नारदपुराणम्- पूर्वार्धः/अध्यायः ५२
सनंदन उवाच ।।
अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद ।।
सिद्धरूपप्रबंधेन मुखं वेदस्य सांप्रतम् ।। ५२-१ ।।
सुप्तिङंतं पदं विप्र सुपां सप्त विभक्तयः ।।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ।। ५२-२ ।।
संबोधने च लिंगादावुक्ते कर्मणि कर्तरि ।।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ।। ५२-३ ।।
अमौसशो द्वितीया स्यात्तत्कर्म क्रियते च यत् ।।
द्वितीया कर्मणि प्रोक्तान्तरांतरेण संयुते ।। ५२-४ ।।
टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ।।
येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः ।। ५२-५ ।।
ङेभ्यांभ्यसश्चतुर्थो स्यात्संप्रदाने च कारके ।।
यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम् ।। ५२-६ ।।
पंचमी स्यान्ङसिभ्यांभ्यो ह्यपादाने च कारके ।।
यतोऽपैति समादत्ते अपदत्ते च यं यतः ।। ५२-७ ।।
ङसोसामश्च षष्ठी स्यात्स्वामिसंबंधमुख्यके ।।
ङ्योस्सुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत् ।। ५२-८ ।।
आधारे चापि विप्रेंद्र रक्षार्थानां प्रयोगतः ।।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ।। ५२-९ ।।
पंचमी पर्यणङ्योगे इतरर्तेऽन्यदिङ्मुखे ।।
एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः ।। ५२-१० ।।
लक्षणेत्थंभूतोऽभिरभागे चानुपरिप्रति ।।
अंतरेषु सहार्थे च हीने ह्युपश्च कथ्यते ।। ५२-११ ।।
द्वितीया च चतुर्थी स्याञ्चेष्टायां गतिकर्मणि ।।
अप्राणिषु विभक्ती द्वे मन्यकर्मण्यनादरे ।। ५२-१२ ।।
नमःस्वस्तिस्वधास्वाहालंवषड्योग ईरिता ।।
चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ।। ५२-१३ ।।
तृतीया सहयोगे स्यात्कुत्सितेंऽगे विशेषणे ।।
काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ।। ५२-१४ ।।
स्वामीश्वरोधिपतिभिः साक्षिदायादसूतकैः ।।
निर्धारणे द्वे विभक्ती षष्टी हेतुप्रयोगके ।। ५२-१५ ।।
स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके ।।
हिंसार्थानां प्रयोगे च कृतिकर्मणि कर्तरि ।। ५२-१६ ।
न कर्तृकर्मणोः षष्टी निष्टादिप्रतिपादिका ।।
एता वै द्विविधा ज्ञेयाः सुबादिषु विभक्तिषु ।।
भूवादिषु तिङतेषु लकारा दश वै स्मृताः ।। ५२-१७ ।।
तिप्त संतीति प्रथमो मध्यमः सिप्थस्थोत्तमः ।।
मिव्वस्मसः परस्मै तु पादानां चा मपनेदम् ।। ५२-१८ ।।
त आतेंऽते प्रथमो मध्वः से आथे ध्वे तथोत्तमः ।।
ए वहे मह आदेशा ज्ञेया ह्यन्ये लिङादिषु ।। ५२-१९ ।।
नाम्नि प्रयुज्यमाने तु प्रथमः पुरुषो भवेत् ।।
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ।। ५२-२० ।।
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ।।
लडीरितो वर्तमाने भूतेऽनद्यतने तथा ।। ५२-२१ ।।
मास्मयोगे च लङ् वाच्यो लोडाशिषि च धातुतः ।।
विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने ।। ५२-२२ ।।
लिडतीते परोक्षे स्यात् श्वस्तने लुङ् भविष्यति ।।
स्यादनद्यतने लृटू च भविष्यति तु धातुतः ।। ५२-२३ ।।
भूते लुङ् तिपस्यपौ च क्रियायां लृङ् प्रकीर्तितः ।।
