नारदपुराणम्- पूर्वार्धः/अध्यायः ८
सनक उवाच-
एवमौर्वाश्रमे ते द्वे बाहुभार्ये मुनीश्वर
चक्राते भक्तिभावेन शुश्रूषां प्रतिवासरम् 1.8.१
गते वर्षार्द्धके काले ज्येष्ठा राज्ञी तु या द्विज
तस्याः पापमतिर्जाता सपत्न्याः सम्पदं प्रति २
ततस्तया गरो दत्तः कनिष्ठायै तु पापया
न स्वप्रभावं चक्रे वै गरो मुनिनिषेवया ३
भूलेपनादिभिः सम्यग्यतः सानुदिनं मुनेः
चकार सेवां तेनासौ जीर्णपुण्येन कर्मणा ४
ततो मासत्रयेऽतीते गरेण सहितं सुतम्
सुषाव सुशुभे काले शुश्रूषानष्टकिल्बिषा ५
अहो सत्सङ्गतिर्लोके किं पापं न विनाशयेत्
न तदातिसुखं किं वा नराणां पुण्यकर्मणाम् ६
ज्ञानाज्ञानकृतं पापं यच्चान्यत्कारितं परैः
तत्सर्वं नाशयत्याशु परिचर्या महात्मनाम् ७
जडोऽपि याति पूज्यत्वं सत्सङ्गाज्जगतीतले
कलामात्रोऽपि शीतांशुः शम्भुना स्वीकृतो यथा ८
सत्सङ्गतिः परामृद्धिं ददाति हि नृणां सदा
इहामुत्र च विप्रेन्द्र सन्तः पूज्यतमास्ततः ९
अहो महद्गुणान्वक्तुं कः समर्थो मुनीश्वर
गर्भं प्राप्तो गरो जीर्णो मासत्रयमहोऽदभुतम् १०
गरेण सहितं पुत्रं दृष्ट्वा तेजोनिधिर्मुनिः
जातकर्म चकारासौ तन्नाम सगरेति च ११
पुपोष सगरं बालं तन्माता प्रीतिपूर्वकम्
चौलोपवीतकर्माणि तथा चक्रे मुनीश्वरः १२
शास्त्राण्यध्यापयामास राजयोग्यानि मन्त्रवित्
समर्थं सगरं दृष्ट्वा किंचिदुद्भिन्नशैशवम् १३
मन्त्रवत्सर्वशस्त्रास्त्रं दत्तवान्स मुनीश्वरः
सगरः शिक्षितस्तेन सम्यगौर्वर्षिणा मुने १४
बभूव बलवान्धर्मी कृतज्ञो गुणवान्सुधीः
धर्मज्ञः सोऽपि सगरो मुनेरमिततेजसः
समित्कुशाम्बुपुष्पादि प्रत्यहं समुपानयत् १५
स कदाचिद्गुणनिधिः प्रणिपत्य स्वमातरम्
उवाच प्राञ्जलिर्भूत्वा सगरो विनयान्वितः १६
सगर उवाच-
मातर्गतः पिता कुत्र किं नामा कस्य वंशजः
तत्सर्वं मे समाचक्ष्व श्रोतुं कौतूहलं मम १७
पित्रा विहीना ये लोके जीवन्तोऽपि मृतोपमाः १८
दरिद्रो ऽपि पिता यस्य ह्यास्ते स धनदोपमः
यस्य माता पिता नास्ति सुखं तस्य न विद्यते १९
धर्महीनो यथा मूर्खः परत्रेह च निन्दितः
मातापितृविहीनस्य अज्ञस्याप्यविवेकिनः
अपुत्रस्य वृथा जन्म ऋणग्रस्तस्य चैव हि २०
चन्द्र हीना यथा रात्रिः पद्महीनं यथा सरः
पतिहीना यथा नारी पितृहीनस्तथा शिशुः २१
धर्महीनो यथा जन्तुः कर्महीनो यथा गृही
पशुहीनो यथा वैश्यस्तथा पित्रा विनार्भकः २२
सत्यहीनं यथा वाक्यं साधुहीना यथा सभा
