नारदपुराणम्- पूर्वार्धः/अध्यायः ७१

विकिस्रोतः तः
Jump to navigation Jump to search
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच-
शुणु नारद वक्ष्यामि दिव्यान्नरहरेर्मनून्
यान्समाराध्य ब्रह्माद्याश्चक्रुः सृष्ट्यादि कर्म वै १
संवर्तकश्चन्द्र मौलिर्मनुर्वह्निविभूषितः
एकाक्षरः स्मृतो मन्त्रो भजतां सुरपादपः २
मुनिरत्रिश्च जगती छन्दो बुद्धिमतां वर
देवता नृहरिः प्रोक्तो विनियोगोऽखिलाप्तये ३
क्षं बीजं शक्तिरी प्रोक्ता षड्दीर्घेण षडङ्गकम्
अर्केन्दुवह्निनयनं शरदिन्दुरुचं करैः ४
धनुश्चक्राभयवरान्दधतं नृहरिं स्मरेत्
लक्षं जपस्तद्दशांशहोमश्च घृतपायसैः ५
यजेत्पीठे वैष्णवे तु केसरेष्वङ्गपूजनम्
खगेशं शंकरं शेषं शतानन्दं दिगालिषु ६
श्रियं ह्रियं धृतिं पुष्टिं कोणपत्रेषु पूजयेत्
दन्तच्छदेषु नृहरींस्तावतः पूजयेत्क्रमात् ७
कृष्णो रुद्रो महाघोरो भीमो भीषण उज्ज्वलः
करालो विकरालश्च दैत्यान्तो मधुसूदनः ८
रक्ताक्षः पिगलाक्षश्चाञ्जनो दीप्तरुचिस्तथा
सुघोरकश्च सुहनुर्विश्वको राक्षसान्तकः ९
विशालको धूम्रकेशो हयग्रीवो घनस्वनः
मेघवर्णः कुम्भकर्णः कृतान्ततीव्रतेजसौ १०
अग्निवर्णो महोग्रश्च ततो विश्वविभूषणः
विघ्नक्षमो महासेनः सिंहा द्वात्रिंशदीरिताः ११
तद्बहिः प्रार्चयेद्विद्वाँ ल्लोकपालान्सहेतिकान्
एवं सिद्धे मनौ मन्त्री साधयेदखिलेप्सितान् १२
विष्णुः प्रद्युम्नयुक् शार्ङ्गी साग्निर्वीरं महांस्ततः
विष्णुं ज्वलन्तं भृग्वीशो जलं पद्मासनं ततः १३
हरिस्तु वासुदेवाय वैकुण्ठो विष्णुसंयुतः
गदी सेन्दुनृसिंहं च भीषणं भद्र मेव च १४
मृत्युमृत्युं ततः शौरिर्भानोर्नारायणान्वितः
नृहरेर्द्वाविंशदर्णोऽय मन्त्रः साम्राज्यदायकः १५
ब्रह्मा मुनिस्तु गायत्री छन्दोऽनुष्टुबुदाहृतम्
देवता नृहरिश्चास्य सर्वेष्टफलदायकः १६
हं बीजं इं तथा शक्तिर्विनियोगोऽखिलाप्तये
वेदैश्चतुर्भिर्वसुभिः षड्भिः षड्भिर्युगाक्षरैः १७
षडङ्गानि निधायाथ मूर्ध्नि भाले च नेत्रयोः
मुखबाह्वङिघ्रसन्ध्यग्रेष्वथ कुक्षौ तथा हृदि १८
गले पार्श्वद्वये पृष्ठे ककुद्यर्णान्मनूद्भवान्
प्रणवान्तरितान् कृत्वा न्यसेत्साधकसत्तमः १९
नृसिंहसान्निध्यकरो न्यासो दशविधो यथा
कराङ्घ्र्यष्टाद्यङ्गुलीषु पृथगाद्यन्तपर्वणोः २०
सर्वाङ्गुलीषु विन्यस्यावशिष्टं तलयोर्न्यसेत्
शिरोललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा २१
कपोलकर्णमूले च चिबुकोर्द्ध्वाधरोष्ठके
कण्ठे घोणे च भुजयोर्हृत्तनौ नाभिमण्डले २२
दक्षान्पदोस्तले कट्यां मेढ्रोर्वोजानुजङ्घयोः
गुल्फे पादकराङ्गुल्योः सर्वसन्धिषु रोमसु २३
रक्तास्थिमज्जासु तनौ न्यसेद्वर्णान्विचक्षणः
वर्णान्पदे गुल्फजानुकटिनाभिहृदि स्थले २४
बाह्वोः कण्ठे च चिबुके चौष्ठे गण्डे प्रविन्यसेत्
कर्णयोर्वदने नासापुटे नेत्रे च मूर्द्धनि २५
पदानि तु मुखे मूर्ध्नि नसि चक्षुषि कर्णयोः
आस्ये च हृदये नाभौ पादान्सर्वाङ्गके न्यसेत् २६
अर्द्धद्वयं न्यसेन्मूर्ध्नि आहृत्पादात्तदङ्गकम्
उग्रादीनि पदानीह मृत्युमृत्युं नमाम्यहम् २७
