नारदपुराणम्- पूर्वार्धः/अध्यायः ७५
सनत्कुमार उवाच ।।
अथ दीपविधिं वक्ष्ये सरहस्यं हनूमतः ।।
यस्य विज्ञानमात्रेण सिद्धो भवति साधकः ।। ७५-१ ।।
दीपपात्रप्रमाणं च तैलमानं क्रमेण तु ।।
द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात् ।। ७५-२ ।।
स्थानभेदं च मंत्रं च दीपदानमनुं पृथक् ।।
पुष्पवासिततैलेन सर्वकामप्रदं मतम् ।। ७५-३ ।।
तिलतैलं श्रियः प्राप्त्यै पथिकागमनं प्रति ।।
अतसीतैलमुद्दिष्टं वश्यकर्मणि निश्चितम् ।। ७५-४ ।।
सार्षापं रोगनाशाय कथितं कर्मकोविदैः ।।
मारणे राजिकोत्थं वा विभीतकसमुद्भवम् ।। ७५-५ ।।
उच्चाटने करजोत्थं विद्वेषे मधुवृक्षजम् ।।
अलाभे सर्वतैलानां तिलजं तैलमुत्तमम् ।। ७५-६ ।।
गोधूमाश्च तिला माषा मुद्गा वै तंडुलाः क्रमात् ।।
पंचधान्यमिदं प्रोक्तं नित्यदीपं तु मारुतेः ।। ७५-७ ।।
पंचधान्यसमुद्भूतं पिष्टमात्रं सुशोभनम् ।।
सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके ।। ७५-८ ।।
वश्ये तडुलपिष्टोत्थं मारणे माषपिष्टजम् ।।
उञ्चाटने कृष्णतिलपिष्टजं च प्रकीर्तितम् ।। ७५-९ ।।
पथिकागमने प्रोक्तं गोधूमोत्थं सतंडुलम् ।।
मोहने त्वाढकीजात विद्वेषे च कुलत्थजम् ।। ७५-१0 ।।
संग्रामे केवला माषाः प्रोक्ता दीपस्य पात्रके ।।
संधौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम् ।। ७५-११ ।।
एलालवंगकर्पूरमृगनाभिसमुद्भवम् ।।
कन्याप्राप्त्यै तथा राजवंश्ये सख्ये तथैव च ।। ७५-१२ ।।
अलाभे सर्ववस्तूनां पंचधान्यं वरं स्मृतम् ।।
अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम् ।। ७५-१३ ।।
पुष्कलानां चतुर्णां च ह्याढकः परिकीर्तितः ।।
चतुराढको भवेद्द्रोणः खारी द्रोणचतुष्टयम् ।। ७५-१४ ।।
खारीचतुष्टय प्रस्थसंज्ञा च परिकीर्तिता ।।
अथवान्यप्रकारेण मानमत्र निगद्यते ।। ७५-१५ ।।
पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् ।।
चतुर्भिः कुडवैः प्रस्थस्तैश्चतुर्भिस्तथाढकः ।। ७५-१६ ।।
चतुराढको भवेद्द्रोणःऋ खारी द्रोणचतुष्टयम् ।।
क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्मसंभवे ।। ७५-१७ ।।
पञ्च सप्त नव तथा प्रमाणास्ते यथाक्रमम् ।।
सौगंधे नैव मानं स्यात्तद्यथारुचि संमतम् ।। ७५-१८ ।।
नित्यपात्रे तु तैलानां नियमो वार्तिकोद्भवः ।।
सोमवारे गृहीत्वातद्ध्वान्यं तोयप्लुतं धरेत् ।। ७५-१९ ।।
पश्चात्प्रमाणतो ज्ञेयं कुमारीहस्तपेषणम् ।।
तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिंडितम् ।। ७५-२0 ।।
दीपपात्रं ततः कुर्याच्छुद्धः प्रयतमानसः ।।
दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत् ।। ७५-२१ ।।
शुद्धभूमौ समास्थाप्य भौमे दीपं प्रदापयेत् ।।
मालामनूनां ये वर्णाः साध्यनामसमन्विताः ।। ७५-२२ ।।
वर्तिकायां प्रकर्त्तव्यास्तंतवस्तत्प्रमाणकाः ।।
तत्त्रिंशांशेन वा ग्राह्या गुरुकार्येऽखिलाढ्यता ।। ७५-२३ ।।
कूटतुल्याः स्मृता नित्ये सामान्येऽथ विशेषके ।।
