नारदपुराणम्- पूर्वार्धः/अध्यायः ६४
सनत्कुमार उवाच ।।
अथ जीवस्य पाशौघच्छेदनायेष्टसिद्धिदम् ।।
दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकम् ।। ६४-१ ।।
दिव्यं भावं यतो दद्यात्क्षिणुयाद्दुरितानि च ।।
अतो दीक्षेति सा प्रोक्ता सर्वागमविशारदैः ।। ६४-२ ।।
मननं सर्ववेदित्वं त्राणं संखार्यनुग्रहः ।।
मननात्त्राणधर्मत्त्वान्मंत्र इत्यभिधीयते ।। ६४-३ ।।
स्त्रीपुंनपुंसकात्मानस्ते मंत्रास्तु त्रिधा मताः ।।
स्त्रीमंत्रास्तु द्विठांताः स्युः पुंमंत्रा हुंफडंतकाः ।। ६४-४ ।।
क्लीबाश्चैव नमोंऽताः स्युर्मंन्त्राणां जातयः स्मृताः ।।
पुंदैवतास्तु मन्त्रा स्युर्विद्याः स्त्रीदैवता मताः ।। ६४-५ ।।
षट् क्रमसु प्रशस्तास्ते मनवस्त्रिविधाः पुनः ।।
तारांत्यरेफः स्वाहास्तु तत्राग्नेयाः समीरिताः ।। ६४-६ ।।
सौम्यास्तु भृगुपीयूषबीजढ्याः कथिता मुने ।।
अग्नीषोमात्मका ह्येवं मंत्रा ज्ञेया मनीषिभिः ।। ६४-७ ।।
बोधमायांति चाग्नेयाः श्वसने पिंगलाश्रिते ।।
सौम्याश्चैव प्रबुध्यंते वामे वहति मारुतेः ।। ६४-८ ।।
सर्वे मंत्राः प्रबुध्यंते वायौ नाडिद्वयाश्रिते ।।
स्वापकाले तु मन्त्रस्य जपोऽनर्थफलप्रदः ।। ६४-९ ।।
प्रत्येकं मन्त्रमुञ्चार्य नाव्यानां तान्समुञ्चरेत् ।।
अनुलोमे बिंदुयुक्तान्विलोमे सर्गसंयुतान् ।। ६४-१० ।।
जप्तो यदि स वै देवं प्रबुद्धः क्षिप्रसिद्धिदः ।।
अनया मालया जप्तो दुष्टमन्त्रोऽपि सिद्ध्यति ।। ६४-११ ।।
क्रूरे कर्माणि चाग्नेयाः सौम्याः सौम्य फलप्रदाः ।।
शांतज्ञानेतिरौद्रेयशांतिजाति समन्वितः ।। ६४-१२ ।।
शांतोऽपि रौद्रतामेति हुंफट्पल्लवयोजनात् ।।
छिन्नादिदोषयुक्तास्ते नैव रक्षंति साधकम् ।। ६४-१३ ।।
छिन्नो रुद्धः शक्तिहीनस्ततश्चैव पराङ्मुखः ।।
कर्महीनो नेत्रहीनः कीलितः स्तंभितस्तथा ।। ६४-१४ ।।
दग्धः स्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ।।
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः ।। ६४-१५ ।।
हतवीर्यो भ्रांतसंज्ञः प्रध्वस्तो बालकस्तथा ।।
कुमारोऽथ युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा ।। ६४-१६ ।।
निर्बीजः सिद्विहीनश्च मंदः कूटो निरंशकः ।।
सत्त्वहीनः केकरश्च बीजहीनश्च धूमितः ।। ६४-१७ ।।
आलिंगितो मोहितश्च क्षुधार्तश्चातिदीप्तकः ।।
अंगहीनोऽतिक्रुद्धश्चातिक्रूरो व्रीडितस्तथा ।। ६४-१८ ।।
प्रशांतमानसः स्थानभ्रष्टश्च विकलस्तथा ।।
अतिवृद्धोऽतिनिःस्नेहः पीडितश्च तथा पुनः ।। ६४-१९ ।।
दोषा ह्येते समाख्याता वक्ष्याम्येषां च लक्षणम् ।।
संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरसंयुतम् ।। ६४-२० ।।
मनोर्यस्यादिमध्यांते वह्निबीजं तथोच्यते ।।
चतुर्द्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः ।। ६४-२१ ।।
मनोर्यस्यादिमध्यांते भूबीजद्वयमुच्यते ।।
स तु रुद्धो मनुज्ञेयो ह्यतिक्लेशेन सिद्धिदः ।। ६४-२२ ।।
तारवर्मत्रया लक्ष्मीरेवं हीनस्तु यो मनुः ।।