तपो यथा दयाहीनं तथा पित्रा विनार्भकः २३
वृक्षहीनं यथारण्यं जलहीना यथा नदी
वेगहीनो यथा वाजी तथा पित्रा विनार्भकः २४
यथा लघुतरो लोके मातर्याच्ञापरो नरः
तथा पित्रा विहीनस्तु बहुदुःखान्वितःसुतः २५
इतीरितं सुतेनैषा श्रुत्वा निःश्वस्य दुःखिता
संपृष्टं तद्यथावृत्तं सर्वं तस्मै न्यवेदयत् २६
तच्छ्रुत्वा सगरः क्रुद्धः कोपसंरक्तलोचनः
हनिष्यामीत्यरातीन्स प्रतिज्ञामकरोत्तदा २७
प्रदक्षिणीकृत्य मुनिं जननीं च प्रणम्य सः
प्रस्थापितः प्रतस्थे च तेनैव मुनिना तदा २८
और्वाश्रमाद्विनिष्क्रान्तः सगरः सत्यवाक् शुचिः
वसिष्ठं स्वकुलाचार्यं प्राप्तः प्रीतिसमन्वितः २९
प्रणम्य गुरवे तस्मै वशिष्ठाय महात्मने
सर्वं विज्ञापयामास ज्ञानदृष्ट्या विजानते ३०
एन्द्रा स्त्रं वारुणं ब्राह्ममाग्नेयं सगरो नृपः
तेनैव मुनिनाऽवाप खड्गं वज्रोपमं धनुः ३१
ततस्तेनाभ्यनुज्ञातः सगरः सौमनस्यवान्
आशीर्भिरर्चितः सद्यः प्रतस्थे प्रणिपत्य तम् ३२
एकेनैव तु चापेन स शूरः परिपन्थिनः
सपुत्रपौत्रान्सगणानकरोत्स्वर्गवासिनः ३३
तच्चापमुक्तबाणाग्निसंतप्तास्तदरातयः
केचिद्विनष्टा संत्रस्तास्तथा चान्ये प्रदुद्रुवुः ३४
केचिद्विशीर्णकेशाश्च वल्मीकोपरि संस्थिताः
तृणान्यभक्षयन्केचिन्नग्नाश्च विविशुर्जलम् ३५
शकाश्च यवनाश्चैव तथा चान्ये महीभृतः
सत्वरं शरणं जग्मुर्वशिष्ठं प्राणलोलुपाः ३६
जितक्षितिर्बाहुपुत्रो रिपून्गुरुसमीपगान्
चारैर्विज्ञातवान्सद्यः प्राप्तश्चाचार्यसन्निधिम् ३७
तमागतं बाहुसुतं निशम्य मुनिर्वशिष्ठः शरणागतांस्तान्
त्रातुं च शिष्याभिहितं च कर्तुं विचारयामास तदा क्षणेन ३८
चकार मुण्डाञ्शबरान्यवनांल्लम्बमूर्द्धजान्
अन्धांश्च श्मश्रुलान्सर्वान्मुण्डान्वेदबहिष्कृतान् ३९
वसिष्ठमुनिना तेन हतप्रायान्निरीक्ष्य सः
प्रहसन्प्राह सगरः स्वगुरुं तपसो निधिम् ४०
सगर उवाच-
भो भो गुरो दुराचारानेतान्ररक्षसि तान्वृथा
सर्वथाहं हनिष्यामि मत्पितुर्देशहारकान् ४१
उपेक्षेत समर्थः सन्धर्मस्य परिपन्थिनः
स एव सर्वनाशाय हेतुभूतो न संशयः ४२
बान्धवं प्रथमं मत्वा दुर्जनाः सकलं जगत्
त एव बलहीनाश्चेद्भजन्तेऽत्यन्तसाधुताम् ४३
अहो मायाकृतं कर्म खलाः कश्मलचेतसः
तावत्कुर्वन्ति कार्याणि यावत्स्यात्प्रबलं बलम् ४४
दासभावं च शत्रूणां वारस्त्रीणां च सौहृदम्
साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत् ४५
