नारदपुराणम्- पूर्वार्धः/अध्यायः ८०

विकिस्रोतः तः
Jump to navigation Jump to search
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सूत उवाच ।।
श्रुत्वा तु नारदो विप्राः कुमारवचनं मुनिः ।।
यत्पप्रच्छ पुनस्तच्च युष्मभ्यं प्रवदाम्यहम् ।। ८०-१ ।।

कार्तवीर्यस्य कवचं तथा हनुमतोऽपि च ।।
चरितं च महत्पुण्यं श्रुत्वा भूयोऽब्रवीद्वचः ।। ८०-२ ।।

नारद उवाच ।।
साधु साधु मुनिश्रेष्ठ त्वयातिकरुणात्मना ।।
श्रावितं चरितं पुण्यं शिवस्य च हनूमतः ।। ८०-३ ।।

तन्त्रस्यांस्य क्रमप्राप्तं कथनीयं च यत्त्वया ।।
तत्प्रब्रूहि महाभाग किं पृष्ट्वान्यद्विदांवर ।। ८०-४ ।।

सनत्कुमार उवाच ।।
अथ वक्ष्ये कृष्णमंत्रान्भुक्तिमुक्तिफलप्रदान् ।।
ब्रह्माद्या यान्समाराध्य सृष्ट्यादिकरणे क्षमाः ।। ८०-५ ।।

कामः कृष्णपदं ङतं गोविंदं च तथाविधम् ।।
गोपीजनपदं पश्चाद्वल्लभायाग्निसुंदरी ।। ८०-६ ।।

अष्टादशार्णो मंत्रोऽयं दुर्गाधिष्ठातृदैवतः ।।
नारदोऽस्य मुनिश्छंदो गायत्री देवता पुनः ।। ८०-७ ।।

श्रीकृष्णः परमात्मा च कामो बीजं प्रकीर्तितम् ।।
स्वाहा शक्तिर्नियोगस्तु चतुर्वर्गप्रसिद्धये ।। ८०-८ ।।

ऋषिं शिरसि वक्त्रे तु छंदश्च हृदि देवताम् ।।
गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः ।। ८०-९ ।।

युगेवदाब्धि निगमैर्द्वाभ्यां वर्णैर्मनूद्भवैः ।।
पंचांगानि प्रविन्यस्य तत्त्वन्यासं समाचरेत् ।। ८०-१० ।।

हृदंतिमादिकांतार्णमपराद्यानि चात्मने ।।
मत्यंतानि च तत्वानि जीवाद्यानि न्यसेत्क्रमात् ।। ८०-११ ।।

जीवं प्राणं मतिमहंकारं मनस्तथैव च ।।
शब्दं स्पर्शं रूपरसौ गंधं श्रोत्रं त्वचं तथा ।। ८०-१२ ।।

नेत्रं च रसनांघ्राणं वाचं पाणिं पदेंद्रियम् ।।
पायुं शिश्नमथाकाशं वायुं वह्निं जलं महीम् ।। ८०-१३ ।।

जीवं प्राणं च सर्वागे मत्यादित्रितयं हृदि ।।
मूर्द्धास्यहृद्गुह्य पादेष्वथ शब्दादिकान्न्यसेत् ।। ८०-१४ ।।

कर्णादिस्वस्वस्थानेषु श्रोत्रादीनींद्रियाणि च ।।
तथा वागादींद्रियाणि स्वस्वस्थानषु विन्यसेत् ।। ८०-१५ ।।

मूद्धस्यहृद्गुह्यपादेष्वाकाशादीन्न्यसेत्ततः ।।
हृत्पुंडरीकमर्केन्दुह्निबिंबान्यनुक्रमात् ।। ८०-१६ ।।

द्विषट्ह्यष्टदशकलाव्याप्तानि च तथा मतः ।।
भूताष्टां गाक्षिपदगैर्वर्णैः प्रग्विन्न्यसेद्धृदि ।। ८०-१७ ।।

अथाकाशादिस्थलेषु वासुदेवादिकांस्ततः ।।
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ।। ८०-१८ ।।

नारायणश्च क्रमशः परमेष्ठ्यादिभिर्युताः ।।
परमेष्ठिपुमांच्छौ चविश्वनिवृत्तिसर्वकाः ।। ८०-१९ ।।

श्वेतानिलाग्न्यंबुभूमिवर्णैः प्राग्वत्प्रविन्यसेत् ।।
स्वबीजाद्यं कोपतत्वं नृसिंहं व्यापकेन च ।। ८०-२० ।।

प्राग्वद्विन्यस्य सर्वाङ्गे तत्त्वन्यासोऽयमीरितः ।।
मकाराद्या आद्यवर्णाः सर्वे स्युश्चंद्रभूषिताः ।। ८०-२१ ।।

वासुदेवादिका ज्ञेया ङेंताः साधकसत्तमैः ।।
प्राणायामं ततः कृत्वा पूरकुम्भकरेचकैः ।। ८०-२२ ।।

चतुर्भिः षड्भर्द्वाभ्यां च मूलमंत्रेण मंत्रवित् ।।
केचिदाहुरिहाचार्याः प्राणायामोत्तरं पुनः ।। ८०-२३ ।।

पीठन्यासं विधायाथ न्यासानन्यान्समाचरेत् ।।
दशतत्त्वादि विन्यस्य वक्ष्यमाणविधानतः ।। ८०-२४ ।।

मूर्तिपंजरनामानं पूर्वोक्तं विन्यसेद्बुधः ।।
सर्वांगे व्यापकं कृत्वा किरीटमनुना सुधीः ।। ८०-२५ ।।

ततस्तारपुटं मंत्रं व्यापय्य करयोस्त्रिशः ।।
पंचांगुलीषु करयोः पंचांगं विन्यसेत्ततः ।। ८०-२६ ।।

त्रिशो मूलेन मूर्द्धादिपादांतं व्यापकं न्यसेत् ।।
सकृद्व्यापय्य तारेण मंत्रन्यासं ततश्चरेत् ।। ८०-२७ ।।

शिरोललाटे भ्रूमध्ये कर्णयोश्चक्षुषोस्तथा ।।
घ्राणयोर्वदने कंठे हृदि नाभौ तथा पुनः ।। ८०-२८ ।।

कट्यां लिंगे जानुनोश्च पादयोर्विन्यसेत्क्रमात् ।।
हृदंतान्मंत्रवर्णांश्च ततो मूर्ध्नि ध्रुवं न्यसेत् ।। ८०-२९ ।।

पुनर्नयनयोरास्ये हृदि गुह्ये च पादयोः ।।
विन्यसेद्धृदयांतानि मनोः पंचपदानि च ।। ८०-३० ।।

भूयो मुन्यादिकं न्यस्य पंचांगं पूर्ववन्न्‌यसेत् ।।
अथ वक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम् ।। ८०-३१ ।।

यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः ।।
अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ।। ८०-३२ ।।

यस्याराधनतो मंत्री कृष्णसंनिध्यतां व्रजेत् ।।
ताराद्याभिर्व्याहृतिभिः संपुटं विन्यसेन्मनुम् ।। ८०-३३ ।।

मंत्रेण पुटितांश्चापि प्रणवाद्यांस्ततो न्यसेत् ।।
गायत्र्या पुटुतं मंत्रं विन्यसेन्मातृकास्थले ।। ८०-३४ ।।

मंत्रेण पुटितां तां च गायत्रीं विन्यसेत्क्रमात् ।।
मातृकापुटितं मूलं विन्यसेत्साधकोत्तमः ।। ८०-३५ ।।

मूलेन पुटितां चैव मातृकां विन्यसेत्क्रमात् ।।
तृचं न मातृकावर्णान्पूर्वं तत्तत्स्थले सुधीः ।। ८०-३६ ।।

विन्यसेन्न्यासषट्कं च षोढा न्यासोऽयमीरितः ।।
अनेन न्यासवर्येण साक्षात्कृष्णसमो भवेत् ।। ८०-३७ ।।

न्यासेन पुटितं दृष्ट्वा सिद्धगंधर्वकिन्नराः ।।
देवा अपि नमंत्येनं किंपुनर्मानवा भुवि ।। ८०-३८ ।।

