सामग्री पर जाएँ

नारदपुराणम्- पूर्वार्धः/अध्यायः १५

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

धर्मराज उवाच ।।
पाप भेदान्प्रवक्ष्यामि यथा स्थूलाश्च यातनाः ।।
श्रृणुष्व धैर्यमास्थाय रौद्रा ये नरका यतः ।। १५-१ ।।

पापिनो ये दुरात्मानो नरकाग्निषु सन्ततम् ।।
पच्यन्ते येषु तान्वक्ष्ये भयंकरफलप्रदान् ।। १५-२ ।।

तपनोवालुकाकुम्भौमहारौरवरौरवौ ।।
कुम्भघीपाको निरुच्छ्वासः कालसूत्रः प्रमर्दनः ।। १५-३ ।।

असिपत्रवनं घोरं लालाभक्षोहिमोत्कटः ।।
मूषावस्था वसाकूपस्तथा वैतरणी नदी ।। १५-४ ।।

भक्ष्यन्ते मूत्रपानं च पुरीषह्लद एव च ।।
तप्तशूलं तप्तशिला शाल्मलीद्रुम एव च ।। १५-५ ।।

तथा शोणितकूपश्च घोरः शोणितभोजनः ।।
स्वमांसभोजनं चैव वह्निज्वालानिवेशनम् ।। १५-६ ।।

शिलावृष्टिः शस्त्रवृष्टिर्वह्निवृष्टिस्तथैव च ।।
क्षारोदकं चोष्णतोयं तप्तायः पिण्डभक्षणम् ।। १५-७ ।।

अथ शिरःशोषणं च मरुत्प्रपतनं तथा ।।
तथा पाशाणवर्णं च कृमिभोजनमेव च ।। १५-८ ।।

क्षारो दपानं भ्रमणं तथा क्रकचदारणम् ।।
पुरीषलेपनं चैव पुरीषस्य च भोजनम् ।। १५-९ ।।

रेतः पानं महाघोरं सर्वसन्धिषुदाडनम् ।।
धूमपानं पाशबन्धं नानाशूलानुलेपनम् ।। १५-१० ।।

अङ्गारशयनं चैव तथा मुसलमर्द्दनम् ।।
बहूनि काष्ठयन्त्राणि कषणं छेदनं तथा ।। १५-११ ।।

पतनोत्पतनं चैव गदादण्डादिपीहनम् ।।
गजदन्तप्रहरणं नानासर्पैश्च दंशनम् ।। १५-१२ ।।

शीताम्बुसेचनं चैव नासायां च मुखे तथा ।।
घोरक्षाराम्बुपानं च तथा लवणभक्षणम् ।। १५-१३ ।।

स्त्रायुच्छेदं स्नायुबन्धमस्थिच्छेदं तथैव च ।।
क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मांसभोजनम् ।। १५-१४ ।।

पित्तपानं महाघोरं तथैवःश्लेष्मभोजनम् ।।
वृक्षाग्रात्पातनंचैव जलान्तर्मज्जनं तथा ।। १५-१५ ।।

पाषाणधारणं चैव शयनं कण्टकोपरि ।।
पिपीलिकादंशनं च वृश्चिकैश्चापि पीडनम् ।। १५-१६ ।।

व्याघ्रपीडा शिवापीडा तथा महिषमीडनम् ।।
कर्द्दमे शयनं चैव दुर्गन्धपरिपूरणम् ।। १५-१७ ।।

बहुशश्चार्धशयनं महातिक्तनिषेवणम् ।।
अत्युष्णतैलपानं च महाकटुनिषेवणम् ।। १५-१८ ।।

कषायोदकपानं च तत्पपाषाणतक्षणम् ।।
अत्युष्णशीतस्नानं च तथा दशनशीर्णनम् ।। १५-१९ ।।

तप्तायः शयनं चैव ह्ययोभारस्य बन्धनम् ।।
एवमाद्यामहाभाग यातनाः कोटिकोटिशः ।। १५-२० ।।

अपि वर्षसहस्त्रेण नाहं निगदितुं क्षमः ।।
एतेषु यस्य यत्प्राप्तं पापिनः क्षितिरक्षक ।। १५-२१ ।।

