नारदपुराणम्- पूर्वार्धः/अध्यायः १३
धर्मराज उवाच ।।
देवतायतनं यस्तु कुरुते कारयत्यपि ।।
शिवस्यापि हरेर्वापि तस्य पुण्यफलं श्रृणु ।। १३-१ ।।
मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ।।
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ।। १३-२ ।।
मृदैव कुरुते यस्तु देवतायतनं निरः ।।
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः श्रृणु ।। १३-३ ।।
दिव्यदेहधरो भूत्वा विमानवरमास्थितः ।।
कल्पत्रयं विष्णुपदे तिष्टत्येव न संशयः ।। १३ -४ ।।
मृदैव कुरुते यस्तु देवतायतनं नरः ।।
यावत्पुण्यं भवेत्तस्य तन्मे निगदतः श्रृणु ।। १३-५ ।।
दिव्यदेहधरो भूत्वा विमानवरमास्थितः ।।
कल्पत्रयं विष्णुपदे स्थित्वा ब्रह्मपुरं व्रजेत् ।। १३-६ ।।
कल्पद्वयं स्थितस्तत्र पुनः कल्पं वसेद्दिवि ।।
ततस्तु योगिनामेव कुले जातो दयान्विताः ।। १३-७ ।।
वैष्णवं योगमास्थाय मुक्तिं व्रजति शाश्वतीम् ।।
दारुभिः कुरुते यस्तु तस्य स्याद्दिगुणं फलम् ।। १३-८ ।।
त्रिगुणं चेष्टकाभिस्तु शिलाभिस्तच्चतुर्गणम् ।।
स्फुटिकाभिः शिलाभिस्तु ज्ञेयं दशगुणोत्तरम् ।। १३-९ ।।
तान्मीभिस्तच्छतगुणं हेम्ना कोटिगुणं भवेत् ।।
देवालयं तडागं वा ग्रामं वा पालयेत्तु यः ।। १३-१० ।।
कर्तुः शतगुणं तस्य पुण्यं भवति भूपते ।।
देवालयस्य शुश्रूषां लेपसेचनमंडनैः ।। १३-११ ।।
कुर्याद्यत्सततं भक्त्या तस्य पुण्यमनन्तकम् ।।
वेतनाद्विष्टितो वापि पुण्यकर्मप्रवर्त्तिताः ।। १३-१२ ।।
ते गच्छंति धराधाराः शाश्चतं वैष्णवं पदम् ।।
ताडागार्द्धफलं राजन्कासारे परिकीर्तितम् ।। १३-१३ ।।
कूपे पादफलं ज्ञेयं वाप्यां पद्माकरोन्मितम् ।।
वापीशतगुणं प्रोक्तं कुल्यायां भूपतेः फलम् ।। १३-१४ ।।
दृषद्भिस्तुधनीःकुर्यान्मृदा निष्किञ्चनो जनः ।।
तयोः फलं समानं स्यादित्याह कमलोद्भवः ।। १३-१५ ।।
दद्यादाढ्यास्तु नगरं हस्तमात्रमकिंचनः ।।
भुवं तयोः समफलं प्राहुर्वेदविदो जनाः ।। १३-१६ ।।
धनाढ्यः कुरुते यस्तु तडागं फलसाधनम् ।।
दरिद्रः कुरुते कूपं समं पुण्यं प्रकीर्तितम् ।। १३-१७ ।।
आश्रमं कारयेद्यस्तु बहुजन्तूपकारकम् ।।
स याति ब्रह्मभुवनं कुलत्रयसमन्वितः ।। १३-१८ ।।
धेनुर्वा ब्राह्मणो वापि यो वा को वापि भूपते ।।
क्षणार्द्धं तस्य छायायां तिष्टन्स्वर्गं नयत्यमुम् ।। १३-१९ ।।
आरामकारका राजन्देवतागृहकारिणः ।।
तडागग्रामकर्त्तारः पूज्यन्ते हरिणा सह ।। १३-२० ।।
सर्वलोकोपकारार्थं पुष्पाराम् जनेश्वर ।।
कुर्वते देवतार्थं वा तेषां पुण्यफलं श्रृणु ।। १३-२१ ।।
तत्र यावन्ति पर्णानि कुसुमानि भवन्ति च ।।
तावद्वर्षाणि नाकस्थो मोदते कुलकोटिभिः ।। १३-२२ ।।
