नारदपुराणम्- पूर्वार्धः/अध्यायः ३
नारद उवाच ।।
कथं ससर्ज ब्रह्मादीनादिदेवः पुरा विभुः ।।
तन्ममाख्याहि सनक सर्वज्ञोऽस्ति यतो भवान् ।। ३-१ ।।
श्रीसनक उवाचा ।।
नारायणोऽक्षरोऽनन्तः सर्वव्यापी निरञ्जनः ।।
तेनेदमखिलं व्याप्तं जगत्स्थावरजङ्गमम् ।। ३-२ ।।
आदिसर्गे महाविष्णुः स्वप्रकाशो जगन्मयः ।।
गुणभेदमधिष्ठाय मूर्त्तित्रिकमवासृजत् ।। ३-३ ।।
सृष्ट्यर्थं तु पुरा देवो दक्षिणाङ्गात्प्रजापतिम् ।।
मध्येरुद्राख्यमीथानं जगदन्तकरं मुने ।। ३-४ ।।
पालनायास्य जगतो वामाङ्गाद्विष्णुमव्ययम् ।।
तमादिदेवमजरं केचिदाहुः शिवाभिधम् ।।
केचिद्विष्णुं सदा सत्यं ब्रह्माणं केचिदूचिरे ।। ३-५ ।।
तस्य शक्तिः परा विष्णोर्जगत्कार्यप्रवर्तिनी ।।
भावाभावस्वरुपा सा विद्याविद्येति गीयते ।। ३-६ ।।
यदा विश्वं महाविष्णोर्भिन्नत्वेन प्रतीयते ।।
तदा ह्यविद्या संसिद्धा भवेद्दुःखस्य साधनम् ।। ३-७ ।।
ज्ञातृज्ञेयाद्युपाधिस्ते यदा नश्यति नारद ।।
सर्वैकभावना बुद्धिः सा विद्येत्यभिधीयते ।। ३-८ ।।
एषं माया महाविष्णोर्भिन्ना संसारदायिनी ।।
अभेदबुद्ध्या दृष्टा चेत्संसारक्षयकारिणी ।। ३-९ ।।
विष्णुशक्तिसमुद्भूतमेतत्सर्वं चराचरम्।।
यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चनेङ्गति ।। ३-१० ।।
उपाधिभिर्यथाकाशो भिन्नत्वेन प्रतीयते ।।
अविद्योपाधियोगेनतथेदमखिलं जगत् ।। ३-११ ।।
यथा हरिर्जगद्यापी तस्य शक्तिस्तथा मुने ।।
दाहशक्तिर्यथांगारे स्वाश्रयं व्याप्य तिष्टति ।। ३-१२ ।।
उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे ।।
भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च ।। ३-१३ ।।
दुर्गेति भद्रकालीति चण्डी माहेश्वरीत्यपि ।।
कौमारी वैष्णवी चेति वाराह्येन्द्री च शाम्भवी ।। ३-१४ ।।
ब्राह्मीति विद्याविद्येति मायेति च तथा परे ।।
प्रकृतिश्च परा चेति वदन्ति परमर्षस्यः ।। ३-१५ ।।
शेषशक्तिः परा विष्णोर्जगत्सर्गादिकारिणी ।।
व्यक्ताव्यक्तस्वरुपेण जगह्याप्य व्यवस्थिता ।। ३-१६ ।।
प्रकृतिश्चपुमांश्चैव कालश्चेति विधिस्थितिः ।।
सृष्टिस्थितिविनाशानामेकः कारणतां गतः ।। ३-१७ ।।
येनेदमखिलं जातं ब्रह्मरुपधरेण वै ।।
तस्मात्परतरो देवो नित्यइत्यभिधीयते ।। ३-१८ ।।
रक्षां करोति यो देवो नित्य इत्यभिधीयते ।।
रक्षां करोति यो देवो जगतां परतः पुमान् ।। ३-१९ ।।
तस्मात्परतरं यत्तदव्ययं परमं पदम् ।। ३-२० ।।
अक्षरो निर्गुणः शुद्धः परिपूर्णः सनातनः ।।
यः परः कालपुपाख्यो योगिध्येयः परात्परः ।। ३-२१ ।।
