नारदपुराणम्- पूर्वार्धः/अध्यायः ८८

विकिस्रोतः तः
Jump to navigation Jump to search
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सूत उवाच ।।
श्रुत्वेत्थं यजनं विप्रा मन्त्रध्यानपुरःसरम् ।।
सर्वासामवताराणां नारदो देवदर्शनः ।। ८८-१ ।।

सर्वाद्याया जगन्मातुः श्रीराधायाः समर्चनम् ।।
अवतारकलानां हि पप्रच्छ विनयान्वितः ।। ८८-२ ।।

नारद उवाच ।।
धन्योऽस्मिकृतकृत्योऽस्मि जातोऽहं त्वत्प्रसादतः ।।
पज्जगन्मातृमंत्राणां वैभवं श्रुतवान्मुने ।। ८८-३ ।।

यथा लक्ष्मीमुखानां तु अवताराः प्रकीर्तिताः ।।
तथा राधावताराणां श्रोतुमिच्छामि वैभवम् ।। ८८-४ ।।

यत्संख्याकाश्च यद्रूपा यत्प्रभावा विदांवर ।।
राधावतारास्तान्सत्यं कीर्तयाशेषसिद्धिदान् ।। ८८-५ ।।

एतच्छुत्वा वचस्तस्य नारदस्य विधेः सुतः ।।
सनत्कुमारः प्रोवाच ध्यात्वा राधापदांबुजम् ।। ८८-६ ।।

सनत्कुमार उवाच ।।
श्रृणु विप्र प्रवक्ष्यामि रहस्यातिरहस्यकम् ।।
राधावतारचरितं भजतामिष्टिसिद्धिदम् ।। ८८-७ ।।

चन्द्रावली च ललिता द्वे सख्यौ सुप्रिये सदा ।।
मालावतीमुखाष्टानां चन्द्रावल्यधिपास्मृता ।। ८८-८ ।।

कलावतीमुखाष्टानामीश्वरी ललिता मता ।।
राधाचरणपूजायामुक्ता मालावतीमुखाः ।। ८८-९ ।।

ललिताधीश्वरीणां तु नामानि श्रृणु सांप्रतम् ।।
कलावती मधुमती विशाखा श्यामलाभिधा ।। ८८-१० ।।

शैब्या वृन्दा श्रीधराख्या सर्वास्तुत्तुल्यविग्रहाः ।।
सुशीलाप्रमुखा श्चान्याः सख्यो द्वात्रिंशदीरिताः ।। ८८-११ ।।

ताः श्रृणुष्व महाभाग नामतः प्रवदामि ते ।।
सुशीलां शशिलेखा च यमुना माधवी रतिः ।। ८८-१२ ।।

कदम्बमाला कुन्ती च जाह्नवी च स्वयंप्रभा ।।
चन्द्रानना पद्ममुखी सावित्री च सुधामुखी ।। ८८-१३ ।।

शुभा पद्मा पारिजाता गौरिणी सर्वमंगला ।।
कालिका कमला दुर्गा विरजा भारती सुरा ।। ८८-१४ ।।

गंगा मधुमती चैव सुन्दरी चन्दना सती ।।
अपर्णा मनसानन्दा द्वात्रिंशद्राधिकाप्रियाः ।। ८८-१५ ।।

कदाचिद्छलिला देवी पुंरूपा कृष्णविग्रहा ।।
ससर्ज षोडशकलास्ताः सर्वास्तत्समप्रभाः ।। ८८-१६ ।।

तासा मन्त्रं तथा ध्यानं यन्त्रार्चादिक्रमं तथा ।।
वर्णये सर्वतंत्रेषु रहस्यं मुनिसत्तम ।। ८८-१७ ।।

वातो मरुच्चाग्रिवह्नी धराक्ष्मे जलचारिणी ।।
विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः ।। ८८-१८ ।।

प्राणस्तेजः स्थिरा वायुर्वायुश्चापि प्रभा तथा ।।
ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ ।। ८८-१९ ।।

व्योमरयः शिखी गोत्रा तोयं शून्यजवीद्युतिः ।।
भूमी रसो नमो व्याप्तं दाहश्चापि रसांबु च ।। ८८-२० ।।

वियत्स्पर्शश्च हृद्धंसहलाग्रासो हलात्मिकाः ।।
चन्द्रावली च ललिता हंसेला नायके मते ।। ८८-२१ ।।

ग्रासस्थिता स्वयं राधा स्वयं शक्तिस्वरूपिणी ।।
शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः ।। ८८-२२ ।।

वाङ्मयं निखिलं व्याप्तमाभिरेव मुनीश्वर ।।
ललिताप्रमुखाणां तु षोडशीत्वमुपागता ।। ८८-२३ ।।

श्रीराधा सुन्दरी देवी तांत्रिकैः परिकीर्त्यते ।।
कुरुकुल्ला च वाराही चन्द्रालिललिते उभे ।। ८८-२४ ।।

संभूते मन्त्रवर्गं तेऽभिधास्येऽहं यथातथम् ।।
हृत्प्राणेलाहंसदावह्निस्वैर्ललितेरिता ।। ८८-२५ ।।

त्रिविधा हंसभेदेव श्रृणु तां च यथाक्रमम् ।।
हंसाद्ययाऽद्या मध्या स्यादादिमध्यस्थहंसया ।। ८८-२६ ।।

तृतीया प्रकृतिः सैव तुर्या तैरंत्यमायया ।।
आसु तुर्याभवन्मुक्त्यै तिस्रोऽन्याः स्युश्चसंपदे ।। ८८-२७ ।।

इति त्रिपुरसुंदर्या विद्या सरुमतसमीरिता ।।
दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम् ।। ८८-२८ ।।

प्राणो रसाशक्तियुतः कामेश्वर्यक्षरं महत् ।।
शून्यमंबुरसावह्निस्वयोगान्मोहनीमनुः ।। ८८-२९ ।।

व्याप्तं रसाक्ष्मास्वयुतं विमलाबीजमीरितम् ।।
ज्यानभोदाहवह्निस्वयोगैः स्यादरुणामनुः ।। ८८-३० ।।

जयिन्यास्तु समुद्दिष्टः सर्वत्र जयदायकः ।।
कं नभोदाहसहितं व्याप्तक्ष्मास्वयुतं मनुः ।। ८८-३१ ।।

सर्वेश्वर्याः समाख्यातः सर्वसिद्धिकरः परः ।।
ग्रासो नभोदाहवह्निस्वैर्युक्तः कौलिनीमनुः ।। ८८-३२ ।।