इत्यन्तान्यास्यकघ्राणचक्षुः श्रोत्रेषु पक्ष्मसु
हृदि नाभौ च कट्यादिपादान्तं नवसु न्यसेत् २८
वीराद्यानपि तान्येव यथापूर्वं प्रविन्यसेत्
नृसिंहाद्यानि तान्येव पूर्ववद्विन्यसेत्सुधीः २९
चन्द्रा ग्निवेदषड्रामनेत्रदिग्बाहुभूमितान्
विभक्तान्मन्त्रवर्णांश्च क्रमात्स्थानेषु विन्यसेत् ३०
मूले मूलाच्च नाभ्यन्तं नाभ्यादि हृदयावधि
हृदयाद्भ्रूयुगान्तं तु नेत्रत्रये च मस्तके ३१
बाह्वोरङ्गुलिषु प्राणे मूर्द्धादि चरणावधि
विन्यसेन्नामतो धीमान्हरिन्यासोऽयमीरितः ३२
न्यासस्यास्य तु माहात्म्यं जानात्येको हरिः स्वयम्
एवं न्यासविधिं कृत्वा ध्यायेच्च नृहरिं हृदि ३३
गलासक्तलसद्बाहुस्पृष्टकेशोऽब्जचक्रधृक्
नखाग्रभिन्नदैत्येशो ज्वालामालासमन्वितः ३४
दीप्तजिह्वस्त्रिनयनो दंष्ट्रोग्रं वदनं वहन्
नृसिंहोऽस्मान्सदा पातु स्थलांबुगगनोपगः ३५
ध्यात्वैवं दर्शयेन्मुद्रा ं! नृसिंहस्य महात्मनः
जानुमध्यगतौ कृत्वा चिबुकोष्ठौ समावुभौ ३६
हस्तौ च भूमिसंलग्नौ कम्पमानः पुनः पुनः
मुखं विजृन्भितं कृत्वा लेलिहानां च जिह्विकाम् ३७
एषा मुद्रा नारसिंही प्रधानेति प्रकीर्तिता
वामस्याङ्गुष्ठतो बद्ध्वा कनिष्ठामन्गुलीत्रयम् ३८
त्रिशूलवत् संमुखोर्द्ध्वे कुर्यान्मुद्रा ं! नृसिंहगाम्
अङ्गुष्ठाभ्यां च करयोस्तथाऽक्रम्य कनिष्ठके ३९
अधोमुखाभिः शिष्टाभिः शेषाभिर्नृहरौ ततः
हस्तावधोमुखौ कृत्वा नाभिदेशे प्रसार्य च ४०
तर्जनीभ्यां नयेत्स्कन्धौ प्रोक्ता चान्त्रणमुद्रि का
हस्तावूर्द्ध्वमुखौ कृत्वा तले संयोज्य मध्यमे ४१
अनामायां तु वामायां दक्षिणां तु विनिक्षिपेत्
तर्जन्यौ पृष्ठतो लग्नौ अङ्गुष्ठौ तर्जनीश्रितौ ४२
चक्रमुद्रा भवेदेषा नृहरेः सन्निधौ मता
चक्रमुद्रा तथा कृत्वा तर्जनीभ्यां तु मध्यमे ४३
पीडयेद्दंष्ट्रमुद्रै षा सर्वपापप्रणाशिनी
एता मुद्रा नृसिंहस्य सर्वमन्त्रेषु सम्मताः ४४
वर्णलक्षं जपेन्मन्त्रं तद्दशांशं च पायसैः
घृताक्तैर्जुहुयाद्वह्नौ पीठे पूर्वोदितेऽचयेत् ४५
अङ्गा न्यादौ समाराध्यदिक्पत्रेषु यजेत्पुनः
गरुडादीन् श्रीमुखांश्च विदिक्षु लोकपान्बहिः ४६
एवं संसाधितो मन्त्रः सर्वान्कामान्प्रपूरयेत्
सौम्ये कार्ये स्मरेत्सौम्यं क्रूरं क्रूरे स्मरेद्बुधः ४७
पूर्वमृत्युपदे शत्रोर्नाम कृत्वा स्वयं हरिः
निशितैर्नखदंष्ट्राग्रैः खाद्यमानं च संस्मरेत् ४८
अष्टोत्तरशतं नित्यं जपेन्मन्त्रमतन्द्रि तः
जायते मण्डलादर्वाक् शत्रुर्वै शमनातिथिः ४९
ध्यानभेदानथो वक्ष्ये सर्वसिद्धिप्रदायकान्
श्रीकामः सततं ध्यायेत्पूर्वोक्तं नृहरिं सितम् ५०
वामाङ्कस्थितया लक्ष्म्यालिङ्गितं पद्महस्तया
विषमृत्यूपरोगादिसर्वोपद्र वनाशनम् ५१
नरसिंहं महाभीमन कालानलसमप्रभम्
आन्त्रमालाधरं रौद्रं कण्ठहारेण भूषितम् ५२
नागयज्ञोपवीतं च पञ्चाननसुशोभितम्
चन्द्र मौलि नीलकण्ठं प्रतिवक्त्रं त्रिनेत्रकम् ५३
भुजैः परिघसङ्काशैर्द्दशभिश्चोपशोभितम्
अक्षस्रूत्रं गदापद्मं शङ्खं गोक्षीरसन्निभम् ५४
धनुश्च मुशलं चैव बिभ्राणं चक्रमुत्तमम्
खड्गं शूलं च बाणं च नृहरिं रुद्र रूपिणम् ५५
इन्द्र गोपाभनीलाभं चन्द्रा भं स्वर्णसन्निभम्