सुदर्शनस्य मंत्रेण कुर्याद्दिग्बंधनं ततः ।।
देवं ध्यायन्स्वहृदये सर्वाभीष्टप्रदायकम् ।। ८०-३९ ।।

उत्फुल्लकुसुमव्रातनम्रशाखैर्वरद्रुमैः ।।
सस्मेयमंजरीवृंदवल्लरीवेष्टितैः शुभैः ।। ८०-४० ।।

गलत्परागधूलिभिः सुरभीकृतदिङ्मुखः ।।
स्मरेच्छिशिरितं वृंदावनं मंत्रीसमाहितः ।। ८०-४१ ।।

उन्मीलन्नवकंजालिविगलन्मधुसंचयैः ।।
लुब्धांतः करणैर्गुंजद्द्विरेफपटलैः शुभम् ।। ८०-४२ ।।

मरालपरभृत्कीरकपोतनिकरैर्मुहुः ।।
मुखरीकृतमानृत्यन्मायूरकुलमंजुलम् ।। ८०-४३ ।।

कालिंद्या लोलकल्लोलविप्रुषैर्मंदवाहिभिः ।।
उन्निद्रांबुरुहव्रातरजोभिर्धूसरैः शिवैः ।। ८०-४४ ।।

प्रदीपित स्मरैर्गोष्ठसुंदरीमृदुवाससाम् ।।
विलोलनपरैः संसेवितं वा तैर्निरंतरम् ।। ८०-४५ ।।

स्मरेत्तदंते गीर्वाणभूरुहं सुमनोहरम् ।।
तदधः स्वर्णवेद्यां च रत्नपीठमनुत्तमम् ।। ८०-४६ ।।

रत्नकुट्टिमपीठेऽस्मिन्नरुणं कमलं स्मरेत् ।।
अष्टपत्रं च तन्मध्ये मुकुंदं संस्मरेत्स्थितम् ।। ८०-४७ ।।

फुल्लेंदीवरकांतं च केकिबर्हावतंसकम् ।।
पीतांशुकं चंद्रमुखं सरसीरुहनेत्रकम् ।। ८०-४८ ।।

कौस्तुभोद्भासितांगं च श्रीवत्सांकं सुभूषितम् ।।
व्रजस्त्रीनेत्रकमलाभ्यर्चितं गोगणावृतम् ।। ८०-४९ ।।

गोपवृंदयुतं वंशीं वादयंतं स्मरेत्सुधीः ।।
एवं ध्यात्वा जपेदादावयुतद्वितयं बुधः ।। ८०-५० ।।

जुहुयादरुणांभोजैस्तद्दशांशं समाहितः ।।
जपेत्पश्चान्मंत्रसिद्ध्यै भूतलक्षं समाहितः ।। ८०-५१ ।।

अरुणैः कमलैहुत्वा सर्वसिद्धीश्वरो भवेत् ।।
पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ।। ८०-५२ ।।

तस्यामावाह्य चाभ्यर्चेद्गोपीजनमनोहरम् ।।
मुखे वेणुं समभ्यर्च्य वनमालां च कौस्तुभम् ।। ८०-५३ ।।

श्रीवत्सं च हृदि प्रार्च्य ततः पुष्पांजलिं क्षिपेत् ।।
ततः श्वेतां च तुलसीं शुक्लचंदनपंकिलाम् ।। ८०-५४ ।।

रक्तां च तुलसीं रक्तंचदनाक्तां क्रसात्सुधीः ।।
अर्पयेद्दक्षिणे जद्वयमश्वारियुग्मकम् ।। ८०-५५ ।।

हयमारद्वयेनैव हृदि मूर्ध्नि तथा पुनः ।।
पद्मद्वयं च विधिवत्ततः शीर्षे समर्पयेत् ।। ८०-५६ ।।

तुलसीद्वयमंभोजद्वयमश्वारियुग्मकम् ।।
ततः सर्वाणि पुष्पाणि सर्वाङ्गेषु समर्पयेत् ।। ८०-५७ ।।

दक्षिणे वासुदेवाख्यं स्वच्छं चैतन्यमव्ययम् ।।
वामे च रुक्मिणीं तदून्नित्यां रक्तां रजोगुणाम् ।। ८०-५८ ।।

एवं संपूज्य गोपालं कुर्यादावरणार्चनम् ।।
यजेद्दामसुदामौ च वसुदामं च किंकिणीम् ।। ८०-५९ ।।

पूर्वाद्याशासु दामाद्या ङेंनमोन्तध्रुवादिकाः ।।
अग्निनैर्ऋतिवाय्वीशकोणेषु हृदयादिकान् ।। ८०-६० ।।

दिक्ष्वस्त्राणि समभ्यर्च्य पत्रेषु महिषीर्यजेत् ।।
रुक्मिणी सत्यभामा च नाग्नजित्यभिधा पुनः ।। ८०-६१ ।।

सुविंदा मित्रविंदा च लक्ष्मणा चर्क्षजा ततः ।।
सुशीला च लसद्रम्यचित्रितांबरभूषणा ।। ८०-६२ ।।

ततो यजेद्दलाग्रेषु वसुदेवञ्च देवकीम् ।।
नंदगोपं यशोदां च बलभद्रं सुभद्रिकाम् ।। ८०-६३ ।।

गोपानूगोपीश्च गोविंदविलीनमतिलोचनान् ।।
ज्ञानमुद्राभयकरौ पितरौ पीतपांडुरौ ।। ८०-६४ ।।

दिव्यमाल्यांबरालेपभूषणे मातरौ पुनः ।।
धारयंत्यौ चरुं चैव पायसीं पूर्णपात्रिकाम् ।। ८०-६५ ।।

अरुणश्यामले हारमणिकुं डलमंडिते ।।
बलः शंखेंदुधवलो मुशलं लांगलं दधत् ।। ८०-६६ ।।

हालालोलो नीलवासा हलवानेककुंडलः ।।
कला या श्यामला भद्रा सुभद्रा भद्रभूषणा ।। ८०-६७ ।।

वराभययुता पीतवसना रूढयौवना ।।
वेणुवीणाहेमयष्टिशंखश्रृंगादिपाणयः ।। ८०-६८ ।।

गोपा गोप्यश्च विविधप्राभृतान्नकरांबुजाः ।।
मंदारदींश्च तद्बाह्ये पूजयेत्कल्पपादपान् ।। ८०-६९ ।।

मंदारश्च तथा संतानको वै पारिजातकः ।।
कल्पद्रुमस्ततः पश्चाद्ध्वरिचन्दनसंज्ञकः ।। ८०-७० ।।

मध्ये दिक्षु समभ्यर्च्य बहिः शक्रादिकान्यजेत् ।।
तदस्त्राणि च संपूज्य यजेत्कृष्णाष्टकेन च ।। ८०-७१ ।।

कृष्णं च वासुदेवं च देवकीनन्दनं तथा ।।
नारायणं यदुश्रेष्ठं वार्ष्णेयं धर्मपालकम् ।। ८०-७२ ।।

असुराक्रांतभूभारहारिणं पूजयेत्ततः ।।
एभिरावरणैः पूजा कर्तव्यासुखैरिणः ।। ८०-७३ ।।

संसारसागरोत्थीर्त्यै सर्वकामाप्तये बुधः ।।
एवं पूजादिभिः सिद्धा भवद्वैश्रवणो यमः ।। ८०-७४ ।।

त्रिकालपूजनं चास्य वक्ष्ये सर्वार्थसिद्धिदम् ।।
श्रीमदुद्यानसंवीतिहेमभूरत्नमंडपे ।। ८०-७५ ।।

लसत्कल्पद्रुमाधस्थरत्नाब्जपीठसंस्थितम् ।।
सुत्रामरत्नसंकाशं गुडस्निग्धालकं शिशुम् ।। ८०-७६ ।।

चलत्कनककुंडलोल्लसितचारुगंडस्थलं सुघोणधरमद्भुतस्मितमुखांवुतं सुन्दरम् ।।
स्फुरद्विमलरत्नयुक्कनकसूत्रनद्धं दधत्सुवर्णपरिमंडितं सुभगपौंडरीकं नखम् ।। ८०-७७ ।।

समुद्धूसरोरस्थले धेनुधूल्या सुपुष्टांगमष्टापदाकल्पदीप्तम् ।।
कटीलस्थले चारुजंघान्तयुग्मं पिनद्धं क्वणत्किंकिणीजालदाम्ना ।। ८०-७८ ।।