परमात्मा परानन्दः सर्वोपाधिविवर्जितः ।
ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः ।। ३-२२ ।।
योऽसौ शुद्धोऽपि परमो ह्यहंकारेण संयुतः ।।
देहीति प्रोच्यते मूढैरहोऽज्ञानविडम्बनम् ।। ३-२३ ।।
स देवः परमः शुद्धः सत्त्वदिगुणभेदतः ।।
मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम् ।। ३-२४ ।।
योऽसौ ब्रह्मा जगत्कर्ता यन्नाभिकमलोद्भवः ।।
स एवानन्दरुपात्मा तस्मान्नास्त्यपरो मुने ।। ३-२५ ।।
अन्तर्यामी जगद्यापी सर्वसाक्षी निरञ्जनः ।।
भिन्नाभिन्नस्वरुपेण स्थितो वै परमेश्वरः ।। ३-२६ ।।
यस्य शक्तिर्महामाया जगद्विश्त्रम्भधारिणी ।।
विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः ।। ३-२७ ।।
आदिसर्गे महाविष्णोर्लोकान्कर्त्तुं समुद्यतः ।।
प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत् ।। ३-२८ ।।
पश्यन्ति भावितात्मानो यं ब्रह्मत्यभिसंज्ञितम् ।।
शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम् ।। ३-२९ ।।
एवं शुद्धोऽक्षरोऽनन्तः कालरुपी महेश्वरः ।।
गुणरुपीगुणाधारोजगतामादिकृद्विभुः ।। ३-३० ।।
प्रकृतिः क्षोभमापन्ना पुरुषाख्ये जगद्गुरौ ।।
महान्प्रादुरभूद्धुद्धिस्ततोऽहं समवर्त्तत ।। ३-३१ ।।
अहंकाराश्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च ।।
तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते ।। ३-३२ ।।
आकाशवाय्वग्रिजलभूमयोऽब्जभवात्मज ।।
यथाक्रमं कारणतामेकैकस्योपयान्ति च ।। ३-३३ ।।
ततो ब्रह्या जगद्धाता तामसानसृजत्प्रभुः ।।
तिर्यग्योनिगताञ्जन्तून्पशुपक्षिमृगादिकान् ।। ३-३४ ।।
तमप्यसाधकं मत्वा देवसर्गं सनातनात् ।।
ततोवैमानुषं सर्गं कल्पयामास पव्मजः ।। ३-३५ ।।
ततो दक्षादिकान्पुत्रान्सृष्टिसाधनतत्परान् ।।
एभिः पुत्रैरिदं व्याप्तं सदेवासुरमानुषम् ।। ३-३६ ।।
भुर्भुवश्च तथा स्वश्च महश्वैव जनस्तथा ।।
तपश्च सत्यमित्येवं लोकाः सत्योपरि स्थिताः ।। ३-३७ ।।
अतलं वितलं चैव सुतलं च तलातलम् ।।
महातलं च विप्रेन्द्र ततोऽधच्च रसातलम् ।। ३-३८ ।।
पातालं चेति सप्तैव पातालानि क्रमादधः ।।
एष सर्वेषु लोकेषु लोकनाथांश्च सृष्टवान् ।। ३-३९ ।।
कुलाचलान्नदीश्चासौ तत्तल्लोकनिवासिनाम् ।।
वर्त्तनादीनि सर्वाणि यथायोग्यंमकल्पयत् ।। ३-४० ।।
भूतले मध्यगो मेरुः सर्वदेवसमाश्रयः ।।
लोकालोकश्च भूम्यन्ते तन्मध्ये सत्प सागराः ।। ३-४१ ।।
द्वीपाश्च सप्त विप्रेन्द्र द्वीपे कुलाचलाः ।।
बाह्या नद्यश्च विख्याता जनाश्चामरसन्निभाः ।। ३-४२ ।।