तत्सर्वं संप्रवक्ष्यामि तन्मे निगदतः श्रृणु ।।
ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ।। १५-२२ ।।

महापातकिनस्त्वेते तत्संसर्गी च पञ्चमः ।।
पंतिभेदीवृथापाकी नित्यं ब्रह्मणदूषकः ।। १५-२३ ।।


आदेशी वेदविक्रेता पञ्चैते ब्रह्मधातकाः ।।

ब्रह्मणं यः समाहूय दास्यामीति धनादिकम् ।।
एश्चान्नास्तीति यो ब्रुयात्तमाहुर्ब्रह्यघातिनम् ।। १५-२४ ।।

स्नानार्थं पूजनार्थँ वा गच्छतो ब्राह्मणस्य यः ।।
समायात्यंतरायत्वं तमाहुर्ब्रह्मधातिनम् ।। १५-२५ ।।

पस्निन्दासु निरतश्चात्मोत्कर्षरतश्व यः ।।
असत्यनिरतश्वचैव ब्रह्महा परिकीर्तितः ।। १५-२६ ।।

अधर्मस्यानुमन्ता च ब्रह्महा परिकीर्तितः ।।
अन्योद्वेगरतश्चैव अन्येषां दोषसूवकः ।। १५-२७ ।।

दम्भाचाररतश्वैव ब्रह्महेत्यभिधीयते।।
नित्यं प्रतिग्रहरतस्तथा प्राणिवधे रतः ।। १५-२८ ।।

अधर्मस्यानुममन्ता च ब्रह्महा परिकीर्तितः ।।
ब्रह्महत्या समं पापमेव बहुविधं नृप ।। १५-२९ ।।

सुरापानसमं पापं प्रवक्ष्यामि समासतः ।।
गणान्नभोजनं चैव गणिकानां निषेवणम् ।। १५-३० ।।

पतितान्नादनं चैव सुरापानसमं स्मृतम् ।।
उपासमापरित्यागो देवलानां च भोजनम् ।। १५-३१ ।।

सुरापयोषित्संयोगः सुरापानसमः स्मृतः ।।
यः शूद्रेण समाहतो भोजनं कुरुते द्विजः ।। १५-३२ ।।

सुरापी स हि विज्ञेयः सर्वधर्मबहिष्कृतः ।।
यः शूद्रेणाभ्यनुज्ञातः प्रेष्यकर्म करोति च ।। १५-३३ ।।

सुरापान समं पापं लभते स नराधमः ।।
एवं बहुविधं पापं सुरापानसमं स्मृतम् ।। १५-३४ ।।

हेमस्तेयसमं पापं प्रवक्ष्यामि निशामय ।।
कन्दमूलफलानां च कस्तूरी पटवाससाम् ।। १५-३५ ।।

सदा स्तेयं च रत्नानां स्वर्णस्तेयसमं स्मृतम् ।।
ताम्रायस्त्र्रपुकांस्यानामाज्यस्य मधुनस्तथा ।। १५-३६ ।।

स्तेयं सुगन्धद्रव्याण्णां स्वर्णस्तेयसमं स्मृतम् ।।
क्रमुकस्यापिहरणमम्भसां चन्दनस्य च ।। १५-३७ ।।

पर्णरसापहरणं स्वर्णस्तेयसमं स्मृतम् ।।
पितृयज्ञपरित्यागो धर्मकार्यविलोपनम् ।। १५-३८ ।।

यतीर्नां निन्दतं चैव स्वर्णस्तेयसमं स्मृतम् ।।
भक्ष्याणां चापहरणं धान्यानां हरणं तथा ।। १५-३९ ।।

रुद्राक्षहरणं चैव स्वर्णस्तेयसमं स्मृतम् ।।
भागीनीगमनं चैव पुत्रस्त्रीगमनं तथा ।। १५-४० ।।

रजस्वलादिगमनं गुरुतल्पसमं स्मृतम् ।।
हीनजात्याभिगमनं मद्यपस्त्रीनिषेवणम् ।। १५-४१ ।।

परस्त्रीगमनं चैव गुरुतल्पसमं स्मृतम् ।।
भ्रातृस्त्रीगमनं चैव वयस्यस्त्रीनिषेवणम् ।। १५-४२ ।।