सिद्धोदाहरणं विद्धि संहितादिपुरः सरम् ।। ५२-२४ ।
दंडाग्रं च दधीदं च मधूदकं पित्रर्षभः ।।
होतॄकारस्तथा सेयं लांगलीषा मनीषया ।। ५२-२५ ।।
गंगोदकं तवल्कार ऋणार्णं च मुनीश्वर ।।
शीतार्तश्च मुनिश्रेष्ट सेंद्रः सौकार इत्यपि ।। ५२-२६ ।।
वध्वासनं पित्रर्थो नायको लवणस्तथा ।।
त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अधः ।। ५२-२७ ।।
हरेऽव विष्णोऽवेत्येषादसोमादप्यमी अधाः ।।
शौरी एतौ विष्णु इमौ दुर्गे अमू नो अर्जुनः ।। ५२-२८ ।।
आ एवं च प्रकृत्यैते तिष्टंति मुनिसत्तम ।।
षडत्र षण्मातरश्च वाक्छुरो वाग्धस्रिथा ।। ५२-२९ ।।
हरिश्शेते विभुश्चिंत्यस्तच्छेषो यञ्चरस्तंथा ।।
प्रश्नस्त्वथ हरिष्षष्ठः कृष्णष्टीकत इत्यपि ।। ५२-३० ।।
भवान्षष्ठश्च षट् सन्तः षट्ते तल्लेप एव च ।।
चक्रिंश्छिंधि भवाञ्छौरिर्भवाञ्शौरिरित्यपि ।। ५२-३१ ।।
सम्यङ्ङनंतोंगच्छाया कृष्णं वंदे मुनीश्वर ।।
तेजांसि मंस्यते गङ्गा हरिश्छेत्ता मरश्शिवः ।। ५२-३२ ।।
राम ँकाम्यः कृप ँपूज्यो हरिः पूज्योऽर्च्य एव हि ।।
रोमो दृष्टोऽबला अत्र सुप्ता इष्टा इमा यतः ।। ५२-३३ ।।
विष्णुर्नभ्यो रविरयं गी )( फलं प्रातरच्युतः ।।
भक्तैर्वद्योऽप्यंतरात्मा भो भो एष हरिस्तथा ।।
एष शार्ङ्गी सैष रामः संहितैवं प्रकीर्तिता ।। ५२-३४ ।।
रामेणाभिहितं करोमि सततं रामं भजे सादरम् ।।
रामेणापहृतं समस्तदुरितं रामाय तुभ्यं नमः ।।
रामान्मुक्तिमभीप्सिता मम सदा रामस्य दासोऽस्म्यहम् ।।
रामे रंजत् मे मनः सुविशदं हे राम तुभ्यं नमः ।। ५२-३५ ।।
सर्व इत्यादिका गोपाः सखा चैव पतिर्हरिः ।। ५२-३६ ।।
सुश्रीर्भानुः स्वयंभूश्च कर्ता रौ गौस्तु नौरिति ।।
अनङ्घान्गोधुग्लिट् च द्वे त्रयश्चत्वार एव च ।। ५२-३७ ।।
राजा पंथास्तथा दंडी ब्रह्महा पंच चाष्ट च ।।
अष्टौ अयं मुने सम्राट् सविभ्रद्वपुङ्मनः ।। ५२-३८ ।।
प्रत्यङ् पुमान्महान् धीमान् विद्वान्षट् पिपठीश्च दोः ।।
उशनासाविंमे पुंसि स्यारक्तलविरामकाः ।। ५२-३९ ।।
राधा सर्वा गतिर्गोपी स्री श्रीर्धेनुर्वधूः स्वसा ।।
गौर्नौरुपान् दूद्यौर्गोः क्षुत् ककुप्संवित्तु वा क्वचित् ।। ५२-४० ।।
रुग्विडुद्भाः स्रियास्तपः कुलं सोमपमक्षि च ।।
ग्रामण्यंबुरवलप्वेवं कर्तृ चातिरि वातिनु ।। ५२-४१ ।।
स्वनहुच्च विमलद्यु वाश्वत्वारीदमेव च ।।
एतद्ब्रह्माहश्च दंडी असृक्किंचित्त्यदादि च ।। ५२-४२ ।।
एतद्वे भिद्गवाक्गवाङ् गोअक् गोङ्गोक् गोङ् ।।
तिर्यग्यकृच्छकृच्चैव ददद्भवत्पचत्तुदत् ।। ५२-४३ ।।
दीव्यद्धनुश्च पिपठीः पयोऽदःसुमुमांसि च ।।
गुणद्रव्य क्रियायोगांस्रिलिंगांश्च कति ब्रुवे ।। ५२-४४ ।।
शुक्तः कीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः ।।
पटुः स्वयंभूः कर्ता च माता चैव व पिता च ना ।। ५२-४५ ।।
सत्यानाग्यास्तथा पुंसो मतभ्रमरदीर्घपात् ।।
धनाकृसोमौ चागर्हस्तविर्ग्रथास्वर्णन्बहू ।। ५२-४६ ।।
रिमपव्विषाद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यांतरेतराणि च ।। ५२-४७ ।।
उत्तरश्चोत्तमो नेमस्त्वसमोऽथ समा इषः ।।
पूर्वोत्तरोत्तराश्चैव दक्षिणश्चोत्तराधरौ ।। ५२-४८ ।।