जम्बूप्लक्षाभिधानौ च शाल्मलश्च कुशस्तथा ।।
क्रौञ्चशाकौ पुष्करश्च ते सर्वे देवभूमयः ।। ३-४३ ।।
एते द्वीपाः समुद्रैस्तु सत्पसत्पभिरावृताः ।।
लवणेक्षुसुरासर्पिर्दधिक्षीरजलैः समम् ।। ३-४४ ।।
एते द्वीपाः समुद्राश्च पूर्वस्मादुत्तशेत्तराः ।।
ज्ञेया द्विगुणविस्तरा लोकालोकाञ्च पर्वतात् ।। ३-४५ ।।
क्षारोदधेरुपत्तरं यद्धि माद्रेश्चैव दक्षिणाम् ।।
ज्ञेयं तद्भारतं वर्षं सर्वकर्मफलप्रदम् ।। ३-४६ ।।
अत्र कर्माणि कुर्वन्ति त्रिविधानि तु नारद ।।
तत्फलं भुज्यते चैव भोगभूमिष्वनुक्रमात् ।। ३-४७ ।।
भारते तु कृतं कर्म शुभं वाशुभमेव च ।।
तत्फलं क्षयि विप्रेन्द्र भुज्यतेऽन्यत्रजन्तुभिः ।। ३-४८ ।।
अद्यापि देवा इच्छन्ति जन्म भारतभूतले ।।
संचितं सुमहत्पुण्यमक्षय्यममलं शुभम् ।। ३-४९ ।।
कदा लभामहे जन्म वर्षभारतभूमिषु ।।
कदा पुण्येन महता यास्याम परमं पदम् ।। ३-५० ।।
दानैर्वाविविधैर्यज्ञैस्तपोभिर्वाथवा हरिम् ।।
जगदीशंसमेष्यामो नित्यानन्दमनामयम् ।। ३-५१ ।।
यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् ।।
न तस्य सदृशोऽन्योऽस्ति त्रिषु लोकेषु नारद ।। ३-५२ ।।
हरिकीर्तनशीलो वा तद्भक्तानां प्रियोऽपि वा ।।
शुक्षषुर्वापि महतः सवेद्यो दिविजैरपि ।। ३-५३ ।।
हरिपूजारतो नित्यं भक्तः पूजास्तोऽषि वा ।।
भक्तोच्छिष्टान्नसेवी च याति विष्णोः परं पदम् ।। ३-५४ ।।
नारायणेति कृष्णेति वासुदेवेति यो वदेत् ।।
अहिंसादिपरः शन्तः सोऽपि वन्द्यः सुरोत्तमैः ।। ३-५५ ।।
शिवेति नीलकण्ठेति शङ्करेतिच यः स्मरेत् ।।
सर्वभूतहितो नित्यं सोऽभ्यर्च्यो दिविजैः स्मृतः ।। ३-५६ ।।
गुरुभक्तः शिवध्यानी स्वाश्रमाचारतत्परः ।।
अनसूयुःशुचिर्दक्षो यः सोऽप्यर्च्यःसुरेश्वरैः ।। ३-५७ ।।
ब्राह्यणानां हितकरः श्रध्दावान्वर्णधर्मयोः ।।
वेदवादरतो नित्यं स ज्ञेयः पङ्किपावनः ।। ३-५८ ।।
अभेददर्शी देवेशे नारायणशिवात्मके ।।
सर्वं यो ब्रह्मण नित्यमस्मदादिषु का कथा ।। ३-५९ ।।
गोषु क्षान्तो ब्रह्मचारी परनिंदाविवर्जितः ।।
अपरिग्रहशी लश्च देवपूज्यः स नारद ।। ३-६० ।।
स्तेयादिदोषविमुखः कृतज्ञः सत्यवाक् शुचिः ।।
परोपकारनिरतः पूजनीयः सुरासुरैः ।। ३-६१ ।।
वेदार्थश्रवणे बुद्धिः पुराणश्रवणे तथा ।।
सत्संगेऽपि च यस्यास्ति सोऽपि वन्द्यः सुरोत्तमैः ।। ३-६२ ।।
एवमादीन्यनेकानि कर्माणि श्रद्धयान्वितः ।।
करोति भारते वर्षे संबन्धोऽस्माभिरेव च ।। ३-६३ ।।
एतेष्वन्यतमो विप्रमात्मानं नारभेत्तु यः ।।
