नारदपुराणम्- पूर्वार्धः/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।
कथितो भवता सम्यग्वर्णाश्रमविधिर्मुने ।।
इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम् ।। ३१-१ ।।

सनक उवाच ।।
श्रृणु विप्र प्रवक्ष्यामि यममार्गं सुदुर्गमम् ।।
सुखदं पुण्यशीलानां पापिनां भयदायकम् ।। ३१-२ ।।

षडशीतिसहस्त्राणि योजनार्निनि मुनीश्वर ।।
यममार्गस्य विस्तारः कथितः पूर्वसूरिभिः ।। ३१-३ ।।

ये नरा दानशीलास्तु ते यांति सुखिनो द्विज ।।
धर्मशून्या नरा यांति दुःखेन भृशमर्दिताः ।। ३१-४ ।।

अतिभीता विवश्त्राश्च शुष्ककंठौष्ठतालुकाः ।।
क्रदंतो विस्तरं दीनाः पापिनो यांति तत्पथि ।। ३१-५ ।।

हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः ।। ३१-६ ।।
इतस्ततः प्रधावंतो यांति दुःखेन तत्पथि ।।

क्वचित्पंकः क्वचिदूह्निः क्वचित्सेतप्तसैकतम् ।।
क्वचिद्वै दावरुपेणः तीक्ष्णधाराः शिलाः क्वचित् ।। ३१-७ ।।

क्वचित्कंटकवृक्षाश्च दुःखारोहशिला नगाः ।।
गाढांधकाराश्च गुहाः कंटकावरणं महत् ।। ३१-८ ।।

वप्राग्रारोहणं चैव कन्दरस्य प्रवेशनम् ।।
शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः ।। ३१-९ ।।

शैवालं च क्वचिन्मार्गे क्वचित्कीचकपंक्तयः ।।
क्वचिव्द्याव्राश्च गर्जंते वर्धंते च क्वचिज्ज्वराः ।। ३१-१० ।।

एवं बहुविधक्लेशाः पापिनो यांति नारद ।।
क्रोशंतश्च रुदन्तश्च म्लायंतश्चैव पापिनः ।। ३१-११ ।।

पाशेन यंत्रिताः केचित्कृष्यमाणास्तथांकुशैः ।।
शास्त्रास्त्रैस्ताड्यमानाश्च पृष्टतो यांति पापिनः ।। ३१-१२ ।।

नासाग्रपाशकृष्टाश्च केचिदंत्रैश्च बधिताः ।।
वहंतश्चायसां भारं शिश्राग्रेण प्रयांति वै ।। ३१-१३ ।।

अयोभारद्वयं केचिन्नासाग्रेण तथापरे ।।
कर्णाभ्यां च तथा केचिद्वहंतो यांति पापिनः ।। ३१-१४ ।।

केचिच्च स्खलिता यांति ताड्यमानास्तथापरे ।।
अत्यर्थोच्ङ्वसिताः केचित्केचिदाच्छत्रलोचनाः ।। ३१-१५ ।।

छायाजलविहीने तु पथि यांत्यतिदुःखिताः ।।
शोचन्तः स्वानि कर्मणि ज्ञानाज्ञानकृतानि च ।। ३१-१६ ।।

ये तु नारद धर्मिष्ठा दानशीला सुबुद्धयः ।।
अतीव सुखसंपन्नास्ते यांति धर्ममंदिरम् ।। ३१-१७ ।।

अन्नदास्तु मुनुश्रेष्ट भुंजंतः स्वादु यांति वै ।।
नीरदा यांति सुखिनः पिबंतः क्षीरमुत्तममम् ।।

तक्रदा दधिदाश्चैव तत्तद्भोगं लभंति वै ।।
घृतदा मधुदाश्चैव क्षीरदाश्च द्विजोत्तम ।। ३१-१८ ।।

सुधापानं प्रकुर्वंतो यांति वै धर्ममंदिरम् ।।
शाकदाः पायसं भुंजंन्दीपदो ज्वलयन्दिशः ।। ३१-१९ ।।

वस्त्रदो मुनुशार्दूल याति दिव्याम्बरावृतः ।।
पुराकरप्रदो याति स्तूयमानोऽमरैः पथि ।। ३१-२० ।।

गोदानेन नरो याति सर्वसौख्यसमन्वितः ।।
भूमिदो गृहदश्चैव विमाने सर्वसंपदि ।। ३१-२१ ।।

अप्सरोगणसंकीर्णे क्रीडन्याति वृषालयम् ।।
हयदो यानदश्चापि गजदश्च द्विजोत्तम ।। ३१-२२ ।।