अपरश्चतुरोऽप्येतद्यावत्तत्किमसौ द्वयम् ।।
युष्मदस्मञ्च प्रथमश्चरमोल्पस्तथार्धकः ।। ५२-४९ ।।
नोरः कतिपयो द्वे च त्रयो शुद्धादयस्तथा ।।
स्वेकाभुविरोधपरि विपर्ययश्चाव्ययास्तथा ।। ५२-५० ।।
तद्धिताश्चाप्यपत्यार्थे पांडवाः श्रैधरस्तथा ।।
गार्ग्यो नाडायनात्रेयौ गांगेयः पैतृष्वस्रीयः ।। ५२-५१ ।।
देवतार्थे चेदमर्थे ह्यैद्रं ब्राह्मो हविर्बली ।।
क्रियायुजोः कर्मकर्त्रोर्धैरियः कौङ्कुमं तथा ।। ५२-५२ ।।
भवाद्यर्थे तु कानीनः क्षत्रियो वैदिकः स्वकः ।।
स्वार्थे चौरस्तु तुल्यार्थे चंद्रवन्मुखमीक्षते ।। ५२-५३ ।।
ब्राह्मणत्वं ब्राह्मणता भावे ब्राह्मण्यमेव च ।।
गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान् ।। ५२-५४ ।।
जातार्थे तुंदिलः श्रद्धालुरौन्नत्त्ये तु दंतुरः ।।
स्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थ एव च ।। ५२-५५ ।।
वाचालश्चैव वाचाटो बहुकुत्सितभाषिणि ।।
ईषदपरिसमाप्तौ कल्पव्देशीय एव च ।। ५२-५६ ।।
कविकल्पः कविदेश्यः प्रकारवचने तथा ।।
पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने ।। ५२-५७ ।।
वैद्यरूपो भूतपूर्वे मतो दृष्टचरो मुने ।।
प्राचुर्यादिष्वन्नमयो मृण्मयः स्रीमयस्तथा ।। ५२-५८ ।।
जातार्थे लज्जितोऽत्यर्थे श्रेयाञ्छ्रेष्टश्च नारद ।।
कृष्णतरः शुक्लतमः किम आख्यानतोऽव्ययान् ।। ५२-५९ ।।
किंतरां चैवातितरामभिह्युच्चैस्तरामपि ।।
परिमाणे जानुदघ्नं जानुद्वयसमित्यपि ।। ५२-६० ।।
जानुमात्रं च निर्द्धारे बहूनां च द्वयोः क्रमात् ।।
कतमः कतरः संख्येयविशेषावधारणे ।। ५२-६१ ।।
द्वितीयश्च तृतीयश्च चतुर्थः षष्टपंचमौ ।।
एतादशः कतिपयः कतिथः कति नारद ।। ५२-६२ ।।
विंशश्च विंशतितमस्तथा शततमादयः ।।
द्वेधा द्वैधा द्विधा संख्या प्रकारेऽथ मुनीश्वर ।। ५२-६३ ।।
क्रियावृत्तौ पंचकृत्वो द्विस्रिर्बहुश इत्यपि ।।
द्वितयं त्रितपं चापि संख्यायां हि द्वयं त्रयम् ।। ५२-६४ ।।
कुटीरश्च शमीरश्च शुंडारोऽल्पार्थके मतः ।।
त्रैणः पौष्णस्तुंडिभश्च वृंदारककृषीवलौ ।। ५२-६५ ।।
मलिनो विकटो गोमी भौरिकीविधमुत्कटम् ।।
अवटीटोवनाटे निबिडं चेक्षुशाकिनम् ।। ५२-६६ ।।
निबिरीसमेषुकारी वित्तोविद्याञ्चणस्तथा ।।
विद्याथुंचुर्बहुतिथं पर्वतः शृंगिणस्तथा ।। ५२-६७ ।।
स्वामी विषमरूप्यं चोपत्यकाधित्यका तथा ।।
चिल्लश्च चिपिटं चिक्वं वातूलः कुतपस्तथा ।। ५२-६८ ।।
वल्लश्व हिमेलुश्च कहोडश्चोपडस्ततः ।।
ऊर्णायुश्च मरूतश्चैकाकी चर्मण्वती तथा ।। ५२-६९ ।।
ज्योत्स्ना तमिस्राऽष्टीवच्च कक्षीवद्य्रर्मण्वती ।।
आसंदी वञ्च चक्रीवत्तूष्णीकां जल्पतक्यपि ।। ५२-७० ।।
कंभश्च कंयुः कंवश्च नारदकेतिः कंतुः कंतकंपौ शंवस्तथैव च ।।
शंतः शंतिः शंयशंतौ शंयोहंयुः शुभंयुवत् ।। ५२-७१ ।।
भवति बगभूव भविता भविष्यति भवत्वभवद्भघवेच्चापि ।। ५२-७२ ।।
भूयादभूदभविष्यल्लादावेतानि रूपाणि ।।
अत्ति जघासात्तात्स्यत्यत्त्वाददद्याद्द्विरघसदात्स्यत् ।। ५२-७३ ।।
जुहितो जुहाव जुहवांचकार होता होष्यति जुहोतु ।।
अजुहोज्जुहुयाद्धूयादहौषीदहोष्यद्दीव्यति ।।
दिदेव देविता देविष्यति च अदीव्यद्दीव्येद्दीव्याद्वै ।। ५२-७४ ।।
