नारदपुराणम्- पूर्वार्धः/अध्यायः १
ॐ श्रीगुरुभ्यो नमः ।।
ॐ श्रीगणेशाय नमः ।।
ॐ नमो भगवते वासुदेवाय ।।
ॐ नारायाणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं चैवततो जयमुदीरयेत् ।। १ ।।
ॐ वेदव्यासाय नमः ।।
वृन्दे वृन्दावनासीनमिन्दिरानन्दन्दमन्दिरम् ।।
उपेन्द्रं सांद्रकारुण्यं परानन्दं परात्परम् ।। १-१ ।
ब्रह्मविष्णुमहेशाख्यां यस्यांशा लोकसाधकाः ।।
तमादिदेवं चिद्रूपं विशुद्ध परमं भजे ।। १-२ ।।
शौनकाद्या महात्मान ऋषयो ब्रह्मवादिनः ।।
नैमिषाख्ये महारण्ये तपस्तेपुर्मुमुक्षवः ।। १-३ ।।
जितेन्द्रिया जिताहाराः सन्तः सत्यपराक्रमाः ।।
यजन्तः परया भक्त्या विष्णुमाद्यं सनातनम् ।। १-४ ।।
अनीर्ष्याः सर्वधर्म्मज्ञा लोकानुग्रहतत्पराः ।।
निर्म्ममा निरहंकाराः परस्मिन्नतमानसाः ।। १-५ ।।
न्यस्तकामा विवृजिनाः शमादिगुणसंयुताः ।।
कृष्णाजिनोत्तरीयास्ते जटिला ब्रह्मचारिणः ।। १-६ ।।
गृणन्तः परमं ब्रह्म जगच्चक्षुः समौजसः ।।
धर्म्मशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिषकानने ।। १-७ ।।
यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परे ।।
केचिच्च परया भक्त्या नारायणमपूजयन् ।। १-८ ।।
एकदा ते महात्मानः समाजं चक्रुरुतमाः ।।
धर्मार्थकाममोक्षाणामुपायाञ्ज्ञातुमिच्छवः ।। १-९ ।।
षङ्विंशतिसहस्त्राणि मुनीनामूर्द्ध्वरेतसाम् ।।
तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शक्यते ।। १-१० ।।
मुनयो भावितात्मानो मिलितास्ते महौजसः ।।
लोकानुग्रहकर्तारो वीतरागा विमत्सराः ।। १-११ ।।
कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ।।
कथं वा प्राप्यते मुक्तिर्नृणां तापार्तचेतसाम् ।। १-१२ ।।
कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी ।।
केन सिध्येत च फलं कर्मणस्त्रिविधात्मनः ।। १-१३ ।।
इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ।।
प्राञ्जलिर्वाक्यमाहेदं विनयावनतः सुधीः ।। १-१४ ।।
शौनक उवाच ।।
आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ।।
यजन्मखैर्बहुविधैर्विश्वरुपं जनार्दनम् ।। १-१५ ।।
स एतदखिलं वेत्ति व्यासशिष्यो महामुनिः ।।
पुराणसंहितावक्ता शान्तो वै रोमहर्षणिः ।। १-१६ ।।
युगे युगेऽल्पकान्धर्मान्निरीक्ष्य मधुसूदनः ।।
वेदव्यास स्वरूपेण वेदभागं करोति वै ।। १-१७ ।।
वेदव्यासमुनिः साक्षान्नारायण इति द्विजाः ।।
शुश्रुमः सर्वशास्त्रेषु सूतस्तु व्यासशासितः ।। १-१८ ।।
तेन संशासितः सूतो वेदव्यासेन धीमता ।।