प्राकारकारिणस्तस्य कंटकावरणप्रदाः ।।
प्रयान्ति ब्रह्मणः स्थानं युगानामेकसत्पतिम् ।। १३-२३ ।।
तुलसीरोपणं ये तु कुर्वते मनुजेश्वर ।।
तेषां पुण्यफलं राजन्वदतो मे निशामय ।। १३-२४ ।।
सत्पकोटिकुलैर्युक्तो मातृतः पितृतस्तथा ।।
वसेत्कल्पशतं साग्रं नारायणपदे नृप ।। १३-२५ ।।
ऊर्द्धपुण्ड्रधरो यस्तु तुलसीमूलमृत्स्नया ।।
गोपिकाचन्दनेनापि चित्रकूटमृदापि वा ।।
गङ्गामृतिकया चैव तस्य पुण्यफलं श्रृणु ।। १३-२६ ।।
विमानवरमारुढो गन्धर्वाप्सरसां गणैः ।।
संगीयमानचरितो मोदते विष्णुंमन्दिरे ।। १३-२७ ।।
पत्राणि तुलसीमूलाद्यावन्ति पतितानि वै ।।
तावन्ति ब्रह्महत्यादिपातकानि हतानि च ।। १३-२८ ।।
तुलस्यां सेचयेद्यस्तु जलं चुलुकमात्रकम् ।।
क्षीरोदवासिना सार्द्धं वसेदाचंद्रतारकम् ।। १३-२९ ।।
ददाति ब्राह्मणानां यः कोमलं तुलसीदलम् ।।
स याति ब्रह्मसदने कुलत्रितयतसंयुतः ।। १३-३० ।।
शालग्रामेऽर्पयेद्यस्तु तुलस्यास्तु दलानि च ।।
स वसेद्विष्णुभवने यावदाभूतसंप्लवम् ।। १३-३१ ।।
कण्टकावरणं यस्तु प्राकारं वापि कारयेत् ।।
सोऽप्येकविम्शतिकुलैर्मोदते विष्णुमन्दिरे ।। १३-३२ ।।
योऽर्च्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलैः ।।
न तस्य पुनरावृत्तिर्विष्णुलोकान्नरेश्वर ।। १३-३३ ।।
द्वादश्यां पौर्णमास्यां यः क्षीरेण स्नापयेद्धरिम् ।।
कुलायुतयुतः सोऽपि मोदते वैष्णवे पदे ।। १३-३४ ।।
प्रस्थमात्रेण पयसा यः स्नापयति केशवम् ।।
कुलायुतायुतयुतः सोऽपि विष्णुपुरे वसेत् ।। १३-३५ ।।
घृतप्रस्थेन यो विष्णुं द्वादश्यां स्नापयेन्नरः ।।
कुलकोटियुतो राजन्सायुज्यं लभते हरेः ।। १३-३६ ।।
पञ्चामृतेन यः स्नानमेकादश्यां तु कारयेत् ।।
विष्णोः सायुज्यकं तस्य भवेत्युलशतायुतैः ।। १३-३७ ।।
एकादश्यां पौर्णमास्यां द्वादश्यां वा नृपोत्तम ।।
नालिकेरोदकैर्विष्णुं स्नापयेत्तत्फलं श्रृणु ।। १३-३८ ।।
दशजन्मार्जितैः पापैर्विमुक्तो नृपसत्तम ।।
शतद्वयकुलैर्युक्तो मोदते विष्णुना सह ।। १३-३९ ।।
इक्षुतोयेन देवेशं यः स्नापयति भूपते ।।
केशवं लक्षपितृभिः सार्द्धं विष्णुपदं व्रजेत् ।। १३-४० ।।
पुष्पोदकेन गोविन्दं तथा गन्धोदकेन च ।।
स्नापयित्वा हरिं भक्त्या वैष्णवं पदमान्पुयात् ।। १३-४१ ।।
जलेन वस्त्रपूतेन यः स्नापयति माधवम् ।।
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ।। १३-४२ ।।
क्षीराद्यैः स्नापयेद्यस्तु रविसंक्रमणे हरिम् ।।
स वसेद्विष्णुसदने त्रिसप्तपुरुषैः सह ।। १३-४३ ।।
शुक्लपक्षे चतुर्द्दश्यामष्टम्यां पूर्णिमादिने ।। १३-४४ ।।
एकादश्यां भानुवारे द्वादश्यां पञ्चमीतिथौ ।।