विश्वस्तागमनं चैव गुरुतल्पसमं स्मृतम् ।।
अकाले कर्मकरणं पुत्रीगमनमेव च ।। १५-४३ ।।

धर्मलोपः शास्त्रनिन्दा गुरुतल्पसमं स्मृतम् ।।
इत्येवमादयो राजन्महापातकसंज्ञिताः ।। १५-४४ ।।

एतेष्वेकतमेनापि सङ्गकृत्तत्समो भवेत् ।।
यथाकथंचित्पापानामेतेषां परमर्षिभिः ।। १५-४५ ।।

शान्तैस्तु निष्कृतिर्दृष्टा प्रायश्चितादिकल्पनैः ।।
प्रायश्चित्तविहीनानि पापानि श्रृणु भूपते ।। १५-४६ ।।

समस्तपापतुल्यानि महानरकदानि च ।।
ब्रह्महत्यादिपापानां कथंचिन्निष्कृतिर्भवेत् ।। १५-४७ ।।

ब्रह्मणं द्वेष्टि यस्तस्य निष्कृतिर्नास्ति कुत्रचित् ।।
विश्वस्तघातिनं चैव कृतन्घानां नरेश्वर ।। १५-४८ ।।

शूद्रस्त्रीसङ्गिनां चैव निष्कृतिर्नास्ति कुत्रचित् ।।
शूद्रान्नपुष्टदेहानां वेदनिन्दारतात्मनाम् ।। १५-४९ ।।

सत्कथानिन्दकानांच नेहामुत्रचनिष्कृतिः ।। १५-५० ।।

बौद्धालयं विशेद्यस्तु महापद्यपि वैद्विजः ।।
नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि ।। १५-५१ ।।

बौद्धाः पाषंण्डिनः प्रोक्ता यतो वेदविनिन्दकाः ।।
तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ।। १५-५२ ।।

ज्ञानतोऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् ।।
ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः ।। १५-५३ ।।

एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् ।।
प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ।। १५-५४ ।।

पापानि तेषां नरकान्गदतो मे निशामय ।। १५-५५ ।।

महापातकिनस्तेषु प्रत्येकं युगवासिनः ।।
तदन्ते पृथिवीमेत्य सप्तजन्मसु गर्दभाः ।। १५-५६ ।।

ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु ।।
आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ।। १५-५७ ।।

ततः सहस्त्रजन्मानि मृगाद्याः पशवो नृप ।।
शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ।। १५-५८ ।।

ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः ।।
ततः षोडश जन्मानि शूद्राद्या हीनजातयः ।। १५-५९ ।।

ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः ।।
प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ।। १५-६० ।।?

असूयाविष्टमनसो रौरवे नरके स्मृतम् ।।
तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु ।। १५-६१ ।।

मा ददस्वेति यो ब्रूयाद्गवान्गिब्राह्मणेषु च ।।
शुनां योनिशतं गत्वा चाण्डालेषूपजायते ।। १५-६२ ।।

ततो विष्ठाकृतमिश्चैव ततो व्याघ्रस्त्रिजन्मसु ।।
तदंते नरकं याति युगानामेकविंशतिम् ।। १५-६३ ।।

परनिन्दापरा ये च ये च निष्ठुरभाषिणः ।।
दानानां विघ्नकर्त्तारस्तेषां पापफलं श्रृणु ।। १५-६४ ।।

मुशलोलूखलाभ्यां तु चूर्ण्यन्ते तस्करा भृशम् ।।
तदन्ते तप्तपाषाणग्रहणं वत्सरत्रयम् ।। १५-६५ ।।

ततश्च कालसूत्रेण भिद्यन्ते सप्त वत्सरान् ।।
शोचन्तः स्वानिकर्माणि परद्रव्यापहारकाः ।। १५-६६ ।।

कर्मणा तत्र पच्यन्ते नरकान्गिषु सन्ततम् ।। १५-६७ ।।

परस्वसूचकानां च नरकं श्रृणु दारुणम् ।।
यावद्युगसहस्त्रं तु तप्तायः पिण्डभक्षणम् ।। १५-६८ ।।