पुराणानि स वेत्त्येव नान्यो लोके ततः परः ।। १-१९ ।।
स पुराणार्थविल्लोके स सर्वज्ञः स बुद्धिमान् ।।
स शान्तो मोक्षधर्मज्ञः कर्मभक्तिकलापवित् ।। १-२० ।।
वेदवेदाङ्गशास्त्राणां सारभूतं मुनीश्वराः ।।
जगद्धितार्थं तत्सर्वं पुराणेषूक्तवान्मुनिः ।। १-२१ ।।
ज्ञानार्णवो वै सूतस्तत्सर्वतत्त्वार्थकोविदः ।।
तस्मात्तमेव पृच्छाम इत्यूचे शौनको मुनीन् ।। १-२२ ।।
ततस्ते मुनयः सर्वे शौनकं वाग्विदां वरम् ।।
समाश्लिष्य सुसंप्रीताः साधु साध्विति चाब्रुवन् ।। १-२३ ।।
अथ ते मुनयो जग्मुः पुण्यं सिद्धाश्रमं वने ।।
मृगव्रजसमाकीर्णं मुनिभिः परिशोभितम् ।। १-२४ ।।
मनोज्ञभूरुहलताफलपुष्पविभूषितम् ।।
युक्तं सरोभिरच्छोदैरतिथ्यातिथ्यसंकुलम् ।। १-२५ ।।
ते तु नारायणं देवमनन्तमपराजितम् ।।
यजन्तमग्निष्टोमेन ददृशू रोमहर्षणिम् ।। १-२६ ।।
यथार्हमर्चितास्तेन सूतेन प्रथितौजसः ।।
तस्यावभृथमीक्षन्तस्तत्र तस्थुर्मखालये ।। १-२७ ।।
अधरावभृथस्नातं सूतं पौराणिकोत्तमम् ।।
पप्रच्छुस्ते सुखासीनां नैमिषारण्यवासिनः ।। १-२८ ।।
ऋषय ऊचुः
वयं त्वतिथयः प्राप्ता आतिथेयास्तु सुव्रत ।।
ज्ञानदानोपचारेण पूजयास्मान्यथाविधिः ।। १-२९ ।।
दिवौकसो हि जीवन्ति पीत्वा चन्द्रकलामृतम् ।।
ज्ञानामृतं भूसुरास्तु मुने त्वन्मुखनिःसृतम् ।। १-३० ।।
येनेदमखिलं जातं यदाधारं यदात्मकम् ।।
यस्मिन्प्रतिष्ठितं तात यस्मिन्वा लयमेष्यति ।। १-३१ ।।
केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ।।
कथं वर्णाश्रमाचारश्चातिथेः पूजनं कथम् ।। १-३२ ।।
सफलं स्याद्यथा कर्म मोक्षोपायः कथं नृणाम् ।।
भक्त्या किं प्राप्यते पुंभिस्तथा भक्तिश्च कीदृशी ।। १-३३ ।।
वद सूत मुनिश्रेष्ट सर्वमेतदसंशयम् ।।
कस्य नो जायते श्रद्धा श्रोतुं त्वद्वचनामृतम् ।। १-३४ ।।
सूत उवाच।। ।।
श्रृणुध्वमृषयः सर्वे यदिष्टं वो वदामि तत् ।।
गीतं सनकमुख्यैस्तु नारदाय महात्मने ।। १-३५ ।।
पुराणं नारदोपाख्यमेतद्वेदार्थसंमितम् ।।
सर्वपापप्रशमनं दुष्टग्रहनिवारणम् ।। १-३६ ।।
दुःस्वप्ननाशनं धर्म्यं भुक्तिमुक्तिफलप्रदम् ।।
नारायणकथोपेतं सर्वकल्याणकारणम् ।। १-३७ ।।
धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम् ।।
अपूर्वपुण्यफलदं श्रृणुध्वं सुसमाहिताः ।। १-३८ ।।
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।।
श्रृत्वैतदार्षं दिव्यं च पुराणं शुद्धिमाप्नुयात् ।। १-३९ ।।
यस्यैकाध्यायपठनाद्वाजिमेधफलं लभेत् ।।
