नारदपुराणम्- पूर्वार्धः/अध्यायः ११७
सनातन उवाच ।
शुक्लाष्टम्यां चैत्रमासे भवान्याः प्रोच्यते जनिः ।।
प्रदक्षिणशतं कृत्वा कार्यो यात्रामहोत्सवः ।। ११७-१ ।।
दर्शनं जगदम्बायाः सर्वानंदप्रदं नृणाम् ।।
अत्रैवाशो ककलिकाप्राशनं समुदाहृतम् ।। ११७-२ ।।
अशोककलिकाश्चाष्टौ ये पिबंति पुनर्वसौ ।।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ।। ११७-३ ।।
महाष्टमीति च प्रोक्ता देव्याः पूजाविधानतः ।।
वैशाखस्य सिताष्टम्यां समुपोष्यात्र वारिणा ।। ११७-४ ।।
स्नात्वापराजितां देवीं मांसीबालकवारिभिः ।।
स्नापयित्वार्च्य गन्धाद्यैर्नैवेद्यं शर्करामयम् ।। ११७-५ ।।
कुमारीर्भोजयेच्चापि नवम्यां पारणाग्रतः ।।
ज्योतिर्मयविमानेन भ्राजमानो यथा रविः ।। ११७-६ ।।
लोकेषु विचरेद्विप्र देव्याश्चैव प्रसादतः ।।
कृष्णाष्टम्यां ज्येष्ठमासे पूजयित्वा त्रिलोचनम् ।। ११७-७ ।।
शिवलोके वसेत्कल्पं सर्वदेवनमस्कृतः ।।
ज्येष्ठशुक्ले तथाष्टम्यां यो देवीं पूजयेन्नरः ।। ११७-८ ।।
स विमानेन चरति गन्धर्वाप्सरसां गणैः ।।
शुक्लाष्टम्यां तथाऽऽषाढे स्नात्वा चैव निशांबुना ।। ११७-९ ।।
तेनैव स्नापयेद्देवीं पूजयेच्च विधानतः ।।
ततः शुद्धजलैः स्नाप्य विलिंपेत्सेंदुचंदनैः ।। ११७-१० ।।
नैवेद्यं शर्करोपेतं दत्वाऽऽचमनमर्पयेत् ।।
भोजयित्वा ततो विप्रान्दत्वा स्वर्णं च दक्षिणाम् ।। ११७-११ ।।
विसृज्य च ततः पश्चात्स्वयं भुंजीत वाग्यतः ।।
एतद्व्रतं नरः कृत्वा देवीलोकमवाप्नुयात् ।। ११७-१२ ।।
नभःशुक्लेतथाष्टम्यां देवीमिष्ट्वा विधानतः ।।
क्षीरेण स्नापयित्वा च मिष्टान्नं विनिवेदयेत् ।। ११७-१३ ।।
ततो द्विजान् भोजयित्वा परेऽह्नि स्वयमप्युत ।।
भुक्त्वा समापयेदद्व्रतं संततिवर्धनम् ।। ११७-१४ ।।
नभोमासे सिताष्टम्यां दशाफलमिति व्रतम् ।।
उपवासं तु संकल्प्य स्नात्वा कृत्वा च नैत्यिकम् ।। ११७-१५ ।।
तुलस्याः कृष्णावर्णाया दलैर्दशभिरर्चयेत् ।।
कृष्णं विष्णुं तथाऽनन्तं गोविन्दं गरुडध्वजम् ।। ११७-१६ ।।
दामोदरं हृषीकेशं पद्मनाभं हरिं प्रभुम् ।।
एतैश्च नामभिर्नित्यं कृष्णदेवं समर्चयेत् ।। ११७-१७ ।।
नमस्कारं ततः कुर्यात्प्रदक्षिणसमन्वितम् ।।
एवं दशदिनं कुर्याद्व्रतानामुत्तमं व्रतम् ।। ११७-१८ ।।
आदौ मध्ये तथा चांते होमं कुर्याद्विधानतः ।।
कृष्णमंत्रेण जुहुयाच्चरुणाऽष्टोत्तरं शतम् ।। ११७-१९ ।।
होमांते विधिना सम्यगाचार्य्यं पूजयेत्सुधीः ।।