हसन्तं हसद्वंधुजीवप्रसूनप्रभापाणिपादांबुजोदारकांत्या ।।
दधानं करो दक्षिणे पायसान्न सुहैयंगवीनं तथा वामहस्ते ।। ८०-७९ ।।

लसद्गोपगोपीगवां वृंदमध्ये स्थितं वासवाद्यैः सुरैरर्चितांध्रिम् ।।
महाभारभूतामरारातियूथांस्ततः पूतनादीन्निहंतुं प्रवृत्तम् ।। ८०-८० ।।

एवं ध्यात्वार्च्चयेद्देवं पूर्ववत्स्थिरमानसः ।।
दध्ना गुडेन नैवेद्यं दत्वा दशशतं जपेत् ।। ८०-८१ ।।

मध्यंदिने यजेदेवं विशिष्यरूपधारिणम् ।।
नारदाद्यैर्मुनिगणैः सुरवृन्दैश्च पूजितम् ।। ८०-८२ ।।

लसद्गोपगोपीगवां वृन्दमध्यस्तितं सांद्रमेघप्रभंसुंन्दरांगम् ।।
शिखंडिच्छदापीडमब्जायताक्षं लसञ्चिल्लिकं पूर्णचद्राननं च ।। ८०-८३ ।।

चलत्कुण्डलोल्लासिगंडस्थलश्रीभरं सुन्दरं मंदहासं सुनासम् ।।
सुकार्तस्वराभांबरं दिव्यभूषं क्वणत्किंकिणीजालमत्तानुलेपम् ।। ८०-८४ ।।

वेणुं धमंतं स्वकरे दधानं सव्ये दरं यष्टिमुदारवेषम् ।।
दक्षे तथैवेप्सितदानदक्षं ध्यात्वार्चयेन्नंदजमिंदिराप्त्यै ।। ८०-८५ ।।

एवं ध्यात्वार्चयेत्कृष्णं पूर्ववद्वैष्णवोत्तमः ।।
अपूपपायसान्नाद्यैर्नैवैद्यं परिकल्पयेत् ।। ८०-८६ ।।

हुत्वा चाष्टत्तरशतं पयोऽनैः सर्पिषाप्लुतैः ।।
स्वस्वदिक्षु बलिं दद्याद्दिशेदाचमनं ततः ।। ८०-८७ ।।

अष्ट्त्तरसहस्रं च प्रजपेन्मंत्रमुत्तमम् ।।
अह्नो मध्ये यजेदेवं यः कृष्णं वैष्णवोत्तमः ।। ८०-८८ ।।

देवाः सर्वे नमस्यंति लोकानां वल्लभो नरः ।।
मेधायुःश्रीकांतियुक्तः पुत्रैः पौत्रैश्च वर्द्धते ।। ८०-८९ ।।

तृतीयकालपूजायामस्ति कालविकल्पना ।।
सायाह्ने निशि वेत्यत्र वदंत्येके विपश्चितः ।। ८०-९० ।।

दशाक्षरेण चेद्रात्रौ सायाह्नेऽष्टादशार्णतः ।।
उभयीमुभयेनैव कुर्यादित्यपरे जगुः ।। ८०-९१ ।।

सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते ।।
अष्टसाहस्रसंख्यातैर्भवनैरुपमंडिते ।। ८०-९२ ।।

हंससारससंकीर्णकमलोत्पलशालिभिः ।।
सरोभिर्नीलांभोभिः परीते भवनोत्तमे ।। ८०-९३ ।।

उद्यत्प्रद्योतनोद्योतद्युतौ श्रीमणिमंडले ।।
हेमांभोजासनासीनं कृष्णं त्रैलोक्यमोहनम् ।। ८०-९४ ।।

मुनिवृंदैः परिवृतमात्मतत्त्वविनिर्णये ।।
तेभ्यो मुनिभ्यः स्वं धाम दिशंतं परमक्षरम् ।। ८०-९५ ।।

उन्निद्रेंदीवरश्यामं पद्मपत्रायतेक्षणम् ।।
स्निग्धं कुंतलसंभिन्नकिरीटवनमालिनम् ।। ८०-९६ ।।

चारुप्रसन्नवदनं स्फुरन्मकरकुंडलम् ।।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभं सुमनोहरम् ।। ८०-९७ ।।

काश्मीरकपिशोरस्कं पीतकौशेयवाससम् ।।
हारकेयूरकटककटिसूत्रैरलंकृतम् ।। ८०-९८ ।।

हृतविश्वंभराभूरिभारं मुदितमानसम् ।।
शंखचक्रगदापद्मराजद्भुजचतुष्टयम् ।। ८०-९९ ।।

एवं ध्यात्वार्चयेन्मन्त्री स्यादंगैः प्रथमावृत्तिः ।।
द्वितीया महिषीभिस्तु तृतीयायां समर्चयेत् ।। ८०-१०० ।।

नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ।।
विष्वक्सेनं च शैनेयं दिक्ष्वग्रे विनतासुतम् ।। ८०-१०१ ।।

लोकपालैश्च वज्राद्यैः पूजयेद्वैष्णवोत्तमः ।।
एवं संपूज्य विधिवत्पायसं विनिवेदयेत् ।। ८०-१०२ ।।

तर्पयित्वा खंडमिश्रदुग्धबुद्ध्या जलैरिह ।।
जपेदष्टशतं मन्त्री भावयन्पुरुषोत्तमम् । ८०-१०३ ।।

पूजासु होमं सर्वासु कुर्यान्मध्यंदिनेऽथवा ।।
आसनादर्घ्यपर्यंतं कृत्वा स्तुत्वा नमेत्सुधीः ।। ८०-१०४ ।।

समर्थात्मानमुद्वास्य स्वीयहृत्सरसीरुहे ।।
विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् ।। ८०-१०५ ।।

सायाह्ने वासुदेवं यो नित्यमेवं समर्चयेत् ।।
सर्वान्कामानवाप्यांते स याति परमां गतिम् ।। ८०-१०६ ।।

रात्रौ चेन्मदनाक्रांतचेतसं नन्दनन्दनम् ।।
यजेद्रासपरिश्रांतं गोपीमंडलमध्यगम् ।। ८०-१०७ ।।

विकसत्कुंदकह्लारमल्लिकाकुसुमोद्गतैः ।।
रजोभिर्धूसरैर्मंदमारुतैः शिशिरीकृते ।। ८०-१०८ ।।

उन्मीलन्नवकैरवालिविगलन्माध्वीकलब्धांतरं भ्राम्यन्मत्तमिलिंदगीतललिते सन्मल्लिकोज्जृम्भिते ।।
पीयूषांशुकरैर्विशालितहरित्प्रांते स्मरोद्दीपने कालिन्दीपुलिनांगणे स्मितमुखं वेणुं रणंतं मुहुः ।। ८०-१०९ ।।

अन्तस्तोयलसन्नवांबुदघटासंघट्टकारत्विषं चंचञ्चिल्लिकमंबुजायतदृशं बिम्बाधरं सुन्दरम् ।।
मायूरच्छदबद्धमौलिविलसद्धम्मिल्लमालं चलं दीप्यत्कुण्डलरत्नरश्मिविलसद्गंडद्वयोद्बासितम् ।। ८०-११० ।।

कांचीनूपुरहारकंकणलसत्केयूरभूषान्वितं गोपीनां द्वितयां तरे सुललितं वन्यप्रसूनस्रजम् ।।
अन्योन्यं विनिबद्धगोपदयितादोर्वल्लिवीतं लसद्रासक्रीडनलोलुपं मनसिजाक्रांतं मुकुन्दं भवेत् ।। ८०-१११ ।।

विविधश्रुतिभिन्नमनोज्ञतरस्वरसप्तकमूर्छनतानगणैः ।।
भ्रममाणममूभिरुदारमणिस्फुटमंडनसिंजितचारुतनुम् ।। ८०-११२ ।।

इतरेतरबद्धकरप्रमदागणकल्पितरासविहारविधौ ।
मणिशंकुगमप्यमुना वपुषा बहुधा विहितस्वकदिव्यतनुम् ।। ८०-११३ ।।