अध्यायद्वयपाठेन राजसूयफलं तथा ।। १-४० ।।
ज्येष्ठमासे पूर्णिमायां मूलक्षें प्रयतो नरः ।।
स्नात्वा च यमुना तोये मथुरायामुपोषितः ।। १-४१ ।।
अभ्यर्च्य विधितवत्कृष्णं यत्फलं लभते द्विजाः ।।
तत्फलं समवाप्रोति अध्यायत्रयपाठतः ।। १-४२ ।।
तत्प्रवक्ष्यामि वः सम्यक् शृणुध्वं गदतो मम ।।
जन्मायुतार्जितैः पापैर्मुक्तः कोटिकुलान्वितः ।। १-४३ ।।
ब्रह्मणः पदमासाद्य तत्रैव प्रतितिष्ठति ।।
श्रुत्वास्य तु दशाध्यायान्भक्तिभावेन मानवः ।। १-४४ ।।
निर्वाणमूक्तिं लभते नात्र कार्या विचारणा ।।
श्रेयसां परमं श्रेयः पवित्राणामनुत्तमम् ।। १-४५ ।।
दुःखप्रनाशनं पुण्यं श्रोतव्यं यत्नतो द्विजाः ।।
श्रद्धया सहितो मर्त्यः श्लोकं श्लोकार्द्धमेव वा ।। १-४६ ।।
पठित्वा मुच्यते सद्यो महापातकराशिभिः ।।
सतामेव प्रवक्तव्यं गुह्याद्गुह्यतरं यतः ।। १-४७ ।।
वावयेत्पुरतो विष्णोः पुण्यक्षेत्रे द्विजान्तिके ।।
ब्रह्यद्रोहपराणां च दंभाचारयुतात्मनाम् ।। १-४८ ।।
जनानां बकवृतीनां न ब्रूयादिदमुत्तमम् ।।
त्यक्तकामादिदोषाणां विष्णुभक्तिरतात्मनाम् ।। १-४९ ।।
सदाचारपराणां च वक्तव्यं मोक्षयसाधनम् ।।
सर्वदेवमयो विष्णुः स्मरतामार्तिनाशनः ।। १-५० ।।
सद्भक्तिवत्सलो विप्रा भक्त्या तुष्यति नान्यथा ।।
अश्रद्धयापि यांन्नाच्चि कीर्तितेऽथ स्मूतेऽपि वा ।। १-५१ ।।
विमुक्तः पातकैर्मर्त्यो लभते पदमव्ययम् ।।
संसारधोरकान्ताग्दावाग्रिर्मधुसुदनः ।। १-५२ ।।
स्मरतां सर्वपापानि नाशयत्याशु सत्तमाः ।।
तदर्थद्योतकमिदं पुराणं श्राव्यमुत्तमम् ।। १-५३ ।।
श्रवणात्पठनाद्वापि सर्वपापविनाशकृत् ।।
यस्यास्य श्रवणे बुद्धिर्जायते भक्तिसंयुता ।। १-५४ ।।
स एव कृतकृत्यस्तु सर्वशास्त्रार्थकोविदः ।।
यदर्जितं तपः पुण्यं तन्मन्ये सफलं द्विजाः ।। १-५५ ।।
यदस्य श्रवणे भाक्तिरन्यथा नहि जायते ।।
सत्कथासु प्रर्वतन्ते सज्जना ये जगाद्धिताः ।। १-५६ ।।
निन्दायां कलहे वापि ह्यसन्तः पाप्तात्पराः ।।
पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः ।। १-५७ ।।
तैरर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ।।
समस्तकर्मनिर्मूलसाधनानि नराधमः ।। १-५८ ।।
पुराणान्यर्थवादेन ब्रुवन्नरकमश्नुते ।।
अन्यानि साधयन्त्येव कार्याणि विधिना नराः ।। १-५९ ।।
पुराणानि द्विजश्रेष्टाः साधयन्ति न मोहिताः ।।
अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः ।। १-६० ।।
श्रोतव्यानि पुराणानि तेन वै भक्तिभावतः ।।
पुराणश्रवणे बुद्धिर्यस्य पुंसः प्रवर्तते।। १-६१ ।।