पूर्वादि चोत्तरं यावदूर्ध्वास्यं सर्ववर्णकम् ५६
एवं ध्यात्वा जपेन्मन्त्री सर्वव्याधिविमुक्तये
सर्वमृत्युहरं दिव्यं स्मरणात्सर्वसिद्धिदम् ५७
ध्यायेद्यदा महत्कर्म तदा षोडशहस्तवान्
नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः ५८
द्वौ विदारणकर्माप्तौ द्वौ चान्त्रोद्धरणान्वितौ
शङ्खचक्रधरौ द्वौ तु द्वौ च बाणधनुर्द्धरौ ५९
खड्गखेटधरौ द्वौ च द्वौ गदापद्मधारिणौ
पाशाङ्कुशधरौ द्वौ च द्वौ रिपोर्मुकुटार्पितौ ६०
इति षोडशदोर्दण्डमण्डितं नृहरिं विभुम्
ध्यायेन्नारद नीलाभमुग्रकर्मण्यनन्यधीः ६१
ध्येयो महत्तमे कार्ये द्वात्रिंशद्धस्तवान्बुधैः
नृसिंहः सर्वभूतेशः सर्वसिद्धिकरः परः ६२
दक्षिणे चक्रपद्मे च परशुं पाशमेव च
हलं च मुशलं चैव अभयं चाङ्कुशं तथा ६३
पट्टिशं भिन्दिपालं च खड्गमुद्गरतोमरान्
वामभागे करैः शङ्खं खेटं पाशं च शूलकम् ६४
अग्निं च वरदं शक्तिं कुण्डिकां च ततः परम्
कार्मुकं तर्जनीमुद्रा ं! गदां डमरुशूर्पकौ ६५
द्वाभ्यां कराभ्यां च रिपोर्जानुमस्तकपीडनम्
ऊर्द्ध्वीकृताभ्यां बाहुभ्यां आन्त्रमालाधरं विभुम् ६६
अधः स्थिताभ्यां बाहुभ्यां हिरण्यकविदारणम्
प्रियङ्करं च भक्तानां दैत्यानां च भयङ्करम् ६७
नृसिंहं तं स्मरेदित्थं महामृत्युभयापहम्
एवं ध्यात्वा जपेन्मन्त्री सर्वकार्यार्थसिद्धये ६८
अथोच्यते ध्यानमन्यन्मुखरोगहरं शुभम्
स्वर्णवर्णसुपर्णस्थं विद्युन्मालासटान्वितम् ६९
कोटिपूर्णेन्दुवर्णं च सुमुखं त्र्! यक्षिवीक्षणम्
पीतवस्त्रोरुभूषाढ्यं नृसिहं शान्तविग्रहम्
चक्रशङ्खाभयवरान्दधतं करपल्लवैः ७०
क्ष्वेडरोगादिशमनं स्वैर्ध्यानैः सुरवन्दितम्
शत्रोः सेनानिरोधेन यत्नं कुर्याच्च साधकम् ७१
अक्षकाष्ठैरेधितेऽग्नौ विचिन्त्य रिपुमर्दनम्
देवं नृसिंहं सम्पूज्य कुसुमाद्युपचारकैः ७२
समूलमूलैर्जुहुयाच्छरैर्दशशतं पृथक्
रिपुं खादन्निव जपेन्निर्दहन्निव तं क्षिपेत् ७३
हुत्वा सप्तदिनं मन्त्री सेनामिष्टां महीपतेः
प्रस्थापयेच्छुभे लग्ने परराष्ट्रजयेच्छया ७४
तस्याः पुरस्तान्नृहरिं निघ्नन्तं रिपुमण्डलम्
स्मृत्वा जपं प्रकुर्वीत यावदायाति सा पुनः ७५
निर्जित्य निखिलाञ्छत्रून्सह वीरश्रिया सुखात्
प्रीणयेन्मन्त्रिणं राजा विभवैः प्रीतमानसः ७६
गजाश्वरथररत्नैश्च ग्रामक्षेत्रधनादिभिः
यदि मन्त्री न तुष्येत तदानर्थो महीपतेः ७७
जायते तस्य राष्ट्रेषु प्राणेभ्योऽपि महाभयम्
अष्टोत्तरशतमूलमन्त्रमन्त्रितभस्मना ७८
नाशयेन्मूषिकालूतावृश्चिकाद्युत्थितं विषम्
लिप्ताङ्गः सर्वरोगैश्च मुच्यते नात्र संशयः ७९
सेवन्तीकुसुमैर्हुत्वा महतीं श्रियमाप्नुयात्
औदुम्बरसमिद्भिस्तु भवेद्धान्यसमृद्धिमान् ८०
अपूपलक्षहोमे तु भवेद्वैश्रवणोपमः
क्रुद्धस्य सन्निधौ राज्ञो जपेदष्टोत्तरं शतम् ८१
सद्यो नैर्मल्यमाप्नोति प्रसादं चाधिगच्छति
कुन्दप्रसूनैरुदयं मोचाभिर्विघ्ननाशनम् ८२
तुलसीपत्रहोमेन महतीं कीर्तिमाप्नुयात्
शाल्युत्थसक्तुहोमेन वशयेदखिलं जगत् ८३
मधूकपुष्पैरिष्टं स्यात्स्तम्भनं धात्रिखण्डकैः
दधिमध्वाज्यमिश्रां तु गुडूचीं चतुरङ्गुलाम् ८४