प्रहासं कुर्वते नित्यं यान्दन्तान्दर्शयन्खलाः
तानेव दर्शयन्त्याशु स्वसामर्थ्यविपर्यये ४६
पिशुना जिह्वया पूर्वं परुषं प्रवदन्ति च
अतीव करुणं वाक्यं वदन्त्येव तथाबलाः ४७
श्रेयस्कामो भवेद्यस्तु नीतिशास्त्रार्थकोविदः
साधुत्वं समभावं च खलानां नैव विश्वसेत् ४८
दुर्जनं प्रणतिं यान्तं मित्रं कैतवशीलिनम्
दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः ४९
मा रक्ष तस्मादेतान्वै गोरूपव्याघ्रकर्मिणः
हत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्महीं भजे ५०
वशिष्ठस्तद्वचः श्रुत्वा सुप्रीतो मुनिसत्तमः
कराभ्यां सगरस्याङ्गं स्पृशन्निदमुवाच ह ५१
वसिष्ठ उवाच-
साधु साधु महाभाग सत्यं वदसि सुव्रत
तथापि मद्वचः श्रुत्वा परां शान्तिं लभिष्यसि ५२
मयैते निहताः पूर्वं त्वत्प्रतिज्ञाविरोधिनः
हतानां हनने कीर्तिः का समुत्पद्यते वद ५३
भूमीश जन्तवः सर्वे कर्मपाशेन यन्त्रिताः
तथापि पापैर्निहताः किमर्थं हंसि तान्पुनः ५४
देहस्तु पापजनितः पूर्वमेवैनसा हतः
आत्मा ह्यभेद्यः पूर्णत्वाच्छास्त्राणामेष निश्चयः ५५
स्वकर्मफलभोगानां हेतुमात्रा हि जन्तवः
कर्माणि दैवमूलानि दैवाधीनमिदं जगत् ५६
यस्माद् दैवं हि साधुनां रक्षिता दुष्टशिक्षिता
ततो नरैरस्वतन्त्रैः किं कार्यं साध्यते वद ५७
शरीरं पापसंभूतं पापेनैव प्रवर्तते
पापमूलमिदं ज्ञात्वा कथं हन्तुं समुद्यतः ५८
आत्मा शुद्धोऽपि देहस्थो देहीति प्रोच्यते बुधैः
तस्मादिदं वपुर्भूप पापमूलं न संशयः ५९
पापमूलवपुर्हन्तुः का कीर्तिस्तव बाहुज
भविष्यतीति निश्चित्य नैतान्हिंसीस्ततः सुत ६०
इति श्रुत्वा गुरोर्वाक्यं विरराम स कोपतः
स्पृशन्करेण सगरं नन्दनं मुनयस्तदा ६१
अथाथर्वनिधिस्तस्य सगरस्य महात्मनः
राज्याभिषेकं कृतवान्मुनिभिः सह सुव्रतैः ६२
भार्याद्वयं च तस्यासीत्केशिनी सुमतिस्तथा
काश्यपस्य विदर्भस्य तनये मुनिसत्तम ६३
राज्ये प्रतिष्ठिते दृष्ट्वा मुनिरौर्वस्तपोनिधिः
वनादागत्य राजानं संभाष्य स्वाश्रमं ययौ ६४
कदाचित्तस्य भूपस्य भार्याभ्यां प्रार्थितो मुनिः
वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रवित् ६५
क्षणं ध्यानस्थितो भूत्वा त्रिकालज्ञो मुनीश्वरः
केशिनीं सुमतिं चैव इदमाह प्रहर्षयन् ६६
और्व उवाच-
एका वंशधरं चैकमन्या षडयुतानि च
अपत्यार्थं महाभागे वृणुतां च यथेप्सितम् ६७
अथ श्रुत्वा वचस्तस्य मुनेरौर्वस्य नारद
केशिन्येकं सुतं वव्रे वंशसन्तानकारणम् ६८