एतैर्मनुभिरष्टाभिः शक्तिभिर्वर्गसंयुक्तैः ।।
वाग्देवतांतैर्न्यासः स्याद्येन देव्यात्मको भवेत् ।। ८८-३३ ।।

रंध्रे भाले तथाज्ञायां गले हृदि तथा न्यसेत् ।।
नाभावाधारके पादद्वये मूलाग्रकावधि ।। ८८-३४ ।।

षड्दीर्घाढ्येन बीजेन कुर्याश्चैव षडंगकम् ।।
लोहितां ललितां बाणचापपाशसृणीः करैः ।। ८८-३५ ।।

दधानां कामराजांके यन्त्रीतां मुदुतां स्मरेत् ।।
मध्यस्थदेवी त्वेकैव षोडशाकारतः स्थाता ।। ८८-३६ ।।

यतस्तस्मात्तनौ तस्यास्त्वन्याः पंचदशार्चयेत् ।।
ऋषिः शिवश्छंद उक्ता देवता ललितादिकाः ।। ८८-३७ ।।

सर्वासामपि नित्यानामावृतीर्नामसंचये ।।
पटले तु प्रयोगांश्च वक्ष्याम्यग्रे सविस्तरम् ।। ८८-३८ ।।

अथ षोडशनित्यासु द्वितीया या समीरिता ।।
कामेश्वरीति तां सर्वकामदां श्रृणु नारद ।। ८८-३९ ।।

शुचिः स्वेन युतस्त्वाद्यो ललिता स्याद्द्वितीयकः ।।
शून्यमग्नियुतं पश्चाद्रयोव्याप्तेन संयुतम् ।। ८८-४० ।।

प्राणो रसाग्निसहितः शून्ययुग्मं चरान्वितम् ।।
नभोगोत्रा पुनश्चैषां दाहेन समयोजिता ।। ८८-४१ ।।

अंबु स्याच्चरसंयुक्तं नवशक्तियुतं च हृत् ।।
एषा कामेश्वरी नित्या कामदैकादशाक्षरी ।। ८८-४२ ।।

मूलविद्याक्षरैरेव कुर्यादंगानि षट् क्रमात् ।।
एकेन हृदयं शीर्षं तावताथो द्वयं द्वयात् ।। ८८-४३ ।।

चतुर्भिर्नयनं तद्वदस्त्रमेकेन कीर्तितम् ।।
दृक्श्रोत्रनासाद्वितये जिह्वाहृन्नाभिगुह्यके ।। ८८-४४ ।।

व्यापकत्वेन सर्वांगे मूर्द्धादिप्रपदावधि ।।
न्यसेद्विद्याक्षराण्येषु स्थानेषु तदनंतरम् ।। ८८-४५ ।।

समस्तेन व्यापकं तु कुर्यादुक्तक्रमेण तु ।।
अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम् ।। ८८-४६ ।।

येन देवी सुप्रसन्ना ददातीष्टमयत्नतः ।।
बालार्ककोटिसंकाशां माणिक्यमुकुटोज्ज्वलाम् ।। ८८-४७ ।।

हारग्रैवेयकांचीभिरूर्मिकानूपुरादिभिः ।।
मंडितां रक्तवसनां रत्नाभरणशोभिताम् ।। ८८-४८ ।।

षड्भुजां त्रीक्षणामिंदुकलाकलितमौलिकाम् ।।
पञ्चाष्टषोडशद्वंद्वषट्कोणचतुरस्रगाम् ।। ८८-४९ ।।

मंदस्मितलसद्वक्त्रां दयामंथरवीक्षणाम् ।।
पाशांकुशौ च पुंड्रेक्षुचापं पुष्पशिलीमुखम् ।। ८८-५० ।।

रत्नपात्रं सीधुपूर्णं वरदं बिभ्रतीं करैः ।।
ततः प्रयोगान्कुर्वीत सिद्धे मत्रे तु साधकः ।। ८८-५१ ।।

तृतीयामथ वक्ष्यामि नाम्ना तु भगमालिनी ।।
कामेश्वर्यादिरादिः स्याद्रसश्चापस्थिरारसः ।। ८८-५२ ।।

धरायुक्सचरा पश्चात्स्थिरा पश्चाद्रसः स्मृतः ।।
स्थिराशून्येऽग्निसंयुक्ते रसः स्यात्तदनंतरम् ।। ८८-५३ ।।

स्थिरा भूसहिता गोत्रा सदाहोऽग्निरसः स्थिरा ।।
नभश्च मरुता युक्तं रसवर्णसमन्वितम् ।। ८८-५४ ।।

ततो रसः स्थिरा पश्चान्मरुता सह योजिता ।।
अंबहंसचरोऽथिक्तो रसोऽथ स्यात्स्थिरा पुनः ।। ८८-५५ ।।

स्थिराधरान्विता हंसो व्याप्तेन च चरेण च ।।
रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक् ।। ८८-५६ ।।

रसः स्थिरा ततः साग्निशून्यं तवियुतो मरुत् ।।
रयः शून्यं चाग्नियुतं हृदाहंसाच्च तत्परम् ।। ८८-५७ ।।

रसः स्थिरांबु च वियत्स्वयुतं प्राण एव च ।।
दाहोऽग्रियुग्रसस्तस्मास्थिराक्ष्मा दाहसंयुता ।।
सचरः स्याज्जवीपूर्वविद्या तर्तीयतः क्रमात् ।। ८८-५८ ।।

चतुष्टयमथार्णानां रसस्तदनु च स्थिरा ।।
हृदंबुयुक् क्ष्मया दाहः सचरः स्याज्जवी च हृत् ।। ८८-५९ ।।

दाहोंऽबुमरुता युक्तो व्योम्नि साग्निरसस्तुतः ।।
स्थिरा तु मरुता युक्ता शून्यं साग्निनभश्चरौ ।। ८८-६० ।।

हंसो व्याप्तमरुद्युक्तः शून्यं व्याप्तमतोंऽबु च ।।
दाहो गोत्राचरयुता तथा दाहस्तथा रयः ।। ८८-६१ ।।

हृद्धरासहितं दाहरयौ चरसमन्वितौ ।।
रसः स्थिरा ततः प्राणो रसाग्निसहितो भवेत् ।। ८८-६२ ।।

शून्ययुग्मं चरयुतं ततः पूर्वमतः परम् ।।
शून्ययुग्मं च गोत्रा स्याद्वाहयुक्तांबुना चरः ।। ८८-६३ ।।

प्राणो रसा चरयुतो गोत्रव्यसिमतः परम् ।।
गोत्रादाहमरुद्युक्ता त्वंबुन्यासमतो भवेत् ।। ८८-६४ ।।

