नारदपुराणम्- पूर्वार्धः/अध्यायः ११६
सनातन उवाच ।।
श्रृणु नारद वक्ष्यामि सप्तम्यास्ते व्रतान्यहम् ।।
यानि कृत्वा नरो भक्त्या सूर्यसायुज्यमाप्नुयात् ।। ११६-१ ।।
चैत्रे तु शुक्लसप्तम्यां बहिः स्नानं समाचरेत् ।।
स्थंडिले गोमयालिप्ते गौरमृत्तिकयास्तृते ।। ११६-२ ।।
लिखित्वाष्टदलं पद्मं कर्णिकायां विभावम् ।।
विन्यसेत्पूर्वपत्रे तु देवौ द्वौ कृतधातुकौ ।। ११६-३ ।।
आग्नेयं च न्यसेन्पत्रे गंधर्वौ कृतकारकौ ।।
दक्षिणे च न्यसेत्पत्रे तथैव राक्षसद्वयम् ।। ११६-४ ।।
आकृतौ द्वौ न्यसेत्पत्रे नैर्ऋते मुनिसत्तम ।।
काद्रवेयौ महानागौ पश्चिमे कृतचारकौ ।। ११६-५ ।।
वायव्य यातुधानौ द्वौ उत्तरे च ऋषिद्वयम् ।।
ऐशान्ये विन्यसेत्पत्पे ग्रहमेको द्विजोत्तम ।। ११६-६ ।।
तेषां संपूजनं कार्यं गंधमाल्यानुलेपनैः ।।
दीपैर्धूपैः सनैवेद्यैस्तांबूलक्रमुकादिभिः ।। ११६-७ ।।
एवं संपूज्य होमं तु घृतेनाष्टशतं चरेत् ।।
सूर्यस्याष्टाष्ट चान्येषां प्रदद्यादाहुतीः क्रमात् ।। ११६-८ ।।
नाममंत्रेण वेद्यां वा ततः पूर्णाहुतिं ददेत् ।।
दक्षिणा च ततो देया द्विजेभ्यः शक्तितो द्विज ।। ११६-९ ।।
एतत्कृत्वा विधआनं तु सर्वसौख्यमवाप्नुयात् ।।
देहांते मण्डलं भानोर्भत्त्वा गच्छेत्परं पदम् ।। ११६-१० ।।
वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी स्वयम् ।।
क्रोधात्पीता पुनस्त्यक्ता कर्णरंध्रात्तु दक्षिणात् ।। ११६-११ ।।
तां तत्र पूजयेत्स्नात्वा प्रत्यूषे विमले जले ।।
गंधपुष्पाक्षताद्यैश्च सर्वैरेवोपचारकैः ।। ११६-१२ ।।
ततो घटसहस्रं तु देयं गंगाव्रतेत्विदम् ।।
भक्त्या कृतं सप्तकुलं नयेत्स्वर्गमसंशयः ।। ११६-१३ ।।
कमलव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते ।।
तिलमात्रं तु सौवर्णं विधाय कमलं शुभम् ।। ११६-१४ ।।
वस्त्रयुग्मावृतं कृत्वा गंधधूपादिनार्चयेत् ।।
नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे ।। ११६-१५ ।।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ।।
इति संप्रार्थ्य देवेशं सूर्ये चास्तमुपागते ।। ११६-१६ ।।
सोदकुंभं तु तत्पद्मं कपिलां च द्विजेऽर्पयेत् ।।
तद्दिने तूपवस्तव्यं भोक्तव्यं च परेऽहनि ।। ११६-१७ ।।
संभोज्य ब्राह्मणान्भक्त्या व्रतसाकल्यमाप्नुयात् ।।