सौवर्णे ताम्रपात्रे वा मृन्मये वेणुपात्रके ।। ११७-२० ।।
तुलसीदलं सुवर्णेन कारयित्वा सुलक्षणम् ।।
हैमीं च प्रतिमां कृत्वा पूजयित्वा विधानतः ।। ११७-२१ ।।
निधाय प्रतिमां पात्रे ह्याचार्याय निवेदयेत् ।।
दातव्या गौः सवत्सा च वस्त्रालंकारभूषिता ।। ११७-२२ ।।
दशाहं कृष्णदेवाय पूरिका दश चार्पयेत् ।।
ताश्च दद्याद्विधिज्ञाय स्वयं वा भक्षयेद्व्रती ।। ११७-२३ ।।
शयनं च प्रदातव्यं यथाशक्ति द्विजोत्तम ।।
दशमेऽह्नि ततो मूर्तिं सद्रव्यां गुरवेऽर्पयेत् ।। ११७-२४ ।।
व्रतांते दशविप्रेभ्यः प्रत्येकं दश पूरिकाः ।।
दद्यादेव दशाब्दं तु कृत्वा व्रतमनुत्तमम् ।। ११७-२५ ।।
उपोष्य विधिना भूयात्सर्वकामसमन्वितः ।।
अंते कृष्णस्य सायुज्यं लभते नात्र संशयः ।। ११७-२६ ।।
कृष्णजन्माष्टमी चेयं स्मृता पापहरा नृणाम् ।।
केवलेनोपवासेन तस्मिञ्जन्मदिने हरेः ।। ११७-२७ ।।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।।
उपवासी तिलैः स्नातो नद्यादौ विमले जले ।। ११७-२८ ।।
सुदेशे मंडपे क्लृप्ते मंडलं रचयेत्सुधीः ।।
तन्मध्ये कलशं स्थाप्य ताम्रजं वापि मृन्मयम् ।। ११७-२९ ।।
तस्योपरि न्यसेत्पात्रं ताम्रं तस्योपरि स्थिताम् ।।
हैमीं वस्त्रयुगाच्छन्नां कृष्णस्य प्रतिमां शुभम् ।। ११७-३० ।।
पाद्याद्यैरुपचारैस्तु पूजयेत्स्निग्धमानसः ।।
देवकीं वसुदेवं च यशोदां नंदमेव च ।। ११७-३१ ।।
व्रजं गोपांस्तथा गोपीर्गाश्च दिक्षु समर्चयेत् ।।
तत आरार्तिकं कृत्वा क्षमाप्यानम्य भक्तितः ।। ११७-३२ ।।
तिष्ठेत्तथैवार्द्धरात्रे पुनः संस्नापयेद्धरिम् ।।
पंचामृतैः शुद्धजलैर्गंधाद्यैः पूजयेत्पुनः ।। ११७-३३ ।।
धान्याकं च यवानीं च शुंठीं खंडं च नारद ।।
साज्यं रौप्ये धृतं पात्रे नैवेद्यं विनिवेदयेत् ।। ११७-३४ ।।
पुनरारार्तिकं कृत्वा दशधा रूपधारिणम् ।।
विचिंतयन्मृगांकाय दद्यादर्घ्यं समुद्यते ।। ११७-३५ ।।
ततः क्षमाप्य देवेशं रात्रिखंडं नयेद्व्रती ।।
पौराणिकैः स्तोत्रपाठैर्गीतवाद्यैरनेकधा ।। ११७-३६ ।।
ततः प्रभाते विप्रग्र्यान्भोजयेन्मधुरान्नकैः ।।
दत्वा च दक्षिणां तेभ्यो विसृजेत्तुष्टमानसः ।। ११७-३७ ।।
ततस्तां प्रतिमां विष्णोः स्वर्णधेनुधरान्विताम् ।।
गुरवे दक्षिणां दत्वा विसृज्याश्रीत च स्वयम् ।। ११७-३८ ।।
दारापत्यसुहृद्भृत्यरेवं कृत्वा व्रत नरः ।।
साक्षाद्गोकमाप्नोति विमानवरमास्थितः ।। ११७-३९ ।।
नैतेन सदृशं चान्यद्व्रतमस्ति जगत्त्रये ।।