तथा षष्टिसहस्राणि सुमत्या ह्यभवन्सुताः
नाम्नासमंजाः केशिन्यास्तनयो मुनिसत्तम ६९
असमंजास्तु कर्माणि चकारोन्मत्तचेष्टितः
तं दृष्ट्वा सागराः सर्वे ह्यासन्दुर्वृत्तचेतसः ७०
तद्बालभावं संदुष्टं ज्ञात्वा बाहुसुतो नृपः
चिन्तयामास विधिवत्पुत्रकर्म विगर्हितम् ७१
अहो कष्टतरा लोके दुर्जनानां हि संगतिः
कारुकैस्ताड्यते वह्निरयः संयोगमात्रतः ७२
अंशुमान्नाम तनयो बभूव ह्यसमंजसः
शास्त्रज्ञो गुणवान्धर्मी पितामहहिते रतः ७३
दुर्वृत्ताः सागराः सर्वे लोकोपद्र वकारिणः
अनुष्ठानवतां नित्यमन्तराया भवन्ति ते ७४
हुतानि यानि यज्ञेषु हवींषि विधिवद् द्विजैः
बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः ७५
स्वर्गादाहृत्य सततं रम्भाद्या देवयोषितः
भजन्ति सागरास्ता वै कचग्रहबलात्कृताः ७६
पारिजातादिवृक्षाणां पुष्पाण्याहृत्य ते खलाः
भूषयन्ति स्वदेहानि मद्यपानपरायणाः ७७
साधुवृत्तीः समाजह्रुः सदाचाराननाशयन्
मित्रैश्च योद्धुमारब्धा बलिनोऽत्यन्तपापिनः ७८
एतद् दृष्ट्वातितुःखार्ता देवा इन्द्र पुरोगमाः
विचारं परमं चक्रुरेतेषां नाशहेतवे ७९
निश्चित्य विबुधाः सर्वे पातालान्तरगोचरम्
कपिलं देवदेवेशं ययुः प्रच्छन्नरूपिणः ८०
ध्यायन्तमात्मनात्मानं परानन्दैकविग्रहम्
प्रणम्य दण्डवद् भूमौ तुष्टुवुस्त्रिदशास्ततः ८१
देवा ऊचुः-
नमस्ते योगिने तुभ्यं सांख्ययोगरताय च
नररूपप्रतिच्छन्नजिष्णवे विष्णवे नमः ८२
नमः परेशभक्ताय लोकानुग्रहहेतवे
संसारारण्यदावाग्ने धर्मपालनसेतवे ८३
महते वीतरागाय तुभ्यं भूयो नमो नमः
सागरैः पीडितानस्मांस्त्रायस्व शरणागतान् ८४
कपिल उवाच-
ये तु नाशमिहेच्छंतिं यशोबलधनायुषाम्
त एव लोकान्बाधन्ते नात्राश्चर्यं सुरोत्तमाः ८५
यस्तु बाधितुमिच्छेत जनान्निरपराधिनः
तं विद्यात्सर्वलोकेषु पापभोगरतं सुराः ८६
कर्मणा मनसा वाचा यस्त्वन्यान्बाधते सदा
तं हन्ति दैवमेवाशु नात्र कार्या विचारणा ८७
अल्पैरहोभिरेवैते नाशमेष्यन्ति सागराः
इत्युक्ते मुनिना तेन कपिलेन महात्मना
प्रणम्य तं यथान्यायं गता नाकं दिवौकसः ८८
अत्रान्तरे तु सगरो वसिष्ठाद्यैर्महर्षिभिः
आरेभे हयमेधाख्यं यज्ञं कर्त्तुमनुत्तमम् ८९
तद्यज्ञे योजितं सप्तिमपहृत्य सुरेश्वरः
पाताले स्थापयामास कपिलो यत्र तिष्ठति ९०
गूढविग्रहशक्रेण हृतमश्वं तु सागराः
अन्वेष्टुं बभ्रमुर्लोकान् भूरादींश्च सुविस्मिताः ९१