जुहुयादयुतं योऽसौ शतं जीवति रोगजित्
शनैश्चरदिनेऽश्वत्थं स्पृष्ट्वा चाष्टोत्तरं शतम् ८५
जपेज्जित्वा सोऽपमृत्युं शतवर्षाणि जीवति
अथ ते सम्प्रवक्ष्यामि यन्त्रं त्रैलोक्यमोहनम् ८६
यस्य सन्धारणादेव भवेयुः सर्वसम्पदः
श्वेतभूर्ज्जे लिखेत्पद्मं द्वात्रिंशत्सिंहसंयुतम् ८७
मध्ये सिंहे स्वबीजं च लिखेत्पूर्ववदेव तु
श्रीबीजेन तु संवेद्य वलयत्रयसंयुतम् ८८
पाशाङ्कुशैश्च संवेष्ट्य पूजयेद्यन्त्रमुत्तमम्
त्रैलोक्यमोहनं नाम सर्वकामार्थसाधनम् ८९
चक्रराजं महाराजं सर्वचक्रेश्वरेश्वरम्
धारणाज्जयमाप्नोति सत्यं सत्यं न संशयः ९०
अथ यन्त्रान्तरं वक्ष्ये शुणु नारद सिद्धिदम्
अष्टारं विलिखेद्यन्त्रं श्लक्ष्णं कर्णिकया युतम् ९१
मूलमन्त्रं लिखेत्तत्र प्रणवेन समन्वितम्
एकाक्षरं नारसिंहं मध्ये चैव ससाध्यकम् ९२
जपेदष्टसहस्रं तु सूत्रेणावेष्ट्य तद्बहिः
स्वर्णरौप्यसुताम्रैश्च वेष्टयेत्क्रमतः सुधीः ९३
लाक्षया वेष्टितं कृत्वा पुनर्मन्त्रेण मन्त्रयेत्
कण्ठे भुजे शिखायां वा धारयेद्यन्त्रमुत्तमम् ९४
नरनारीनरेन्द्रा श्च सर्वे स्युर्वशगा भुवि
दुष्टास्तं नैव बाधन्ते पिशाचोरगराक्षसाः ९५
यन्त्रराजप्रसादेन सर्वत्र जयमाप्नुयात्
अथान्यत्सम्प्रवक्ष्यामि यन्त्रं सर्ववशङ्करम् ९६
द्वादशारं महाचक्रं पूर्ववद्विलिखेत्सुधीः
मात्राद्वादशसम्भिन्नदलेन विलिखेद्बुधः ९७
मध्ये मन्त्रं शक्तियुक्तं श्रीबीजेन तु वेष्टयेत्
कालान्तकं नाम चक्रं सुरासुरवशङ्करम् ९८
चक्रमुल्लेखयेद्भूर्जे सर्वशत्रुनिवारणम्
यस्य धारणमात्रेण सर्वत्र विजयी भवेत् ९९
अथ सर्वेष्टदं ज्वालामालिसंज्ञं वदाम्यहम्
बीजं हृद्भगवान्ङेन्तो नरसिंहाय तत्परम् १००
ज्वालिने मालिने दीप्तदंष्ट्राय अग्निने पदम्
त्राय सर्वादिरक्षोघ्नाय च नः सर्वभूपदम् १०१
हरिर्विनाशनायान्ते सर्वज्वरविनाशनः
नामान्ते दहयुग्मं च पचद्वयमुदीरयेत् १०२
रक्षयुग्मं च वर्मास्त्रठद्वयान्तो ध्रुवादिकः
अष्टषष्ट्यक्षरैः प्रोक्तो ज्वालामाली मनूत्तमः १०३
पुण्यादिकं तु पूर्वोक्तं त्रयोदशभिरक्षरैः
पङिक्तभी रुद्र सङ्ख्याकैरष्टादशभिरक्षरैः १०४
भानुभिः करणैर्मन्त्री वरेरंगानि कल्पयेत्
पूर्वोक्तरूपिणं ज्वालामालिनं नृहरिं स्मरेत् १०५
लक्षं जपो दशांशं च जुहुयात्कपिलाधृतैः
रौद्रा पस्मारभूतादिनाशकोऽय मनूत्तमः १०६
प्राणो माया नृसिहश्च सृष्टिर्ब्रह्मास्त्रमीरितः
षडक्षरो महामन्त्रः सर्वाभीष्टप्रदायकः १०७
मुनिर्ब्रह्मा तथा छन्दः पङिक्तर्देवो नृकेसरी
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् १०८
पूर्वोक्तेनैव विधिना ध्यानं पूजां समाचरेत्
सिद्धेन मनुनानेन सर्वसिद्धिर्भवेन्नृणाम् १०९
रमाबीजादिकोऽनुष्टुप् त्रयस्त्रिंशार्णवान्मनुः
प्रजापतिर्मुनिश्च्छन्दोऽनुष्टुप् लक्ष्मीनृकेसरी ११०
देवता च पदैः सर्वेणाङ्गकल्पनमीरितम्
विन्यस्यैवं तु पञ्चाङ्गं स्वात्मरक्षां समाचरेत् १११
संस्पृशन् दक्षिणं बाहुं शरभस्य मनुं जपेत्
प्रणवो हृच्छिवायेति महते शरभाय च ११२
वह्निप्रियान्तो मन्त्रस्तु रक्षार्थे समुदाहृतः