शक्तिहीनः स विज्ञेयश्चिरकालफलप्रदः ।। ६४-२३ ।।
कामबीजं मुखे मायाह्यंते चैवाङ्कुशं तथा ।।
असौ पराङ्मुखो ज्ञेयो भजतां चिरसिद्धिदः ।। ६४-२४ ।।
आदिमध्यावसानेषु सकारो दृश्यते यदि ।।
स मन्त्रो बधिरः प्रोक्तः कष्टेनाल्पफलप्रदः ।। ६४-२५ ।।
पञ्चार्णो यदि रेफर्कबिंदुवर्जितविग्रहः ।।
नेत्रहीनस्तु विज्ञेयः क्लेशेनापि न सिद्धिदः ।। ६४-२६ ।।
आदिमध्यावसानेषु हंसः प्रासादवाग्भवौ ।।
हंसेंदुर्वा सकारो वा फकारो वर्म वा पुन ।। ६४-२७ ।।
माप्रा नमामि च पदं नास्ति यस्मिन्स कीलितः ।।
एवं मध्ये द्वयं मूर्ध्नि यस्मिन्नस्त्रलकारकौ ।। ६४-२८ ।।
न विद्येते स मंत्रस्तु स्तंभितः सिद्धिरोधकृत् ।।
अग्निः पवनसंयुक्तो मनोर्यस्य तु मूर्द्धनि ।। ६४-२९ ।।
स सार्णो दृश्यते यस्तु स मंत्रो दग्धसंज्ञकः ।।
अस्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यतेऽक्षरेः ।। ६४-३० ।।
त्रस्तः स मंत्रो विज्ञेयो मुखे तारविवर्जितः ।।
हकारः शक्तिरथवा भीतो मंत्रः स एव हि ।। ६४-३१ ।।
मनोर्यस्यादिमध्यांते स्यान्मकारचतुष्टयम् ।।
मलिनस्तु स विज्ञेयो ह्यतिक्लेशेन सिद्धिदः ।। ६४-३२ ।।
दार्णो यस्य मनोर्मध्ये मूर्ध्नि क्रोधयुगं तथा ।।
अस्त्रं चास्ति स मंत्रस्तु तिरस्कृत उदीरितः ।। ६४-३३ ।।
म्योद्वयं हृदयं शीर्षे वषड्वौषट्कमध्यमः ।।
यस्य स्याद्भेदितो मंत्रस्त्याज्यः क्लिष्टफलप्रदः ।। ६४-३४ ।।
त्र्यक्षरो हंसहीनो यः सुषुप्तः कीर्तितस्तु सः ।।
विद्या वाप्यथवा मंत्रो भवेत्सप्तदशाक्षरः ।। ६४-३५ ।।
षट्कारपंचकादिर्यो मदोन्मत्तस्तु स स्मृतः ।।
यस्य मध्ये स्थितं चास्रं स मंत्रो मूर्च्छितः स्मृतः ।। ६४-३६ ।।
विरामस्थानगं चास्रं हतवीर्यः स उच्यते ।।
मंत्रस्यादौ च मध्ये च मूर्ध्नि चास्रचतुष्टयम् ।। ६४-३७ ।।
ज्ञातव्यो भ्रांत इत्येष यः स्यादष्टा दशाक्षरः ।।
पुनर्विशतिवर्णो वा यो मंत्रः स्मरसंयुतः ।। ६४-३८ ।।
हृल्लेखाकुंशबीजाढ्यः प्रध्वस्तः स कथ्यते ।।
सप्तार्णो बालमंत्रस्तु कुमारो वसुवर्णवान् ।। ६४-३९ ।।
षोडशार्णो युवा प्रौढश्चत्वारिंशतिवर्णकः ।।
त्रिंशद्वर्णश्चतुःषष्टिवर्णश्चापि शताक्षरः ।। ६४-४० ।।
चतुःशताक्षरो मंत्रो वृद्ध इत्यभिधीयते ।।
नवार्णस्तारसंयुक्तो मंत्रो निस्त्रिंश उच्यते ।। ६४-४१ ।।
यस्यांते हृदयं प्रोक्तं शिरोमंत्रोऽथ मध्यगः ।।
शिखा वर्म च यस्यांते नेत्रमस्रं च दृश्यते ।। ६४-४२ ।।
शिव शक्त्यार्णहीनो वा निर्बीजः स मनुः स्मृतः ।।
आद्यंतमध्ये फट्कारः षोढा यस्मिन्प्रदृश्यते ।। ६४-४३ ।।
स मनुः सिद्धिहीनः स्यान्मंदः पंक्त्यक्षरो मनुः ।।
कूट एकाक्षरो मंत्रः स एवोक्तो निरंशकः ।। ६४-४४ ।।
द्विवर्णः सत्त्वहीनः स्यात्केकरश्चतुरक्षरः ।।
षड्वर्णो बीजहीनो वा सार्द्धसप्ताक्षरोऽपि वा ।। ६४-४५ ।।
सार्द्धद्वादशवर्णो वा धूमितो र्निदितस्तु सः ।।
सार्द्धबीजत्रययुतो मंत्रो विंशतिवर्णवान् ।। ६४-४६ ।।
त्रिंशद्वर्णश्चैकविंशद्वर्णश्चार्लिंगितस्तु सः ।।