युक्तोनांभश्च भूयुक्तं वाश्चरेण समन्वितम् ।।
ग्रासो धरायुतः पश्चाद्रसः शक्त्या समन्वितः ।। ८८-६५ ।।

ग्रासो भूसहितो विप्र रसो व्याप्तं ततश्च हृत् ।।
दाहोनांबु च हृत्पश्चाद्रयेंऽबुमरुदन्वितः ।। ८८-६६ ।।

शून्यं च केवलं चैव रसश्च सचरस्थिरा ।।
वियदंबुयुतं दाहस्त्वग्नियुक्सयुतः शुचिः ।। ८८-६७ ।।

भूमी रसाक्ष्मास्वयुता पंचैकांतरिताः स्थिराः ।।
तदंतरित बीजानि स्वसंयुक्तानि पंच वै ।। ८८-६८ ।।

तानि क्रमाज्ज्यासचरो रसो भूश्च नभोयुता ।।
हंसश्चरयुतो द्विः स्यात्ततः प्राणो रसाग्नियुक् ।। ८८-६९ ।।

शून्ययुग्मं चरयुतं हृद्दाहोंबुमरुद्युतः ।।
व्योमाग्निसहितं पश्चाद्रसश्च मरुता स्थिरा ।। ८८-७० ।।

शून्यं साग्निनभश्चैव चरेण सहितं तथा ।।
अंबु पश्चाद्वियत्तस्मान्नभश्च मरुदन्वितम् ।। ८८-७१ ।।

शून्यं व्याप्तं च दद्युक्तं रयदाहस्ववह्निभिः ।।
हंसः सदाहोंबगुरसा चरस्वैः संयुतो भवेत् ।। ८८-७२ ।।

हंसः सदाहवह्निस्वैर्युक्तमंत्यमुदीरितम् ।।
सप्तत्रिंशच्छतार्णैः स्यान्नित्या सौभागमालिनी ।। ८८-७३ ।।

अंगानि मंत्रवर्णैः स्युराद्येन हृदुदीरितम् ।।
ततश्चतृर्भिः शीर्षं स्याच्छिखा त्रिभिरुदीरिता ।। ८८-७४ ।।

गुणवेदाक्षरैः शेषाण्यंगानि षडिति क्रमात् ।।
अरुणामरुणाकल्पां सुंदरीं सुस्मिताननाम् ।। ८८-७५ ।।

त्रिनेत्रां बाहुभिः षड्भिरुपेतां कमलासनाम् ।।
कह्लारपाशपुंड्रेक्षुकोदंडान्वामबाहुभिः ।। ८८-७६ ।।

दधानां दक्षिणैः पद्ममंकुशं पुष्पसायकम् ।।
तथाविधाभिः परितो युतां शक्तिगणैः स्तुतैः ।। ८८-७७ ।।

अक्षरोक्ताभिरन्याभिः स्मरोन्मादमदात्मभिः ।।
एषा तृतीया कथिता वनिता जनमोहिनी ।। ८८-७८ ।।

चतुर्थीं श्रृणु विप्रेन्द्र नित्यक्लिन्नासमाह्वयाम् ।।
हंसस्तु दाहवह्निस्वैर्युक्तः प्रथममुच्यते ।। ८८-७९ ।।

कामेश्वर्यास्तृतीयादिवर्णानामष्टकं भवेत् ।।
हृदंबुमरुता युक्तः स एवैकादशाक्षरः ।। ८८-८० ।।

एकादशाक्षरी चेयं विद्यार्णैरंगकल्पनम् ।।
आद्येन मन्त्रवर्णेन हृदयं समुदीरितम् ।। ८८-८१ ।।

द्वाभ्यां द्वाभ्यां तु शेषाणि अंगानि परिकल्पयेत् ।।
न्यसेदंगुष्ठमूलादिकनिष्ठाग्रांतमूर्द्ध्वगम् ।। ८८-८२ ।।

शेषं तद्वलये न्यस्य हृद्दृक्छ्रोत्रे नसोर्द्वयोः ।।
त्वचि ध्वजे च पायौ च पादयो रर्णकान्न्यसेत् ।। ८८-८३ ।।

अरुणामरुणाकल्पामरुणांशुकधारिणीम् ।।
अरुणस्रग्विलेपां तां चारुस्मेरमुखांबुजाम् ।। ८८-८४ ।।

नेत्रत्रयोल्लसद्वक्त्रां भालेघर्मांबुमौक्तिके ।।
विराजमानां मुकुटलसदर्द्धेंदुशेखराम् ।। ८८-८५ ।।

चतुर्भिर्बाहुभिः पाशमंकुशं पानपात्रकम् ।।
अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् ।। ८८-८६ ।।

ध्यात्वैवं पूजयेन्नित्यक्किन्नां नित्यां स्वशक्तिभिः ।।
पुण्या चतुर्थी गदिता नित्याक्किन्नाह्वया मुने ।। ८८-८७ ।।

वनिता नवनीतस्य दाविकाग्निर्जयादिना ।।
भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतः ।। ८८-८८ ।।

रसो दाहेन तद्युक्तं प्रभादाहेन तद्युता ।।
ज्या च दाहेन तद्युक्ता नित्याक्लिन्नांतगद्वयम् ।। ८८-८९ ।।

एषा नवाक्षरी नित्या भेरुण्डा सर्वसिद्धिदा ।।
प्रणवं ठद्वयं त्यक्त्वा मध्यस्थैः षड्भिरक्षरैः ।। ८८-९० ।।

षडंगानि प्रकुर्वीत वर्णन्यासं ततः परम् ।।
रंध्राद्यामुखकंठेषु हन्नाभ्यां धारयद्वयम् ।। ८८-९१ ।।

न्यसेन्मंत्रार्णनवकं मातृकान्यासपूर्वकम् ।।
अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसिद्धिदम् ।। ८८-९२ ।।

तप्तकांचनसंकाशदेहां नेत्रत्रयान्विताम् ।।
चारुस्मितां चितमुखीं दिव्यालंकारभूषिताम् ।। ८८-९३ ।।

ताटंकहारकेयूररत्नस्तबकमंडिताम् ।।
रसनानूपुरोर्म्यादिभूषणैरतिसुन्दरीम् ।। ८८-९४ ।।

पाशांकुशौ चर्मखङ्गौ गदावह्निधनुःशरान् ।।
करैर्दधानामासीना पूजायां मत्पसस्थिताम् ।। ८८-९५ ।।

शक्तीश्च तत्समाकारतेजोहेतिभिरन्विताः ।।
पूजयेत्तद्वदभितः स्मितास्या विजयादिकाः ।। ८८-९६ ।।

