४-४८ ।।
आश्विने शुक्लपञ्चम्यामुपांगललिताव्रतम् ।। ११४-४९ ।।
तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय नारद ।।
उपचारैः षोडशभिः पूजयेत्तां विधानतः ।। ११४-५० ।।
पक्वान्नं फलसंयुक्तं सघृतं दक्षिणान्वितम् ।।
द्विजवर्याय दातव्यं व्रतसंपूर्तिहेतवे ।। ११४-५१ ।।
"सवाहना शक्तियुता वरदा पूजिता मया ।।
मातर्मामनुगृह्याथ गम्यतां निजमंदिरम् ।।" ११४-५२ ।।
कार्तिके शुक्लपंचम्यां जयाव्रतमनुत्तमम् ।।
कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम ।। ११४-५३ ।।
पूजयित्वा जयां विप्र यथाविधि समाहितः ।।
उपचारैः षोडशभिस्ततः शुचिरलंकृतः ।। ११४-५४ ।।
विप्रैकं भोजयेच्चापि तस्मै दत्त्वा च दक्षिणाम् ।।
विसर्जयेत्ततः पश्चात्स्वयं भुञ्जीत वाग्यतः ।। ११४-५५ ।।
यस्तु वै भक्तिसंयुक्तः स्नानं कुर्य्याज्जयादिने ।।
नश्यन्ति तस्य पापानि सिंहाक्रांता मृगा यथा ।। ११४-५६ ।।
यदश्वमेधावभृथे फलं स्नानेन कीर्तितम् ।।
तत्फलं प्राप्यते विप्रस्नानेनापि जयादिने ।। ११४-५७ ।।
अपुत्रो लभते पुत्रं वंध्या गभ च विंदति ।।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ।। ११४-५८ ।।
मार्गशुक्ले च पञ्चम्यां नागानिष्ट्वा विधानतः ।।
नागेभ्यो ह्यभयं लब्ध्वा मोदते सह बांधवैः ।। ११४-५९ ।।
पौषेऽपि शुक्लपञ्चम्यां सम्पूज्य मधुसूदनम् ।।
लभते बाञ्छितान्कामान्नात्र कार्या विचारणा ।। ११४-६० ।।
पंचम्यां प्रतिमासे तु शुक्ले कृष्णे च नारद ।।
पितॄणां पूजनं शस्तं नागानां चापि सर्वथा ।। ११४-६१ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थपञ्चमीव्रतनिरूपणं नाम चतुर्दशाधिकशततमोऽध्यायः ।। ११४ ।।