नारदपुराणम्- पूर्वार्धः/अध्यायः १९
सनक उवाच ।।
अन्यद्वूतं प्रवक्ष्यामि ध्वजारोपणसंज्ञितम् ।।
सर्वपापहरं पुण्यं विष्णुप्रीणनकारणम् ।। १९-१ ।।
यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमम् ।।
संपूज्यते विग्निञ्च्याद्यैः किमन्यैर्बहुभाषितैः ।। १९-२ ।।
हेमभारसहस्त्रं तु यो ददाति कुटुम्बिने ।।
तत्फलं तुल्यमात्रं स्याद्धूजारोपणकर्मणः ।। १९-३ ।।
ध्वजारोपणतुल्यं स्याद्गङ्गास्नानमनुत्तमम् ।।
अथवा तुलसिसेवा शिवलिङ्गप्रपूजनम् ।। १९-४ ।।
अहोऽपूर्वमहोऽपूर्वमहोऽपूर्वमिदं द्विज ।।
सर्वपाप हरं कर्म ध्वजागोपणसंज्ञितम् ।। १९-५ ।।
सन्ति वै यानि कार्याणि ध्वजारोपणकर्मणि ।।
तानि सर्वाणि वक्ष्यामि श्रृणुष्व गदतो मम ।। १९-६ ।।
कार्तिकस्य सिते पक्षे दशम्यां प्रयतो नरः ।।
स्नानं कुर्यात्प्रयत्नेन दन्तधावनपूर्वकम् ।। १९-७ ।।
एकाशी ब्रह्मचारी च स्वपेन्नारायणं स्मरन् ।।
धौताम्बरधरः शुद्धो विप्रो नारायणाग्रतः ।। १९-८ ।।
ततः प्रातः समुत्थाय स्नात्वाचम्य यथाविधि ।।
नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेत् ।। १९-९ ।।
चतुर्भिर्ब्राह्मणैः सार्ध्दं कृत्वा च स्वस्तिवाचनम् ।।
नान्दीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि ।। १९-१० ।।
ध्वजस्तम्भो च गायत्र्या प्रोक्षयेद्वस्त्रसंयुतौ ।।
सूर्यं च वैनतेयं च हिमांशुं तत्परोऽर्चयेत् ।। १९-११ ।।
धातारं च विधातारं पूजयेद्धजदण्डके ।।
हरिद्राक्षतगन्धाद्यैः शुक्लपुष्पैर्विशेषतः ।। १९-१२ ।।
ततो गोचर्ममात्रघं तु स्थण्डिलं चोपलिप्य वै ।।
आधायान्गिं स्वगृह्योत्त्या ह्याज्यभागादिकं क्रमात् ।। १९-१३ ।।
जुहुयात्पायसं चैव साज्यमष्टोत्तरं शतम् ।।
प्रथमं पौरुषं सूक्तं विष्णोर्नुकमिरावतीम् ।। १९-१४ ।।
ततश्च वैनतेयाय स्वाहेत्यष्टाहुतीस्तथा ।।
सोमो धेनुमुदुत्यं च जुहुयाच्च ततो द्विज ।। १९-१५ ।।
सौरमन्त्राञ्जपेत्तत्र शान्तिसूत्कानि शक्तितः ।।
रात्रौ जागरणं कुर्यादुपकण्ठं हरेः शुचुः ।। १९-१६ ।।
ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ।।
गन्धपुष्पादिभिर्देवमर्चयेत्पूर्ववत्क्रमात् ।। १९-१७ ।।
ततो मङ्गलवाद्यैश्च सूक्तपाठैश्च शौभनम् ।।
नृत्यैश्च रतोत्रपठनैर्नयेद्विष्णवालये ध्वजम् ।। १९-१८ ।।
देवस्य द्वारदेशे वा शिखरे वा मुदान्वितः ।।
सुस्थिरं स्थापयेद्विप्र ध्वजं सस्तम्भसंयुतम् ।। १९-१९ ।।
गन्धपुष्पाघक्षतैर्द्देवं धूपदीपैर्मनोहरैः ।।
भक्षयभोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेत् ।। १९-२० ।।
एवं देवालये स्थाप्य शोभनं ध्वजमुत्तमम् ।।
प्रदक्षिणमनुव्रज्य स्तोत्रमेतदुदूरयेत् ।। १९-२१ ।।
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।। १९-२२ ।।
येनेदमखिलं जातं यत्र सर्वं प्रतिष्टितम् ।।
लयमेष्यति यत्रैवं तं प्रपन्नोऽस्मि केशवम् ।। १९-२३ ।।
न जानन्ति परं भावं यस्य ब्रह्यादयः सुराः ।।
योगिनोयं न पश्यन्ति तं वन्दं ज्ञानरुपिणम् ।। १९-२४ ।।
अन्तरिक्षंतु यन्नाभिर्द्यौर्मूर्द्धा यस्य चैव हि ।।
