नारदपुराणम्- पूर्वार्धः/अध्यायः १२०
सनातन उवाच ।।
एकादश्यां तु दलयोर्निराहारः समाहितः ।।
नानापुष्पैर्मुने कृत्वा विचित्रं मण्डपं शुभम् ।। १२०-१ ।।
स्रात्वा सम्यग्विधानेन सोपवासो जितेंद्रियः ।।
संपूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः ।। १२०-२ ।।
उपचारैर्बहुविधैर्जपैर्होमैः प्रदक्षिणैः ।।
स्तोत्रपाठैर्बहुविधैर्गीतवाद्यैर्मनोहरैः ।। १२०-३ ।।
दंडवत्प्रणिपातैश्च जयशब्दैर्मनोहरैः ।।
रात्रौ जागरणं कृत्वा याति विष्णोः परं पदम् । १२०-४ ।।
चैत्रस्य शुक्लैकादश्यां सोपवासो नरोत्तमः ।।
कृत्वा च नियमान्सर्वान्वक्ष्यमाणान्दिनत्रये ।। १२०-५ ।।
द्वादश्यामर्चयेद्भक्तया वासुदेवं सनातनम् ।।
उपचारैः षोडशभिस्ततः संभोज्य बांधवान् ।। १२०-६ ।।
दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत च स्वयम् ।।।
इयं तु कामदा नाम सर्वपातकनाशिनी ।। १२०-७ ।।
भुक्तिमुक्तिप्रदा विप्र भक्त्या सम्यगुपोषिता ।।
वैशाखकृष्णैकादश्यां समुपोष्य विधानतः ।। १२०-८ ।।
वरूथिनीं परदिने पूजयेन्मृधुसूदनम् ।।
स्वर्णान्नकन्याधेनूनां दानमत्र प्रशस्यते ।। १२०-९ ।।
वरूथिनीव्रतं कृत्वा नरो नियमतत्परः ।।
सर्वपाप विनिर्मुक्तो वैष्णवं लभते पदम् ।। १२०-१० ।।
वैशाखशुक्लैकादश्यां समुपोष्य च मोहिनीम् ।।
स्नात्वा परेऽह्नि संपूज्य गंधाद्यैः पुरुषोत्तमम् ।। १२०-११ ।।
संभोज्य विप्रान्मुच्येत पातकेभ्यो न संशयः ।।
ज्येष्ठस्य कृष्णकादश्यां समुपोष्य परां नृप ।। १२०-१२ ।।
द्वादश्यां नैत्यिकं कृत्वा समभ्यर्च्य त्रिविक्रमम् ।।
ततो द्विजाग्र्यान्संभोज्य दत्वा तेभ्यश्च दक्षिणाम् ।। १२०-१३ ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ।।
ज्येष्ठस्य शुक्लैकादश्यां निर्जलां समुपोष्य तु ।। १२०-१४ ।।
उदयादुदयं यावद्भास्करस्य द्विजोत्तम ।।
प्रभाते कृतनित्यस्तु द्वादश्यामुपचारकैः ।। १२०-१५ ।।
ह्यषीकेशं समभ्यर्च्य विप्रान् संभोज्य भक्तितः ।।
चतुर्विंशैकादशीनां फलं यत्तत्समाप्नुयात् ।। १२०-१६ ।।
आषाढकृष्णैकादश्यां योगिनीं समुपोष्य वै ।।
नारायणं समभ्यर्च्य द्वादश्यां कृतनित्यकः ।। १२०-१७ ।।
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ।।
सर्वदानफलं प्राप्य मोदते विष्णुमन्दिरे ।। १२०-१८ ।।
आषाढशुक्लैकादश्यां यद्विधानं श्रृणुष्व तत् ।।