संपीड्यते च रसना संदंशैर्भृशदारुणैः ।।
निरुच्छ्वासं महाघोरे कल्पार्द्धं निवसन्ति ते ।। १५-६९ ।।

परस्त्रीलोलुपानां च नरकं कथयामि ते ।।
तप्तताम्रस्त्रियस्तेन सुरुपाभरणैर्युताः ।। १५-७० ।।

यादृशीस्तादृशीस्ताश्च रमन्ते प्रसभं बहु ।।
विद्ववन्तं भयेनासां गृह्णन्ति प्रसभं च तम् ।। १५-७१ ।।

कथयन्तश्च तत्कर्म नयन्ते नरकान्क्रमात् ।।
अन्यं भजन्ते भूपाल पतिं त्यक्त्वा च याः स्त्रियः ।। १५-७२ ।।

तत्पायःपुरुशास्तास्तु तत्पायःशयनेबलात् ।।
पातयित्वा रमन्ते च बहुकालं बलान्विताः ।। १५-७३ ।।

ततस्तैर्योषितो मुक्ता हुताशनसमोज्ज्वलम् ।।
 यः स्तम्भं समाश्लिष्य तिष्ठन्त्यब्दसहस्त्रकम् ।। १५-७४ ।।

ततः क्षारोदकस्नानं क्षारोदकनिषेवणम् ।।
तदन्ते नरकान् सर्वान् भुञ्जतेऽब्दशतं शतम् ।। १५-७५ ।।

यो हन्ति ब्राह्मणं गां च क्षत्रियं च नृपोत्तमम् ।।
स चापि यातनाः सर्वा भुंक्ते कल्पेषु पञ्चसु ।। १५-७६ ।।

यः श्रृणोति महन्निन्दां सादरं तत्फलं श्रृणु ।।
तेषां कर्णेषु दाप्यन्ते तप्तायः कीलसंचयाः ।। १५-७७ ।।

ततश्च तेषु छिद्रेषु तैलमत्युष्णमुल्बणम् ।।
पूर्यते च ततश्चापिं कुम्भीपाकं प्रपद्यते ।। १५-७८ ।।

नास्तिकानां प्रवक्ष्यामि विमुखानां हरे हरौ ।।
अब्दानां कोटिपर्यन्तं लवणं भुञ्जते हि ते ।। १५-७९ ।।

ततश्च कल्पपर्यन्तं रौरवे तप्तसैकते ।।
भज्यंते पापकर्मणोऽन्येप्येवं नराधिप ।। १५-८० ।।

ब्राह्मणान्ये निरीक्षन्ते कोपदृष्ट्या नराधमाः ।।
तप्तसूचीसहस्त्रेण चक्षुस्तेषां प्रसूर्यते ।। १५-८१ ।।

ततः क्षाराम्बुधाराभिः सेच्यन्ते नृपसत्तम ।।
ततश्च क्रकर्चेर्घोरैर्भिद्यन्ते पापकर्म्मणः ।। १५-८२ ।।

विश्वासघातिनां चैव मर्यादाभेदिनां तथा ।।
परान्नलोल्लुपानां च नरकं श्रृणु दारुणम् ।। १५-८३ ।।

स्वमांसभोजिनो नित्यं भक्षमाणाः श्वभिस्तु ते ।।
नरकेषु समस्तेषु प्रत्येकं ह्यब्दवासिनः ।। १५-८४ ।।

प्रतिग्रहरता ये च ये वै नक्षत्रपाठकाः ।।
ये च देवलकान्नानां भोजिनस्ताञ्श्रृणुष्व मे ।। १५-८५ ।।

राजन्नाकल्पपर्यन्तं यातनास्वासु दुःखिताः ।।
पच्यन्ते सततं पापाविष्टा भोगरताः सदा ।। १५-८६ ।।

ततस्तैलेन पूर्यन्ते कालसूत्रप्रपीडिताः ।।
ततः क्षारोदकस्नानं मूत्रविष्टानिषेवणम् ।। १५-८७ ।।

तदन्ते भुवमासाद्य भवन्ति म्लेच्छजातयः ।।
अन्योद्वेगरता ये तु यान्ति वैतरणीं नदीम् ।। १५-८८ ।।