अथवा राममन्त्रान्ते परं क्षद्वितयं पठेत् ११३
अथवा केशवाद्यैस्तु रक्षां कुर्यात्प्रयत्नतः
केशवः पातु पादौ मे जङ्घे नारायणोऽवतु ११४
माधवो मे कटिं पातु गोविन्दो गुह्यमेव च
नाभिं विष्णुश्च मे पातु जठरं मधुसूदनः ११५
ऊरू त्रिविक्रमः पातु हृदयं पातु मे नरः
श्रीधरः पातु कण्ठं च हृषीकेशो मुखं मम ११६
पद्मनाभः स्तनौ पातु शीर्षं दामोदरोऽवतु
एवं विन्यस्य चाङ्गेषु जपकाले तु साधकः ११७
निर्भयो जायते भूतवेतालग्रहराक्षसात्
पुनर्न्यसेत्प्रयत्नेन ध्यानं कुर्वन्समाहितः ११८
पुरस्तात्केशवः पातु चक्री जांबूनदप्रभः
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ११९
ऊर्द्ध्वमिन्दीवरश्यामो माधवस्तु गदाधरः
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्र प्रभो महान् १२०
उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कमसन्निभः
आग्नेय्यामरविन्दाक्षो मुसली मधुसूदनः १२१
त्रिविक्रमः खड्गपाणिर्नैरृत्यां ज्वलनप्रभः
वायव्यां माधवो वज्री तरुणादित्यसन्निभः १२२
एशान्यां पुण्डरीकाक्षः श्रीधरः पट्टिशायुधः
विद्युत्प्रभो हृषीकेश ऊर्द्ध्वे पातु समुद्गरः १२३
अधश्च पद्मनाभो मे सहस्रांशुसमप्रभः
सर्वायुधः सर्वशक्तिः सर्वाद्यःसर्वतोमुखः १२४
इन्द्र गोपप्रभः पायात्पाशहस्तोऽपराजितः
स बाह्याभ्यन्तरे देहमव्याद्दामोदरो हरिः १२५
एवं सर्वत्र निश्छिद्रं नामद्वादशपञ्जरम्
प्रविष्टोऽह न मे किञ्चिद्भयमस्ति कदाचन १२६
एवं रक्षां विधायाथ दुर्द्धर्षो जायते नरः
सर्वेषु नृहरेर्मन्त्रवर्गेष्वेवं विधिर्मतः १२७
पूर्वोक्तविधिना सर्वं ध्यानपूजादिकं चरेत्
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन १२८
नमस्तेऽस्तु हृषीकेश महापुरुष ते नमः
इत्थं सम्प्रार्थ्य जप्त्वा च पठित्वा विसृजेद्विभुम् १२९
एवं सिद्धे मनौ मन्त्री जायते सम्पदां पदम्
जयद्वयं श्रीनृसिंहेत्यष्टार्णोऽय मनूत्तमः १३०
मुनिर्ब्रह्माथ गायत्री छन्दः प्रोक्तोऽस्य देवता
श्रीमाञ्जयनृसिंहस्तु सर्वाभीष्टप्रदायकः १३१
सेन्दुगोविन्दपूर्वेण वियता सेन्दुनापुनः
षड्दीर्घाढ्ये न कुर्वीत षडंगानि विशालधीः १३२
ततो ध्यायेद्धृदि विभुं नृसिंहं चन्द्र शेखरम् १३३
श्रीमन्नृकेसरितनो जगदेकबन्धो श्रीनीलकण्ठ करुणार्णव सामराज
वह्नीन्दुतीव्रकरनेत्र पिनाकपाणे शीतांशुशेखर रमेश्वर पाहि विष्णो १३४
ध्यात्वैवं प्रजपेल्लक्षाष्टकं मन्त्री दशांशतः
साज्येन पायसान्नेन जुहुयात्प्राग्वदर्चनम् १३५
तारो माया स्वबीजान्ते कर्णोग्रं वीरमीरयेत्
महाविष्णुं ततो ब्रूयाज्ज्वलन्तं सर्वतोमुखम् १३६
स्फुरद्द्वयं प्रस्फुरेति द्वयं घोरपदं ततः
वदेद्घोरतरं ते तु तनुरूपं च ठद्वयम् १३७
प्रचटद्वयमाभाष्य कहयुग्मन च मद्वयम्
बन्धद्वयं घातयेति द्वयं वर्मास्त्रमीरयेत् १३८
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
पञ्चाशीत्यक्षरो मन्त्रो भजतामिष्टदायकः १३९
ऋषी ह्यघोरब्रह्माणौ तथा त्रिष्टुबनुष्टुभौ
छन्दसी च तथा घोरनृसिंहो देवता मतः १४०
ध्यानार्चनादिकं चास्य कुर्यादानुष्टुभं सुधीः
विशेषान्मन्त्रवर्योऽय सर्वरक्षाकरो मतः १४१