रुद्राः कूटगणाः प्रोक्ता न पात्रे नियमो मतः ।। ७५-२४ ।।
एकविंशतिसंख्याकास्तन्तवोऽथाध्वनि स्मृताः ।।
रक्तसूत्रं हनुमतो दीपदाने प्रकीर्तितम् ।। ७५-२५ ।।
कृष्णमुञ्चाटने द्वेषेऽरुणं मारणकर्मणि ।।
कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम् ।। ७५-२६ ।।
नित्ये पंचपलं प्रोक्तमथवा मानसी रुचिः ।। ७५-२७ ।।
हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम् ।।
शिवालयेऽथवा कुर्यान्नित्यनैमित्तिके स्थले ।। ७५-२८ ।।
विशेषोऽस्त्यत्र यः कश्चिन्मारुते रुच्यते मया ।। ७५-२९ ।।
प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च ।।
चतुष्पथे तथा प्रोक्तं षट्सु दीपप्रदापनम् ।। ७५-३0 ।।
सन्निधौ स्फाटिके लिंगे शालग्रामस्य सन्निधौ ।।
नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः ।। ७५-३१ ।।
गणेशसन्निधौ विघ्नमहासंकटनाशने ।।
विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम् ।। ७५-३२ ।।
दुर्गायाः सन्निधौ प्रोक्तं संग्रामे दीपदापनम् ।।
चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च ।। ७५-३३ ।।
राजद्वारे बंधमुक्तौ कारागारेऽथवा मतम् ।।
अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये ।। ७५-३४ ।।
वश्ये भये विवादे च वेश्मसंग्रामसंकटे ।।
द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा ।। ७५-३५ ।।
मृतकोत्थापने चैव प्रतिमाचालने तथा ।।
विषे व्याधौ ज्वरे भूतग्रहे क्रृत्याविमोचने ।। ७५-३६ ।।
क्षतग्रंथौ महारण्ये दुर्गेव्याघ्ने च दंतिनि ।।
क्रूरसत्त्वेषु सर्वेषु शश्वदूंधविमोक्षणे ।। ७५-३७ ।।
पथिकागमने चैव दुःस्थाने राजमोहने ।।
आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम् ।। ७५-३८ ।।
दीपदानं हनुमतो नात्र कार्या विचारणा ।। ७५-३९ ।।
रुद्रैकविंशपिंडांश्च त्रिधा मंडलमानकम् ।।
लघुमानं स्मृतं पंच सप्त वा नव वा तथा ।। ७५-४0 ।।
क्षीरेण नवनूतेन दध्ना वा गोमयेन च ।।
प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने ।। ७५-४१ ।।
दक्षिणाभिमुखं वीरं कृत्वा केसरिविक्रमम् ।। ७५-४२ ।।
ऋक्षविन्यस्तपादं च किरीटेन विराजितम् ।।
लिखेद्भित्तौ पटे वापि पीठे वा मारुतेः शुभे ।। ७५-४३ ।।
मालामंत्रेण दातव्यं दीपदानं हनूमतः ।।
नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया ।। ७५-४४ ।।
विशेषस्तत्र यस्तं वै दीपदानेऽवधारय ।।
षष्ट्यादौ च द्वितीयादाविमं दीपमितीरयेत् ।। ७५-४५ ।।
गृहाणेति पदं पश्चाच्छेषं पूर्ववदुच्चरेत् ।।
कूटादौ नित्यदीपे च मंत्रं सूर्याक्षरं वदेत् ।। ७५-४६ ।।
तत्र मालाख्यमनुना तत्तत्कार्येषु कारयेत् ।।
गोमयेनोपलिप्तायां भूमौ तद्गतमानसः ।। ७५-४७ ।।
षट्कोणं वसुपत्रं च भूमौ रेखासमन्वितम् ।।
कमलं च लिखेद्भद्रं तत्र दीपं निधापयेत् ।। ७५-४८ ।।
शैवे वा वैष्णवे पीठे पूजयेदंजनासुतम् ।।
कूटषट्कं च षट्कोणे अंतराले परलिखेत् ।। ७५-४९ ।।