त्यक्तपञ्चमहायज्ञा लालाभक्षं व्रजन्ति हि ।।
उपासनापरित्यागी रौरवं नरकं व्रजेत् ।। १५-८९ ।।

विप्रग्रामकरादानं कुर्वतां श्रृणु भूपते ।।
यातनास्वासु पच्यन्ते यावदाचन्द्रतारकम् ।। १५-९० ।।

ग्रामेषु भूपालवरो यः कुर्यादधिकं करम् ।।
स सहस्त्रकुलो भुङ्‌क्तेनरकं कल्पपञ्चसु ।। १५-९१ ।।

विप्रग्रामकरादानं योऽनुमन्तातु पापकृत् ।।
स एव कृतवान् राजन्ब्रह्महत्यासहस्त्रकम् ।। १५-९२ ।।

कालसूत्रे महाघोरे स वसेद्दिचतुर्युगम् ।।
अयोनौ च वियोनौ च पशुयोनौ च यो नरः ।। १५-९३ ।।

त्यजेद्रेतो महापापी सरेतोभोजनं लभेत् ।।
वसाकूपं ततः प्राप्य स्थित्वा दिव्याब्दसत्पकम् ।। १५-९४ ।।

रेतोभोजी भवेन्मर्त्यः सर्वलोकेषु निन्दितः ।।
उपवासदिने राजन्दन्तधावनकृन्नरः ।। १५-९५ ।।

स घोरं नरकं यातिव्याघ्रपक्षं चतुर्युगम् ।।
यः स्वकर्मपरित्यागी पाषण्डीत्युच्यते बुधैः ।। १५-९६ ।।

तत्संगकृतमोघः स्यात्तावुभावतिपापिनौ ।।
कल्पकोटिसहस्त्रेषु प्रान्पुतो नरकान्क्रमात् ।। १५-९७ ।।

देवद्रव्यापहर्त्तारो गुरुद्रव्यापहारकाः ।।
ब्रह्महत्याव्रतसमं दुष्कृतं भुञ्जते नृप ।। १५-९८ ।।

अनाथधनहर्त्तारो ह्यनाथं ये द्विषन्ति च ।।
कल्पकोटिसहस्त्राणि नरके ते वसन्ति च ।। १५-९९ ।।

स्त्रीशूद्राणां समीपे तु ये वेदाध्ययने रताः ।।
तेषां पापफलं वक्ष्ये श्रृणुष्व सुसमाहितः ।। १५-१०० ।।

अधःशीर्षोर्ध्वपादाश्च कीलिताः स्तम्भकद्वये ।।
ध्रूम्रपानरता नित्यं तिष्ठन्त्याब्रह्मवत्सरम् ।। १५-१०१ ।।

जले देवालये वापि यस्त्यजेद्देहजं मलम् ।।
भ्रूणहत्यासमं पापं संप्रान्पोत्यतिदारुणम् ।। १५-१०२ ।।

दन्तास्थिकेशनखरान्ये त्यज्यन्त्यमरालये ।।
जले वा भुक्तशेषं च तेषां पापफलं श्रृणु ।। १५-१०३ ।।

प्रासप्रोता हलैर्भिन्ना आर्त्तरावविराविणः ।।
अत्युष्णतैलपाकेऽतितप्यन्ते भृशदारुणे ।। १५-१०४ ।।

कुर्वन्ति दुःखसंतप्तास्ततोऽन्येषु व्रजन्ति च ।।
ब्रह्मसंहरते यस्तु गन्धकाष्टं तथैव च ।। १५-१०५ ।।

स याति नरकं घोरं यावदाचन्द्रतारकम् ।।
ब्रह्मस्वहरणं राजन्निहामुत्र च दुःखदम् ।। १५-१०६ ।।

इहसंपद्विनाशायपरत्रनरकाय च ।।
कूटसाक्ष्यंवदेद्यस्तु तस्य पापफलंश्रृणु ।। १५-१०७ ।।

स याति यातनाः सर्वा यावदिन्द्राश्चतुर्दश ।।
इहपुत्राश्च विनश्यन्ति परत्र च ।। १५-१०८ ।।