बीजं जययुगं पश्चान्नृसिंहेत्यष्टवर्णवान्
ऋषिः प्रजापतिश्चास्यानुष्टुप्छन्द उदाहृतम् १४२
विदारणनृसिंहोऽस्य देवता परिकीर्तितः
जं बीजं हं तथा शक्तिर्विनियोगोऽखिलाप्तये १४३
दीर्घाढ्येन नृसिंहेन षडङ्गन्यासमाचरेत्
रौद्रं ध्यायेन्नृसिंहं तु शत्रुवक्षोविदारणम् १४४
नखदंष्ट्रायुधं भक्ताभयदं श्रीनिकेतनम्
तप्तहाटककेशान्तज्वलत्पावकलोचनम् १४५
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते
मुनिर्ब्रह्मा समाख्यातोऽनुष्टुप्छन्दः समीरितः १४६
देवतास्य रदार्णस्य दिव्यपूर्वो नृकेसरी
पादैश्चतुर्भिः सर्वेण पञ्चाङ्गानि समाचरेत् १४७
ध्यानपूजादिकं सर्वं प्राग्वत्प्रोक्तं मुनीश्वर
पूर्वोक्तानि च सर्वाणि कार्याण्यायान्ति सिद्धताम् १४८
तारो नमो भगवते नरसिंहाय हृच्च ते
जस्तेजसे आविराविर्भव वज्रनखान्ततः १४९
व्रजदंष्ट्रेति कर्मान्ते त्वासयाक्रन्दयद्वयम्
तमो ग्रसद्वयं पश्चात्स्वाहान्ते चाभयं ततः १५०
आत्मन्यन्ते च भूयिष्ठा ध्रुवो बीजान्तिमो मनुः
द्विषष्ट्यर्णोऽस्य मुन्यादि सर्वं पूर्ववदीरितम् १५१
तारो नृसिंहबीजं च नमो भगवते ततः
नरसिंहाय तारश्च बीजमस्य यदा ततः १५२
रूपाय तारः स्वर्बीजं कूर्मरूपाय तारकम्
बीजं वराहरूपाय तारो बीज नृसिंहतः १५३
रूपाय तार स्वं बीजं वामनान्ते च रूपतः
पापध्रुवत्रयं बीजं रामाय निगमादितः १५४
बीजं कृष्णाय तारान्ते बीजं च कल्किने ततः
जयद्वयं ततः शालग्रामान्ते च निवासिने १५५
दिव्यसिंहाय डेन्तः स्यात्स्वयम्भूः पुरुषाय हृत्
तारः स्वं बीजमित्येष महासाम्राज्यदायकः १५६
नृसिंहमन्त्रः खाङ्कार्णो मुनिरत्रिः प्रकीर्तितः
छन्दोऽतिजगती प्रोक्तं देवता कथिता मनोः १५७
दशावतारो नृहरिं बीजं खं शक्तिरव्ययः
षड्दीर्घाढ्येन बीजेन कृत्वाङ्गानि च भावयेत् १५८
अनेकचन्द्र प्रतिमो लक्ष्मीमुखकृतेक्षणः
दशावतारैः सहितस्तनोतु नृहरिः सुखम् १५९
जपोऽयुतं दशांशेन होमः स्यात्पायसेन तु
प्रागुक्ते पूजयेत्पीठे मूर्तिं सङ्कल्प्य मूलतः १६०
अंगान्यादौ च मत्स्याद्यान्दिग्दलेषु ततोऽचयेत्
इन्द्रा द्यानपि वज्राद्यान्सम्पूज्येष्टमवाप्नुयात् १६१
सहस्रार्णं महामन्त्रं वक्ष्ये तन्त्रेषु गोपितम्
तारो माया रमा कामो बीजं क्रोधपदं ततः १६२
मूर्ते नृसिंहशब्दान्ते महापुरुष ईरयेत्
प्रधानधर्माधर्मान्ते निगडेतिपदं वदेत् १६३
निर्मोचनान्ते कालेति ततः पुरुष ईरयेत्
कालान्तकसदृक्तोयं स्वेश्वरान्ते सदृग्जलम् १६४
श्रान्तान्ते तु निविष्टेति चैतन्यचित्सदा ततः
भासकान्ते तु कालाद्यतीतनित्योदितेति च १६५
उदयास्तमयाक्रान्तमहाकारुणिकेति च
हृदयाब्जचतुश्चोक्ता दलान्ते तु निविष्टितः १६६
चैतन्यात्मन्श्चतुरात्मन्द्वादशात्मन्स्ततः परम्
चतुर्विंशात्मन्नन्ते तु पञ्चविंशात्मन्नित्यपि १६७
बको हरिः सहस्रान्ते मूर्ते एह्येहि शब्दतः
भगवन्नृसिंहपुरुष क्रोधेश्वर रसा सह १६८
स्रवन्दितान्ते पादेति कल्पान्ताग्निसहस्र च
कोट्याभान्ते महादेव निकायदशशब्दतः १६९
शतयज्ञातलं ज्ञेयं ततश्चामलयुग्मकम्
पिङ्गलेक्षणसटादंष्ट्रा दंष्ट्रायुध नखायुध १७०
दानवेन्द्रा न्तकावह्निणशोणितपदं ततः