उपोष्य तस्मिन् दिवसे विधिवन्मंडपे शुभे ।। १२०-१९ ।।
स्थापयेत्प्रतिमां विष्णोः शंखचक्रगदांबुजैः ।।
लसच्चतुर्भुजामग्र्यां कांचनीं वाथ राजतीम् ।। १२०-२० ।।
पीतांबरधरां शुभ्रे पर्य्यंके स्वास्तृते द्विज ।।
ततः पंचामृतैः स्नाप्य मन्त्रैः शुद्धजलेन च ।। १२०-२१ ।।
पौरुषेणैव सूक्तेन ह्युपचारान् प्रकल्पयेत् ।।
नीराजनांतान्पाद्यादींस्ततः संप्रार्थयेद्धरिम् ।। १२०-२२ ।।
सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् ।।
विबुद्धे त्वयि बुद्धं च जगत्सर्वं चराचरम् ।। १२०-२३ ।।
इति संप्रार्थ्य देवाग्रे चातुर्मास्यप्रचोदितान् ।।
नियमांस्तु यथाशक्ति गृह्णीयाद्भक्तिमान्नरः ।। १२०-२४ ।।
ततः प्रभाते द्वादश्यां समर्चेच्छेषशायिनम् ।।
उपचारैः षोडशभिस्ततः संभोज्य वाडवान् ।। १२०-२५ ।।
प्रतोष्य दक्षिणाभिश्च स्वयं भुञ्जीत वाग्यतः ।।
ततः प्रभृति विप्रेंद्र गन्धाद्यैः प्रत्यहं यजेत् ।। १२०-२६ ।।
कृत्वैवं विधिना विप्र देवस्य शयनीव्रतम् ।।
भुक्तिमुक्तियुतो मर्त्यो भवेद्विष्णोः प्रसादतः ।। १२०-२७ ।।
श्रावणे कृष्णपक्षे तु एकादश्यां द्विजोत्तम ।।
कामिकां समुपोष्यैव नियमेन नरोत्तम ।। १२०-२८ ।।
द्वादश्यां कृतनित्यस्तु श्रीधरं पूजयेद्धरिम् ।।
उपचारैः षोडश भिस्ततः संभोज्य वै द्विजान् ।। १२०-२९ ।।
दत्वा च दक्षिणां तेभ्यो विसृज्याश्नीत बांधवैः ।।
एवं यः कुरुते विप्रकामिकाव्रतमुत्तमम् ।। १२०-३० ।।
स सर्वकामाँल्लब्ध्वेह याति विष्णोः परं पदम् ।।
एकादश्यां नभःशुक्ले पवित्रां समुपोष्य वै ।। १२०-३१ ।।
द्वादश्यां नियतो भूत्वा पूजयेच्च जनार्दनम् ।।
उपचारैः षोडशभिस्ततः संभोज्य वाडवान् ।। १२०-३२ ।।
दत्वा च दक्षिणां तेभ्यः पुत्रं प्राप्येह सद्गुणम् ।।
याति विष्णोः पदं साक्षात्सर्वदेवनमस्कृतः ।। १२०-३३ ।।
नभस्यकृष्णैकादश्यामजाख्यां समुपोष्य वै ।।
अर्चेदुर्पेंद्रं द्वादश्यामुपचारैः पृथग्विधैः ।। १२०-३४ ।।
विप्रान्संभोज्य मिष्टान्नैर्विसृजेत्प्राप्तदक्षिणान् ।।
एवं कृतव्रतो विप्रभक्त्याऽजायाः समाहितः ।। १२०-३५ ।।
भुक्त्वेह भोगानखिलान्यात्यंते वैष्णवं क्षयम् ।।
नभस्यशुक्लैकादश्यां पद्माख्यां समुपोष्य वै ।। १२०-३६ ।।
कृत्वा नित्यार्चनं तत्र कटिदानमथाचरेत् ।।
पूर्वं संस्थापितायास्तु प्रतिमाया द्विजोत्तम ।। १२०-३७ ।।