सोमसूर्योपरागे च मन्वादिषुयुगादिषु ।। १३-४५ ।।
अर्द्धोदये च सूर्यस्य पुष्यार्के रोहिणीबुधे ।।
तथैव शनिरोहिण्यां भौमाश्विन्यां तथैव च ।। १३-४६ ।।
शन्यां भृगुमृगे चैवभृगुरेवतिसङ्गमे ।।
तथा बुधानुराधायां श्रवणार्के तथैव च ।। १३-४७ ।।
तथा च सोमश्रवणे हस्तयुक्ते बृहस्पतौ ।।
बुधाष्टम्यां बुधाषाढे पुण्ये दिने तथा ।। १३-४८ ।।
स्त्रापयेत्पयसा विष्णुं शान्तिमान् वाग्यतः शुचिः ।।
घृतेन मधुना वापि दध्ना वा तत्फलं श्रृणु ।। १३-४९ ।।
सर्वयज्ञफलं प्राप्ये सर्वपापविवर्जितः ।।
वसेदिष्णुपुरे सार्ध्दं त्रिसप्तपुरुषैर्नृप ।। १३-५० ।।
तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् ।।
मोक्षमाप्रोति नृपते पुनरावृत्तिदुर्लभम् ।। १३-५१ ।।
कृष्णपक्षे चतुर्दशयां सोमवारे च भूपते ।।
शिवं संस्नाप्य दुग्धेन शिवसायुज्यमाप्नुयात् ।। १३-५२ ।।
नालिकेरोदकेनापि शिवं संस्नाप्य भक्तितः ।।
अष्टम्यामिन्दुवारे वा शिवसायुज्यमश्नुते ।। १३-५३ ।।
शुक्लपक्षे चतुर्दश्यामष्यम्यां वापि भूपते ।।
घृतेन मधुना स्नाप्य शिवं तत्साम्यतां व्रजेत् ।। १३-५४ ।।
तिलतैलेन संस्त्राप्य विष्णुं वा शिवमेवं च ।।
स याति तत्तत्सारुप्यं पितृभिः सह सप्तभिः ।। १३-५५ ।।
शिवमिक्षुरसेनापि यः स्नापयति भक्तितः ।।
शिवलोके वसेत्कल्पं ससप्तपुरुषैः सह ।। १३-५६ ।।
घृतेन स्नापयेल्लिङ्गमुत्थाने द्वादशीदिने ।।
क्षीरेण वा महाभाग तत्फलं श्रृणु मद्गिरा ।। १३-५७ ।।
जन्मायुतकृतकैः पापैर्दर्मुक्तो मनुजो नृप ।।
कोटि संख्यं समुद्धृकत्य स्वकुलं शिवतां व्रजेत् ।। १३-५८ ।।
सम्पूज्य गन्धकुसुमैर्विष्णुं विष्णुतिथौ नृप ।।
जन्मायुतार्जितैः पापैर्मुक्तो व्रजति तत्पदम् ।। १३-५९ ।।
पद्मपुष्पेण यो विष्णुं शिवं वा पूजयेन्नरः ।।
स याति विष्णुभवनं कुलकोटिसमन्वितः ।। १३-६० ।।
हरिं च केतकीपुष्पैः शिवं धत्तूरजैर्निशि ।।
संम्पूज्य पापनिर्मुक्तो वसेद्विष्णुपुरे युगम् ।। १३-६१ ।।
हरिं तु चाम्पकैः पुर्ष्पेरर्कष्पैश्च शंकरम् ।।
समभ्यर्च्य महाराज तत्तत्सालोक्यमाप्नुयात् ।। १३-६२ ।।
शंकर स्याथवा विष्णोर्घृतयुक्तं च गुगगुलुम् ।।
दत्त्वा धूपे नरो भक्त्या सर्वपापैः प्रमुच्यते ।। १३-६३ ।।
तिलतैलान्वितं दीपं विष्णोर्वा शंकरस्य वा ।।
दत्त्वा नरः सर्वकामान्मंप्राप्नोति नृपोत्तम ।। १३-६४ ।।
घृतेन दीपं यो दद्याच्छंकरायाथ विष्णवे ।।
स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ।। १३-६५ ।।
ग्रामयेन वापि तैलेन राजन्नन्येन वा पुनः ।।
दीपं दत्त्वा महाविष्णोः शिवस्यापि फलं श्रृणु ।। १३-६६ ।।
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।।