षट्कोणेषु षडंगानि बीजयुक्तानि संलिखेत् ।।
सौम्यं मध्यगतं लेख्यं तत्र संपूज्य मारुतिम् ।। ७५-५0 ।।
षट्कोणेषु षडंगानि नामानि च पुरोक्तवत् ।।
वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः ।। ७५-५१ ।।
सुग्रीवायांगदायाथ सुषेणाय नलाय च ।।
नीलायाथो जांबवते प्रहस्ताय तथैव च ।। ७५-५२ ।।
सुवेषाय ततः पश्चाद्यजेत्षडंगदेवताः ।।
आदावंजनापुत्राय ततश्च रुद्रमूर्तये ।। ७५-५३ ।।
ततो वायुसुतायाथ जानकीजीवनाय च ।।
रामदूताय ब्रह्मास्त्रनिवारणाय तत्परम् ।। ७५-५४ ।।
पंचोपचारैः संपूज्य देशकालौ च कीर्तेत् ।।
कुशोदकं समादाय दीपमंत्रं समुञ्चरेत् ।। ७५-५५ ।।
उत्तगभिमुखो जप्त्वा साधयेत्साधकोत्तमः ।।
तं मंत्रं कूटधा जप्त्वा जलं भूमौ विनिक्षिपेत् ।। ७५-५६ ।।
ततः करपुटं कृत्वा यथाशक्ति जपेन्मनुम् ।।
अनेन दीपवर्येण उदङ्मुखगतेन वै ।। ७५-५७ ।।
तथा विधेहि हनुमन्यथा स्युर्मे मनोरथाः ।।
त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी ।। ७५-५८ ।।
अलक्तं दरदं रक्तचंदनं चंदनं मधु ।।
कस्तूरिका दधि क्षीरं नवनीतं धृतं तथा ।। ७५-५९ ।।
गोमयं द्विविधं तत्र प्रोक्तं गोमहिषीभवम् ।।
पश्चाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्मृतम् ।। ७५-६0 ।।
पथिकागमने दूरान्महादुर्गस्य रक्षणे ।।
बालादिरक्षणे चैव चौरादिभयनाशने ।। ७५-६१ ।।
स्त्रीवश्यादिषु कार्येषु शस्तं गोगोमयं मने ।।
भूमिस्पृष्टं न तद्ग्राह्यमंतरिक्षाञ्च भाजने ।। ७५-६२ ।।
चतुर्विधा मृत्तिका तु श्वेता पीतारुणासिता ।।
तत्र गोपीचंदनं तु हरितालं च गौरिकम् ।। ७५-६३ ।।
मषी लाक्षारसोद्भूता सर्वं वान्यत्स्फुटं मतम् ।।
कृत्वा गोपीचदंनेन चतुरस्रं गृहं सुधीः ।। ७५-६४ ।।
तन्मध्ये माहिषेणाथ कुर्यान्मूर्तिं हनूमतः ।।
बीजं क्रोधाञ्च तत्पुच्छं लिखेन्मंत्री समाहितः ।। ७५-६५ ।।
तैलेन स्नापयेन्मूर्तिं गुडेन तिलकं चरेत् ।।
शतपत्रसमो धूपः शालनिर्याससंभवः ।। ७५-६६ ।।
कुर्य्याञ्च तैलदीपं तु वर्तिपंचकसंयुतम् ।।
दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः ।। ७५-६७ ।।
वारत्रयं कंठदेशे सशेषविषमुञ्चरन् ।।
एवं कृते तु नष्टानां महिषीणां गवामपि ।। ७५-६८ ।।
दासीदासादिकानां च नष्टानां प्राप्तिरीरिता ।।
चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः ।। ७५-६९ ।।
तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम् ।।
पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा ।। ७५-७0 ।।
सर्पस्तु पश्चिमे द्वारे व्याघ्रश्चैवोत्तरे तथा ।।
एवं क्रमेण खड्गं च क्षुरिकादंडमुद्गरान् ।। ७५-७१ ।।
विलिख्य मध्ये मूर्तिं च महिषीगोमयेन वै ।।
कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः ।। ७५-७२ ।।
पयसा स्नापनं रक्तचंदनेनानुलेपनम् ।।
जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत् ।। ७५-७३ ।।
घृतेन दीपं दत्त्वाथ पायसान्नं निवेदयेत् ।।