रौरवं नरकं भुङक्ते ततोऽन्यानपि च क्रमात् ।।
ये चातिकामिनो मर्त्या ये च मिथ्याप्रवादिनः ।। १५-१०९ ।।

तेषां सुखे जलौकास्तु पूर्य्यन्ते पन्नगोपमाः ।।
एवं षष्टिसहस्त्राब्दे ततः क्षाराम्बुसेचनम्‌ ।। १५-११० ।।

ये वृथामांसनिरतास्ते यान्ति क्षारकर्दमम् ।।
ततो गजैर्निपात्यन्ते मरुत्प्रपतनं यथा ।। १५-१११ ।।

तदन्ते भवमासाद्य हीनाङ्गाः प्रभवन्ति च ।।
यस्त्वृतौ नाभिगच्छेत स्वस्त्रिंय मनुजेश्वर ।। १५-११२ ।।

स याति रौरवं घोरं ब्रह्महकत्यां च विन्दति ।।
अन्याचाररतं दृष्ट्वा यः शक्तो न निवारयेत् ।। १५-११३ ।।

तत्पापं समवान्पोति नरकं तावुभावपि ।।
पापिनां पापगणनां कृत्वान्येभ्यो दिशन्ति विन्दति ।। १५-११४ ।।

अस्तित्वे तुल्यपापास्ते मिथ्यात्वे द्विगुणा नृप ।।
अपापे पातकं यस्तु समरोप्य विनिन्दति ।। १५-११५ ।।

स याति नरकं घोरं यावञ्चर्द्रार्क तारकम् ।।
पापिनां निन्द्यमानानां पापार्द्धं क्षयमेति च ।। १५-११६ ।।

यस्तु व्रतानि संगृह्य असमाप्य परित्यज्येत् ।।
सोऽसिपत्रेऽनुभूयार्तिं हीनाङगोजायते भुवि ।। १५-११७ ।।

अन्यैः संगृह्यमाणानांव्रतानां विघ्नकृन्नरः ।।
अतीव दुःखदंरौद्रं स याति श्लेष्मभोजनम् ।। १५-११८ ।।

न्याये च धर्मशिक्षायां पक्षपातं करोति यः ।।
न तस्य निष्कृतिर्भूयः प्रायश्चित्तायुतैरपि ।। १५-११९ ।।

अभोज्यभोजी संप्राप्यं विङ्भोज्यं तु समायुतम् ।।
ततश्चण्डालयोनौ तु गोमांसाशी सदा भवेत् ।। १५-१२० ।।

अवमान्य द्विजान्वाग्भिर्ब्रह्महत्यां च विन्दति ।।
सर्वाश्चयातना भुक्त्वा चाण्डालो दशजन्मसु ।। १५-१२१ ।।

विप्राय दीयमाने तु यस्तु विघ्नं समाचरेत् ।।
ब्रह्महत्यासमं तेन कर्त्तव्यं व्रतमेव च ।। १५-१२२ ।।

अपहृत्य पस्स्यार्थं यः परेभ्यः प्रयच्छति ।।
अपहर्त्ता तु निरयी यस्यार्थस्तस्य तत्फलम् ।। १५-१२३ ।।

प्रतिश्रुत्याप्रदानेन लालाभक्षं व्रजेन्नरः ।।
यतिनिन्दापरो राजन् शिलानमात्रे प्रयाति हि ।। १५-१२४ ।।

आरामच्छेदिनो यान्ति युगानामेकविंशतिम् ।।
श्वभोजनं ततः सर्वा भुञ्जते यातनाः क्रमात् ।। १५-१२५ ।।

देवतागृहभेत्तारस्तडागानां च भूपते ।।
पुष्पारामभिदश्चैव यां गतिं यान्ति तच्छॄणु ।। १५-१२६ ।।

यातनास्वासु सर्वासु पच्यन्ते वै पृथक् पृथक् ।।
ततश्च विष्टाकृमयः कल्पानामेकविंशतिम् ।। १५-१२७ ।।


ततश्चाण्डालयोनौ तु शतजन्मानि भूपते ।।
ग्रामविध्वंसकानां तु दाहकानां च लुम्पताम् ।। १५-१२८ ।।