पंचमीय समाख्याता भेरुंडाख्या मुनीश्वर ।।
यस्याः स्मरणतो नश्येद्गरलं त्रिविधं क्षणात् ।। ८८-९७ ।।

या तु षष्ठी द्विजश्रेष्ठ सा नित्या वह्निवासिनी ।।
तद्विधानं श्रृणुष्वाद्य साधकानां सुसिद्धिदम् ।। ८८-९८ ।।

भेरुंडाद्यमिहाद्यं स्यान्नित्यक्लिन्नाद्यनंतरम् ।।
ततोंऽबुशून्ये हंसाग्निह्युत्तमंबुमरुद्युतम् ।। ८८-९९ ।।

हृदग्निना युतं शून्यं व्याप्तेन शुचिना च युक् ।।
शून्यं नभः शक्तियुतं नवार्णेयमुदाहृता ।। ८८-१०० ।।

विद्या द्वितीयबीजेन स्वरान्दीर्घान्नियोजयेत् ।।
मायांतान्षड्भिरेवां गान्याचरेत्सकरांगयोः ।। ८८-१०१ ।।

नवाक्षराणि विद्याया नवरंध्रेषु विन्यसेत् ।।
व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये ।। ८८-१०२ ।।

सर्वास्वपि च विद्यासु व्यापकन्यासमाचरेत् ।।
तप्तकांचनसंकाशां नवयौवनसुन्दरीम् ।। ८८-१०३ ।।

चारुस्मेरमुखांभोजां विलसन्नयनत्रयाम् ।।
अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् ।। ८८-१०४ ।।

पद्मरागकिरीटांशुसंभेदारुणितांबराम् ।।
पीतकौशेयवसनां रत्नमंजीरमेखलाम् ।। ८८-१०५ ।।

रक्तमौक्तिकसकंभिन्नस्तबकाभरणोज्ज्वलाम् ।।
रत्नाब्जकंबुपुंड्रेक्षुचापपूर्णेन्दुमंडलम् ।। ८८-१०६ ।।

दधानां बाहुभिर्वामैः कह्लारं हेमश्रृंगकम् ।।
पुष्पेषुं मातुलिंगं च दधानां दक्षिणैः करैः ।। ८८-१०७ ।।

स्वस्वनामाभिरभितः शक्तिभिः परिवारिताम् ।।
एवं ध्यात्वार्चयेद्वह्निवासिनीं वह्निविग्रहम् ।। ८८-१०८ ।।

यस्याः स्मरपतो वश्यं जायते भुवनत्रयम् ।।
अथ या सप्तमी नित्या महावज्रेश्वरी मुने ।। ८८-१०९ ।।

तस्या विद्यां प्रवक्ष्यामि साधकानां सुसिद्धिदाम् ।।
द्वितीयं वह्विवासिन्या नित्यक्लिन्ना चतुर्थकम् ।। ८८-११० ।।

पंचमं भगमालाद्यं भेरुंडाया द्वितीयकम् ।।
नित्यक्लिन्नाद्वितीयं च तृतीयं षष्ठसप्तमौ ।। ८८-१११ ।।

अष्टमं नवमं चापि पूर्वं स्यादंतिमं पुनः ।।
द्वयमेकैकमथ च द्वयद्वयमथ द्वयम् ।। ८८-११२ ।।

मायया पुटितं कृत्वा कुर्यादंगानि षट् क्रमात् ।।
प्रत्येकं शक्तिपुटुतैर्मंत्रार्णैर्दशभिर्न्यसेत् ।। ८८-११३ ।।

दृक्छ्रोत्रनासावाग्वक्षोनाभिगुह्येषु च क्रमात् ।।
रक्तां रक्तांबरां रक्तगंघमालाविभूषणाम् ।। ८८-११४ ।।

चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् ।।
पाशांकुशामिक्षुचापं दाडिमीशायकं तथा ।। ८८-११५ ।।

दधानां बाहुभिर्नेत्रैर्दयासुप्रीतिशीतलैः ।।
पश्यंती साधके अस्त्रषट्कोणाब्जमहीपुरे ।। ८८-११६ ।।

चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् ।।
शक्तिभिः स्वस्वरूपाभिरावृतां पीतमध्यगाम् ।। ८८-११७ ।।

सिंहासनेऽभितः प्रेंखत्पोतस्थाभिश्च शक्तिभिः ।।
वृतां ताभिर्विनोदानि यातायातादिभिः सदा ।। ८८-११८ ।।

कुर्वाणामरुणांभोधौ चिंतयेन्मन्त्रनायकम् ।।
एषा तु सप्तमीप्रोक्ता दूतिं चाप्यष्टमीं श्रृणु ।। ८८-११९ ।।

वज्रेश्वर्याद्यमाद्यं स्याद्वियदग्नियुतं ततः ।।
अंबु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः ।। ८८-१२० ।।

रयोव्यासेन शुचिना युतः स्यात्तदनंतरम् ।।
अत्यार्णां वह्निवासिन्या दूती नित्या समीरिताः ।। ८८-१२१ ।।

षड्दीर्घस्वरयुक्तेन विद्यायाः स्यात्षडंगकम् ।।
तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसु ।। ८८-१२२ ।।

षष्ठकं नसि विन्यस्य व्यापकं विद्यया न्यसेत् ।।
निदाघकालमध्याह्नदिवाकरसमप्रभाम् ।। ८८-१२३ ।।

नवरत्नकिरीटां च त्रीक्षणामरुणांबराम् ।।
नानाभरणसंभिन्नदेहकांतिविराजिताम् ।। ८८-१२४ ।।

शुचिस्मितामष्टभुजा स्तूयमानां महर्षिभिः ।।
पाशं खेटं गदां रत्नचषकं वामबाहुभिः ।। ८८-१२५ ।।

दक्षिणैरंकुशं खड्गं कट्टारं कमलं तथा ।।
दधानां साधकाभीष्टदानोद्यमसमन्विताम् ।। ८८-१२६ ।।

ध्यात्वैवं पृनयेद्देवीं दूतीं दुर्न्नीतिनाशिनीम् ।।
इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी ।। ८८-१२७ ।।

श्रीकरी शिवतावासकारिणी सर्वसिद्धिदा ।।
अथ ते नवमीं नित्यां त्वरितां नाम नारद ।। ८८-१२८ ।।

प्रवक्ष्यामि यशोविद्याधनारोग्यसुखप्रदाम् ।।
आद्यं तु वह्निवासिन्या दूत्यादिस्तदनन्तरम् ।। ८८-१२९ ।।