पुरार्जितानि पापानि तस्य नश्यन्त्यसंशयम् ।।
पुराणे वर्तमानेऽपि पापपाशेन यन्त्रितः ।।
आदरेणान्यगाथासु सक्तबुद्धिः पतत्यधः ।। १-६२ ।।
सत्सङ्गदेवार्चनसत्कथासु हितोपदेशे निरतो मनुष्यः ।।
प्रयाति विष्णोः परमं पदं यद्देहावसानेऽच्युततुल्यतेजाः ।। १-६३ ।।
तस्मादिदं नारदनामधेयं पुण्यं पुराणं श्रुणुत द्विजेन्द्राः ।।
यस्मिञ्छ्रुते जन्मजरादिहीनो नरो भवेदच्युतनिष्टचेताः ।। १-६४ ।।
वरं वरेण्यं वरदं पुराणं निजप्रभाभावितसर्वलोकम् ।।
संकल्पितार्थप्रदमादिदेवं स्मृत्वाव्रजेन्मुक्तिपदं मनुष्यः ।। १-६५ ।।
ब्रह्मेशविष्ण्वादिशरीरभेदैर्विश्वं सृजत्यत्ति च पाति विप्राः ।।
तमादिदेवं परमं परेशमाधाय चेतस्युपयाति मुक्तिम् ।। १-६६ ।।
यो नाम जात्यादिविकल्पहीनः परः पराणां परमः परस्मात् ।।
वेदान्तवेद्यः स्वजनप्रकाशः समीड्यते सर्वपुराणवेदैः ।। १-६७ ।।
तस्मात्तिमीशं जगतां विमुक्तिमुपासनायालमजं मुरारिम् ।।
परं रहस्यं पुरुषार्थहेतुं स्मृत्वा नरो याति भवाब्धिपारम् ।। १-६८ ।।
वक्तव्यं धार्मिकेभ्यस्तु श्रद्दधानेभ्य एव च ।।
मुमुक्षुभ्यो यतिभ्यश्च वीतरागेभ्य एव च ।। १-६९ ।।
वक्तव्यं पुण्यदेशे च सभायां देवतागृहे ।।
पुण्यक्षेत्रे पुण्यतीर्थे देव ब्राह्मणसन्निधौ ।। १-७० ।।
उच्छिष्टदेशे वक्तार आख्यानमिदमुत्तमम् ।।
पच्यन्ते नरके घोरे यावदाभूतसंप्लवम् ।। १-७१ ।।
मृषा श्रृणोति यो मूढो दम्भी भक्तिविवर्जितः ।।
सोऽपि तद्वन्महाघोरे नरके पच्यतेऽक्षये ।। १-७२ ।।
नरो यः सत्कथामध्ये संभाषां कुरुतेऽन्यतः ।।
स याति नरकं घोरं तदेकाग्रमना भवेत् ।। १-७३ ।।
श्रोता वक्ता चविप्रेन्द्रा एष धर्मः सनातनः ।।
असमाहितचित्तस्तु न जानाति हि किंचना ।। १-७४ ।।
तत एकमना भूत्वा पिबेद्धरिकथामृतम् ।।
कथं संभ्रान्तचित्तस्य कथास्वादः प्रजायते ।। १-७५ ।।
किं सुखं प्राप्यते लोके पुंसा संभ्रान्तचेतसा ।।
तस्मात्सर्वं परित्यज्य कामं दुःखस्य साधनम् ।। १-७६ ।।
समाहितमना भूत्वाकुर्यादच्युतचिन्तनम् ।।
येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः ।। १-७७ ।।
अपि पातकयुक्तस्य प्रसन्नः स्यान्नसंशयः ।।
यस्य नारायणे भक्तिर्विभौ विश्वेश्वरेऽव्यये ।।
तस्य स्यात्सफलं जन्म मुक्तिश्चैव करे स्थिता ।। १-७८ ।।
धर्मार्थकाममोक्षाख्यपुरुषार्था द्विजोत्तमाः ।।
हरिभक्तिपराणां वै संपद्यन्ते न संशयः ।। १-७९ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सूतर्षिसंवादो नाम प्रथमोऽध्यायाः ।।