निबव्रतं च तत्रेव तद्विधानं श्रृणुष्व मे ।। ११६-१८ ।।
निंबपत्रैः स्मृता पूजा भास्करस्य द्विजोत्तम ।।
खखोल्कायेति मंत्रेण प्रणवाद्येन नारद ।। ११६-१९ ।।
निंबपत्रं ततोऽश्नीयाच्छयेद्भूमौ च वाग्यतः ।।
द्विजान्परेऽह्नि संभोज्य स्वयं भुंजीत बंधुभिः ।। ११६-२० ।।
निंबपत्रव्रतं चैतत्कर्तॄणां सर्वसौख्यदम् ।।
सप्तमी शर्कराख्यैषा प्रोक्ता तच्चापि मे श्रृणु ।। ११६-२१ ।।
अमृतं पिबतो हस्तात्सूर्यस्यामृतबिंदवः ।।
निष्पेतुर्भुवि चोत्पन्नाः शालिमुद्गयवेक्षवः ।। ११६-२२ ।।
शर्करा च ततस्तस्मादिक्षुसारामृतोपमा ।।
इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ।। ११६-२३ ।।
शर्करासप्तमी चैव वाजिमेधफलप्रदा ।।
सर्वदुःखोपशमनी पुत्रसंततिवर्धिनी ।। ११६-२४ ।।
अस्यांतु शर्करादानं शर्कराभोजनं तथा ।।
कर्तव्यं हि प्रयत्नेन व्रतमे तद्रविप्रियम् ।। ११६-२५ ।।
यः कुर्यात्पराया भक्त्या स वै सद्गतिमाप्नुयात् ।।
ज्येष्ठे तु शुक्लसप्तम्यां जात इंद्रो रविः स्वयम् ।। ११६-२६ ।।
तं संपूज्य विधानेन सोपवासो जितेंद्रियः ।।
स्वर्गतिं लभते विप्र देवेंद्रस्य प्रसादतः ।। ११६-२७ ।।
आषाढशुक्लसप्तम्यां विवस्वान्नाम भास्करः ।।
जातस्तं तत्र संप्रार्च्य गन्धपुष्पादिभिः पृथक् ।। ११६-२८ ।।
लभते सूर्यसायुज्यं विप्रेंद्रात्र न संशयः ।।
श्रावणे शुक्लसप्तम्यामव्यंगाख्यं व्रतं शुभम् ।। ११६-२९ ।।
कार्पासं तु चतुर्हस्तं सार्द्ध वस्त्रं हि गोपतेः ।।
पूजांते प्रीतये देयं व्रतमेतच्छुभावहम् ।। ११६-३० ।।
यदि चेद्धस्तयुक्तेयं तदा स्यात्पापनाशिनी ।।
अस्यां दानं जपो होमः सर्वं चाक्षय्यतां व्रजेत् ।। ११६-३१ ।।
भाद्रे तु शुक्लसप्तम्याममुक्ताभरणव्रतम् ।।
सोमस्य तु महेशस्य पूजनं चात्र कीर्तितम् ।। ११६-३२ ।।
गंगादिभिः षोडशभिरुपचारैः समर्चनम् ।।
प्रार्थ्य प्रणम्य विसृजेत्सर्वकामसमृद्धये ।। ११६-३३ ।।
फलसप्तमिका चेयं तद्विधानमुदीर्यते ।।
नालिकेरं च वृंताकं नारंगं बीजपूरकम् ।। ११६-३४ ।।
कूष्मांडं बृहतीपूगमिति सप्त फलानि वै ।।
महादेवस्य पुरतो विन्यस्यापरदोरकम् ।। ११६-३५ ।।
सप्ततन्तुकृतं सप्तग्रंथियुक्तं द्विजोत्तम ।।
संपूज्य परया भक्त्या धारयेद्वामके करे ।। ११६-३६ ।।
स्त्री नरो दक्षिणे चैव यावद्वर्षं समाप्यते ।।