हंसो धरा स्वयं युक्तस्तेजश्चरसमन्वितम् ।।
वायुः प्रभाचरयुता ग्रासशक्तिसमन्वितः ।। ८८-१३० ।।

हृदार येण दाहेन वह्निस्वाष्टमं तथा ।।
हंसः क्ष्माखंयुतो ग्रासश्चरयुक्तो द्वितीयकः ।। ८८-१३१ ।।

द्वितिर्नादयुता नित्या त्वरिता द्वादशाक्षरी ।।
विद्या चतुर्थवर्णादिसप्तभिस्त्वक्षरैस्तथा ।। ८८-१३२ ।।

कुर्यादंगानि युग्मार्णैः षट्क्रमेण करांगयोः ।।
शिरोललाटकंठेषु हृन्नाभ्याधारके तथा ।। ८८-१३३ ।।

ऊरुयुग्मे तथा जानुद्वये जंघाद्वये तथा ।।
पादयुग्मे तथा वर्णान्मंत्रजान्दश विन्यसेत् ।। ८८-१३४ ।।

द्वितीयोपांत्यमध्यस्थैर्मंत्रार्णैरितरैरपि ।।
ताराद्यैः श्रृणु तद्ध्यानं सर्वसिद्धिविधायकम् ।। ८८-१३५ ।।

श्यामवर्णशुभाकारां नवयौवनशोभिताम् ।।
द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलैः ।। ८८-१३६ ।।

ताटंकमंगदं तद्वद्रसना नूपुरं च तैः ।।
विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः ।। ८८-१३७ ।।

पल्लवांशुकसंवीतां शिखिपिच्छकृतैः शुभैः ।।
वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम् ।। ८८-१३८ ।।

बर्हिबर्हिकृतापीडां तच्छत्रां तत्पताकिनीम् ।।
गुंजागुणलसद्वक्षः कुचकुंकुममंडलाम् ।। ८८-१३९ ।।

त्रिनेत्रां चारुवदनां मंदस्मितमुखांबुजाम् ।।
पाशांकुशवराभीतिलसद्भुजचतुष्टयाम् ।। ८८-१४० ।।

ध्यात्वैवं तोतलां देवीं पूजयेच्छक्तिभिर्वृताम् ।।
तदग्रस्था लु फट्कारी शरचापकरोज्ज्वला ।। ८८-१४१ ।।

प्रसीदेत्फलदाने च साधकानां त्वरान्वितां ।।
एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वर ।। ८८-१४२ ।।

विध्नदुःस्वप्रशमनी सर्वाभीष्टप्रदायिनी ।।
शुचिः स्वेन युतस्त्वाद्यो रसावह्निसमन्वितः ।। ८८-१४३ ।।

प्राणो द्वितीयः स्वयुतो वनदुच्छक्तिभिः परः ।।
इतीरिता त्र्यक्षराख्या नित्येयं कुलसुंदरी ।। ८८-१४४ ।।

यस्याः स्मरण मात्रेण सर्वज्ञत्वं प्रजायते ।।
त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडंगकम् ।। ८८-१४५ ।।

आदिमध्यावसानेषु पूजाजपविधिक्रमात् ।।
प्रत्येक तैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः ।। ८८-१४६ ।।

कुर्यात्करांगवक्त्राणां न्यासं प्रोक्तं यथाविधि ।।
ऊर्द्ध्वप्राग्दक्षिणोदक्च पश्चिमाधस्नाग्नभिः ।। ८८-१४७ ।।

सुविनद्यंतरस्थैस्तन्नदात्मसु यथाक्रमम् ।।
आधाररंध्रहृत्स्वेकं द्वितीयं लोचनत्रये ।। ८८-१४८ ।।

तृतीयं श्रोत्रचिबुके चतुर्थं घ्राणतालुषु ।।
पंचमं चांसनाभीषु ततः पाणिपदद्वये ।। ८८-१४९ ।।

मूलमध्याग्रतो न्यस्येन्नवधा मूलवर्णकैः ।।
लोहितां लोहिताकारशक्तिंबृदनिषेविताम् ।। ८८-१५० ।।

लोहितांशुकभूषास्रग्लेपनां षण्मुखांबुजाम् ।।
अनर्ध्यरत्नघटितमाणिक्यमुकुटोज्वलाम् ।। ८८-१५१ ।।

रत्नस्तबकसंभिन्नलसद्वक्षःस्थलां शुभाम् ।।
कारुण्यानंदपरमा मरुणांबुजविष्टराम् ।। ८८-१५२ ।।

भुजैर्द्वादशभिर्युक्तां सर्वेषां सर्ववाढ्मयीम् ।।
प्रवालाक्षस्रजं पद्मं कुंडिकां रत्ननिर्मिताम् ।। ८८-१५३ ।।

रत्नपूर्णं तु चषकं लुंगीं व्याख्यानमुद्रिकाम् ।।
दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम् ।। ८८-१५४ ।।

हैमीं च लेखनीं रत्नमालां कंबुवरं भुजैः ।।
अभितः स्तूयमानां च देवगंधर्वकिन्नरैः ।। ८८-१५५ ।।

यक्षराक्षसदैत्यर्षिसिद्धविद्याधरादिभिः ।।
ध्यात्वैवमर्चन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये ।। ८८-१५६ ।।

सितां केवलवाक्सिद्ध्यै लक्ष्म्यै हेमप्रभामपि ।।
धूमाभां वैरिविद्विष्ट्यै मृतये निग्रहाय च ।। ८८-१५७ ।।

नीलां च मूकीकरणे स्मरेत्तत्तदपेक्षया ।।
इत्येषा दशमी नित्याप्रोक्ता ते कुलसुन्दरी ।। ८८-१५८ ।।

नित्यानित्यां तु दशमीं त्रिकुटां वच्मि सांप्रतम् ।।
हंसश्च हृत्प्राणरसादाहकर्णैः समन्वितः ।। ८८-१५९ ।।

विद्यया कुलसुंदर्या योजितः संप्रदायतः ।।
नित्यानित्यत्रिवर्णेयं ष़ड्भिः कूटाक्षरैर्युता ।। ८८-१६० ।।

प्रतिलोमादिभी रूपैर्द्विसप्ततिभिदा मता ।।
यस्या भजनतः सिद्धो नरः स्यात्खेचरः सुखी ।। ८८-१६१ ।।

निग्रहानुग्रहौ कर्तुं क्षमः स्याद्भुवनत्रये ।।
दीर्घस्वरसमेताभ्यां हंसहृभ्द्यां षडंगकम् ।। ८८-१६२ ।।