एवं ध्यात्वार्चयेन्मन्त्री स्यादंगैः प्रथमावृतिः ।।
श्रीकामः सस्वराद्यानि कलाब्जैर्वैष्णवोत्तमः ।। ८०-११४ ।।

यजेत्केशवकीर्त्यादिमिथुनानि च षोडश ।।
इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम् ।। ८०-११५ ।।

पृंथु सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिखन्य शंकुम् ।।
आक्रम्य पद्भ्यामितरेतरैस्तु हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ।। ८०-११६ ।।

सपूज्यैवं च पयसा ससितो पलसर्पिषा ।।
नैवेद्यमर्चयित्वा तु चषकैर्नृपसंख्यकैः ।। ८०-११७ ।।

स-तं पापप्ते मंत्री मिथुनेष्वर्पयेत्क्रमात् ।।
विधाय पूर्ववच्छेषं सहस्रं प्रजपेन्मनुम् ।। ८०-११८ ।।

स्तुत्वा नत्वा च संप्रार्थ्य पूजाशेषं समापयेत् ।।
एवं यः पूजयेत्कृष्णं स सस्मृद्धेः पदं भवेत् ।। ८०-११९ ।।

अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ।।
भुक्त्वेह विविधान्भोगानंते विष्णुपदं व्रजेत् ।। ८०-१२० ।।

एवं पूजादिभिः सिद्धे मनौकाम्यानि साधयेत् ।।
अष्टाविंशतिवारं वा त्रिकालं पूजयेत्सुधीः ।। ८०-१२१ ।।

स्वकालविहितान् भूयः परिवारांश्च तर्पयेत् ।।
प्रातर्द्दध्ना गुडाक्तेन मध्याह्ने पयसा पुनः ।। ८०-१२२ ।।

नवनीतयुतेनाथ सायाह्ने तर्पयेत्पुनः ।।
ससितोपलमिश्रेण पयसा वैष्णवोत्तमः ।। ८०-१२३ ।।

तर्पयामिपदं योज्यं मंत्रांते स्वेषु नामसु ।।
द्वितीयांतेषु तु पुनः पूजाशेषं समापयेत् ।। ८०-१२४ ।।

अभ्युक्ष्यतत्प्रसादाद्भिरात्मानं प्रपबेदपः ।।
तत्तृत्पस्तमथोद्वास्य तन्मयः प्रजपेन्मनुम् ।। ८०-१२५ ।।

अथ द्रव्याणि काम्येषु प्रोच्यंते तर्पणेषु च ।।
तानि प्रोक्तविधानानामाश्रित्यान्यतमं भजेत् ।। ८०-१२६ ।।

पायसं दाधिकं चाज्यं गौडान्नं कृसरं पयः ।।
दधीनि कदली मोचा चिंचा रजस्वला तथा ।। ८०-१२७ ।।

अपूपा मोदका लाजाः पृथुका नवनीतकम् ।।
द्रव्यषोडशकं ह्येतत्कथितं पद्मजादिभिः ।। ८०-१२८ ।।

लाजांते पृथुकं प्राक्च समर्प्य च सितोपलम् ।।
चतुःसप्ततिवारं यः प्रातरेवं प्रतर्पयेत् ।। ८०-१२९ ।।

ध्यात्वा कृष्णपदं मत्री मंडलादिष्टमाप्नुयात् ।।
धारोष्णपक्कपयसा नवनीतं दधीनि च ।। ८०-१३० ।।

दौग्धाम्रमाज्यं मत्स्यंडी क्षौद्रं कीलालमेव च ।।
पूजयेन्नवभिर्द्रव्यैः प्रत्येकं रविसंख्यया ।। ८०-१३१ ।।

एवमष्टोतरशतंसंख्याकं तर्पणं पुनः ।।
यः कुर्याद्वैष्णवश्रेष्टः पूर्वोक्तं फलमाप्नुयात् ।। ८०-१३२ ।।

किं बहूक्तेन सर्वेष्टदायकं तर्पणं त्विदम् ।।
ससितोपलधारोष्णदुग्धबुद्ध्या जलेन वै ।। ८०-१३३ ।।

कृष्णं प्रतपर्यन् ग्रामं व्रजन्प्राप्नोति साधकः ।।
धनवस्त्राणि भोज्यं च परिवारगणैः सह ।। ८०-१३४ ।।

यावत्संतर्पयेन्मंत्री तावत्संख्यं जपेन्मनुम् ।।
तर्पणेनैव कार्याणि साधयेदखिलान्यपि ।। ८०-१३५ ।।

काम्यहोममथो वक्ष्ये साधकानां हिताय च ।।
श्रीपुष्पैर्जुहुयान्मंत्री श्रियमिच्छन्निनिंदिताम् ।। ८०-१३६ ।।

साज्येनान्नेन जुहुयात्घृतान्नस्य समृद्धये ।।
वन्यपुष्पैर्द्विजान् जातीपुष्पैश्च पृथिवीपतीन् ।। ८०-१३७ ।।

असितैः कुसुमैर्वैश्यान् शूद्रान्नीलोत्पलैस्तथा ।।
वशयेल्लवणैः सर्वानंबुजैर्युवतीजनम् ।। ८०-१३८ ।।

गोशालासु कृतो होमः पायसेन ससर्पिषा ।।
गवां शांतिं करोत्याशु गोपालो गोकुलेश्वरः ।। ८०-१३९ ।।

शिक्षावेषधरं कृष्णं किंकिणीजालशोभितम् ।।
ध्यात्वा प्रतर्पयेन्मंत्री दुग्धबुद्ध्या शुभैर्जलैः ।। ८०-१४० ।।

धनं धान्यं सुतान्कीर्तिं प्रीतस्तस्मै ददाति सः ।।
ब्रह्मवृक्षसमिद्भिर्वा कुशैर्वा तिलतंदुलैः ।। ८०-१४१ ।।

जुहुयादयुतं मंत्री त्रिमध्वाक्तैर्हुताशने ।।
वशयेद्ब्राह्मणांश्चाथ राजवृक्षसमुद्भवैः ।। ८०-१४२ ।।

प्रसूनैः क्षत्रियान्वैश्यान्कुरंङकुसुमैस्तथा ।।
पाटलोत्थैश्च कुसुमैर्वशयेदंतिमान्सुधीः ।। ८०-१४३ ।।

श्वेतपद्मै रक्तपप्दैश्चंपकैः पाटलैः क्रमात् ।।
हुत्वायुतं त्रिमध्वाक्तैर्वशयेत्तद्वरांगनाः ।। ८०-१४४ ।।

नित्यं हयारिकुसुमौर्निशीथे त्रिमधुप्लुतैः ।।
वरस्त्रीर्वशयेत्प्राज्ञः सम्यग्धृत्वा दिनाष्टकम् ।। ८०-१४५ ।।

अयुतत्रितयं रात्रौ सिद्धार्थैस्त्रिमधुप्लुतैः ।।
प्रत्यहं जुह्वतो मासात्सुरेशोऽपि वशीभवेत् ।। ८०-१४६ ।।

आहृत्य बल्लवीवस्त्राण्यारूढं नीपभूरुहे ।।
स्मरेत्कृष्णं जपेद्रात्रौ सहस्रं खेंदूहात्सुधीः ।। ८०-१४७ ।।

हठादाकर्षयेच्छीघ्रमुर्वशीमपि साधकः ।।
बहुना किमिहोक्तेन मंत्रोऽयं सर्ववश्यकृत् ।। ८०-१४८ ।।

रहस्यं परमं चाथ वक्ष्ये मोक्षप्रदं नृणाम् ।।
ध्यायेत्स्वहृत्सरसिजे देवकीनंदनं विभुम् ।। ८०-१४९ ।।

श्रीमत्कुन्देंदुगौरं सरसिजनयनं शङ्खचक्रे गदाब्जे बिभ्राणं हस्तपद्मैर्नवनलिनलसन्मालयादीप्यमानम् ।।
वंदे वेद्यं मुनींद्रैः कणिकमुनिलसद्दिव्यभूषाभिरामं दिव्यांगालेपभासं सकलभयहरं पीतवस्त्रं नुरारिम् ।। ८०-१५० ।।