समुत्सवविधानेन नीत्वा तां सलिलाशये ।।
कृतांबुस्पर्शनां तत्र संप्रपूज्य विधानतः ।। १२०-३८ ।।
आनीय मण्डपे तस्मिन् वामपार्श्वेन शाययेत् ।।
ततः प्रभाप्ते द्वादश्यां गन्धाद्यैरर्च्य वामनम् ।। १२०-३९ ।।
संभोज्य वाडवान्दत्वा दक्षिणां च विसर्जयेत् ।।
एवं यः कुरुते विप्र पद्माव्रतमनुत्तमम् ।। १२०-४० ।।
भुक्तिं प्राप्येह मुक्तिं तु लभतेंऽते प्रपंचतः ।।
इषस्य कृष्णैका दश्यामिंदिरां समुपोष्य वै ।। १२०-४१ ।।
शालग्रामशिलाग्रे तु मध्याह्ने श्राद्धमाचरेत् ।।
विष्णोः प्रीतिकरं विप्र ततः प्रातर्हरेर्दिने ।। १२०-४२ ।।
पद्मनाभं समभ्यर्च्य भूदेवान्भोजयेत्सुधीः ।।
विसृज्य दक्षिणां दत्वा ताँस्ततोऽश्नीत च स्वयम् ।। १२०-४३ ।।
एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् ।।
पितॄणां कोटिमुद्धृत्य यात्यंते वैष्णवं गृहम् ।। १२०-४४ ।।
एकादश्यामिषे शुक्ले विप्र पाशांकुशाह्वयाम् ।।
उपोष्य विधिवद्विष्णोर्दिने विष्णुं समर्चयेत् ।। १२०-४५ ।।
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ।।
भक्त्या प्रणम्य विसृजेदश्नीयाच्च स्वयं ततः ।। १२०-४६ ।।
एवं यः कुरुते भक्त्या नरः पाशांकुशाव्रतम् ।।
स भुक्त्वेह वरान्भोगान्याति विष्णोः सलोकताम् ।। १२०-४७ ।।
कार्तिके कृष्णपक्षे तु एकादश्यां द्विजोत्तम ।।
रमामुपोष्य विधिवद्द्वादश्यां प्रातरर्चयेत् ।। १२०-४८ ।।
केशवं केशिहंतारं देवदेवं सनातनम् ।।
भोजयेच्च ततो विप्रान्विसृजेल्लब्धदक्षिणान् ।। १२०-४९ ।।
एवं कृतव्रतो विप्र भोगान्भुक्त्वेह वांछितान् ।।
व्योमयानेन सांनिध्यं लभते च रमापतेः ।। १२०-५० ।।
ऊर्जस्य शुक्लैकादश्यां समुपोष्य प्रबोधिनीम् ।।
केशवं बोधयेद्रात्रौ सुप्तं गीतादिमंगलैः ।। १२०-५१ ।।
ऋग्यजुःसाममंत्रैश्च वाद्यैर्नानाविधैरपि ।।
द्राक्षेक्षुदाडिमैश्चान्यै रंभाश्रृंगाटकादिभिः ।। १२०-५२ ।।
समर्पणैस्ततो रात्र्यां व्यतीतायां परेऽहनि ।।
स्नात्वा नित्यक्रियां कृत्वा गदादामोदरं यजेत् ।। १२०-५३ ।।
उपचारैः षोडशभिः पौरुषेणापि सूक्ततः ।।
संभोज्य विप्रान्विसृजेद्दक्षिणाभिः प्रतोषितान् ।। १२०-५४ ।।
ततस्तां प्रतिमां हैमीं सधेनुं गुरवेऽर्पयेत् ।।
एवं यः कुरुते भक्त्या बोधिनीव्रतमादृतः ।। १२०-५५ ।।
स भुक्त्वेह वरान्भोगान्वैष्णवं लभते पदम् ।।