भ्रूमध्ये कण्ठहृन्नाभिगुह्याधारेषु च क्रमात् ।।
विद्याक्षराणि क्रमशो न्यसेद्विंदुयुतानि च ।। ८८-१६३ ।।

व्यापकं च समस्तेन विधाय विधिना पुनः ।।
ध्यायेत्समस्तसंपत्तिहेतोः सर्वात्मिकां शिवाम् ।। ८८-१६४ ।।

उद्यद्भास्करबिंबाभां माणिक्यमुकुटोज्ज्वलाम् ।।
पद्मरागकृताकल्पामरुणांशुकधारिणीम् ।। ८८-१६५ ।।

चारुस्मितलसद्वक्त्रषट्सरोजविराजिताम् ।।
प्रतिवक्त्रं त्रिनयनां भुजैर्द्वादशभिर्युताम् ।। ८८-१६६ ।।

पाशाक्षगुणपुंड्रेक्षुचापखेटत्रिशूलकान् ।।
करैर्वामैर्दधानां च अङ्कुशं पुस्तकं तथा ।। ८८-१६७ ।।

पुष्पेषुमंबुजं चैव नृकपालाभये तथा ।।
दधानां दक्षिणैर्हस्तैर्ध्यायेद्देवीमनन्यधीः ।। ८८-१६८ ।।

इत्येषैकादशी प्रोक्ता द्वादशीं श्रृणु नारद ।।
त्वरितोयांत्यमाद्यं स्याद्युतिदोहचरस्वयुक् ।। ८८-१६९ ।।

हृञ्च दाहक्ष्मास्वयुतं वज्रेशीपञ्चमं तथा ।।
मरुत्स्वयुक्तो मध्याढ्यो दशम्याः परतः पुनः ।। ८८-१७० ।।

भूमी रसाक्ष्मास्वयुता वज्रेशीत्यष्टमः क्रमात् ।।
षडक्षराणि त्वरिता तृतीयं तदनंतरम् ।। ८८-१७१ ।।

द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम् ।।
उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी ।। ८८-१७२ ।।

द्विद्विपक्षाक्षिषड्वर्णैर्मंत्रोत्थैरंगकल्पनम् ।।
श्रोत्रादिनासायुगले वाचि कण्ठे हृदि क्रमात् ।। ८८-१७३ ।।

नाभावाधारकेऽथापि पादसंधिषु च क्रमात् ।।
मन्त्राक्षराणि क्रमशो न्यसेत्सप्तदशापि च ।। ८८-१७४ ।।

व्यापकं च समस्तेन विदध्याञ्च यथाविधि ।।
इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम् ।। ८८-१७५ ।।

पञ्चवक्त्रां त्रिनयनामरुणांशुकधारिणीम् ।।
दशहस्तां लसन्मुक्तामण्याभरणमंडिताम् ।। ८८-१७६ ।।

रत्नस्तबकसंपन्नदेहां चारुस्मिताननाम् ।।
पाशं पताकां चर्मापि शार्ङ्गचापं वरं करैः ।। ८८-१७७ ।।

दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः ।।
अंकुशे च तथा शर्क्ति खङ्गं बाणं तथाभयम् ।। ८८-१७८ ।।

दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे ।।
स्वाकारवर्णवेषास्यपाण्यायुधविभूषणैः ।। ८८-१७९ ।।

शक्तिवृन्दैर्वृतां ध्यायेद्देवीं नित्यार्चनक्रमे ।।
त्रिषट्कोणयुतं पद्ममष्टपत्रं ततो बहिः ।। ८८-१८० ।।

अष्टास्रं भूपुरद्वन्द्वावृतं तत्पुरयुग्मकम् ।।
चतुर्द्वारयुतं दिक्षु शाखाभिश्च समन्वितम् ।। ८८-१८१ ।।

कृत्वा नामावृतां शक्तिं गणैस्तत्रार्चयेच्छिवाम् ।।
एषा ते द्वादशी नित्या प्रोक्ता नीलपताकिनी ।। ८८-१८२ ।।

समरे विजयं खङ्गपादुकांजनसिद्धिदा ।।
वेतालयक्षिणीचेटपिशाचादिप्रसाधिनी ।। ८८-१८३ ।।

निधानबिलसिद्धान्नसाधिनी कामचोदिता ।।
अथ त्रयोदेशीं नित्यां वक्ष्यामि श्रृणु नारद ।। ८८-१८४ ।।

रसो नभस्तथा दाहो व्याप्तक्ष्मावनपूर्विका ।।
खेन युक्ता भवेन्नित्या विजयैकाक्षरा मुने ।। ८८-१८५ ।।

विद्याया व्यंजनैर्दीर्घस्वरयुक्तैश्चतुष्टयम् ।।
शेषाभ्यां च द्वयं कुर्यात्षडंगानि करांगयोः ।। ८८-१८६ ।।

ज्ञानेंद्रियेषु श्रोत्रादिष्वथ चित्ते च विन्यसेत् ।।
अक्षराणि क्रमाद्बिन्दुयुतान्यन्यत्तु पूर्ववत् ।। ८८-१८७ ।।

पञ्च वक्त्रां दशभुजां प्रतिवक्त्रं त्रिलोचनाम् ।।
भास्वन्मुकुटविन्यासचन्द्रलेखाविराजिताम् ।। ८८-१८८ ।।

सर्वाभरणसंयुक्तां पीतांबरसमुज्ज्वलाम् ।।
उद्यद्भास्वद्बिंबतुल्यदेहकांतिं शुचिस्मिताम् ।। ८८-१८९ ।।

शंखं पाशं खेटचापौ कह्लारं वामबाहुभिः ।।
चक्रं तथांकुशं खङ्गं सायकं मातुलुं गकम् ।। ८८-१९० ।।

दधानां दक्षिणैर्हस्तैः प्रयोगे भीमदर्शनाम् ।।
उपासनेति सौम्यां च सिंहोपरि कृतासनाम् ।। ८८-१९१ ।।

व्याघ्रारूढाभिरभितः शक्तिभिः परिवारिताम् ।।
समरे पूजनेऽन्येषु प्रयोगेषु सुखासनाम् ।। ८८-१९२ ।।

शक्तयश्चापि पूजायां सुखासनसमन्विताः ।।
सर्वा देव्याः समाकारमुखपाण्यायुधा अपि ।। ८८-१९३ ।।

चतुरस्रद्वयं कृत्वा चतुर्द्वारोपशोभितम् ।।
शाखष्टकसमोपेतं तत्र प्राग्वत्समर्चयेत् ।। ८८-१९४ ।।