एवं ध्यात्वा पुमांसं स्फुटहृदयसरोजासनासीनमाद्यं सांद्रांभोदाच्छबिंबाद्भुतकनकनिभं संजपेदर्कलक्षम् ।।
मन्वोरेकं द्वितारांतरितमथः हुनेदर्कसाहस्रमिध्मैः क्षीरिद्रूत्थर्यथोक्तैः समधुघृतसितेनाथवा पायसेन ।। ८०-१५१ ।।

एवं लोकेश्वराराध्यं कृष्णं स्वहृदयांबुजे ।।
ध्यायन्ननुदिनं मंत्री त्रिसहस्रं जपेन्मनुम् ।। ८०-१५२ ।।

सायाह्नोक्तेन विधिना संपूज्य हवनं पुनः ।।
कृत्वा पूर्वोक्तविधिना मन्त्री तद्गतमानसः ।। ८०-१५३ ।।

एवं यो भजते नित्यं विद्वान् गोपालनंदनम् ।।
समुत्तीर्य भवांभोधिं स याति परमं पदम् ।। ८०-१५४ ।।

मध्ये केणेषु बाह्येष्वनलपुरपुटस्यालिखेत्कर्णिकायां कंदर्पं साध्ययुक्तं विवरगतषडर्णद्विषः केशरेषु ।।
शक्तिः श्रीपूर्विकाणिद्विनवलिपिमनोरक्षराणिच्छदानां मध्ये वर्णान्दशान्तो दशलिपिमनुवर्यस्य वैकैकशोऽब्जम् ।। ८०-१५५
।।

भूसद्मनाभिवृतमस्रगमन्मथेन गोरोचनाविलिखितं तपनीयसूच्या ।।
पट्टे हिरण्यरचिते गुलिकीकृतं तद्गोपालयंत्रमखिलार्थदमेतदुक्तम् ।। ८०-१५६ ।।

संयातसिक्तमभिजप्तमिमं महद्भिर्धार्यं जगत्त्रयवशीकरणैकदक्षम् ।।
रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्रमनर्घ्यवीर्यम् । ८०-१५७ ।।

स्मरस्त्रिविक्रमाक्रांतश्चाक्रीष्ट्याय हृदित्यसौ ।।
षडक्षरोऽयं संप्रोक्तः सर्वसिद्धिकरो मनुः ।। ८०-१५८ ।।

क्रोडः शान्तींदुवह्न्याढ्यो माया बीज प्रकीर्ततम् ।।
गोविंदवह्निचन्द्राढ्यो मनुः श्रीबीजमीरितम् ।। ८०-१५९ ।।

आभ्यामष्टादशक्लिपः स्याद्विंशत्यक्षरो मनुः ।।
शालग्रामे मणौ यंत्रे मंडले प्रतिमासु वा ।। ८०-१६० ।।

नित्यं पूजा हरेः कार्या न तु केवलभूतले ।।
एवं यो भजंते कृष्णं स याति परमां गतिम् ।। ८०-१६१ ।।

विंशार्णस्य मुनिर्ब्रह्मा गायत्री छन्द ईरितम् ।।
कृष्णश्च देवता कामो बीजं शक्तिर्द्विठो बुधैः ।। ८०-१६२ ।।

रामाग्निवेदवेदाब्धेर्नेत्रार्णैरंगकल्पनम् ।।
मूलेन व्यापकं कृत्वा मनुना पुटितानथ ।। ८०-१६३ ।।

मातृकार्णान्न्यसेत्तत्तत्स्थानेषु सुसमाहितः ।।
दशतत्त्वानि विन्यस्य मूलेन व्यापकं चरेत् ।। ८०-१६४ ।।

मंत्रन्यासं ततः कुर्याद्देवताभावसिद्धये ।।
शीर्षे ललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा ।। ८०-१६५ ।।

नसोर्वक्रे च चिबुके कण्ठे दोर्मूलके हृदि ।।
उदरे नाभिदेशे च लिंगे मूलसरोरुहे ।। ८०-१६६ ।।

कट्यां जान्वोर्जंघयोश्च गुल्फयोः पादयोः क्रमात् ।।
न्यसेद्धृदंतान्मंत्राणां सृष्टिन्यासोऽयमीरितः ।। ८०-१६७ ।।

हृदये चोदरे नाभौ लिंगे मूलसरोरुहे ।।
कट्यां जान्वोर्जंघयोश्च गुल्फयोः पादयोस्तथा ।। ८०-१६८ ।।

मूर्ध्नि कपोले भ्रूमध्ये नेत्रयोः कर्णयोर्नसोः ।।
वदने चिबुके कंठे दोर्मूले विन्यसेत्क्रमात् ।। ८०-१६९ ।।

नमोतान्मंत्रवर्णांश्च स्थितिन्यासोऽयमीरितः ।।
पादयोर्गुल्फयोश्चैव जंघयोर्जानुनोस्तथा ।। ८०-१७० ।।

कट्यां मूले ध्वजे नाभौ जठरे हृदये पुनः ।।
दोर्मूले कंठदेशे च चिबुके वदने नसोः ।। ८०-१७१ ।।

कर्णयोर्नेत्रयोश्चैव भ्रूमध्ये निटिले तथा ।।
मूर्ध्नि न्यसेन्मंत्रवर्णान्संहाराख्योऽयमीरितः ।। ८०-१७२ ।।

पुनः सृष्टिस्थितिन्यासौ विधाय वैष्णवोत्तमः ।।
मूर्तिपंजरनामानं विन्यसेत्पूर्ववत्ततः ।। ८०-१७३ ।।

पुनः षडंगं कृत्वाथ ध्यायेत्कृष्णं हृदंबुजे ।।
द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः ।। ८०-१७४ ।।

अनल्पैः कल्पवृक्षैश्च परीते मणिमण्डपे ।।
ज्वलद्रत्न मयस्तंभद्वारतोरणकुड्यके ।। ८०-१७५ ।।

फुल्लप्रफुल्लसञ्चित्रवितानालंबिमौक्तिके ।।
पद्मरागस्थलीराजद्रत्नसंघैश्च मध्यतः ।। ८०-१७६ ।।

अनारतगलद्रत्नधाराढ्यस्वस्तस्तरोरधः ।।
रत्नप्रदीपावलिभिः प्रदीपितदिगंतरे ।। ८०-१७७ ।।

उद्यदादित्यसंकाशमणिसिंहासनांबुजे ।।
समासीनोऽच्युतो ध्येयो द्रुतहाटकसन्निभः ।। ८०-१७८ ।।

समानोदितचंद्रार्कतडित्कोटिसमद्युतिः ।।
सर्वांगसुंदरः सौम्यः सर्वाभरणभूषितः ।। ८०-१७९ ।।

पीतवासाः शंखचक्रगदांभोजलसत्करः ।।
अनाहतोच्छलद्रत्नधारौघकलशं स्पृशन् ।। ८०-१८० ।।

वामपादांबुजाग्रेण मुष्णता पल्लवच्छविम् ।।
रुक्मिणीसत्यभामेऽस्य मूर्ध्नि रत्नौघधारया ।। ८०-१८१ ।।

सिंचंत्यौ दक्षवामस्थे स्वदोस्थकलशोत्थया ।।
नाग्नजिती सुनंदा च दिशंत्यौ कलशौ तयोः ।। ८०-१८२ ।।

ताभ्यां च दक्षवामस्थमित्रविंदासुलक्ष्मणे ।।
रत्ननद्याः समुद्धृत्य रत्नपूर्णौ घटौ तयोः ।। ८०-१८३ ।।

जांबवती सुशीला च दिशंत्यौ दक्षवामके ।।
बहिः षोडश साहस्रसंख्याकाः परितः प्रियाः ।। ८०-१८४ ।।

ध्येयाः कनकरत्नौघधारायुक्कलशोज्वलाः ।।
तद्बहिश्चाष्टनिधायः पूरयंतो धनैर्धराम् ।। ८०-१८५ ।।

तद्बहिर्वृष्णयः सर्वे पुरोवच्च स्वरादयः ।।
एवं ध्यात्वा जपेल्लक्षपंचकं तद्दशांशतः ।। ८०-१८६ ।।

अरुणैः कमलैर्हुत्वा पीठे पूर्वोदिते यजेत् ।।
विलिप्य गंधपंकेन लिखेदष्टदलांबुजम् ।। ८०-१८७ ।।