धर्मालयं विमानेन याति भोगान्वितेन वै ।।
अनडुद्दो मुनिश्रेष्ट यानारुढः प्रयाति वै ।। ३१-२३ ।।

फलदः पुष्पदश्चापि याति संतोषसंयुतः ।।
तांबूलदो नरो याति प्रहृष्टो धर्ममंदिरम् ।। ३१-२४ ।।

मातापित्रोश्च शुश्रूषां कृतवान्यो नरोत्तमः ।।
स याति परितुष्टात्मा पूज्यमानो दिविस्थितैः ।। ३१-२५ ।।

शुश्रूषां कुरुते यस्तु यतीनां व्रतचारिणाम् ।।
द्विजाग्र्यब्राह्मणानां च स यात्यतिसुखान्वितः ।। ३१-२६ ।।

सर्वभूतदयायुक्तः पूज्यमानोऽमरैर्द्विजः ।।
सर्वभोगान्वितेनासौ विमानेन प्रयाति च ।। ३१-२७ ।।

विद्यादानरतो याति पूज्यमानोऽब्जसूनुभिः ।।
पुराणपठको याति स्तूयमानो मुनीश्वरैः ।। ३१-२८ ।।

एवं धर्मपरा यांति सुखं धर्मस्य मंदिरम् ।।
यमश्चतुर्मुखो भूत्वा शंखचक्रगदासिभृत् ।। ३१-२९ ।।

पुण्यकर्मरतं सम्यक्स्नेहान्मित्रमिवार्चति ।।
भो भो बुद्धिमतां श्रेष्ठानरकक्लेषभीरवः ।। ३१-३० ।।

युष्माभिः साधितं पुण्यमत्रामुत्रसुखावहम् ।।
मनुष्य जन्म यः प्राप्य सुकृतं न करोति च ।। ३१-३१ ।।

स एव पापिनां श्रेष्ट आत्मघातं करोति च ।।
अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत् ।। ३१-३२ ।।

स याति नरकं घोरं कोऽन्यस्तस्मादचेतनः ।।
शरीरं यातनारुपं मलाद्यैः परिदूषितम् ।। ३१-३३ ।।

तस्मिन्यो याति विश्वासं तं विद्यादात्मघातकम् ।।
सर्वेषु प्राणिनः श्रेष्टास्तेषु वै बुद्धिजीविनः ।। ३१-३४ ।।

बुद्धिमस्तु नराः श्रेष्टा नरेषु ब्राह्मणास्तथा ।।
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।। ३१-३५ ।।

कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवादिनः ।।
ब्रह्मवादिष्वपि तथा श्रेष्टो निर्मम उच्यते ।। ३१-३६ ।।

एतेभ्योऽपि परो ज्ञेयो नित्यं ध्यानपरायणः ।।
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसंग्रहः ।। ३१-३७ ।।

सर्वत्र पूज्यते जंतुर्धर्मवान्नात्र संशयः ।।
गच्छ स्वपुण्यैर्मत्स्थानं सर्वभोगसमन्वितम् ।। ३१-३८ ।।

अस्ति चेद्दुष्कृतं किंचित्पश्चादत्रैव भोक्ष्यसे ।।
एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्गतिम् ।। ३१-३९ ।।

आहूय पापिनश्चैव कालदंडेन तर्जयेत् ।।
प्रलयांबुदनिर्घोषो ह्यंजनाद्रिसमप्रभः ।। ३१-४० ।।

विद्युत्प्र भायुर्घोर्भीमो द्वात्रिंशद्भुजसंयुतः ।।
योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः ।। ३१-४१ ।।

दंष्ट्राकरालवदनो वापीतुल्योग्रलोचनः ।।
मृत्युज्वरादिभिर्युक्तश्चित्रगुत्पोऽपि भीषणः ।। ३१-४२ ।।

सर्वे दूताश्च गर्जंति यमतुल्यविभीषणाः ।।
ततो ब्रवीति तान्सर्वान्कंपमानांश्च पापिनः ।। ३१-४३ ।।

शोचन्तः स्वानि कर्माणि चित्रगुत्पो यमाज्ञया ।।
भो भो पापा दुराचारा अहंकारप्रदूषिताः ।। ३१-४४ ।।

किमर्थमर्जितं पापं युष्माभिरविवेकिभिः ।।
कामक्तोधादिदृष्टेन सगर्वेण तु चेतसा ।। ३१-४५ ।।

यद्यत्पापतरं तत्तत्किमर्थं चरितं जनाः ।।
कृतवंतः पुरा पापान्यत्यंतहर्षिताः ।। ३१-४६ ।।

तथैव यातना भोज्याः किं वृथा ह्यतिदुरिवताः ।।
भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा ।। ३१-४७ ।।