कृतेन येन लभ्येत कोट्यैकादशकं फलम् ।। ११७-४० ।।
शुक्लाष्टम्यां नभस्यस्य कुर्याद्राधाव्रतं नरः ।।
पूर्ववद्राधिकां हैमीं कलशस्थां प्रपूजयेत् ।। ११७-४१ ।।
मध्याह्ने पूजयित्वेनामेकभक्तं समापयेत् ।।
शक्तो भक्तश्चोपवासं परेऽह्नि विधिना ततः ।। ११७-४२ ।।
सुवासिनीर्भोजयित्वा गुरवे प्रतिमार्पणम् ।।
कृत्वा स्वयं च भुंजीतं व्रतमेवं समापयेत् ।। ११७-४३ ।।
व्रतेनानेन विप्रर्षे कृतेन विधिना व्रती ।।
रहस्यं गोष्ठजं लब्ध्वा राधापरिकरे वसेत् ।। ११७-४४ ।।
दूर्वाष्टमीव्रतं चात्र कथितं तच्च मे श्रृणु ।।
शुचौ देशे प्रजातायां द्वर्वायां द्विजसत्तम । ११७-४५ ।।
स्थाप्य लिंगं ततो गंधैः पुष्पैर्धूपैश्च दीपकैः ।।
नैवेद्यैरर्चयेद्भक्त्या दध्यक्षतफलादिभिः ।। ११७-४६ ।।
अर्घ्यं प्रदद्यात्पूजांते मंत्राभ्यां सुसमाहितः ।।
त्वं दूर्वेऽमृतजन्माऽसि सुरासुरनमस्कृते ।। ११७-४७ ।।
सौभाग्यं संततिं देहि सर्वकार्यकरी भव ।।
यथा शाखा प्रशाखाभिर्विस्तृताऽसि महीतले ।। ११७-४८ ।।
तथा विस्तृतसंतानं देहि मेऽप्यजरामरम् ।।
ततः प्रदक्षिणीकृत्य विप्रान्संभोज्य तत्र वै ।। ११७-४९ ।।
भुक्त्वा स्वयं गृहं गच्छेदत्वा विप्रेषु दक्षिणाम् ।।
फलानि च प्रशस्तानि मिष्टानि सुरभीणि च ।। ११७-५० ।।
एवं पुण्या पापहरा नृणा दूर्वाष्टमी द्विज ।।
चतुर्णामपि वर्णानां स्त्रीजनानां विशेषतः ।। ११७-५१ ।।
या न पूजयते दूर्वा नारी मोहाद्यथाविधि ।।
जन्मानि त्रीणि वैधव्यं लभते सा न संशयः । ११७-५२ ।।
यदा ज्येष्ठर्क्षसंयुक्ता भवेच्जैवाष्टभी द्विज ।।
ज्येष्ठा नाम्नी तु सा ज्ञेया पूजिता पापनाशिनी ।। ११७-५३ ।।
अथैनां तु समारभ्य व्रतं षोडशवासरम् ।।
महालक्ष्म्याः समुद्दिष्टं सर्वसंपद्विवर्धनम् ।। ११७-५४ ।।
करिष्येऽहं महालक्ष्मीव्रतं ते त्वत्परायणः ।।
तदविघ्नेन मे यातु समाप्तिं त्वत्प्रसादतः ।। ११७-५५ ।।
इत्युच्चार्य ततो बद्धा डोरक दक्षिणे करे ।।
षोडशग्रंथिसहितं गुणैः षोडशभिर्युतम् । ११७-५६ ।।
ततोऽन्वहं महालक्ष्मीं गंधाद्यैरर्च्चयेद्व्रती ।।
यावत्कृष्णाष्टमी तत्र चरेदुद्यापनं सुधीः ।। ११७-५७ ।।
वस्त्रमंडपिकां कृत्वा सर्वतोभद्रमंडले ।।
कलशं सुप्रतिष्ठाप्य दीपमुद्द्योतयेत्ततः ।। ११७-५८ ।।
उत्तार्य डोरकं बाहोः कुंभस्याधो निवेदयेत् ।।
चतस्रः प्रतिमाः कृत्वा सौवर्णीस्तत्स्वरूपिणीः ।। ११७-५९ ।।
स्नपनं कारयेत्तासाः जलैः पञ्चामृतैस्तथा ।।