मार्गस्य कृष्णैकादश्यामुत्पन्नां समुपोष्य वै ।। १२०-५६ ।।
द्वादश्यां कृष्णमभ्यर्चेद्गंधाद्यैरुपचारकैः ।।
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यश्च दक्षिणाम् ।। १२०-५७ ।।
विसृज्य पश्चाद्भुंजीत स्वयमिष्टैः समाहितः ।।
एवं यो भक्तिभावेन उत्पन्नाव्रतमाचरेत् ।। १२०-५८ ।।
स विमानं समारुह्य यात्यंते वैष्णवं पदम् ।।
मार्गस्य शुक्लैकादश्यां मोक्षाख्यां समुपोष्य वै ।। १२०-५९ ।।
द्वादश्यां प्रातरभ्यर्च्य ह्यनंतं विश्वरूपकम् ।।
सर्वैरेवोपचारैस्तु विप्रान्संभोजयेद्द्विजः ।। १२०-६० ।।
विसृज्य दक्षिणां दत्वा स्वयं भुंजीत बांधवैः ।।
एवं कृत्वा व्रतं विप्र भुक्त्वा भोगानिहेप्सितान् ।। १२०-६१ ।।
दश पूर्वान्दश परान्समुद्धृत्य व्रजेद्धरिम् ।।
पौपस्य कृष्णैकादश्यां सफलां समुपोष्य वै ।।
द्वादश्यामच्युतं प्रार्च्य सर्वैरेवोपचारकैः ।। १२०-६२ ।।
संभोज्य विप्रान्मधुरैर्विसृजेल्लब्धदक्षिणान् ।।
एवं कृत्वा व्रतं विप्र सफलाया विधानतः ।। १२०-६३ ।।
भुक्त्वेह भोगानखिलान्यात्यंते वैष्णवं पदम् ।।
पौषस्य शुक्लैकादश्यां पुत्रदां समुपोष्य वै ।। १२०-६४ ।।
द्वादश्यां चक्रिणं प्रार्येदर्घाद्यैरुपचारकैः ।।
ततः संभोज्य विप्राग्र्यान्दत्वा तेभ्यस्तु दक्षिणाम् ।। १२०-६५ ।।
विसृज्य स्वयमश्नीयाच्छेषान्नं स्वेष्टबांधवैः ।।
एवं कृतव्रतो विप्र भुक्वा भोगानिहेप्सितान् ।। १२०-६६ ।।
विमानवरमारुह्य यात्यंते हरिमंदिरम् ।।
माघम्य कृष्णैकादश्यां षट्तिलां समुपोष्य वै ।। १२०-६७ ।।
स्नात्वा दत्वा तर्पयित्वा हुत्वा भुक्त्वा समर्च्य च ।।
तिलैरेव द्विजश्रेष्ठ द्वादश्यां प्रातरेव हि ।। १२०-६८ ।।
वैकुंठं सम्यगभ्यर्व्य सर्वैरेवोपचारकैः ।।
द्विजान्संभोज्य विसृजेद्दत्वा तेभ्यश्च दक्षिणाम् ।। १२०-६९ ।।
एवं कृत्वा व्रतं विप्र विधिना सुसमाहितः ।।
भुक्त्वेह वांछितान्भोगानंते विष्णुपदं लभेत् ।। १२०-७० ।।
माघस्य शुक्लैकादश्यां समुपोष्य जयाह्वयाम् ।।
प्रातर्हरि दिनेऽभ्यर्च्चेच्छ्रीपतिं पुरुषं द्विज ।। १२०-७१ ।।
भोजयित्वा दक्षिणां च दत्वा विप्रान्विसृज्य च ।।
स्वयं भुंजीत तच्छेषं प्रयतो निजबांधवैः ।। १२०-७२ ।।
य एवं कुरुते विप्र व्रतं केशवतोषणम् ।।
स भुक्त्वेह वरान्भोगानंते विष्णोः पदं व्रजेत् ।। १२०-७३ ।।
तपस्यकृष्णैकादश्यां विजयां समुपोष्य वै ।।
