नारदपुराणम्- पूर्वार्धः/अध्यायः १२
नातद उवाच ।।
श्रुतं तु गङ्गामाहात्म्यं वाञ्छितं पापनाशनम् ।
अधुना लक्षणं ब्रूहि भ्रातर्मे दानपात्रघयोः ।। १२-१ ।।
सनक उवाच ।।
सर्वेषामेव वर्णानां ब्रह्मणः परमो गुरुः ।।
तस्मै दानानि देयानि दत्तस्यानन्त्यमिच्छता ।। १२-२ ।।
ब्राह्मणः प्रतिगृह्णीयात्सर्वतो भयवर्जितः ।।
न कदापि क्षत्रविशो गृह्णीयातां प्रतिग्रहम् ।। १२-३ ।।
चण्डस्य पुत्रहीनस्य दम्भाचाररतस्य च ।।
स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ।। १२-४ ।।
परदाररतस्यापि परद्रव्याभिलिषिणः ।।
नक्षत्रसूचकस्यापि दत्तं भवति निष्फलम् ।। १२-५ ।।
असूयाविष्टमनसः कृतन्घस्य च मायिनः ।।
अयाज्ययाजकस्यापि दत्तं भवति निष्फलम् ।। १२-६ ।।
नित्यं याच्ञापरस्यापि हिंसकस्य खलस्य च ।।
रसविक्रयिणश्वैव दत्तं भवति निष्फलम् ।। १२-७ ।। नामैका द
वेदविक्रयिणश्चापि स्मृतिविक्रयिणस्तथा ।।
धर्मविक्रयिणो विप्र दत्तं भवति निष्फलम् ।। १२-८ ।।
गानेन जीविका यस्य यस्य भार्या च पुश्चली ।।
परोपतापिनश्चापि दत्तं भवति निष्फलम् ।। १२-९ ।।
असिजीवी मषीजीवी देवलो ग्रामयाजकः ।।
धावको वा भवेत्तेषां दत्तं भवति निष्फलम् ।। १२-१० ।।
पाककर्तुः परस्यार्थे कवये गदहारिणे ।।
अभक्ष्य भक्षकस्यापि दत्तं भवति निष्फलम् ।। १२-११ ।।
शूद्रान्नभोजिनश्चैव शूद्राणां शवदाहिनः ।।
पौंश्वलान्नभुजश्चापि दत्तं भवति निष्फलम् ।। १२-१२ ।।
नामविक्रयिणो विष्णोः संध्याकर्म्मोर्ज्झितस्य च ।।
दुष्प्रतिग्रहदग्धस्य दत्तं भवति निष्फलम् ।। १२-१३ ।।
दिवाशयनशीलस्य तथा मैथुनकारिणः ।।
सध्याभोजिन एवापिदत्तं भवति निष्फलम् ।। १२-१४ ।।
महापातकयुक्तस्य त्यक्तस्य ज्ञातिबान्धवैः ।।
कुण्डस्य चापि गोलस्य दत्तं भवति निष्फलम् ।। १२-१५ ।।
परिवित्तेः शठस्यापि परिवत्तुः प्रमादिनः ।।
स्त्रीजितस्यातिदुष्टस्य दत्तं भवित निष्फलम् ।। १२-१६ ।।
मद्यमांसाशिनश्चापि स्त्रीविटस्यातिलोभिनः ।।
चौरस्य पिशुनस्यापि दत्तं भवति निष्फलम् ।। १२-१७ ।।
ये केचित्पापनिरता निन्दिताः सुजनैः सदा ।।
न तेभ्यः प्रतिगृह्णीयान्न च वद्याद्दिजोत्तम ।।
सत्कर्मनिरतायापि देयं यत्नेन नारद ।। १२-१८ ।।
यद्दानं श्रद्धया दत्तं तथा विष्णुसमर्पणम् ।।
याचितं वापि पात्रेण भवेत्तद्दानमुत्तमम् ।। १२-१९ ।।
परलोकं समुद्दश्य ह्यैहिकं वापि नारद ।।
यद्दानं दीयते पात्रे तत्काम्यं मध्यमं स्मृतम् ।। १२-२० ।।
दग्भेन चापि हिंसार्थं परस्याविधिनापि च ।।
क्रुद्धेनाश्रद्धयापात्रे तद्दानं मध्यमं स्मृतम् ।। १२-२१ ।।
अधमं बलितोषायमध्यमं स्वार्थसिद्धये ।।
उत्तमं हरिप्रीत्यर्थं प्राहुर्वेदविदां वराः ।। १२-२२ ।।
दानभोगविनाशाश्च रायः स्युर्गतयस्त्रिधा ।। १२-२३ ।।
यो ददाति च नोभुक्ते तद्धनं नाशकारणम् ।।
धनं धर्मफलं विप्र धर्मो माधवतुष्टिकृत् ।। १२-२४ ।।
तरवः किं न जीवन्ति तेऽपि लोके परार्थकाः ।।
यत्र मूलफलैर्वृक्षाः परकार्यं प्रकुर्वते ।। १२-२५ ।।