उपचारैः षोडशभिः पूजयित्वा विधानतः ।। ११७-६० ।।
जागरस्तत्र कर्तव्यो गीतवादित्रनिः स्वनैः ।।
ततो निशीथे संप्राप्तेऽभ्युदितेऽमृतदीधितौ ।। ११७-६१ ।।
दत्वार्घ्यं बंधनं द्रव्यैः श्रीखंडाद्यैर्विधानतः ।।
चंद्रमण्डलसंस्थायै महालक्ष्यै प्रदापयेत् ।। ११७-६२ ।।
क्षीरोदार्णवसंभूत महालक्ष्मीसहोदर ।।
पीयूषधाम रोहिण्याः सहिताऽर्घ्यं गृहाण मे ।। ११७-६३ ।।
क्षीरोदार्णवसम्भूते कमले कमलालये ।।
विष्णुवक्षस्थलस्थे मे सर्वकामप्रदा भव । ११७-६४ ।।
एकनाथे जगन्नाथे जमदग्निप्रियेऽव्यये ।।
रेणुके त्राहि मां देवि राममातः शिवं कुरु ।। ११७-६५ ।।
मंत्रैरेतैर्महालक्ष्मीं प्रार्थ्य श्रोत्रिययोषितः ।।
सम्यक्संपूज्य ताः सम्यग्गंधयावककज्जलैः ।। ११७-६६ ।।
संभोज्य जुहुयादग्नौ बिल्वपद्मकपायसैः ।।
तदलाभे घृतैर्विप्र गृहेभ्यः समिधस्तिलान् ।। ११७-६७ ।।
मृत्युंजयाय च परं सर्वरोगप्रशांतये ।।
चंदनं तालपत्रं च पुष्पमालां तथाऽक्षतान् ।। ११७-६८ ।।
दुर्वां कौसुम्भसूत्रं च युगं श्रीफलमेव वा ।।
भक्ष्याणि च नवे शूर्पे प्रतिद्रव्यं तु षोडश ।। ११७-६९ ।।
समाच्छाद्यान्यशूर्पेण व्रती दद्यात्समन्त्रकम् ।।
क्षीरोदार्णवसंभूता लक्ष्मीश्चन्द्रसहोदरा ।। ११७-७० ।।
व्रतेनानेन संतुष्टा भवताद्विष्णुवल्लभा ।।
चेतस्रः प्रतिमास्तास्तु श्रोत्रियेभ्यः समर्पयेत् ।। ११७-७१ ।।
ततस्तु चतुरो विप्रान् षोडशापि सुवासिनीः ।।
मिष्टान्नेनाशयित्वा तु विसृजेत्ताः सदक्षिणाः ।। ११७-७२ ।।
समाप्तिनियमः पश्चाद्भुञ्जीतेष्टैः समन्वितः ।।
एतद्व्रतं महालक्ष्म्याः कृत्वा विप्र विधानतः ।। ११७-७३ ।।
भुक्त्वेष्टानैहिकान् कामांल्लक्ष्मीलोके वसेच्चिरम् ।।
एषाऽशोकाष्टमी चोक्ता यस्यां पूर्णं रमाव्रतम् ।। ११७-७४ ।।
अत्राशोकस्य पूजा स्यादेकभक्तं तथा स्मृतम् ।।
कृत्वाऽशोकव्रतं नारी ह्यशोका शोकजन्मनि ।। ११७-७५ ।।
यत्र कुत्रापि संजाता नात्र कार्या विचारणा ।।
आश्विने शुक्लपक्षे तु प्रोक्ता विप्र महाष्टमी ।। ११७-७६ ।।
तत्र दुर्गाचनं प्रोक्तं सव्रैरप्युपचारकैः ।।
उपवासं चैकभक्तं महाष्टम्यां विधाय तु ।। ११७-७७ ।।
सर्वतो विभवं प्राप्य मोदते देववच्चिरम् ।।
ऊर्ज्जे कृष्णादिकेऽष्टम्यां करकाख्यं व्रतं स्मृतम् ।। ११७-७८ ।।
तत्रोमासहितः शंभुः पूजनीयः प्रयत्नतः ।।
चंद्रोदयेऽर्घदानं च विधेयं व्रतिभिः सदा ।। ११७-७९ ।।
पुत्रं सर्वगुणोपेतमिच्छद्भिर्विविधं सुखम् ।।