तदंतर्वृतयुग्मांतरष्टकोणं विधाय तु ।।
तदंतश्च तथा पद्मं षोडशच्छदसंयुतम् ।। ८८-१९५ ।।

तथैवाष्टच्छद पद्मं विधायावाह्य तत्र ताम् ।।
तत्तच्छक्त्या वृतां सम्यगुपचारैस्तथार्चयेत् ।। ८८-१९६ ।।

एषा त्रiयोदशी प्रोक्ता वादेयुद्धे जयप्रदा ।।
चतुर्दशीं प्रवक्ष्येऽथ नित्यां वै सर्वमंगलाम् ।। ८८-१९७ ।।

हृदंबुवनयुक्तं खं नित्या स्यात्सर्वमंगला ।। ८८-१९८ ।।

एकाक्षर्यनया सिद्धो जायते खेचरः क्षणात् ।।
षड्दीर्घाढ्यां मूलविद्यां षडंगेषु प्रविन्यसेत् ।। ८८-१९९ ।।

तां नित्यां जातरूपाभां मुक्तामाणिक्यभूषणाम् ।।
माणिक्यमुकुटां नेत्रद्वयप्रेंखद्दयापराम् ।। ८८-२०० ।।

द्विभुजां शासनां पद्मे त्वष्टषोडशतद्द्वयैः ।।
पत्रैरुपेते सचतुद्वारंभूसद्मयुग्मके ।। ८८-२०१ ।।

मातुलुंगफलं दक्षे दधानां करपंकजे ।।
वामेन निजभक्तानां प्रयच्छंतीं धनादिकम् ।। ८८-२०२ ।।

स्वसमानाभिरभितः शक्तिभिः परिवारिताम् ।।
षट्सप्तातीभिरन्याभिरप्सरोत्थाभिरन्विताम् ।। ८८-२०३ ।।

प्रयोगेष्वन्यदा नित्यं सपर्यासूक्तशक्तिकाम् ।।
एषा चतुर्दशी प्रोक्ता तथा पंचदशीं श्रृणु ।। ८८-२०४ ।।

भूः शून्यं नभसा भूश्च रसश्चाथ स्थिरांबु च ।।
रयोग्निना युतीज्यांबुमरुद्युक्तारसा मरुत् ।। ८८-२०५ ।।

नभश्च मरुता युक्तं रसा शून्येऽपि संयुते ।।
गोत्रा चरेण सहिता अंबुपूर्वाक्षरस्तथा ।। ८८-२०६ ।।

अंब्वग्नी हृञ्च दाहांबुरसक्ष्मारयहृत्स्वयुक् ।।
हंसश्च मरुता दाहः प्राणश्च मरुता युतः ।। ८८-२०७ ।।

दाहः साग्निप्राणचरौ ज्यामरुत्सहितारयः ।।
चरेणांबु च गोत्राहृत्साग्निर्ज्यांबुरसा स्वयुक् ।। ८८-२०८ ।।

रयः साग्निर्ज्यांबुरसा पुनरेते जवी ततः ।।
दाहेनानेन ते द्विः स्याद्भस्वो दाहमरुत्स्वयुक् ।। ८८-२०९ ।।

हंसः सदाहवह्निस्वो दाहक्ष्मास्वयुतश्च सः ।।
सप्तदाहास्ततोऽस्याः स्युरष्टमाद्यास्तु पंच ते ।। ८८-२१० ।।

उपांत्याधः स्थितं नीलपताकाया अनंतरम् ।।
त्वरिता त्वं च भेरुंडाष्टमं च नवनं तथा ।। ८८-२११ ।।

सा ज्वालामालिनीनित्या त्रिषष्ट्यर्णा समीरिता ।।
एकद्वयचतुःपंचचतुष्टयदशाक्षरैः ।। ८८-२१२ ।।

कुर्यादंगानि मूलार्णैरादितः षट्करांगयोः ।।
शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत्सनातनीम् ।। ८८-२१३ ।।

ज्वलज्ज्वलनसंकाशां माणिक्यमुकुटोज्ज्वलाम् ।।
षड्वक्त्रां द्वादशभुजां सर्वाभरणभूषिताम् ।। ८८-२१४ ।।

पाशांकुशौ खङ्गखेटौ चापबाणौ गदादरौ ।।
शूलवह्नी वराभीती दधानां कपपंकजैः ।। ८८-२१५ ।।

स्वप्रमाणाभिरभितः शक्तिभिः परिवारिताम् ।।
चारुस्मितलसद्वक्त्र सरोजां त्रीक्षणान्वताम् ।। ८८-२१६ ।।

ध्यात्वैवमुपचारैस्तैरर्चयेत्तां तु नित्यशः ।।
चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितम् ।। ८८-२१७ ।।

सशाखमष्टपत्राब्जमंतरा त्र्यस्रकं ततः ।।
षट्कोणं मध्यतस्त्र्यस्रं विधायात्र शिवां जयेत् ।। ८८-२१८ ।।

एषा पंचदशी प्रोक्ता षोडशीं श्रृणु नारद ।।
वायुप्रणवतत्त्वैस्तु चित्रास्यादक्षरद्वया ।। ८८-२१९ ।।

या सिद्धा धनधान्यात्मनिधिलाभाय कल्प्यते ।।
विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात् ।। ८८-२२० ।।

षडंगानि यथापूर्वं मातृकां विद्यया न्यसेत् ।।
उद्यदादित्यबिंबाभां नवरत्नविभूषणाम् ।। ८८-२२१ ।।

नवरत्नकिरीटां च चित्रपट्टांशुकोज्ज्वलाम् ।।
चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम् ।। ८८-२२२ ।।

सर्वानंदमयीं नित्यां समस्तेप्सितदायिनीम् ।।
चतुर्भुजेषु वै पाशमंकुशं वरदाभये ।। ८८-२२३ ।।

दधानां मंगलां पद्मकर्णिकायोनिमध्यगाम् ।।
तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम् ।। ८८-२२४ ।।

प्राणदाहौ धरायुक्तो पुनराद्यं रसे मरुत् ।।
व्यासं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम् ।। ८८-२२५ ।।

अस्या आद्यां रसायुग्मं चरणेन प्रयोजितम् ।।
दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम् ।। ८८-२२६ ।।

नभोदिर्हृत्सदाहांबुज्या शून्यं स्वेन संयुतम् ।।
अंबु पश्चाद्विषयुक्तं मरुता तु नभोयुतम् ।। ८८-२२७ ।।