अदेवीददेवीष्यत्सुनोति सुषाव सोता सोष्यति वै ।।
सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तुदति च ।। ५२-७५ ।।
तुतोद तोत्ता तोत्स्यति तुदत्वतुदत्तुदेत्तुद्याद्धि ।।
अतौत्सीदतोत्स्यदिति च रुणद्धि रूरोध रोद्धा रोत्स्यति वै ।। ५२-७६ ।।
रुणद्धु अरुणद्रुध्यादरौत्सीदारोत्स्यञ्च ।।
तनोति ततान तनिता तनिष्यति तनोत्वतनोत्तनुयाद्धि ।। ५२-७७ ।।
अतनीञ्चातानीदतनिष्यत्क्रीणाति चिक्राय क्रेता क्रेष्यति क्रीणात्विति च ।।
अक्रीणात्क्रीणात्क्रीणीयात्क्रीयादक्रैषीदक्रेष्यञ्चोरयति चोरयामास चोरयिता चोरयिष्यति चोरयतु ।। ५२-७८ ।।
अचोरयञ्चोरयेच्चोर्यात् अचूचुरदचोरिष्यदित्येवं दश वै गणाः ।।
प्रयोजके भावयति सनीच्छायां बुभूषति ।।
क्रियासमभिहारे तु पंडितो बोभूयते मुने ।। ५२-७९ ।।
तथा यङ्लुकि बोभवीति च पठ्यते ।।
पुत्रीयतीत्यात्मनीच्छायां तथाचारेऽपि नारद ।।
अनुदात्तञितो धातोः क्रियाविनिमये तथा ।। ५२-८० ।।
निविशादेस्तथा विप्र विजानीह्यात्मनेपदम् ।।
परस्मैपदमाख्यातं शेषात्कर्तारि शाब्दिकैः ।। ५२-८१ ।।
ञित्स्वरितेतश्च उभे यक्च स्याद्भावकर्मणोः ।।
सौकर्यातिशयं चैव यदाद्योतयितुं मुने ।। ५२-८२ ।।
विवक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे ।।
लभंते कर्तृते पश्य पच्यते ह्योदनः स्वयम् ।। ५२-८३ ।।
साधु वासिश्छिनत्त्येवं स्थाली पचति वै मुने ।।
धातोः सकर्मकाद्भावे कर्मण्यपि लप्रत्ययाः ।। ५२-८४ ।।
तस्मै वाकर्मकाद्विप्र भावे कर्तरि कीर्तितः ।।
फलव्यापरयोरेकनिष्टतायामकर्मकः ।। ५२-८५ ।।
धातुस्तयोर्द्धर्मिभेदे सकर्मक उदाहृतः ।।
गौणे कर्मणि द्रुह्यादेः प्रधाने नीहृकृष्वहाम् ।। ५२-८६ ।।
बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ।।
प्रयोज्य कर्मण्यन्येषां ण्यंतानां लादयो मताः ।। ५२-८७ ।।
फलव्यापारयोर्द्धातुराश्रये तु तिङः स्मृताः ।।
फले प्रधानं व्यापारस्तिङ्र्थस्तु विशेषणम् ।। ५२-८८ ।।
एधितव्यमेधनीयमिति कृत्ये निदर्शनम् ।।
भावे कर्मणि कृत्याः स्युः कृतः कर्तरि कीर्तिताः ।। ५२-८९ ।।
कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम् ।।
गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम् ।। ५२-९० ।।
अधिस्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् ।।
रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ।। ५२-९१ ।।
व्याघ्रभी राजपुरुषोऽक्षशौंडो द्विगुरुच्यते ।।
पंचगवं दशग्रामी त्रिफलेति तु रूढितः ।। ५२-९२ ।।
नीलोत्पलं महाषष्टी तुल्यार्थे कर्मधारयः ।।
अब्राह्मणो न ञि प्रोक्तः कुंभकारादिकः कृता ।। ५२-९३ ।।
अन्यार्थे तु बहुव्रीहौ ग्रामः प्राप्तोदको द्विज ।।
पंचगू रूपवद्भार्यो मध्याह्नः ससुतादिकः ।। ५२-९४ ।।
समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट ।। च द्वयोः क्रमात् ।।
भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत् ।। ५२-९५ ।।
इतरेतरयोगे तु रामकृष्णौ समाहृतौ ।।
रामकृष्णं द्विज द्वै द्वै ब्रह्म चैकमुपास्यते ।। ५२-९६ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः ।।