गोपाष्टमीति संप्रोक्ता कार्तिके धवले दले ।। ११७-८० ।।
तत्रकुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणाम् ।।
गवानुगमनं दानं वांछन्सर्वाश्च संपदः ।। ११७-८१ ।।
कृष्णाष्टम्यां मार्गशीर्षे मिथुनं दर्भनिर्मितम् ।।
अनघां चानघां तत्र बहुपुत्रसमन्वितम् ।। ११७-८२ ।।
स्थापयित्वा शुभे देशे गोमयेनोपलेपिते ।।
पूजयेद्गन्धपुष्पाद्यैरुपचारैः पृथग्विधैः ।। ११७-८३ ।।
संभोज्य द्विजदांपत्यं विसृजेल्लब्धदक्षिणम् ।।
व्रतमेतन्नरः कृत्वा नारी वा विधिपूर्वकम् ।। ११७-८४ ।।
पुत्रं सल्लक्षणोपेतं लभते नात्र संशयः ।। ११७-८५ ।।
मार्गाशीर्षसिताष्टम्यां कालभैरवसन्निधौ ।।
उपोष्य जागरं कृत्वा महापापैः प्रमुच्यते ।। ११७-८६ ।।
यत्किंचिदशुभं कर्म कृतं मानुषजन्मनि ।।
तत्सर्वं विलयं याति कालभैरवदर्शनात् ।। ११७-८७ ।।
अथ पौषसिताष्टम्यां श्राद्धमष्टकसंज्ञितम् ।।
पितॄणां तृप्तिदं वर्षं कुलसन्ततिवर्द्धनम् ।। ११७-८८ ।।
शुक्लाष्टम्यां तु पौषस्य शिवं सम्पूज्य भक्तितः ।।
भुक्तिमुक्तिमवाप्नोति भक्तिमेकां समाचरन् ।। ११७-८९ ।।
कृष्णाष्टम्यां तु माघस्य भद्रकालीं समर्चयेत् ।।
भक्तितो वैरिवृन्दघ्नीं सर्वकामप्रदायिनीम् ।। ११७-९० ।।
माघमासे सिताष्टम्यां भीष्मं संतर्पयद्द्विज ।।
संततिं त्वव्यवच्छिन्नामिच्छंश्चाप्यपराजयम् ।। ११७-९१ ।।
फाल्गुने त्वसिताष्टम्यां भीमां देवीं समर्चयेत् ।।
तत्र व्रतपरो विप्र सर्वकामसमृद्धये ।। ११७-९२ ।।
शुक्लाष्टम्यां फाल्गुनस्य शिवं चापि शिवां द्विज ।।
गंधाद्यैः सम्यगभ्यर्च्य सर्वसिद्धीश्वरो भवेत् ।। ११७-९३ ।।
फाल्गुनापरपक्षे तु शीतलामष्टमीदिने ।
पूजयेत्सर्ववपक्कानैः सप्तम्यां विधिवत्कृतैः ।। ११७-९४ ।।
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।।
शीतले त्वं जगद्वात्री शीतलायै नमोनमः ।। ११७-९५ ।।
वन्देऽहं शीतलां देवीं रासभस्थां दिगंबराम् ।।
मार्जनी कलशोपेतां विस्फोटकविनाशिनीम् ।। ११७-९६ ।।
शीतले शीतले चेत्थं ये जपंति जले ल्थिताः ।।
तेषां तु शीतला देवी स्याद्विस्फोटकशांतिदा ।। ११७-९७ ।।
इत्येवं शीतलामन्त्रैर्यः समर्चयते द्विज ।।
तस्य वर्षं भवेच्छांतिः शीतलायाः प्रसादतः ।। ११७-९८ ।।
सर्वमासोभये पक्षे विधिवच्चाष्टमीदिने ।।
शिवां वापिशिवं प्रार्च्यलभते वांछितं फलम् ।। ११७-९९ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थिताष्टमीव्रतकथनं नाम सप्तदशाधिकशततमोऽध्यायः ।। ११७ ।।