मनुष्या यदि विप्राग्थ्र न परार्थास्तदा मृताः ।।
परकार्यं न ये मर्त्याः कायेनापि धनेन वा ।। १२-२६ ।।
मनसा वचसा वापि ते ज्ञेयाः पापकृत्तमाः ।।
अत्रेतिहासं वक्ष्यामि श्रृणु नारद तत्त्वतः ।। १२-२७ ।।
यत्र दानादिकानां तु लक्षणं परिकीर्तितम् ।।
गङ्गामाहात्म्यसहितं सर्वपापप्रणाशनम् ।। १२-२८ ।।
भगीरथस्य धर्मस्य संवादं पुण्यकारणम् ।।
आसीद्भगीरथो राजा सगरान्वयसंभवः ।। १२-२९ ।।
शशास पृथिवीं मेतां सत्पद्वीपां ससागराम् ।।
सर्वधर्मरतो नित्यं सत्यसंधः प्रतापवान् ।। १२-३० ।।
कन्दर्पसद्दशो रुपे यायजृको विचक्षणः ।।
प्रालेयाद्रिसमो धैर्ये धर्मे धर्मसमो नृपः ।। १२-३१ ।।
सर्वलक्षणसंपन्नः सर्वशास्त्रार्थपारगः ।।
सर्वसंपत्समायुक्तः सर्वानन्दकरो मुने ।। १२-३२ ।।
आतिथ्यप्रयतो नित्यं वासुदेवार्चनेरतः ।।
पराक्रमी गुणनिधिर्मैत्रः कारुणिकः सधीः ।। १२-३३ ।।
एतादृशं तं राजानं ज्ञात्वा हृष्टो भगीरथम् ।।
धर्मराजो द्विजश्रेष्ठ कदाचिद्द्रष्टुमागतः ।। १२-३४ ।।
समागतं धर्मराजमर्हयामास भूपतिः ।।
शास्त्रदृष्टेन विधिना धर्मः प्री उवाच तम् ।। १२-३५ ।।
धर्मराज उवाच ।।
राजन्धर्मविदां श्रेष्टप्रसिद्धोऽसि जगत्र्रये ।।
धर्मराजोऽथ कीर्तिं ते श्रुत्वा त्वां द्रष्टुमागतः ।। १२-३६ ।।
सन्मार्गनिरतं सत्यं सर्वभूतहिते रतम् ।।
द्रष्टुमिच्छन्ति विबुधारतवोत्कुष्टगुणप्रियाः ।। १२-३७ ।।
कीर्तिर्नीतिश्च संपत्तिर्वर्तते यत्र भूपते ।।
वसन्ति तत्र नियतं गुणास्सन्तश्च देवताः ।। १२-३८ ।।
अहो राजन्महाभाग शोभनीचरितं तव ।।
सर्वभूतहितत्वादि मादृशामपि दुर्लभम् ।। १२-३९ ।।
इत्युक्तवन्तं तं धर्मं प्रणिपत्य भगीरथः ।।
प्रोवाच विनयाविष्टः संहृष्टः श्लक्ष्णया गिरा ।। १२-४० ।।
भगीरथ उवाच ।।
भगवन्सर्वधर्मज्ञ समदर्शित् सुरेश्वर ।।
कृपया परयाविष्टो यत्पृच्छामि वदस्व तत् ।। १२-४१ ।।
धर्मा कीदृग्विधाः प्रोक्ताः के लोका धर्मशालिनाम् ।।
कियत्यो यातनाः प्रोक्ताः केषां ताः परिकीर्तिताः ।। १२-४२ ।।
त्वया संमाननीया ये शासनीयाश्च ये यथा ।।
तत्सर्वं मे महाभाग विस्तराद्वक्तुमर्हसि ।। १२-४३ ।।
धर्मराज उवाच ।।
साधु साधु महाबुद्धे मतिस्ते विमलोर्जिता ।।
धर्माधर्मान्प्रवक्ष्यामितत्त्वतः श्रृणु भक्तितः ।। १२-४४ ।।
धर्मा बहुविधाः प्रोक्ताः पुण्यलोकप्रदायकाः ।।
तथैव यातनाः प्रोक्ता असंख्या घोरदर्शताः ।। १२-४५ ।।
विस्तराद्गदितुं नालमपि वर्षशतायुतैः ।।
तस्मातंसमासतो वक्ष्ये धर्माधर्मनिदर्शनम् ।। १२-४६ ।।
वृत्तिदानं द्विजानां वै महापुण्यं प्रकीर्ततम् ।।
तथैवाध्यात्मविदुषो दत्तं भवति चाक्षयम् ।। १२-४७ ।।
कुटुम्बिनं या शास्त्रज्ञं श्रोत्रियं वा गुणान्वितम् ।।
यो दत्त्वा स्यापयेदृतिं तस्य पुण्यफलं श्रृणु ।। १२-४८ ।।
मातृताः पितृतश्चैव द्विजः कोटिकुलन्वितः ।।
निर्विश्य विष्णुभवनं कल्पं तत्रैव मोदते ।। १२-४९ ।।
गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिविन्दवः ।।