संसक्तिविग्रहान्ते तु भूतापस्मारयातुधान् १७१
सुरासुरवन्द्यमानपादपङ्कजशब्दतः
भगवन्व्योमचक्रेश्चरान्ते तु प्रभावप्यय १७२
रूपेणोत्तिष्ठ चोत्तिष्ठ अविद्यानिचयं दह
दहज्ञानैश्वर्यमन्ते प्रकाशययुगं ततः १७३
ॐ सर्वज्ञ अरोषान्ते जम्भाजृम्भ्यवतारकम्
सत्यपुरुषशब्दान्ते सदसन्मध्य ईरयेत् १७४
निविष्टं मम दुःस्वप्नभयं निगडशब्दतः
भयं कान्तारशब्दान्ते भयं विषपदात्ततः १७५
ज्वरान्ते डाकिनी कृत्याध्वरेवतीभयं ततः
अशन्यन्ते भयं दुर्भिक्षभयं मारीशब्दतः १७६
भयं मारीचशब्दान्ते भयं छायापदं ततः
स्कन्दापस्मारशब्दान्ते भयं चौरभयं ततः १७७
जलस्वप्नाग्निभयं गजसिंहभुजङ्गतः
भयं जन्मजरान्ते मरणादिशब्दमीरयेत् १७८
भयं निर्मोचययुगं प्रशमययुगं ततः
ज्ञेयरूपधारणान्ते नृसिंहबृहत्सामतः १७९
पुरुषान्ते सर्वभयनिवारणपदं ततः
अष्टाष्टकं चतुःषष्टिः चेटिकाभयमीरयेत् १८०
विद्यावृतस्त्रयस्त्रिंशद्देवताकोटिशब्दतः
नमितान्ते पदपदात्पङ्कजान्वित ईरयेत् १८१
सहस्रवदनान्ते तु सहस्रोदर संवदेत्
सहस्रेक्षणशब्दान्ते सहस्रपादमीरयेत् १८२
सहस्रभुज सम्प्रोच्य सहस्रजिह्व संवदेत्
सहस्रान्ते ललाटेति सहस्रायुधतोधरात् १८३
तमःप्रकाशक पुरमथनान्ते तु सर्व च
मन्त्रे राजेश्वरपदाद्विहायसगतिप्रद १८४
पातालगतिप्रदान्ते यन्त्रमर्द्दन ईरयेत्
घोराट्टहासहसितविश्वावासपदं ततः १८५
वासुदेव ततोऽक्रूर ततो हयमुखेति च
परमहंसविश्वेश विश्वान्ते तु विडम्बन १८६
निविष्टान्ते ततः प्रादुर्भावकारक ईरयेत्
हृषीकेश च स्वच्छन्द निःशेषजीव विन्यसेत् १८७
ग्रासकान्ते महापश्चात्पिशितासृगितीरयेत्
लंपटान्ते खेचरीति सिद्ध्य्न्ते तु प्रदायक १८८
अजेयाव्यय अव्यक्त ब्रह्माण्डोदर इत्यपि
ततो ब्रह्मसहस्रान्ते कोटिस्रग्रुण्डशब्दतः १८९
माल पण्डितमुण्डेति मत्स्य कूर्म ततः परम्
वराहान्ते नृसिंहेति वामनान्ते समीरयेत् १९०
त्रैलोक्याक्रमणान्ते तु पादशालिक ईरयेत्
रामत्रय ततो विष्णुरूपान्ते धर एव च १९१
तत्त्वत्रयान्ते प्रणवाधारतस्तच्छिखां पदम्
निविष्टवह्निजायान्ते स्वधा चैव ततो वषट् १९२
नेत्र वर्मास्त्रमुच्चार्य्यप्राणाधार इतीरयेत्
आदिदेवपदात्प्राणापानपश्चान्निविष्टितः १९३
पाञ्चरात्रिक दितिज विनिधनान्ते करेति च
महामाया अमोघान्ते दर्यं दैत्येन्द्र शब्दतः १९४
दर्यान्ते दलनेत्युक्ता तेजोराशिन् ध्रुवं स्मरः
तेजस्वरान्ते पुरुष्पंङेन्ते सत्यपूरुष १९५
अस्त्रतारोऽच्युतास्त्रं च तारो वाचा सुदेव फट्
तारमायामूर्तेः फट् वः कामः स्वरादिमः १९६
मूर्तेस्त्रमव्ययोबीजं विश्वमूर्तेस्त्रिमव्ययः
मायाविश्वात्मने षट् च तारः सौचं तुरात्मने १९७
फट् तारोहं विश्वरूपिन्नस्त्रं च तदनन्तरम्
तारौह्रैपरमान्ते तु ह्रंसफट्प्रणवस्ततः १९८
ह्रः हिरण्यगर्भरूप धारणान्ते च फट् ध्रुवः
ह्रौं अनौपम्यरूपधारिणास्त्रं ध्रुवस्ततः १९९
क्षौं नृसिंहरूपधारिन् ॐ क्लं श्लश्च स्वरादिकः
ष्टाङ्गविन्यासविन्यस्तमूर्तिधारिंस्ततश्च फट् २००
ह्रौं निसर्गसिद्ध्य्कैरूपधारिंस्ततश्च फट्
तारो वर्मत्रयं संकरं वं चामुकमस्तकम् २०१
खण्डद्वयं खादयेतिद्वयं क्लीं साध्यमानय