तत्तत्सालोक्यमाप्नोति त्रिःसप्तपुरुषान्वितः ।। १३-६७ ।।
यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे ।।
दत्त्वा तत्तत्पदं याति चत्वारिशत्कुलान्वितः ।। १३-६८ ।।
यद्यदिष्टतमं वस्तु तत्द्विप्राय दापयेत् ।।
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ।। १३-६९ ।।
भ्रूणहास्वर्णदानेन शुद्धो भवति भूपते ।।
अन्नतोयसमंदानं न भूतं न भविष्यति ।। १३-७० ।।
अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः ।।
सर्वदानफलं यस्मादन्नदस्य नृपोत्तम ।। १३-७१ ।।
अन्नदो ब्रह्मसदनं यातिवंशायुतान्वितः ।।
न तस्य पुनरावृत्तिरिति शास्त्रेषु निश्चितम् ।। १३-७२ ।।
सद्यस्तुष्टिकरं ज्ञेयं जलदानं यतोऽधिकम् ।।
अन्नदानान्नृपश्रेष्ट निर्दिष्टं ब्रह्मवादिभिः ।। १३-७३ ।।
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।।
जलदो मुच्यते तेभ्य इत्याह कमलोद्भवः ।। १३-७४ ।।
शरीरमन्नजं प्राहुः प्राणामप्यन्नजान्विदुः ।।
तस्मादन्नप्रदो ज्ञेयः प्राणदः पृथिवीपते ।। १३-७५ ।।
यद्यतुष्टिकरं दानं सर्वकामफलप्रदम् ।।
तस्मादन्नसमं दानं नास्ति भूपाल भूतले ।। १३-७६ ।।
अन्नदस्य कुले जाता आसहंस्त्र नृपोत्म ।।
नरकं तेन पश्यन्ति तस्मादन्नप्रदो वरः ।। १३-७७ ।।
पादाभ्यङ्गंभक्तियुक्तो योऽतिथेः कुरुते नरः ।।
स स्नातः सर्वतीर्थेषु गङ्गास्नानपुरःसरम् ।। १३-७८ ।।
तैलाभ्यङ्गं महाराज ब्राह्मणानां करोति यः ।।
स स्नातोऽष्टशतं साग्रं गङ्गायां नात्र संशयः ।। १३-७९ ।।
रोगितान्ब्रह्माणान्यस्तु प्रेम्णा रक्षति रक्षकः ।।
स कोटिकुलसंयुक्तो वसेद्वूह्यपुरे युगम् ।। १३-८० ।।
यो रक्षेत्पृथिवीपाल रङ्गं वा रोगिणं नरम् ।।
तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति ।। १३-८१ ।।
मनसा कर्मणा वाचा यो रक्षेदामयान्वितम् ।।
सर्वान्कामानवाप्नोति सर्वेपापविवर्जितः ।। १३-८२ ।।
यो ददाति महीपाल निवासं ब्राह्मणाय वै ।।
तस्य प्रसन्नो देवेशः स्वलोकं संप्रयच्छति ।। १३-८३ ।।
ब्राह्मणायं ब्रह्मविदे यो दद्याद्गां पयस्विनीम् ।।
स यातिब्रह्मसदनमन्येषामतिदुर्लभम् ।। १३-८४ ।।
अन्येभ्यः प्रतिगृह्यापि यो द्द्याद्गां पयस्विनीम् ।।
तस्य पुण्यफलं वक्तुं नाहं शक्तोऽस्मि पण्डित ।। १३-८५ ।।
कपिलां वेदविदुषे यो ददाति पयस्विनीम् ।।
स एव रुद्रो भूपाल सर्वपापविवर्जितः ।। १३-८६ ।।
विप्राय वेदविदुषे दद्यादुभयतोमुखीम् ।।
यस्तस्य पुण्यं संख्यातु न शक्तोऽब्दशतैरपि ।। १३-८७ ।।
तस्य पुण्यफलं राजञ्श्रृणु वक्ष्यामि तत्त्वतः ।।
एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ।। १३-८८ ।।
एकतो भयभीतस्यत प्राणिनः प्राणरक्षणम् ।।