तथा कर्मवशात्प्राप्ता यूयमत्रातिदुःखिताः ।।
युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः ।। ३१-४८ ।।

युष्माकमेव तत्पापं प्राप्तं किं दुःखकारणम् ।।
यथा कृतानि पापानि युष्माभिः सुबहूनि वै ।। ३१-४९ ।।

तथा प्राप्तनि दुःखानि किमर्थमिह दुःखिताः ।।
विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा ।। ३१-५० ।।

यमः करिष्यते दंडमिति किं न विचारितम् ।।
दरिद्रेऽपि च मूर्खे च पंडिते वा श्रियान्विते ।। ३१-५१ ।।

कांदिशीके च वीरे च समवर्तीः यमः स्मृतः ।।
चित्रगुप्तेरितं वाक्यं श्रुत्वा ते पापिनस्तदा ।। ३१-५२ ।।

शौचंतः स्वानि कर्मणि तूष्णीं तिष्टंति भीषिताः ।।
यमाज्ञाकारिणः क्रूरश्चंडा दूता भयानकाः ।। ३१-५३ ।।

चंडलाद्याः प्रसह्यैतान्नरकेषु क्षिपंति च ।।
स्वदुष्कर्मफलं ते तु भुक्त्वांते पापशेषतः ।। ३१-५४ ।।

महीतलं च संप्राप्य भवंति स्थावरादयः ।।
नारद उवाच ।।
भगवन्संशयो जातो मच्चेतसि दयानिधे ।। ३१-५५ ।।

त्वं समर्थोऽसि तच्छेत्तुं यतो नो ह्यग्रजो भवान् ।।
धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च ।। ३१-५६ ।।

चिरभोज्यं फलं तेषामुक्तं बहुविदा त्वया ।।
दिनांते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै ।। ३१-५७ ।।

परार्द्धद्वितयांते तु ब्रह्माण्डस्यापि संक्षयः ।।
ग्रामदानादिपुण्यानां त्वयैव विधिनंदन ।। ३१-५८ ।।

कल्पकोटिसहस्त्रेषु महान्भोग उदाहृतः ।।
सर्वेषामेव लोकानां विनाशः प्राकृते लये ।। ३१-५९ ।।

एकः शिष्यत एवेति त्वया प्रोक्तं जनार्दनः ।।
एष मे संशयो जातस्तं भवाञ्छेत्तुमर्हति ।। ३१-६० ।।

पुण्यपापोपभोगानां समाप्तिर्नास्य संप्लवे ।।
सनक उवाच ।।
साधु साधु महाप्राज्ञ गुह्याद्गुह्यतमं त्विदम् ।। ३१-६१ ।।

पृष्टं तत्तेऽभिधास्यामि श्रृणुष्व सुसमाहितः ।।
नारायणोऽक्षरोऽनंतः परं ज्योतिः सनातनः ।। ३१-६२ ।।

विशुद्धो निर्गुणो नित्यो मायामोहविवर्जितः ।।
निर्गुणोऽपि परानन्दो गुणवानिव भाति यः ।। ३१-६३ ।।

ब्रह्मविष्णुशिवाद्यैस्तु भेदवानिव लक्ष्यते ।।
गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन ।। ३१-६४ ।।

संयोज्य मायामखिलं जगत्कार्यं करोति च ।।
ब्रह्मरुपेण सृजति विष्णुरुपेण पाति च ।। ३१-६५ ।।

अंते च रुद्ररुपेण सर्वमत्तीति निश्चितम् ।।
प्रसयांते समुत्थाय ब्रह्मरुपी जनार्दनः ।। ३१-६६ ।।

चराचरात्मकं विश्वं यथापूर्वमकल्पयत् ।।
स्थावराद्याश्च विप्रेंद्र यत्र यत्र व्यवस्थिताः ।। ३१-६७ ।।

ब्रह्मा तत्तज्जगत्सर्वं यथापूर्वं करोति वै ।।
तस्मात्कृतानां पापानां पुण्यानां चैव सत्तम ।। ३१-६८ ।।

अवश्यमेव भोक्तव्यं कर्मणां ह्यक्षयं फलम् ।।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।। ३१-६९ ।।

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।।
यो देवः सर्वलोकानामंतरात्मा जगन्मयः ।।

सर्वकर्मफलं भुक्ते परिपूर्णः सनातनः ।। ३१-७० ।।
योऽसौ विश्वंभरो देवो गुणमेदव्यवस्थितः ।।

सूजत्यवति चात्त्येतत्सर्वं सर्वभुगव्ययः ।। ३१-७१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे यमदूतकृत्यनिरुपणं नामैकत्रिंशोऽध्यायः ।।