संभोज्य विप्रान्सप्तैव पायसेन विसृज्यस तान् ।। ११६-३७ ।।
स्वयं भुंजीत मतिमान् व्रतसंपूर्तिहेतवे ।।
फलानि तानि देयानि सप्तस्वपि द्विजेषु च ।। ११६-३८ ।।
एवं तु सप्त वर्षाणि कृत्वोपास्य यथाविधि ।।
सायुज्यं लभते विप्र महादेवस्य तद्व्रती ।। ११६-३९ ।।
आश्विने शुक्लपक्षे तु विज्ञेया शुभसप्तमी ।।
तस्यां कृतस्नानपूजो वाचयित्वा द्विजोत्तमान् ।। ११६-४० ।।
आरभ्य कपिलांगां च संपूज्य प्रार्थयेत्ततः ।।
त्वामहं दद्मि कल्याणि प्रीयतामर्यमा स्वयम् ।। ११६-४१ ।।
पालय त्वं जगत्कत्स्नं यतोऽसि धर्मसम्भवा ।।
इत्युक्त्वा वेदविदुषे दत्त्वा कृत्वा च दक्षिणाम् ।। ११६-४२ ।।
नमस्कृत्य स्वयं विप्र विसृजेत्प्राशयेत्वरवयम् ।।
पचगव्यं व्रतं चेत्थं विधाय श्वो द्विजोत्तमान् ।। ११६-४३ ।।
भोजयित्वा स्वयं चाद्यात्तदन्नं द्विजशेषितम् ।।
कृतं ह्येतद्गतं विप्र सुभाष्यं श्रद्धयान्वितः ।। ११६-४४ ।।
देवदेवप्रसादेन भुक्तिमुक्तिमवाप्नुयात् ।।
अथ कार्तिकशुक्लायां शाकाख्यं सप्तमीव्रतम् ।। ११६-४५ ।।
तस्यां तु सप्तशाकानिसस्वर्णकमलानि च ।।
प्रदद्यात्सप्तविप्रेभ्यः शाकाहारस्ततः स्वयम् ।। ११६-४६ ।।
द्वितीयेऽह्नि द्विजान्भोज्य दत्वा तेभ्योऽन्नदक्षिणाम् ।।
विसृज्य बंधुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ।। ११६-४७ ।।
मार्गस्य सितसप्तम्यां मित्रव्रतमुदाहृतम् ।।
यद्विष्णोर्दक्षिणं नेत्रं तदेव कृतवानिह ।। ११६-४८ ।।
अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः ।।
अतोऽस्यां पूजनं तस्य यथोक्तविधिना द्विज ।। ११६-४९ ।।
कृत्वा द्विजान्भोजयित्वा सप्तैव मधुरादिना ।।
सुवर्णदक्षिणां दत्वा विसृज्याश्नीत च स्वयम् ।। ११६-५० ।।
कृत्वैतद्विधिना लोकं सृर्य्यस्य व्रजति ध्रुवम् ।।
द्विजोब्राह्मं तथा शूद्रः सत्कुलेजन्म चाप्नुयात् ।। ११६-५१ ।।
पौषस्य शुक्लसप्तम्यां व्रतं चाभयसंज्ञितम् ।।
उपोष्य भानुं त्रिःसन्ध्यं समभ्यर्च्य धरास्थितः ।। ११६-५२ ।।
क्षीरसिक्तान्नसंबद्धं मोदकं प्रस्थसंमितम् ।।
द्विजाय दत्वा भोज्यान्यान्सप्ताष्टभ्यश्च दक्षिणाम् ।। ११६-५३ ।।
पृथवी वा सुवर्णं वा विसृज्याश्नीत च स्वयम् ।।
अभयाख्यं व्रतं त्वेतत्सर्वस्याभयदं स्मृतम् ।। ११६-५४ ।।
मार्तंडाख्यं व्रतं नाम कथयंति द्विजाः परे ।।