संरक्षति महीपाल यो विप्रं भयविह्वलम् ।। १३-८९ ।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।।
वस्त्रदो रुद्रभवनं कन्यादो ब्रह्मणः पदम् ।। १३-९० ।।
हेमदो विष्णु भवनं प्रयाति स्वकुलान्वितः ।।
यस्तु कन्यामलंकृत्य ददात्यध्यात्मवेदिने ।। १३-९१ ।।
शतवंशसमायुक्तः स व्रजेद्ब्रह्यणः पदम् ।।
कार्तिक्यां पौर्णमास्यां वा आषाढ्यां वापि भूपते ।। १३-९२ ।।
वृषभं शिवतुष्ट्यर्थमुत्सृजेत्तत्फलं श्रृणु ।।
सप्तजन्मार्जितैः पापैर्विमुक्तो रुद्ररुपभाक् ।। १३-९३ ।।
कुलसप्ततिसंयुक्तो रुद्रेण सह मोदते ।।
शिवलिङ्गांकितं कृत्वा महिषं यः समुत्सृजेत् ।। १३-९४ ।।
न तस्य यातनालोको भवेन्नृपतिसत्तम् ।।
ताम्बूलदानं यः कुर्याच्छक्तितो नृपसत्तम ।। १३-९५ ।।
तस्य विष्णुः प्रसन्नात्मा ददात्यायुर्यशः श्रियम् ।।
क्षीरोदो घृतदश्चैव मधुदो दधिदस्तथा ।। १३-९६ ।.
दिव्याब्दायुतपर्यंतंस्वर्गलोके महीयते ।।
प्रयाति ब्रह्मसदनमिक्षुदाता नृपोत्तम ।। १३-९७ ।।
गन्धदः पुण्यफलदः प्रयाति ब्रह्मणः पदम् ।।
गुडेक्षुरसदश्चैव प्रयाति क्षीरसागरम् ।। १३-९८ ।।
भटानां जलदो याति सूर्यलोकमनुत्तमम् ।।
विद्यादानेन सायुज्यं माधवस्य व्रजेन्नरः ।। १३-९९ ।।
विद्यादानं महीदानं गोदानं चोत्तमोत्तमम् ।।
नरकादुद्धरन्त्येव जपवाहनदोहनात् ।। १३-१०० ।।
सर्वेषामपि दानानां विद्यादानं विशिष्यते ।।
विद्यादानेन सायुज्यं विष्णोर्याति नृपोत्तम ।। १३-१०१ ।।
नरस्त्विंन्धनदानेन मुच्यते ह्युपपातकैः ।।
शालग्रामशिलादानं महादानं प्रकीर्तितम् ।। १३-१०२ ।।
यद्दत्त्वा मोक्षमान्पोति लिङ्गदानं तथा स्मृतम् ।।
ब्रह्माण्ड कोटिदानेन यत्फलं लभते नरः ।। १३-१०३ ।।
तत्फलं समवान्पोति लिङ्गदानान्न संशयः ।।
शालग्रामशिलादाने ततोऽपि द्विगुणं फलम् ।। १३-१०४ ।।
शालग्रामशिलारूपी विष्णुरेवेति विश्रुतः ।।
यो ददाति नरो दानं गृहतां प्रभो ।। १३-१०५ ।।
गङ्गास्त्रानफलं तस्य निश्चितं नृप जायते ।।
रत्नान्वितसवर्णस्य प्रदानेन नृपोत्तम ।। १३-१०६ ।।
भुक्तिमुक्तिमवान्पोति महादानं यतः स्मृतम् ।।
नरो माणिक्यदानेन परं मोक्षमवान्पुयात् ।। १३-१०७ ।।
घ्रुवलोकमवान्पोति वज्रदानेन मानवः ।।
स्वर्गं विद्रुमदानेन रुद्रलोकमवान्पुयात् ।। १३-१०८ ।।
प्रयाति यानदानेन मुक्तादानेन चैन्दवम् ।।
वैडूर्यदो रुद्रलोकं पुष्परागप्रदस्तथा ।। १३-१०९ ।।
पुष्परागप्रदानेन सर्वत्र सुखमश्नुते ।।
अश्वसांनिध्यं चिरं व्रजति भूमिप ।। १३-११० ।।
गजदानेन महता सर्वान्कामानवान्पुयात् ।।
प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः ।। १३-१११ ।।
महिषीदो जयत्येव ह्यपमृकत्युं न संशयः ।।