अदृष्टसप्तयस्ते च पातालं गन्तुमुद्यताः
चख्नुर्महीतलं सर्वमेकैको योजनं पृथक् ९२
मृत्तिकां खनितां ते चोदधितीरे समाकिरन्
तद्द्वारेण गताः सर्वे पातालं सगरात्मजाः ९३
विचिन्वन्ति हयं तत्र मदोन्मत्ता विचेतसः ९४
तत्रापश्यन्महात्मानं कोटिसूर्यसमप्रभम्
कपिलं ध्याननिरतं वाजिनं च तदन्तिके ९५
ततः सर्वे तु संरब्धा मुनिं दृष्ट्वाऽतिवेगतः
हन्तुमुद्युक्तमनसो विद्र वन्तः समासदन् ९६
हन्यतां हन्यतामेष वध्यतां वध्यतामयम्
गृह्यतां गृह्यतामाशु इत्यूचुस्ते परस्परम् ९७
हृताश्वं साधुभावेन बकवद्ध्य्नातत्परम्
सन्ति चाहो खला लोके कुर्वन्त्याडम्बरं महत् ९८
इत्युच्चरन्तो जहसुः कपिलं ते मुनीश्वरम्
समस्तेन्द्रि यसन्दोहं नियम्यात्मानमात्मनि ९९
आस्थितः कपिलस्तेषां तत्कर्म ज्ञातवान्नहि १००
आसन्नमृत्यवस्ते तु विनष्टमतयो मुनिम्
पद्भिः संताडयामासुर्बाहूं च जगृहुः परे १०१
ततस्त्यक्तसमाधिस्तु स मुनिर्विस्मितस्तदा
उवाच भावगम्भीरं लोकोपद्र वकारिणः १०२
एश्वर्यमदमत्तानां क्षुधितानां च कामिनाम्
अहंकारविमूढानां विवेको नैव जायते १०३
निधेराधारमात्रेण मही ज्वलति सर्वदा
तदेव मानवा भुक्त्वा ज्वलन्तीति किमद्भुतम् १०४
किमत्र चित्रं सुजनं बाधन्ते यदि दुर्जनाः
महीरुहांश्चानुतटे पातयन्ति नदीरयाः १०५
यत्र श्रीर्यौवनं वापि शारदा वापि तिष्ठति
तत्राश्रीर्वृद्धता नित्यं मूर्खत्वं चापि जायते १०६
अहो कनकमाहात्म्यमाख्यातुं केन शक्यते
नामसाम्यदहो चित्रं धत्तूरोऽपि मदप्रदः १०७
भवेद्यदि खलस्य श्रीः सैव लोकविनाशिनी
यथा सखाग्नेः पवनः पन्नगस्य यथा विषम् १०८
अहो धनमदान्धस्तु पश्यन्नपि न पश्यति
यदि पश्यत्यात्महितं स पश्यति न संशयः १०९
इत्युक्त्वा कपिलः क्रुद्धो नेत्राभ्यां ससृजेऽनलम्
स वह्निः सागरान्सर्वान्भस्मसादकरोत्क्षणात् ११०
यन्नेत्रजानलं दृष्ट्वा पातालतलवासिनः
अकालप्रलयं मत्वा च्रुकुशुः शोकलालसाः १११
तदग्नितापिताः सर्वे दन्दशूकाश्च राक्षसाः
सागरं विविशुः शीघ्रं सतां कोपो हि दुःसहः ११२
अथ तस्य महीपस्य समागम्याध्वरं तदा
देवदूत उवाचेदं सर्वं वृत्तं हि यक्षते ११३
एतत्समाकर्ण्य वचः सगरःसर्ववित्प्रभुः
दैवेन शिक्षिता दुष्टा इत्युवाचातिहर्षितः ११४
माता वा जनको वापि भ्राता वा तनयोऽपि वा
अधर्मं कुरुते यस्तु स एव रिपुरिष्यते ११५
यस्त्वधर्मेषु निरतः सर्वलोकविरोधकृत्
तं रिपुं परमं विद्याच्छास्त्राणामेष निर्णयः ११६