पादोऽभूद्यस्य पृथिवी तं वन्दे विश्वरुपिणम् ।। १९-२५ ।।
यस्य श्रोत्रे दिशः सर्वा यच्चक्षुर्दिनकृच्छशी ।।
ऋक्सामयजुषी येन तं वन्दे ब्रह्ररुपिणम् ।। १९-२६ ।।
यन्मुखाद्वाह्मणा जाता यद्वाहोरभवन्नृपाः ।।
वैश्या यस्योरुतो जाताः पद्भ्यां शूद्रो व्यजायत ।। १९-२७ ।।
मायासङ्गममात्रेण वदन्ति पुरुषं त्वजम् ।।
स्वभावविमलं शुद्धं निर्विकारं निरञ्जनम् ।। १९-२८ ।।
क्षीरब्धि शायिनं देवमनन्तमपराजितम् ।।
सद्भक्तवत्सलं विष्णुं भक्तिगम्यं नमाम्यहम् ।। १९-२९ ।।
पृथिव्यादीनि भूतानि तन्मात्राणींन्द्रियाणि च ।।
सूक्ष्मासूक्ष्याणि येनासंस्तं वन्दे सर्वतोमुखम् ।। १९-३० ।।
यद्वह्य परमं धाम सर्वलोकोत्तमोत्तमम् ।।
निर्गुणं परमं सूक्ष्मं प्रणतोऽस्ति पुनः पुनः ।। १९-३१ ।।
अविकारमजं शुद्धं सर्वतोबाहुमीश्वरम् ।.
यमामनन्ति योगीन्द्राः सर्वकारणकारणम् ।। १९-३२ ।।
यो देवः- सर्वभूतानामन्तरात्मा जगन्मयः ।।
निर्गुणः परमात्मा च स मे विष्णुः प्रसीदतु ।। १९-३३ ।।
हृदयस्थोऽपि दूरस्थो मायया मोहितात्मनाम् ।।
ज्ञानिनां सर्वगो यस्तु स मे विष्णुः प्रसीदतु ।। १९-३४ ।।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।।
हूयते च पुनर्द्वातार्थंभ्यां स मे विष्णुः प्रतीदतु ।। १९-३५ ।।
ज्ञानिनां कर्मिणां चैव तथा भक्तिमतां नृणाम् ।।
गतिदाता विश्वमृग्यः स मे विष्णुः प्रसूदतु ।। १९-३६ ।।
जगद्धितार्थं ये देहा ध्रियन्ते लीलया हरेः ।।
तानर्चयन्ति विबुधाः स मे विष्णुः प्रसीदतु ।। १९-३७ ।।
यमामनन्तिवै सन्तः सच्चिदानन्दविग्रहम् ।।
निर्गुणं च गुणाधारं स मे विष्णुः प्रसीदतु ।। १९-३८ ।।
इति स्तुत्वा नमेद्विष्णुं ब्राह्मणांश्च प्रपूजयेत् ।।
आचार्यं पूजयेत्पश्चाद्दक्षिणाच्छादनादिभिः ।। १९-३९ ।।
ब्राह्मणान्भोजयेच्छक्त्या भक्ति भावसमन्वितः ।।
पुत्रमित्रकलत्राद्यैः स्वयं च सह बन्धुभिः ।। १९-४० ।।
कुर्वीत पारणं विप्र नारायणपरायणः ।।
यस्त्वेतत्कर्म कुर्वीत ध्वजारोपणमुत्तमम् ।।
तस्य पुण्यफलं वक्ष्ये श्रृणुष्व सुसमाहितः ।। १९-४१ ।।
पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना ।।
तावन्ति पापजालानि नश्यन्त्येव न संशयः ।। १९-४२ ।।
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।।
ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः ।। १९-४३ ।।
यावद्दिनानि तिष्टेत ध्वजो विष्णुगृहे द्विज ।।
तावद्युगसहस्त्राणि हरिसारुप्यमश्नुते ।। १९-४४ ।।
आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः ।।
तेऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः ।। १९-४५ ।।
आरोपितो ध्वजो विष्णुगृहे धुन्वन्पटं स्वकम् ।।
कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः ।। १९-४६ ।।
यस्त्वारोप्य गृहे विष्णोर्ध्वजं नित्यमुपाचरेत् ।।
स देवयानेन दिवं यातीव सुमतिर्नृपः ।। १९-४७ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने ध्वजारोपणन्नामैकोनविंशोऽध्यायः ।।