कर्णिकायां च षट्कोणं ससाध्यं तत्र मन्मथम् ।।
शिष्टैस्तु सप्तदशभिरक्षरैर्वेष्टयेत्स्वरम् ।। ८०-१८८ ।।

प्राग्रक्षोऽनिलकोणेषु श्रियं शिष्टेषु संविदम् ।।
षट्सु संधिषु षट्कर्णे केसरेषु त्रिशस्त्रिशः ।। ८०-१८९ ।।

विलिखेत्स्मरगायत्रीं मालामंत्रं दलाष्टके ।।
षटूषः संलिख्य तद्बाह्ये वेष्टयेन्मातृकाक्षरैः ।। ८०-१९० ।।

भूबिंबं च लिखेद्बाह्ये श्रीमायादिग्विदिक्ष्वपि ।।
भूग्रहं चतुरस्रं स्यादष्टवज्रविभूषितम् ।। ८०-१९१ ।।

एतद्यंत्रं हाटकादिपट्टेष्वालिख्य पूर्ववत् ।।
संस्कृतं धारयेद्यो वै सोऽर्च्यते त्रिदशैरपि ।। ८०-१९२ ।।

स्याद्गायत्री वामदेवपुष्पबाणौ तु ङेंतिमौ ।।
विद्महेधीमहियुतौ तन्नोऽनंगः प्रचोदयात् ।। ८०-१९३ ।।

जप्या जपादौ गोपालमनूनां जनरंजनी ।।
हृदयं कामदेवाय ङेंतं सर्वजनप्रियम् ।। ८०-१९४ ।।

उक्त्वा सर्वजनांते तु संमोहनपदं तथा ।।
ज्वल ज्वल प्रज्वलेति प्रोच्य सर्वजनस्य च ।। ८०-१९५ ।।

हृदयं मम च ब्रूयाद्वशंकुरुयुगं शिरः ।।
प्रोक्तो मदनमंत्रोऽष्टचत्वारिंशद्भिरक्षरैः ।। ८०-१९६ ।।

जपादौ स्मरबीजाद्यो जगत्त्रयवशीकरः ।।
पीठ प्राग्वत्समभ्यर्च्य मूर्ति संकल्प्य मूलतः ।। ८०-१९७ ।।

तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् ।।
आसनादिविभूषांतं पुनर्न्यासक्रमाद्यजेत् ।। ८०-१९८ ।।

सृष्टिं स्थितिं षडंगं च किरीटं कुंडलद्वयम् ।।
शंखं चक्रं गदां पद्मं मालां श्रीवत्सकौस्तुभौ ।। ८०-१९९ ।।

गन्धपुष्पैः समभ्यर्च्य मूलेन वैष्णवोत्तमः ।।
षट्कोणेषु षडंगानि दिग्दलेषु क्रमाद्यजेत् ।। ८०-२०० ।।

वासुदेवादिकान्कोणेषु तु शांत्यादिकांस्ततः ।।
पत्राग्रगा महिष्योऽष्टौ यजेत्साधकसत्तमः ।। ८०-२०१ ।।

ततः षोडशसाहस्रं सकृदेवार्चयेत्प्रियाः ।।
इंद्रनीलमुकुंदांश्च करालानंदकच्छपान् ।। ८०-२०२ ।।

शंखपद्मौ ततः पद्मान्निधीनष्टौ क्रमाद्यजेत् ।।
तद्बहिर्लोकपालांश्च वज्राद्यानपि पूजयेत् ।। ८०-२०३ ।।

एवं सप्तावृत्तिवृतं कृष्णमभ्यर्च्य चादरात् ।।
प्रीणयेद्दधिखंडाज्यमिश्रेण तु पयोंऽधसा ।। ८०-२०४ ।।

दिव्योपचारं दत्वाथ स्तुत्वा नत्वा च केशवम् ।।
उद्वासयेत्स्वहृदये परिवारगणैः सह ।। ८०-२०५ ।।

न्यस्यात्मानं समभ्यर्च्य तन्मयो विहरेत्सुधीः ।।
रत्नाभिषेकध्यानेज्या विंशत्यर्णाश्रिते रिता ।। ८०-२०६ ।।

एवं यो भजते मन्त्रं स समृद्धेः पदं भवेत् ।।
जपहोमार्चनध्यानैर्यो मनुं प्रजपेदमुम् ।। ८०-२०७ ।।

तद्वेश्म पूर्यते रत्नैः रवर्णधान्यैरनारतम् ।।
पृथ्वी पृथ्वी करे तस्य सर्वसस्यसमाकुला ।। ८०-२०८ ।।

पुत्रैर्मित्रैः सुसंपन्नः प्रयात्यंते परां गतिम् ।।
वह्नावभ्यर्च्य गोविंदं शुक्लपुष्पैः सतंदुलैः ।। ८०-२०९ ।।

आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् ।।
तस्यान्नादिसमृद्धिः स्यात्तदूशे सर्वयोषितः ।। ८०-२१० ।।

रक्तांभोजैस्त्रिमध्वक्तैर्हुनेल्लक्षं समाहितः ।।
श्रिया तस्यैंद्रमैश्वर्यं तृणलेशायते ध्रुवम् ।। ८०-२११ ।।

त्रिमध्वक्तैः सितैः पुष्पैरष्टोत्तरसहस्रकम् ।।
यो हुनेत्प्रत्यहं मासात्पुरोधा नृपतेर्भवेत् ।। ८०-२१२ ।।

एवमादिप्रयोगांश्च साधयेन्मनुनामुना ।।
मन्त्रराजमथो वक्ष्ये दशार्णं सर्वसिद्धिदम् ।। ८०-२१३ ।।

स्मृतिः सद्यान्विता साक्षिर्लोहितो जनवल्लभा ।।
पवनोऽग्निप्रियांतोऽयं दशार्णो मन्त्र ईरितः ।। ८०-२१४ ।।

नारदोऽस्य मुनिश्छंदो विराट् कृष्णोऽस्य देवता ।।
कामो बीजं वह्निजाया शक्तिः प्रोक्ता मनीषिभिः ।। ८०-२१५ ।।

आचक्रं च विचक्रं च सुचक्रं तदनन्तरम् ।।
त्रैलोक्यरक्षणं चक्रमसुरांतकगचक्रकम् ।। ८०-२१६ ।।

एतैर्ङेठद्वयांतैश्च चक्रैः पंचांगकं मनोः ।।
ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः ।। ८०-२१७ ।।

सेंदून्हृदंतान्मंत्रार्णान्प्रणवांतरितान्न्यसेत् ।।
दक्षांगुष्ठाच्च वामांगुष्ठांतमंगुलिपर्वसु ।। ८०-२१८ ।।

सृष्टिन्यासोऽयमुदितः स्थितिन्यासोऽधुनोच्यते ।।
न्यसेद्वामकनिष्ठादिकनिष्टांतं स्थितौ सुधीः ।। ८०-२१९ ।।

वामांगुष्ठान्न्यसेद्दक्षां गुष्ठांतं संहृतौ तथा ।।
संहृतिर्दोषसंघातहारिणी परिकीर्तिता ।। ८०-२२० ।।

विद्याप्रदश्च सृष्ट्यंतो वर्णिनां शुद्धचेतसाम् ।।
स्थित्यंतः स्याद्गृहस्थानामेवं काम्यादिरूपतः ।। ८०-२२१ ।।

संहारांते मुनींद्राणां विरक्तानां च सर्वशः ।।
पुनः स्थितिक्रमेणार्णान्मनोरंगुलिषु न्यसेत् ।। ८०-२२२ ।।

पुनश्चक्रैश्च पूर्वोक्तैः पंचागं करयोर्न्यसेत् ।।
ततो मूलेन पुटितान्मातृकार्णान्सबिंदुकान् ।। ८०-२२३ ।।

विन्यसेन्मातृकान्यासस्थानेषु प्रणतः सुधीः ।।
ततस्तारपुटं मूलं व्यापकत्वेन विन्यसेत् ।। ८०-२२४ ।।

संहारसृष्टिभेदेन दशतत्त्वानि विन्यसेत् ।।
नमोंतमूलमंत्रार्णपदायाम्यानि चात्मने ।। ८०-२२५ ।।