गवां तृणप्रदानेन रुद्रलोकमवान्पुयात् ।। १३-११२ ।।
वारुणं लोकमान्पोति महीश लवणप्रदः ।।
स्वश्रमाचारनिरताः सर्वभूतहितेरताः ।। १३-११३ ।।
अदाम्भिका गतासूयाः प्रयान्ति बग्रह्मणः पदम् ।।
परोपदेश निरता वीतरागा विमत्साराः ।। १३-११४ ।।
हरिपादार्चनरताः प्रयान्ति सदनं हरेः ।।
सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः ।। १३-११५ ।।
परापवादविमुखाः प्रायान्ति हरिमन्दिरम् ।।
नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च ।। १३-११६ ।।
परस्त्रीसङ्गविमुखा न पश्यन्ति यमालयम् ।।
जितेन्द्रिया जिताहारा गोषु क्षान्ताः सुशीलिनः ।। १३-११७ ।।
ब्राह्मणेषु क्षमाशीलाः प्रयांति भवनं हरेः ।।
अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा ।। १३-११८ ।।
पतिशुश्रूषणरता न वै संसृतिभागिनः ।।
सदा देवार्चनरता हरिनमपरायणाः ।। १३-११९ ।।
प्रतिग्रहनिवृत्ताश्च प्रयान्ति परमं पदम् ।।
अनाथं विप्रकुणपं ये दहेयुर्नृपोत्तम ।। १३-१२० ।।
अश्वमेधसहस्त्राणां फलमश्नुवते सदा ।।
पत्रैः पुर्ष्पेः फलैर्वापि जलैर्वा मनुजेश्वर ।। १३-१२१ ।।
पूजया रहितं लिङ्गमचर्यत्तेत्फलं श्रृणु ।।
अप्सरोगणगन्धर्वैः स्तूयमानो विमानगः ।। १३-१२२ ।।
प्रयाति शिवसान्निध्यमित्याह कमलोद्भवः ।।
चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप ।। १३-१२३ ।।
लक्षाश्वमेधजं पुण्यं संप्रान्पोति न संशयः ।।
पूजया रहितं लिङ्गं कुसुमैर्योऽर्चयेत्सुधीः ।। १३-१२४ ।।
अश्वमेधायुतफलं भवेत्तस्य जनेश्वर ।।
भक्ष्यैर्भोज्यैः फलैर्वापि शून्यं लिङ्गं प्रपूज्य च ।। १३-१२५ ।।
शिवसायुज्यमान्पोति पुनरावृत्तिवर्जितम् ।।
पूजया रहितं विष्णुं योऽर्चयेदकर्वंशज ।। १३-१२६ ।।
जलेनापि स सालोक्यं विष्णोर्याति नरोत्तम ।।
देवतायतने यस्तु कुर्यात्संमार्जनं सुधीः ।। १३-१२७ ।।
यावत्पांसु युगावासं वैष्णवे मन्दिरेलभेत् ।।
शीर्णं स्फटिकलिङ्गंतु यः संदध्यान्नृपोत्तम ।। १३-१२८ ।।
शतजन्मार्जितैः पापैर्मुच्यते स तु मानवः ।।
यस्तु देवालये राजन्नपि गोचर्ममात्रकम् ।। १३-१२९ ।।
जलेन सिञ्चिद्भूभागं सोऽपि स्वर्गं लभेन्नरः ।।
गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम् ।। १३-१३० ।।
यावत्कणानुकल्पं तु तिष्ठेत देवसन्निधौ ।।
मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम् ।। १३-१३१ ।।
स कोटिकुलमुद्धृत्य याति साम्यं मधुद्विषः ।।
शिलाचूर्णेन यो मर्त्यो देवागारं तु लोपयेत् ।। १३-१३२ ।।
स्वस्तिकादीनि वा कुर्यात्तस्य पुण्यमनन्तकम् ।।
यः कुर्याद्दीपरचनां देवतायतने नृप ।। १३-१३३ ।।
तस्य पुण्यं प्रसंख्यातुं नोत्सहेऽब्दशतैरपि ।।