न गण्यन्ते विधात्रापि ब्रहह्मवृत्तिफलानि वै ।। १२-५० ।।
समस्तदेवतारुपो ब्राह्मणः परिकीर्तितः ।।
जीवनं ददतस्तस्य कः पुण्यं गदितुं क्षमः ।। १२-५१ ।।
यो विप्रहितकृन्नित्यं स सर्वान्कृतवान्मखान् ।।
स स्नातः सर्वतीर्थेषु तप्तं तेनाखिलं तपः ।। १२-५२ ।।
यो ददस्वेति विप्राणां जीवनं प्रेरयेत्परम् ।।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ।। १२-५३ ।।
तडागं कारयेद्यस्तु स्वयमेवापरेण वा ।।
वक्तुं तत्पुण्यसंख्यानं नालं वर्षशतायुषा ।। १२-५४ ।।
एकश्चेदध्वगो राजंस्तडागस्य जलं पिबेत् ।।
कत्कर्तुः सर्वपापानि नश्यन्त्येव न संशयः ।। १२-५५ ।।
एकाहमपि यत्कुर्याद्भूमिस्थमुदकं नरः ।।
स मुक्तः सर्वपापेभ्यः शतवर्षं वसेद्दिवि ।। १२-५६ ।।
कर्तुं तडागं यो मर्त्यः साह्यकः शक्तितो भवेत् ।।
सोऽपि तत्फलमाप्नोति तुष्टः प्रेरक एव च ।। १२-५७ ।।
मृदं सिद्धार्थमात्रां वा तडागाद्यो वहिः क्षिपेत् ।।
तिष्टत्यब्दशतं स्वर्गे विमुक्तः पापकोटिभिः ।। १२-५८ ।।
देवता यस्य तुष्यन्ति गुरवो वा नृपोत्तम ।।
तडागपुण्यभाक्स स्यादित्येषा शाश्वती श्रुतिः ।। १२-५९ ।।
इतिहासं प्रवक्ष्यामि तवात्र नृपसत्तम ।।
यं श्रृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। १२-६० ।।
गौडदेशेऽतिविख्यातो राजासीद्वीरभद्रकः ।।
महाप्रतापी विद्यावान्सदा विप्रप्रपूजकः ।। १२-६१ ।।
वेदशास्त्रकुलाचारयुक्तो मित्रक्विर्धनः ।।
तस्य राज्ञी महाभागा नान्मा चम्पकमञ्जरी ।। १२-६२ ।।
तस्य राज्ञो महामात्याः कृत्माकृस्यविचारणाः ।।
धर्माणां धर्मशास्त्रेस्तु सदा कुर्वन्ति निश्चयम् ।। १२-६३ ।।
प्रायश्चित्तं चिकित्त्सां च ज्योतिषे धर्मनिर्णयम् ।।
विनाशास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्यघातकम् ।। १२-६४ ।।
इति निश्चित्य मनसा मन्वादीरितधर्मकान् ।।
आचार्येभ्यः सदा भूपः श्रृणोति विधिपूर्वकम् ।। १२-६५ ।।
न कोऽप्यन्यायवर्ती तस्य राज्येऽवरोऽपि च ।।
धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः ।। १२-६६ ।।
जातं समत्वं स्वर्गस्य सौराज्यस्य शुभावहम् ।।
स चैकदा तु नृपतिर्मृगयायां महावने ।। १२-६७ ।।
मन्त्र्यादिभिः परिवृतो बभ्राम मध्यभास्करम् ।।
दैवादाखेटशून्यस्य ह्यतिश्रान्तस्य तत्र वै ।। १२-६८ ।।
नृपरीतस्य संजातं सरसो दर्शनं नृप ।।
ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत् ।। १२-६९ ।।
किमयं सरसीश्रृङ्गेभुवः केन विनिर्मिता ।।
कथं जलं भवेदत्र येन जीवेदयं नृपः ।। १२-७० ।।
ततो बुद्धिः समभवत्खाते तस्या नृपोत्तम ।।
हस्तमात्रं ततो गर्त्तं खात्वा तोयमवाप्तवान् ।। १२-७१ ।।
तेन तोयेन पीतेन राज्ञस्तृत्पिरजायत ।।
मन्त्रिणश्चापि भूमिश बुद्धिसागरसंज्ञिनः ।। १२-७२ ।।
स बुद्धिसागरो भूपं प्राह धर्मार्थकोविदः ।।
राजन्नियं पुष्करिणी वर्षाजलवती पुरा ।। १२-७३ ।।
अद्यैनां बद्धवप्रां च कर्त्तुं जाता मतिर्मम ।।
तद्भवान्मोदतां देव दत्तादाज्ञां च मेऽनघ ।। १२-७४ ।।