स एव दुष्कृतिर्मूढो नास्त्यन्योऽस्मादचेतनः ।। ३-६४ ।।
संप्राप्य भारते जन्म सत्कर्म सुपराङ्मुखः ।।
पीयूषकलशं सुक्त्वा विषभाण्डमुपाश्रितः ।। ३-६५ ।।
श्रुतिस्मृत्युदितैर्द्धर्मैर्नात्मानं पावयेत्तु यः ।।
स एवात्मविधाती स्यात्पापिनामग्रणीर्मुने ।। ३-६६ ।।
कर्मभूमिं समासाद्य यो न धर्मं समाचरेत् ।।
स च सर्वाधमः प्रोक्तो वेदविद्भिर्मुनीश्वर ।। ३-६७ ।।
शुभं कर्म समुत्सृज्य दुष्कर्माणि करोति यः ।।
कामधेनुं परित्यज्य अर्कक्षीरं सं मार्गति ।। ३-६८ ।।
एवं भारतभूभागं प्रशंसन्ति दिवौकसः ।।
ब्रह्माद्या अपि विप्रेन्द्र स्वभोगक्षयभीरवः ।। ३-६९ ।।
तस्मात्पुण्यतमं ज्ञेयं भारतं वर्षमुत्तमम् ।।
देवानां दुर्लभं वापि सर्वकर्मफलप्रदम् ।। ३-७० ।।
अस्मिन्पुण्ये च भूभागे यस्तु सत्कर्मसूद्यतः ।।
न तस्य सदृशं कश्चित्रिषु लोकेषु विद्यते ।। ३-७१ ।।
अस्मिञ्जातो नरो यस्तु स्वंकर्मक्षपणोद्यतः ।।
नररुपपरिच्छन्नः स हरिर्नात्र संशयः ।। ३-७२ ।।
परं लोकफलं प्रेप्सुः किर्यात्कर्माण्यतन्द्रितः ।।
निवेद्य हरये भक्त्या तत्फलं ह्यक्षयं स्मृतम् ।। ३-७३ ।।
विरागी चेत्कर्मफलेष्वपि किंचित्र कारयेत् ।।
अर्पयेत्सुकृतं कर्म प्रीयतामितिं मे हरिः ।। ३-७४ ।।
आब्रह्यभुवनाल्लोकाः पुनरुत्पत्तिदायकाः ।।
फलागृध्नुः कर्मणां तत्प्रात्प्रोति परमं पदम् ।। ३-७५ ।।
वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये ।।
यथाश्रमं त्यक्तुकामः प्रान्पोति पदमव्ययम् ।। ३-७६ ।।
निष्कामो वा सकामो वा कुर्यात्कर्म यथाविधि ।।
स्वाश्रमाचारशून्यश्च पतितः प्रोच्यते बुधैः ।। ३-७७ ।।
सदाचारपरो विप्रो वर्द्धते ब्रह्मतेजसा ।।
तस्य विष्णुश्च तुष्टः स्याद्भक्तियुक्तस्य नारद ।। ३-७८ ।।
भारते जन्म संप्राप्य नात्मानं तारयेतु यः ।।
पच्यते निरये धोरे स त्वाचन्द्रार्कतारकम् ।। ३-७९ ।।
वासदेवपरो धर्मो वासुदेवपरं तपः ।।
वासुदेवपरं ज्ञानं वासुदेवपरा गतिः ।। ३-८० ।।
वासुदेवात्मकं सर्वं जगत्स्थावरजङ्गमम् ।।
आब्रह्मस्तम्बपर्यन्तं तस्मादन्यन्न विद्यते ।। ३-८१ ।।
स एव धाता त्रिपुरान्तकश्च स एव देवासुरयज्ञरुपः ।।
स एवब्रह्माण्डमिदं ततोऽन्यन्न किंचिदस्ति व्यतिरिक्तरुपम् ।। ३-८२ ।।
यस्मात्परं नापरमस्ति किंचिद्यस्मादणीयान्नतथा महीयान् ।।
व्यात्पं हि तेनेदमिदं विचित्रं तं देवदेवं प्रणमेत्समीङ्यम् ।। ३-८३ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सृष्टिभरतखण्डप्राशस्त्यभूगोलानां वर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।