सगरः पुत्रनाशेऽपि न शुशोच मुनीश्वरः
दुर्वृत्तनिधनं यस्मात्सतामुत्साहकारणम् ११७
यज्ञेष्वनधिकारत्वादपुत्राणामिति स्मृतेः
पौत्रं तमंशुमन्तं हि पुत्रत्वे कृतवान्प्रभुः ११८
असमञ्जस्सुतं तं तु सुधियं वाग्विदां वरम्
युयोज सारविद् भूयो ह्यश्वानयनकर्मणि ११९
स गतस्तद्बिलद्वारे दृष्ट्वा तं मुनिपुङ्गवम्
कपिलं तेजसां राशिं साष्टाङ्गं प्रणनाम ह १२०
कृताञ्जलिपुटो भूत्वा विनयेनाग्रतः स्थितः
उवाच शान्तमनसं देवदेवं सनातनम् १२१
अंशुमानुवाच-
दौःशील्यं यत्कृतं ब्रह्मन्मत्पितृव्यैः क्षमस्व तत्
परोपकारनिरताः क्षमासारा हि साधवः १२२
दुर्जनेष्वपि सत्वेषु दयां कुर्वन्ति साधवः
नहि संहरते ज्योत्स्नां चन्द्र श्चाण्डालवेश्मनः १२३
बाध्यमानोऽपि सुजनः सर्वेषां सुखकृद् भवेत्
ददाति परमां तुष्टिं भक्ष्यमाणोऽमरैः शशी १२४
दारितश्छिन्न एवापि ह्यामोदेनैव चन्दनः
सौरभं कुरुते सर्वं तथैव सुजनो जनः १२५
क्षान्त्या च तपसाचारैस्तद्गुणज्ञा मुनीश्वराः
सञ्जातं शासितुं लोकांस्त्वां विदुः पुरुषोत्तम १२६
नमो ब्रह्मन्मुने तुभ्यं नमस्ते ब्रह्ममूर्त्तये
नमो ब्रह्मण्यशीलाय ब्रह्मध्यानपराय च १२७
इति स्तुतो मुनिस्तेन प्रसन्नवदनस्तदा
वरं वरय चेत्याह प्रसन्नोऽस्मि तवानघ १२८
एवमुक्ते तु मुनिना ह्यंशुमान्प्रणिपत्य तम्
प्रापयास्मत्पितॄन्ब्राह्मं लोकमित्यभ्यभाषत १२९
ततस्तस्यातिसंतुष्टो मुनिः प्रोवाच सादरम्
गङ्गामानीय पौत्रस्ते नयिष्यति पितॄन्दिवम् १३०
त्वत्पौत्रेण समानीता गङ्गा पुण्यजला नदी
कृत्वैतान्धूतपापान्वै नयिष्यति परं पदम् १३१
प्रापयैनं हयं वत्स यतः स्यात्पूर्णमध्वरम्
पितामहान्तिकं प्राप्य साश्वं वृत्तं न्यवेदयत् १३२
सगरस्तेन पशुना तं यज्ञं ब्राह्मणैः सह
विधाय तपसा विष्णुमाराध्याप पदं हरेः १३३
जज्ञे ह्यंशुमतः पुत्रो दिलीप इति विश्रुतः
तस्माद्भगीरथो जातो यो गङ्गामानयद्दिवः १३४
भगीरथस्य तपसा तुष्टो ब्रह्मा ददौ मुने
गङ्गां भगीरथायाथ चिन्तयामास धारणे १३५
ततश्च शिवमाराध्य तद्द्वारा स्वर्णदीं भुवम्
आनीय तज्जलैः स्पृष्ट्वा पूतान्निन्ये दिवं पितॄन् १३६
भगीरथान्वये जातः सुदासो नाम भूपतिः
तस्य पुत्रो मित्रसहः सर्वलोकेषु विश्रुतः १३७
वसिष्ठशापात्प्राप्तः स सौदासौ राक्षसीं तनुम्
गङ्गाबिन्दुनिषेकेण पुनर्मुक्तो नृपोऽभवत् १३८
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम अष्टमोऽध्यायः८