इति श्रुत्वा वचस्तस्य मन्त्रिणो नृपसत्तमः ।।
मुमुदेऽतितरां भूपः स्वयं कर्तुं समुद्यतः ।। १२-७५ ।।
तमेव मन्त्रिणां तत्र युयोज शुभकर्मणि ।।
ततो राजाज्ञया सोऽपि बुद्धिसागरको मुदा ।। १२-७६ ।।
सरसीं सागरं कर्त्तुमुद्यतः पुण्यकृत्तमः ।।
धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम् ।। १२-७७ ।।
सरसीं बद्धसु शिलां चकारागाधशम्बराम् ।।
तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत् ।। १२-७८ ।।
तस्यां ततः प्रभृति वै सर्वेऽपि वनचारिणः ।।
पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम् ।। १२-७९ ।।
कदाचित्स्वायुषश्चान्ते स मन्त्री बुद्धिसागरः ।।
प्रमृतो गतवाँल्लोकं लोकशास्तुर्मम प्रभो ।। १२-८० ।।
तदर्थं तु मया पृष्टो धर्मो धर्मलिपिंकरः ।।
चित्रगुत्पस्तु तत्कर्म मह्यं सर्वं न्यवेदयत् ।। १२-८१ ।।
उपदेष्टा स्वयं चासौ धर्मकार्यस्य भूपतेः ।।
तस्माद्धर्मविमानं तु समारोढुमिहार्हति ।। १२-८२ ।।
इत्युक्ते चित्रगुप्तेन समाज्ञप्तो मया नृप ।।
विमानं धर्मसंज्ञं तु आरोढुं बुद्धिसागरः ।। १२-८३ ।।
अथ कालान्तरे राजन्सराजा वीरभद्रकः ।।
मृतो गतो मम स्थानं नमश्चक्रे मुदान्वितः ।। १२-८४ ।।
मया तु तत्र तस्यापि पृष्टं कर्माखिलं नृप ।।
कथितं चित्रगुत्पेन धर्मं सरसिसंभवम् ।। १२-८५ ।।
तदा सम्यङ्मया राजा बोधितोऽभूद्यथाश्रृणु ।।
अधित्यकायां भूपाल सैकतस्य गिरेः परा ।। १२-८६ ।।
लावकेनामुनाचञ्च्वा खातं द्व्यंङ्गुप्रलमबुनि ।।
ततः कालान्तरे तेन वाराहेण नृपोत्तम ।। १२-८७ ।।
खनितं हस्तमात्रं तु जलं तुण्डेन चात्मनः ।।
ततोऽन्यदाऽमुया काल्याहस्त युग्ममितः कृतः ।। १२-८८ ।।
खातो जले महाराज तोयं मासद्वयं स्थितम् ।।
पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः ।। १२-८९ ।।
ततो वर्षत्रायान्ते तु गजतानेन सुव्रत ।।
हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम् ।। १२-९० ।।
मासत्रये स्थितं तच्च पयो जीवैर्वनेचरैः ।।
भवांस्तत्र समायातो जलशोषादनन्तरम् ।। १२-९१ ।।
मासे तत्र तु संप्रात्पं हस्तं खात्वा जलं नृप ।।
ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया ।। १२-९२ ।।
पञ्चाशद्धनुरुत्खातं जातं तत्र महाजलम् ।।
पुनः शिलाभिः सुदृढं बद्धं जातं महत्सरः ।।
वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः ।। १२-९३ ।।
तेन स्वस्वेन पुण्येन पञ्चैते जगतीपते ।।
विमानं धर्म्यमारुढास्त्वमाण्येनं समारुह ।। १२-९४ ।।
इति वाक्यं समाकर्ण्य मम राजा स भूमिप ।।
आरुरोह विमानं तत्षष्ठो राजा समांशभाक् ।। १२-९५ ।।
इति ते सर्वमाख्यातं तडागजनितं फलम् ।।
श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात् ।। १२-९६ ।।
यो नरः श्रद्धयो युक्तो व्याख्यातं श्रुणुयात्पठेत् ।।
सोऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसंभवम् ।। १२-९७ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने द्वादशोऽध्यायः ।। १२ ।।