शून्यं व्याप्तं भुवा हंसः पूर्वांत्यौ स्यान्मनुत्रयम् ।।
अस्याः षष्ठादिपंचार्णा दैत्यास्यादाद्य ईरितः ।। ८८-२२८ ।।

एकादशाक्षरादंत्या द्वितीयः खंड ईरितः ।।
तृतीयः पंचविंशार्णः प्रोक्ता मंत्रा इति क्रमात् ।। ८८-२२९ ।।

बाला बीजत्रयाद्यैर्द्विस्त्रिभिर्मंत्रैः षडगंकम् ।।
विकीर्णकुंतलां नग्रां रक्तामानंदविग्रहाम् ।। ८८-२३० ।।

दधानां चिंतयेद्बाणचापपाशसृणीकरैः ।।
तत्समानायुधाकारवर्णा देव्यास्तु बा ।। ८८-२३१ ।।

ऋतुस्राताः स्फुरद्योन्यः सदानंदारुणेक्षणाः ।।
इत्येषा कुरुकुल्लांते प्रोक्ता चंद्रावलीस्वयम् ।। ८८-२३२ ।।

वाराहीमभिधास्यामि ललितायाः परा तनुः ।।
शुचिः स्वेनाथ शून्यं स्यान्नभसाभ्ररसिस्थिरा ।। ८८-२३३ ।।

अंबु पश्चाद्रयः साग्निर्मरुतांबुरयौ तथा ।।
इलसायुतोऽग्निरेतानि पुनरंबुमरुद्युतम् ।। ८८-२३४ ।।

दाहांबुमरुताहंसस्त्वग्निनैतत्त्रयं पुनः ।।
अम्बुदाहौ मरुद्युक्तौ हंसोऽथ धरया नभः ।। ८८-२३५ ।।

तेजोग्निना पुनः पंच वातः स्वेन समायुतः ।।
तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः ।। ८८-२३६ ।।

शून्यं व्याप्तेन शुचिना शून्यं शक्त्या नभो युतम् ।।
दाहो धरा स्वसहरितस्तोयं चरसमन्वितम् ।। ८८-२३७ ।।

एतत्पूर्वमधुः प्रोक्तं चतुष्टयमतः परम् ।।
ज्याख्येन युक्ता सचरो रभश्चैतस्य पूर्वकम् ।। ८८-२३८ ।।

रसोऽग्निना पुनः प्रोक्तं चतुष्का अपयं ततः ।।
शुभोभ्रता चरेणापि हंसः स्वेन सपूर्वकम् ।। ८८-२३९ ।।

हंसोऽग्निना प्राक् त्रितयं हृदयं स्वसमायुतम् ।।
रसश्चरेण तत्पूर्वमग्निना च रसो युतः ।। ८८-२४० ।।

पश्चादुक्तस्त्रयं वातो धरया च नभोन्वितम् ।।
प्राणः स्वेन युतः पश्चाद्धृदयस्वयुतं रसः ।। ८८-२४१ ।।

व्याप्तमेतत्त्रयं पश्चाद्दाहेनांबु समन्वितम् ।।
गोत्राभरायुता स्पर्शो नादयुक्तो जवीयुतः ।। ८८-२४२ ।।

दाहेन पूर्वपूर्वं च पूर्वं च मरुता युतम् ।।
शून्यं मरुत्स्वसहितं हृद्दाहेनांबुना चरः ।। ८८-२४३ ।।

स्पर्शो मरुत्स्वसहितो हृद्दाहेनांबुसंयुतम् ।।
ज्याग्निः स्वसंयुतो हंसस्तथांबु मरुता सह ।। ८८-२४४ ।।

हृद्रूप्रेण स्वेन युतं रसश्च स्वेन संयुतः ।।
प्राणदाहौ धरायुक्तौ पुनस्तौ वह्निना वियत् ।। ८८-२४५ ।।

वार्द्दाहयुक्तमंबु स्यादिषष्ट्यासस्वसंयुतम् ।।
पूर्वद्विरुक्तवर्णौ च शुद्धिः स्वेन युतस्तथा ।। ८८-२४६ ।।

स्थिरा रसा वतस्वेन दावौ हंसौ धरा स्वयुक् ।।
युतिर्नादवती पश्चाद्धृदंबुमरुता युतम् ।। ८८-२४७ ।।

हंसश्च मरुता विद्यः दशोत्तरशताक्षरी ।।
वाराही पंचमी विश्वविजया भद्रकौमुदी ।। ८८-२४८ ।।

वार्तालीति च विख्याता स्तंभनाद्यखिलेष्टदा ।।
अंगानि कुर्यान्मंत्रार्णैः सप्तभिषड्भिरेव च ।। ८८-२४९ ।।

दशभिः सप्तभिः सप्तसंख्यैर्जातिभिर्दिताः ।।
त्रिकोणवृत्तषट्कोणवृत्तद्वयसमन्वितम् ।। ८८-२५० ।।

विधाय चक्रं तत्रैव स्वनामालिख्यपूजयेत् ।।
ध्यायेच्च देवीं कीलास्यां ततः कांचनसन्निभाम् ।। ८८-२५१ ।।

आकंठं वनितारूपां ज्वलत्पिंगसरोरुहाम् ।।
त्रिनेत्रामष्टहस्तां च चक्रं शंखमथांकुशम् ।। ८८-२५२ ।।

पाशं च मुशलं शीर्षमभयं वरदं तथा ।।
दधानां गरुडस्कन्धे सुखासीनां विचिंतयेत् ।। ८८-२५३ ।।

नित्यपूजासु तच्छक्तीस्तत्समानाः स्मरेन्मुने ।।
प्रयोगेषु स्मरेद्देवीं सिंहस्थां व्याघ्रगामपि ।। ८८-२५४ ।।

गजारूढां हयारूढां तर्श्यारूढां च शक्तिभिः ।।
श्यामामप्यरुणां पीतामसितांभोजविग्रहाम् ।। ८८-२५५ ।।

तत्तत्त्प्रयोगेषु तथा ध्यायेत्तत्तदवाप्तये ।।
अरुणां पंचमीं वश्ये पीतां स्तंभनके स्मरेत् ।। ८८-२५६ ।।

श्यामां च दुर्गमे मार्गे सितां युद्धेऽरिनष्टये ।।
धूम्रामुच्चाटने ध्यायेत्साधको द्विजसत्तमः ।। ८८-२५७ ।।

एताः षोडश नित्यास्ते संक्षपात्समुदीरिताः ।।
भजतामिष्टदाः सद्यः सर्वपापक्षयंकराः ।। ८८-२५८ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधादिमन्त्रनिरूपणं नामाष्टाशीतितमोऽध्यायः ।। ८८ ।।