अखण्डदीपं यः कुर्याद्विष्णोर्वा शंकरस्य च ।। १३-१३४ ।।
क्षणे क्षणेऽश्वमेधस्य फलं तस्य न दुर्लभम् ।।
अर्चितं शंकरं दृष्ट्वा विष्णुं वापि नमेत्तु यः ।। १३-१३५ ।।
स विष्णुभवनं प्राप्य मोदते च युगायुतम् ।।
देव्याः प्रदक्षिणामेकां सत्प सूर्यस्य भूमिप ।। १३-१३६ ।।
तिस्त्रो विनायकस्यापि चतस्त्रो विष्णुमन्दिरे ।।
कृत्वा तत्तद्गृहं प्राप्य मोदते युगलक्षकम् ।। १३-१३७ ।।
यो विष्णोर्भक्तिभावेन तथैव गोद्विजस्य च ।।
प्रदक्षिणां चररेत्तस्य ह्यश्वमेधः पदे पदे ।। १३-१३८ ।।
काश्यां महेश्वरं माहेश्वरं लिङ्गं संपूज्य प्रणमेत्तु यः ।।
न तस्य विद्यते कृत्यं संसृतिर्नैव जायते ।। १३-१३९ ।।
शिवं प्रदक्षिणं कृत्वा सव्येनैव विधानतः ।।
नरो न च्यवते स्वर्गाच्छंकरस्य प्रसादतः ।। १३-१४० ।।
स्तुत्वा स्तोत्रैर्जगन्नाथं नारायणमनामयम् ।।
सर्वान्कामानवान्पोति मनसा यद्यदिच्छति ।। १३-१४१ ।।
देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति ।।
गायते वा स भूपाल रुद्रलोके च मुक्तिभाक् ।। १३-१४२ ।।
ये तु वाद्यं प्रकुर्वन्ति देवतायतने नराः ।।
ते हंसयानमारुढा व्रजन्ति ब्रह्मणः पदम् ।। १३-४३ ।।
करतालं प्रकुर्वन्ति देवतायतने तु येते ।।
सर्वपापनिर्मुक्ता विमानस्था युगायुतम् ।। १३-१४४ ।।
देवतायतने ये तु घण्टानादं प्रकुर्वते ।।
तेषां पुण्यं निगदितुं न समर्थः शिवः स्वयम् ।। १३-१४५ ।।
भेरीमृदङ्गपटहमुरजैश्व सडिण्डिमैः ।।
संप्रीणयन्ति देवेशं तेषां पुण्यफलं श्रृणु ।। १३-१४६ ।।
देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः ।।
स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम् ।। १३-१४७ ।।
देवतामन्दिरे कुर्वन्नरः शङ्खरवं नृप ।।
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ।। १३-१४८ ।।
तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः ।।
सर्वपापविनिर्मुक्तो विष्णुलोकमवान्पुयात् ।। १३-१४९ ।।
यो देवः सर्वदृग्विष्णुर्ज्ञानरुपी निरञ्जनः ।।
सर्वधर्मफलं पूर्णं संतुष्टः प्रददाति च ।। १३-१५० ।।
यस्य स्मरणमात्रेण देवदेवस्य चक्रिणः ।।
सफलानि भवन्त्येव सर्वकर्माणि भूपते ।। १३-१५१ ।।
परमात्मा जगन्नाथः सर्वकर्म्मफलप्रदः ।।
सत्कर्मकर्तृभिर्नित्यं स्मृतः सर्वार्तिनाशनः ।।
तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते ।। १३-१५२ ।।
धर्माणि विष्णुश्च फलानि विष्णुः कर्माणि विष्णुश्च फलानि भोक्ता ।।
कार्यं च विष्णुः करणानि विष्णुरस्मान्न किंचिव्द्यतिरिक्तमस्ति ।। १३-१५३ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मानुकथनं नाम त्रयोदशोऽध्यायः ।।