मत्यंतानि च तत्त्वानि पृथिव्याद्यानि च क्रमात् ।।
पृथ्वी जलं तथा वह्निर्वायुराकाशमेव च ।। ८०-२२६ ।।

अहंकारो महत्तत्वं प्रकृतिं पुरुषं परम् ।।
प्रविन्यसेन्मस्तके च नेत्रयोः श्रोत्रयोर्नसोः ।। ८०-२२७ ।।

वदने हृदये नाभौ लिंगे जान्वोश्च पादयोः ।।
प्रणवांतरितान्वर्णान्हृदंतान्विज्यसेन्मनोः ।। ८०-२२८ ।।

सृष्टिन्यासोऽयमाख्यातः स्थितिन्यासं श्रृणु द्विज ।।
हृदि नाभौ ध्वजे जान्वोः पादयोर्मस्तके पुनः ।। ८०-२२९ ।।

नेत्रयोः कर्णयोर्घ्राणे वदने विन्यसेत्क्रमात् ।।
पदोर्जान्वोर्लिंगदेशे नाभौ हृदि मुखे नसोः ।। ८०-२३० ।।

कर्णयोर्नेत्रयोर्मूर्ध्नि संहाराख्योऽयमीरितः ।।
सृष्ट्यंतो वर्णिनांन्यासः स्थित्यंतोगृहमेधिनाम् ।। ८०-२३१ ।।

यतेर्वैराग्ययुक्तस्य संहारांतः प्रकीर्तितः ।।
चतुर्द्धा वर्णिनां चैव गृहस्थानां च पंचधा ।। ८०-२३२ ।।

यतीनां च त्रिधा न्यासः प्रोक्तोऽयं क्रमतः शुभः ।।
केचिद्विरक्ते गृहगे संहारांतं विदुर्बुधाः ।। ८०-२३३ ।।

विभूतिपंजरं न्यासं कुर्यादिष्टाप्तये ततः ।।
मनोर्दशावृत्तिमयं कृष्णसांनिध्यकारकम् ।। ८०-२३४ ।।

आधारे च ध्वजे नाभौ हृदि कंठे मुखे शये ।।
ऊर्वोश्च कंधरायां च नाभौ कुक्षौ तथा हृदि ।। ८०-२३५ ।।

स्तनयोः पार्श्वयोः श्रोण्योर्मस्तकेवदनेतथा ।।
नेत्रयोः कर्णयोर्नासापुटयोश्च कपोलयोः ।। ८०-२३६ ।।

एवं दक्षिणदोर्मूससंध्यग्रेष्वंगुलीषु च ।।
ततः शिरसि तत्पूर्वाद्यांशासु स्वकलासु च ।। ८०-२३७ ।।

दोष्णोः सक्थ्नोः शिरोक्ष्यास्यकंठहृज्जठरेषु च ।।
मूलाधारे लिंगदेशे जानुनोः पादयोस्तथा ।। ८०-२३८ ।।

श्रोत्रगंडांसवक्षोजपार्श्वलिंगेषु विन्यसेत् ।।
ऊर्वोर्जान्वोर्जंघयोश्च पादयोर्विन्यसेत्क्रमात् ।। ८०-२३९ ।।

विभूतिपंजराख्योऽयं न्यासः सर्वार्थसिद्धिदः ।।
अनेन न्यासवर्येण साक्षात्कृष्णतनुर्भवेत् ।। ८०-२४० ।।

मूर्ति पंजरनामानं न्यासं पूर्वोदितं न्यसेत् ।।
ततो दशांगपंचांगौ न्यासवर्यौ न्यसे क्रमात् ।। ८०-२४१ ।।

हृदि मूर्ध्नि शिखायां च सर्वांगे दिक्षु पार्श्वयोः ।।
कट्यां पृष्ठे तथा मूर्ध्नि विन्यसेद्वैष्णवोत्तमः ।। ८०-२४२ ।।

पंचांगानि न्यसेद्भूयश्चक्रैः प्राग्वत्समाहितः ।।
अन्योऽप्यष्टादशार्णोक्तः कर्तव्यो न्याससंचयः ।। ८०-२४३ ।।

ततः किरीटमंत्रेण व्यापकं रचयेत्सुधीः ।।
वेणुबिल्वादिमुद्रांश्च दर्शयेत्साधकोत्तमः ।। ८०-२४४ ।।

सुदर्शनस्य मंत्रेण कुर्याद्दिग्बंधनं ततः ।।
अनंगुष्ठाश्च ऋजवः करशाखा भवंति चेत् ।। ८०-२४५ ।।

हृन्मुद्रेयं समाख्याता शिरोमुद्रा तथा भवेत् ।।
अधोंगुष्ठा तु या मुष्टिः शिखामुद्रेयमीरिता ।।
प्रसारितकरांगुल्योर्वर्ममुद्रेयमीरिता ।। ८०-२४६ ।।

नाराचमुष्ट्या धृतबाहुयुग्मः अंगुष्ठतर्जन्युदितो ध्वनिस्तु ।।
विष्वग्विमुक्ता कथितास्त्रमुद्रा यत्राक्षिणी तर्जनिमध्यमे च ।। ८०-२४७ ।।

ओष्ठे वामकरांगुष्टो लग्नस्तस्य कनिष्टिका ।।
दक्षिणांगुष्टसंसक्ता तत्कनिष्ठा प्रसारिता ।। ८०-२४८ ।।

तर्जनी मध्यमानामा किंचित्सकुंच्य चालिता ।।
वेणुमुद्रेयमुदिता सुगुप्ता प्रेयसी हरेः ।।
नोच्यंते तत्र सिद्धत्वान्मालाश्रीवत्सकौस्तुभाः ।। ८०-२४९ ।।

वामांगुष्ठं समुद्रं तमपरकरांगुष्ठकेनाथ बद्ध्वा संपीड्याग्रं च दक्षांगुलिभिरपि च तां वामहस्तांगुलीभिः ।।
गाढं बद्ध्वा स्वकीये हृदयसरसिजे स्थापयेत्कामबीजं प्रोच्चार्यैषा तु गोप्या सकलसुखकरी विल्वमुद्रा मुनींद्रैः ।। ८०-२५० ।।

कायेन मनसा वाचा यत्पापं समुपार्जितम् ।।
मुद्राया ज्ञान मात्रेण सर्वं नाशमुपैष्यति ।। ८०-२५१ ।।

ध्यानं जपस्त्रिकालार्चा कार्या पूर्वोदिता मनोः ।।
सर्वेष्वेकः क्रमः प्रोक्तो दशार्णाष्टादशार्णयोः ।। ८०-२५२ ।।

एवं सिद्धे मनौ मंत्री प्रयोगान्कर्तुमर्हति ।।
उद्दंडबाहुदोर्दंहधृतगोवर्द्धनाचलम् ।। ८०-२५३ ।।

अन्यहस्तागुलीव्यक्तस्वरवंशार्पिताननम् ।।
ध्यायन्कृष्णं जपेन्मंत्रं व्रजेच्छत्रं विना सुधीः ।। ८०-२५४ ।।

वर्षवाताशनिभ्योऽपि भयं तस्य न जायते ।।
मोघमेधौघव्राताद्गगतेन्द्रं तं स्मरन्हुनेत् ।। ८०-२५५ ।।

लोणैरयुतसंख्यैः स्यादनावृष्टिर्न संशयः ।।
क्रीडंतमर्कजातीरे मज्जनस्नापनादिभिः ।। ८०-२५६ ।।

तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः ।।
ध्यात्वायुतं पयः सिक्तैर्हुनेद्वा नीरतर्पणैः ।। ८०-२५७ ।।

वृष्टिर्भवत्यकालेऽपि महती नात्र संशयः ।।
सदाहमोहैरार्तस्य विस्फोटकज्वरादिभिः ।। ८०-२५८ ।।

अमुमेव स्मरन्मूर्ध्नि जपेच्छांतिर्भवेत्क्षणात् ।।
अथवा गरुडारूढं प्रद्युम्नबलसंयुतम् ।। ८०-२५९ ।।

निजज्वरनिष्पिष्टज्वराभिष्टुतमच्युतम् ।।
ध्यात्वा मूर्ध्नि जपेन्मंत्रं ज्वरमुक्तो भवेज्ज्वरी ।। ८०-२६० ।।