महत्पापं तदादेष्टुं न क्षमोऽहं निजायुषा ।।
उच्छिष्टभोजिनो ये च मित्रद्रोहपराश्च ये ।। १५-१२९ ।।

एतेषां यातनास्तीव्रा भवन्त्याचन्द्रतारकम् ।।
उच्छिन्नपितॄदेवेज्या वेंदमार्गबहिःस्थिताः ।। १५-१३० ।।

पापानां यातानानां च धर्माणां चापि भूपते ।।
एवं बहुविधा भूप यातनाः पापकारिणाम् ।। १५-१३१ ।।

तेषां तासां च संख्यानं कर्त्तुं नालमहं प्रभो ।।
पापानां यातनानां च धर्माणां चापि भूपते ।। १५-१३२ ।।

संख्यां निगदितुं लोके कः क्षमो विष्णुना विना ।।
एतेषां सर्वपापानां धर्मशास्त्रविधानतः ।। १५-१३३ ।।

प्रायश्चित्तेषु चीर्णेषु पापराशिः प्रणश्यति ।।
प्रायश्चित्तानि कार्याणि समीपे कमलापतेः ।। १५-१३४ ।।

न्यूनातिरिक्तकृत्यानां संपूर्तिकरणाय च ।।
गङ्गा चतुलसी चैव सत्सङ्गो हरिकीर्त्तनम् ।। १५-१३५ ।।

अनसूया ह्यहिंसा च सर्वेप्येते हि पापहाः ।।
विष्ण्वर्पितानि कर्माणि सफलानि भवन्ति हि ।। १५-१३६ ।।

अनर्प्पितानि कर्माणि भस्मविन्यस्तद्रव्यवत् ।।
नित्यं नैमित्तिकं काम्यं यच्चान्यन्मोक्षमाधनम् ।। १५-१३७ ।।

विष्णौ समार्पितं सर्वं सात्त्विकं सफलं भवेत् ।।
हरिभक्तिः परा नृणां सर्वं पापप्राणाशिनी ।। १५-१३८ ।।

सा भक्तिदशधा ज्ञेया पापारण्यदवोपमा ।।
तामसै राजसैश्चैव सात्त्विकैश्च नृपोत्तम ।। १५-१३९ ।।

यच्चान्यस्य विनाशार्थं भजनं श्रीपतेर्नृप ।।
सा तामस्यधमा भक्तिः खलभावधरा यतः ।। १५-१४० ।।

योऽर्चयेत्कैतवधिया स्वैरिणी स्वपतिं यथा ।।
नारायणं जगन्नाथं तामसी मध्यमा तु सा ।। १५-१४१ ।।

देवापूजापरान्दृष्ट्वा मात्सर्याद्योऽर्चयेद्धीरम् ।।
सा भक्तिः पृथिवीपाल तामसी चोत्तमा स्मृता ।। १५-१४२ ।।

धनधान्यादिकं यस्तु प्रार्थयन्नर्चयेद्वरिम् ।।
श्रद्धया परया युक्तः सा राजस्यधमा स्मृता ।। १५-१४३ ।।

यः सर्वलोकविख्यातकीर्तिमुद्दिश्य माधवम् ।।
अर्चयेत्परया भक्त्या सा मध्या राजसी मता ।। १५-१४४ ।।

सालोक्यादि पदं यस्तु समुद्दिश्यार्चयेद्धरिम् ।।
सा राजस्युत्तमा भक्तिः कीर्तिता पृथिवीपते ।। १५-१४५ ।।

यस्तु स्वकृतपापानां क्षयार्थं प्रार्चयेद्वरिम् ।।
श्रद्धया परयोपेतः सा सात्त्विक्यधमा स्मृता ।। १५-१४६ ।।

हरेरिदं प्रियमिति शुश्रूषां कुरुते तु यः ।।
श्रद्धया संयुतो भूयः सात्त्विकी मध्यमा तु सा ।। १५-१४७ ।।

विधिबुद्ध्यार्चयेद्यस्तु दासवच्छ्रीपतिं नृप ।।
भक्तीनां प्रवरा सा तु उत्तमा सात्त्विकी स्मृता ।। १५-१४८ ।।