एकमेवेति च प्रोक्तमेकदैवतया बुधैः ।। ११६-५५ ।।
माघे तु कृष्णसप्तम्यां व्रतं सर्वाप्तिसंज्ञकम् ।।
समुपोष्य दिने तस्मिन्सम्पूज्यादित्यबिम्बकम् ।। ११६-५६ ।।
सौवर्णं गंधपुष्पाद्यैः कृत्वा रात्रौ च जागरम् ।।
परेऽह्नि विप्रान्सम्भोज्य पायसेन तु सप्त वै ।। ११६-५७ ।।
दक्षिणां नालिकेराणि तेभ्यो दत्वा गुरुं ततः ।।
सौवर्णं तु रवेर्बिम्बं युक्तं दक्षिणयान्यया ।। ११६-५८ ।।
समर्प्य च भृशं प्रार्थ्य विसृज्याद्यात्स्वयं ततः ।।
एतत्सर्वाप्तिदं नाम संप्रोक्तं सार्वकामिकम् ।। ११६-५९ ।।
व्रतस्यास्य प्रभावेण द्वैतं सिध्येद्धि सर्वथा ।।
माघस्य शुक्लसप्तम्यामचलाख्यं व्रतं स्मृतम् ।। ११६-६० ।।
त्रिलोचनजयंतीयं सर्वपापहरा स्मृता ।।
रथाख्या सप्तमी चेयं चक्रवर्तित्वदायिनी ।। ११६-६१ ।।
अस्यां समर्च्य सवितुः प्रतिमां तु हैमीं हैमाश्वयुक्तरथगां तु ददेत्सहेभाम् ।।
यो भावभक्तिसहितः स गतो हि लोकं शम्भोः स मोदत इहापि च भुक्तभोगः ।। ११६-६२ ।।
भास्करी सप्तमी चेयं कोटिभास्वद्ग्रहोपमा ।।
अरुणोदयवेलायामस्यां स्नानं विधीयते ।। ११६-६३ ।।
अर्कस्य च बदर्याश्च सप्त सप्त दलानि वै ।।
निधाय शिरसि स्नायात्सप्तजन्माघशांतये ।। ११६-६४ ।।
पुत्रप्रदं व्रतं चात्र प्राहादित्यः स्वयं प्रभुः ।।
यो माघसितप्तम्यां पूजयेन्मां विधानतः ।। ११६-६५ ।।
तस्याहं पुत्रतां यास्ये स्वांशेन भृशतोषितः ।।
तस्माज्जितेंद्रियो भूत्वा समुपोष्य दिवानिशम् ।। ११६-६६ ।।
पूजयेदपरे चाह्नि होमं कृत्वा द्विजां स्ततः ।।
दध्योदनेन पयसा पायसेन च भोजयेत् ।। ११६-६७ ।।
अनेन विधिना यस् कुरुते पुत्रसप्तमीः ।।
लभते स तु सत्पुत्रं चिरायुषमनामयम् ।। ११६-६८ ।।
तपस्यशुक्लसप्तम्यां व्रतमर्कपुटं चरेत्।।
अर्कपत्रैर्यजेदर्कमर्कपत्राणि चाश्नुयात् ।। ११६-६९ ।।
अर्कनाम जपेच्छश्वदित्थं चार्कपुटव्रतम् ।।
धनदं पुत्रदं चैतत्सर्वपापप्रणाशनम् ।। ११६-७० ।।
त्रिवर्गदामिति प्राहुः केचिदेतद्वतं द्विज ।।
यज्ञव्रतं तथाप्यन्ये विधिवद्धोमकर्मणा ।। ११६-७१ ।।
सर्वासु सर्वमासेषु सप्तमीषु द्विजोत्तमः ।।
भास्कराराधनं प्रोक्तं सर्वकामिकमित्यलम् ।। ११६-७२ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितसप्तमीव्रतनिरूपणं नाम षोडशाधिकशततमोऽध्यायः ।। ११६ ।।