ध्यात्वैवमग्नावभ्यर्च्य यथोक्तैश्चतुरंगुलैः ।।
जुहुयादमृताखण्डैरयुतं ज्वरशांतये ।। ८०-२६१ ।।

शिलीमुखविनिर्भिन्नभीष्मतापहरं हरिम् ।।
ध्यात्वा जपेत्स्पृशन्नार्तं पाणिभ्यां ज्वरशांतये ।। ८०-२६२ ।।

सांदीपनाय ददतं पुत्रं ध्यात्वायुतं हुनेत् ।।
यथोक्तैरमृताखंडैरपमृत्युनिवृत्तये । ८०-२६३ ।।

सपार्थं मृतपुत्रायार्पयंतं च द्विजन्मने ।।
सुतं ध्यात्वा जपेल्लक्षं पुत्रपौत्रादिवृद्धये ।। ८०-२६४ ।।

पुत्रजीवफलैर्हुत्वायुतं मधुरसंप्लुतैः ।।
तत्काष्ठैरेधिते वह्नौ सुतान्दीर्घायुषो लभेत् ।। ८०-२६५ ।।

क्षीरद्रुक्त्वाथसंपूर्णमभ्यर्च्य कलशं निशि ।।
प्रातर्ज्जप्त्वायुतं नारीमभिषिंचेद्दिषड्दिनम् ।। ८०-२६६ ।।

एवं कृते तु वंध्यापि लभेत्पुत्रांश्चिरायुषः ।।
प्रातर्वाचंयमाश्वत्थदलसंपुटकं जलम् ।। ८०-२६७ ।।

अष्टोत्तरशतं जप्तं मासं पुत्रार्थिनी पिबेत् ।।
सर्वलक्षणसंपन्नं वंध्यापि लभते सुतम् ।। ८०-२६८ ।।

जित्वा कृत्यां काशिराजप्रेषितां च निजारिणः ।।
तेजसा तस्य नगरं दहंतं भावयन्हरिम् ।। ८०-२६९ ।।

हुनेत्सप्तदिनं मंत्री सुस्नेहाक्तैश्च सर्षपैः ।।
कृत्याकर्तारमेवास्मै कुपिता नाशयेद्ध्रुवम् ।। ८०-२७० ।।

बदरीद्रुमसंकीर्णे स्थितं दिव्याश्रमे शुभे ।।
स्पृशंतं करपद्माभ्यां घंटाकर्णकलेवरम् ।। ८०-२७१ ।।

ध्यात्वैवं जुहुयाल्लक्षं तिलैस्त्रिमधुराप्लुतैः ।।
महापापयुतोऽप्येवं पूतो भवति तत्क्षणात् ।। ८०-२७२ ।।

द्यूतासक्तौ रुक्मिबलौ द्वेषयंतं हरिं स्मरन् ।।
जुहुयादिष्टयोर्द्विष्ट्यै गुलिका गोमयोद्भवाः ।। ८०-२७३ ।।

नित्यं सहस्रं सप्ताहान्मिथो विद्वेषयेदरीन् ।।
वर्षंतं गरुडारूढं ज्वलदग्निमुखैः शरैः ।। ८०-२७४ ।।

धावंतं रिपुसंघातमनुधावतमच्युतम् ।।
ध्यात्वा सप्तसहस्रं तु जपेन्मंत्रमनन्यधीः ।। ८०-२७५ ।।

उच्चाटनं भवत्येव शत्रूणां सप्तभिर्दिनैः ।।
ध्यायन्नुत्क्षिप्तवत्सं तु कपित्थफलहारिणम् ।। ८०-२७६ ।।

प्रजपेदयुतं शत्रुमुञ्चाटयति तत्क्षणात् ।।
आत्मानं कंसमथनं ध्यायन्मंचान्निपातितम् ।। ८०-२७७ ।।

कंसात्मानं व्यकर्षन्तं गतासुं तं जपेन्मनुम् ।।
रिपुजन्मर्क्षवृक्षोत्थसमिद्भिरयुतं निशि ।। ८०-२७८ ।।

जुहुयादेवमुग्रोऽपि सपत्नो निधनं व्रजेत् ।।
अथवा निंबतैलाक्तैर्हुनेधोभिरक्षजैः ।। ८०-२७९ ।।

अयुतं नियतो रात्रौ मारयेदचिरादरीन् ।।
निशादिष्टदलव्योषकार्पासास्थिकरैर्निशि ।। ८०-२८० ।।

हुनेदेरंडतैलाक्तैः श्मशाने रिपुशांतये ।।
न शस्तं मारणं कर्म कुर्य्याञ्चेदयुतं हुनेत् ।। ८०-२८१ ।।

पायसैर्वा हुनेत्तावच्छांतये शांतमानसः ।।
पारिजातहरं कृष्णं ध्यायन् लक्षं जपेन्मनुम् ।। ८०-२८२ ।।

सर्वत्रैव जयस्तस्य न कदापि पराजयः ।।
व्याख्यामुद्राकरं कृष्णं रथस्थं भावयञ्जपेत् ।। ८०-२८३ ।।

पार्थे दिशंतं गीतार्थं धर्मवृद्ध्यै सुमानवः ।।
पावाशपुष्पैर्मध्वक्तैर्लक्षं विद्याप्तयेहुनेत् ।। ८०-२८४ ।।

राष्ट्रपूर्ग्रामवस्तूनां शरीरस्यापि रक्षणे ।।
विश्वरूपधर प्रोद्यद्भानुकोटिसमप्रभम् ।। ८०-२८५ ।।

अग्रीषोमात्मकं कृष्णं द्रुतचामीकरप्रभम् ।।
अर्काग्निद्योतितास्यांघ्रिंप्रंकज दिव्यभूषणम् ।। ८०-२८६ ।।

नानायुधधरं प्राप्तं विश्वाकाशावकाशकम् ।।
ध्यात्वा लक्ष जपेन्मन्त्रं रक्षणाय समाहितः ।। ८०-२८७ ।।

रक्तैर्वन्यप्रसूनैर्यो दिनादौ पूजयेद्धरिम् ।।
दिनमध्योक्तविधिना जपेदष्टोत्तरं शतम् ।। ८०-२८८ ।।

सहस्रमंडलान्मन्त्री वशयेन्मुखरान्द्विजान् ।।
जातिपुष्पैः क्षत्रियांश्च गोपवेषधरं स्मरन् ।। ८०-२८९ ।।

ध्यायन् क्रीडारतं कृष्णं रक्तैरश्वारिपुष्पकैः ।।
वशयेद्वैश्यजातीयान् शूद्रान्नीलोत्पलैः स्मरन् ।। ८०-२९० ।।

गीतनृत्यरतं श्वेतपुष्पैः साज्यैश्च तंदुलैः ।।
हुत्वान्वहं सप्तदिनं भस्म भाले च मूर्द्धनि ।। ८०-२९१ ।।

धारयन्वशयेत्कांतां सापि तद्वत्पतिं ध्रुवम् ।।
तांबूलं कुसुमं वासोंऽजनं चंदनमेव च ।। ८०-२९२ ।।

सहस्रं मनुना जप्तं दद्याद्यस्मै नराय च ।।
सोऽचिरादेष वशगः सपुत्रपशुबांधवः ।। ८०-२९३ ।।

वृन्दारण्यस्थितं ध्यायन्बल्लवीसंयुतं हरिम् ।।
अपामार्गसमिद्भिस्तु हुत्वा तु वशयेज्जगत् ।। ८०-२९४ ।।

संप्राप्य सद्गुरो र्दीक्षां कृष्णं यो विधिनामुना ।।
अर्चयेद्वैष्णवश्रेष्ठः सोऽष्टसिद्धीश्वरो भवेत् ।। ८०-२९५ ।।

तस्य दर्शनमात्रेण वादिनो निष्प्रभाः स्मृताः ।।
वसेत्सरस्वती वक्रे गृहे चापि सभासदः ।। ८०-२९६ ।।

भुक्त्वा नानाविधान्भोगानंते विष्णुपदं व्रजेत् ।। ८०-२९७ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे कृष्णमन्त्रनिरूपणं नामाशीतितमोऽध्यायः ।। ८० ।।