महीमानं हरेर्यस्तु किंचित्कृत्वा प्रियो नरः ।।
तन्मयत्वेन संतुष्टः सा भक्तिरुत्तमोत्तमा ।। १५-१४९ ।।

अहमेव परो विष्णुर्मयिसर्वमिदं जगत् ।।
इति यः सततं पश्येत्तं विद्यादुत्तमोत्तमम् ।। १५-१५० ।।

एवं दशविधा भक्तिः संसारच्छेदकारिणी ।।
तत्रापि सात्त्विकी भक्तिः सर्वकामफलप्रदा ।। १५-१५१ ।।

तस्माच्छृणुष्व भूपाल संसारविजिगीषुणा ।।
स्वकर्मणो विरोधेन भक्तिः कार्या जनार्दने ।। १५-१५२ ।।

यः स्वधर्मं परित्यज्य भक्तिमात्रेण जीवति ।।
न तस्य तुष्यते विष्णुराचारेणैव तुष्यते ।। १५-१५३ ।।

सर्वागमानामाचारः प्रथमं परिकल्पते ।।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ।। १५-१५४ ।।

तस्मात्कार्या हरेर्भक्तिः स्वर्धमस्याविरोधिनी ।।
सदाचारविहीनानां धर्मा अप्यसुखप्रदाः ।। १५-१५५ ।।

स्वधर्महीना भक्तिश्वाप्यकृतैव प्रकीर्तिता ।।
यत्तु पृष्टं त्वया भूयस्तत्सर्वं गदितं मया ।। १५-१५६ ।।

तस्माद्धर्मपरो भूत्वा पूजयस्व जनार्दनम् ।।
नारायणमणीयांसं सुखमेष्यसि शाश्वतम् ।। १५-१५७ ।।

शिव एव हरिः साक्षाद्धरिरेव शिवः स्वयम् ।।
द्वयोरन्तरदृग्याति नरकारन्कोटिशः खलः ।। १५-१५८ ।।

तस्माद्विष्णुं शिवं वापि समं बुद्धा समर्चय ।।
भेदकृद्दुःखमाप्नोति इह लोके परत्र च ।। १५-१५९ ।।

यदर्थमहमायातस्त्वत्समीपं जनाधिप ।।
तत्ते वक्ष्यामि सुमते सावधानं निशामय ।। १५-१६० ।।

आत्मघातकपाप्मानो दग्धाः कपिलकोपतः ।।
वसन्ति नरके ते तु राजंस्तव पितामहाः ।। १५-१६१ ।।

तानुद्धर महाभाग गङ्गानयनकर्मणा ।।
गङ्गा सर्वाणि पापानि नाशयत्येव भूपते ।। १५-१६२ ।।

केशास्थिनखदन्दाश्च भस्मापि नृपसत्तम ।।
नयति विष्णुसदनं स्पृष्टा गाङ्गेन वारिणा ।। १५-१६३ ।।

यस्यास्थि भस्म वा राजन् गङ्गायां क्षिप्यते नरैः ।।
स सर्वपापनिर्मुक्तः प्रयाति भवनं हरेः ।। १५-१६४ ।।

यानि कानि च पापानि प्रोक्तानि तव भूपते ।।
तानि कर्माणि नश्यन्ति गङ्गाबिन्द्वभिषेचनात् ।। १५-१६५ ।।

सनक उवाच ।।
इत्युक्त्वा मुनिशार्दूल महाराजं भगीरथम् ।।
धर्मात्मानं धर्मराजः सद्यश्वान्तर्दधेतदा ।। १५-१६६ ।।

स तु राजा महाप्राज्ञः सर्वशास्त्रार्थपारगाः ।।
निक्षिप्य पृथिवीं सर्वां सचिवेषु ययौ वनम् ।। १५-१६७ ।।

तुहिनाद्रौ ततो गत्वा नरनारायणाश्रमात् ।।
पश्चिमे तुहिनाक्रान्ते श्रृङ्गेषोडशयोजने ।। १५-१६८ ।।

तपस्तप्त्वानयामास गङ्गां त्रैलोक्यपावनीम् ।। १५-१६९ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य गङ्गानयनोद्यमवर्णनं नाम पञ्चदशोऽध्यायः ।।