द्वयं ततो महात्मन्स्यान्सम्यग्दर्शययुग्मकम् २०२
षड्दीर्घाड्यां स्वबीजं च क्षपितान्ते तु कल्मष
उत्तरायं द्वयं पञ्चबाणबीजानि वोच्चरेत् २०३
नृसिंहान्ते ततो ज्वालात्मने स्वाहा समीरयेत्
नृसिंहान्ते ततः कालात्मने स्वाहा ध्रुवस्ततः २०४
खबीजं कामबीजं च लक्ष्मीबीजद्वयं ततः
मायातारान्तिमो मन्त्रः सहस्राक्षरसम्मितः २०५
कपिलोऽस्य मुनिश्छन्दो जगती देवता पुनः
श्रीलक्ष्मीर्नृहरिर्बीजं क्षौं शक्तिर्वह्निवल्लभा २०६
श्वेतो वर्ण उदात्तश्च स्वरः प्रोक्तो मनीषिभिः
क्षेत्रं च परमात्मा तु विनियोगोऽखिलाप्तये २०७
क्षः सहस्रबाहवेन्ते सहस्रायुधधराय च
नृसिहान्तं वह्निजायास्त्रायफट् मन्त्र ईरितः २०८
अनेन करशुद्धिं च कृत्वाङ्गानि समाचरेत्
तारः क्षां च सहस्रान्ते क्षरशब्दाद्विजृम्भितम् २०९
नृसिंहायाग्निजायान्तो हृदये मनुरीरितः
मारः क्षीं च महातेनुं प्रभान्ते विकरेति च २१०
नृसिंहायाग्निजायान्ते शिरोमन्त्रः प्रकीर्तितः
तारः क्षूं तप्तयंहायश्चादृक् केशान्त ईरयेत् २११
ज्वलत्यावकलो कूर्मो दीर्घा वज्राधिकेति च
नखस्पर्शाद्दिव्यासिंह नमोऽस्तु भगवन् हरिः २१२
महाध्वस्त जगद्रू प नृसिंहाय द्वयंद्वयम्
अनेन च शिखा प्रोक्ता कवचं तदनन्तरम् २१३
तारः क्षैं च सुवर्णं ते मदमत्तपदं ततः
विह्वलितनृसिंहाय स्वाहान्तं कवचं स्मृतम् २१४
तारः क्षौं च सहस्राय विश्वरूपपदं वदेत्
धारणेग्निप्रियान्तोऽय नेत्रमन्त्रः प्रकीर्तितः २१५
तारो क्षश्च सहस्रान्ते वारावेपदमीरयेत्
सहस्रान्ते युधायाथ नृसिंहायाग्निसुन्दरी ११६
अस्त्रमन्त्रः समाख्यातस्ततो ध्यायेन्नृकेसरीम्
उद्यदर्कसहस्राभं त्रीक्षणं भीमभूषणम् २१७
सुतीक्ष्णाग्रभुजो दण्डेर्दैत्यदारणकं स्मरेत्
एवं ध्यात्वा जपेन्मन्त्री सहस्रं पायसेन च २१८
आज्यप्लुतेन जुहुयात्सम्यक्सिद्धो भवेन्मनुः
प्रागुक्ते वैष्णवे पीठे मूर्तिं सङ्कल्प्य मूलतः २१९
सम्पूज्य नृहरिं पश्चादादावङ्गानि पूजयेत्
चक्रं शङ्खं च पाशं वाङ्कुशं कुलिशमेव च २२०
गदाकृपाणिक्ष्वेडानि दलेषु परिपूजयेत्
लोकेशानपि वज्राद्यान्पूजयेत्तदनन्तरम् २२१
एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति
भस्माभिमन्त्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् २२२
भस्मसंलेपनादेव सर्वग्रहविनाशनम्
अनेनैव विधानेन यक्षराक्षसकिन्नराः २२३
भूतप्रेतपिशाचाश्च नश्यन्त्येव न संशयः
पराभिचारकृत्यानि मनुनानेन मन्त्रितम् २२४
भस्म संलेपयेत्सद्यो दुराधर्षो भवेन्नरः
सुदिने स्थापयेत्कुम्भे सर्वतोभद्र मण्डले २२५
तीर्थतोयेन सम्पूर्य जपेदष्टोत्तरं शतम्
तेनाभिषिक्तो मनुजः सर्वापत्तिं तरेद् ध्रुवम् २२६
किं बहूक्तेन सर्वेष्टदायकोऽय मनूत्तमः
वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि
तन्नो नृसिंहः शब्दान्ते वदेच्चैव प्रचोदयात् २२७
एषा नृसिंहगायत्री सर्वाभीष्टप्रदायिनी
एतस्याः स्मरणादेव सर्वपापक्षयो भवेत् २२८
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नृसिंहोपासनामन्त्रगायत्र्यादिनिरूपणं नामैकसप्ततितमोऽध्यायः ७१