यो मंत्रो दंतवर्णस्तु मोहितः स तु कीर्तितः ।। ६४-४७ ।।
चतुर्विशतिवर्णो वा सप्तविंशतिवर्णवान् ।।
क्षुधार्तः स तु विज्ञेयो मंत्रसिद्धिविवर्जितः ।। ६४-४८ ।।
एकादशाक्षरो वापि पंचविंशतिवर्णकः ।।
त्रयोर्विंशतिवर्णो वा स मनुर्दृप्तसंज्ञकः ।। ६४-४९ ।।
षड्विंशत्यक्षरो वापि षट्त्रिंशद्वर्णंकोऽपि वा ।।
एकोन त्रिंशदर्णो वा मंत्रो हीनांगकः स्मृतः ।। ६४-५० ।।
अष्टाविंशतिवर्णो वा तथैकत्रिंशदर्णकः ।।
अतिक्रूरः स विज्ञेयोऽखिलकर्मसु गर्हितः ।। ६४-५१ ।।
चत्वारिंशत्समारभ्य त्रिषष्ट्यंतस्तु यो मनुः ।।
व्रीडितः स तु विज्ञेयः सर्वकर्मसु न क्षमः ।। ६४-५२ ।।
पञ्चषष्ट्यक्षरा मन्त्रा ज्ञेया वै शांतमानसाः ।।
पञ्चषष्ट्यर्णमारभ्य नवनन्दाक्षरावधि ।। ६४-५३ ।।
ये मंत्रास्ते तु विज्ञेयाः स्थानभ्रष्टा मुनीश्वर ।।
त्रयोदशार्णा ये मन्त्रास्तिथ्यर्णाश्च तथा पुनः ।। ६४-५४ ।।
विकसास्तें समाख्याताः सर्वतंत्रविशारदैः ।।
शतं सार्द्धशतं वापि शतद्वयमथापि वा ।। ६४-५५ ।।
द्विनवत्येकहीनो वा शतत्रयमथापि वा ।।
ये मंत्रा वर्णसंख्याका निःस्नेहास्ते प्रकीर्तिताः ।। ६४-५६ ।।
चतुःशतं समारभ्य सहस्रार्णावधि द्विज ।।
अतिवृद्धाः प्रयोगेषु शिथिलास्ते समीरिताः ।। ६४-५७ ।।
सहस्रवर्णदधिका मंत्रास्ते पीडिताह्वयाः ।।
तद्वर्द्ध्वं चैव ये मंत्राः स्तोत्ररूपास्तु ते स्मृताः ।। ६४-५८ ।।
एवं विधाः समाख्याता मनवो दोष संयुताः ।।
दोषानेतानविज्ञाय मंत्रानेताञ्जपन्ति ये ।। ६४-५९ ।।
सिद्धिर्न जायते तेषां कल्पकोटिशतैरपि ।।
छिन्नादिदोषदुष्टानां मंत्राणां साधनं ब्रुवे ।। ६४-६० ।।
योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः ।।
यं कंचिदपि वा मंत्रं तस्य स्युः सर्वसिद्धयः ।। ६४-६१ ।।
सव्यपाष्णि गुदे स्थाप्य दक्षिणं च ध्वजोपरि ।।
योनिमुद्राबंध एवं भवेदासनमुत्तमम् ।। ६४-६२ ।।
अन्योऽप्यत्र प्रकारोऽस्ति योनिमुद्रानिबंधने ।।
तदग्रे सरहस्यं ते कथयिष्यामि नारद ।। ६४-६३ ।।
पारंपर्यक्रमप्राप्तो नित्यानुष्टानतत्परः ।।
गुर्वनुज्ञारतः श्रीमानभिषेकसमन्वितः ।। ६४-६४ ।।
सुंदरः सुमुखः शांतः कुलीनः सुलभो वशी ।।
मंत्रतंत्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः ।। ६४-६५ ।।
निरपेक्षो मुनिर्दांतो हितवादी विचक्षणः ।।
तत्त्वनिष्कासने दक्षो विनयी च सुवेषवान् ।। ६४-६६ ।।
आश्रमी ध्याननिरतः संशयच्छित्सुवुद्धिमान् ।।
नित्यानुष्टानसंयुक्तस्त्वाचार्यः परिकीर्तितः ।। ६४-६७ ।।
शांतो विनीतः शुद्धात्मा सर्वलक्षणसंयुतः ।।
शमादिसाधनोपेतः श्रद्धावान् सुस्थिराशयः ।। ६४-६८ ।।
शुद्धदेहोऽन्नपानद्यैर्द्धार्मिकः शुद्धमानसः ।।
दृढव्रतसमाचारः कृतज्ञः पापभीरुकः ।। ६४-६९ ।।
गुरुध्यानस्तुतिकथासेवनासक्तमानसः ।।
एवंविधो भवेच्छिष्यस्त्वन्यथा गुरुदुःखदः ।। ६४-७० ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे चतुष्षष्टितमोऽध्यायः ।। ६४ ।।