द्वादश्यां प्रातरभ्यर्च्य योगीशं गंधपूर्वकैः ।। १२०-७४ ।।
ततः संभोज्य भूदेवान्दक्षिणाभिः प्रतोष्य तान् ।।
विसृज्य बांधवैः सार्द्धं स्वयमश्नीत वाग्यतः ।। १२०-७५ ।।
एवं कृतव्रतो मर्त्यो भुक्त्वा भोगानिहेप्सितान् ।।
देहांते वैष्णवं लोकं याति देवैः सुसत्कृतः ।। १२०-७६ ।।
फाल्गुनस्य सिते पक्षे एकादश्यां द्विजोत्तम ।।
उपोष्यामलकीं भक्त्या द्वादश्यां प्रातरर्चयेत् ।। १२०-७७ ।।
पुंडरीकाक्षमखिलैरुपचारैस्ततो द्विजान् ।।
भोजयित्वा वरान्नेन दद्यात्तेभ्यस्तु दक्षिणाम् ।। १२०-७८ ।।
एवं कृत्वा विधानेनामलक्यां पूजनादिकम् ।।
सितैकादश्यां तपस्ये व्रजेद्विष्णोः परं पदम् ।। १२०-७९ ।।
चैत्रस्य कृष्णैकादशीं पापमोचनिकां द्विज ।।
उपाष्य द्वादश्यांप्रातर्गोविंदं पूजयेत्तथा ।। १२०-८० ।।
उपचारैः षोडशभिर्द्विजान्संभोज्य दक्षिणाम् ।।
दत्वा तेभ्यो विसृज्याथ स्वयं भुंजीत बान्धवैः ।। १२०-८१ ।।
एव यः कुरुते विप्र पापमोचनिकाव्रताम् ।।
स याति वैष्णवं लोकं विमानेन तु भास्वता ।। १२०-८२ ।।
इत्थं कृष्णो तथा शुक्ले व्रतं चैकादशीभवम् ।।
मोक्षदं कीर्तितं विप्र नास्त्यस्मिन्संशयः क्वचित् ।। १२०-८३ ।।
यतस्त्रिदिनसंसाध्यं कीर्तिनं पापनाशनम् ।।
सर्वव्रतोत्तमं विप्र ततो ज्ञेयं महाफलम् ।। १२०-८४ ।।
त्यजेच्चत्वारि भुक्तानि नारदै तद्दिनत्रये ।।
आद्यंतयोरेकमेकं मध्यमे द्वयमेव हि ।। १२०-८५ ।।
अथ ते नियमान्वच्मि व्रते ह्यस्मिन्दिनत्रये ।।
कांस्यं मांसं मसूरान्नं चणकान्कोद्रवांस्तथा ।। १२०-८६ ।।
शाकं मधु परान्नं च पुनर्भोजनमैथुने ।।
दशम्यां दश वस्तूनि वर्जयेद्वैष्णवः सदा ।। १२०-८७ ।।
द्यूतक्रीडां च निद्रां च तांबूलं दंतधावनम् ।।
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ।। १२०-८८ ।।
कोपं ह्यनृतवाक्यं च एकादश्यां विवर्ज्जयेत् ।।
कांस्यं मांसं सुरां क्षौद्रं तैलं विण्म्लेच्छभाषणम् ।। १२०-८९ ।।
व्यायामं च प्रवासं च पुनर्भोजनमैथुने ।।
अस्पृश्यस्पर्शमाशूरे द्वादश्यां द्वादश त्यजेत् ।। १२०-९० ।।
एवं नियमकृद्विप्र उपवासं समाचरेत् ।।
शक्तोऽशक्तुस्तु मतिमानेकभुक्तं न नक्तकम् ।। १२०-९१ ।।
अयाचितं वापि चरेन्न त्यजेद्व्रतमीदृशम् ।। १२०-९२ ।।
इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्थितैकादशीव्रतकथनं नाम विंशत्यधिकशततमोऽध्यायः ।। १२० ।।