गगनं दीपिकेंद्वाढ्यां शास्त्रं च पुरतो जपेत् ।। ७५-७४ ।।
एवं सप्तदिनं कृत्वा मुच्यते महतो भयात् ।।
अनयोर्भौमवारे तु कुर्यादारंभमादरात् ।। ७५-७५ ।।
शत्रुसेनाभये प्राप्ते गैरिकेण तु मंडलम् ।।
कृत्वा तदंतरे तालमीष्टन्नम्रं समालिखेत् ।। ७५-७६ ।।
तत्रावलंबमानां च प्रतिमां गोमयेन तु ।।
वामहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका ।। ७५-७७ ।।
तालमूलात्स्वकाष्टायां मार्गे हस्तमिते गृहम् ।।
चतुरस्र विधायाथ तन्मध्ये मूर्तिमालिखेत् ।। ७५-७८ ।।
दक्षिणाभिमुखीं रम्यां हृदये विहितांजलिम् ।।
तोयेन स्नानगंधादि यथासंभवमर्पयेत् ।। ७५-७९ ।।
कृशारान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत् ।।
किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने ।। ७५-८0 ।।
एवं कृते भवेच्छीघ्रं पथिकानां समागमः ।।
श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम् ।। ७५-८१ ।।
प्राकारं तु चतुर्द्वारयुक्तं द्वारेषु तत्र वै ।।
अन्योन्यपुच्छ रिधित्रययुक्तां हनूमतः ।। ७५-८२ ।।
कुर्यान्मूर्तिं गोमयेन धत्तूरकुसुमैयजेत् ।।
जटामांसीभवं धूपं तैलाक्तघृतदीपकम् ।। ७५-८३ ।।
नैवेद्यं तिलतैलाक्तसक्षारा माषरोटिका ।।
ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः ।। ७५-८४ ।।
वामहस्तेन पाषाणैस्त्रासयन्परसैनिकान् ।।
प्नारयन्भ्रुकुटीं बद्ध्वा भीषयन्मथयन्स्थितः ।। ७५-८५ ।।
जपेञ्च भुग्भुगिति वै सहस्रं ध्यानतत्परः ।।
एवं कृतविधानेन परसैन्यं विनाशयेत् ।। ७५-८६ ।।
रक्षा भवति दुर्गाणां सत्यं सत्य न संशयः ।।
प्रायोगा बहवस्तत्र संक्षेपाद्गदिता मया ।। ७५-८७ ।।
प्रत्यहं यो विधानेन दीपदानं हनूमतः ।।
तस्यासाध्यं न वै किंचिद्विद्यते भुवनत्रये ।। ७५-८८ ।।
न देयं दुष्टहृदये दुष्टचिंतनबुद्धये ।।
अविनीताय शिष्याय पिशुनाय कदाचन ।। ७५-८९ ।।
कृतघ्नाय न दातव्यं दातव्यं च परीक्षिते ।।
बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ।। ७५-९0 ।।
अथ मन्त्रान्तरं वक्ष्ये तत्त्वज्ञानप्रदायकम् ।।
तारो नमो हनुमते जाठरत्रयमीरयेत् ।। ७५-९१ ।।
दनक्षोभं समाभाष्य संहरद्वयमीरयेत् ।।
आत्मतत्त्वं ततः पश्चात्प्रकाशययुगं ततः ।। ७५-९२ ।।
वर्मास्त्रवह्निजायांतः सार्द्धूषड्विंशदर्णवान् ।।
वसिष्ठोऽस्य मुनिश्छन्दोऽनुष्टुप् च देवताः पुनः ।। ७५-९३ ।।
हनुमान्मुनिसप्तर्तुवेदाष्टनिगमैः क्रमात् ।।
मंत्रार्णैश्च षडंगानि कृत्वा ध्यायेत्कपीश्वरम् ।। ७५-९४ ।।
जानुस्थावामबाहुं च ज्ञानमुद्रापरं हृदि ।।
अध्यात्मचित्तमासीनं कदलीवनमध्यगम् ।। ७५-९५ ।।
बालार्ककोटिप्रतिमं ध्यायेज्ज्ञानप्रदं हरिम् ।।
ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः ।। ७५-९६ ।।
साज्यैः संपूजयेत्पीठे पूर्वोक्ते पूर्ववत्प्रभुम् ।।
जप्तोऽयं मदनक्षोभं नाशयत्येव निश्चितम् ।। ७५-९७ ।।
तत्त्वज्ञानमवाप्नोति कपींद्रस्य प्रसादतः ।।
अथ मंत्रातरं वाक्ष्ये भूतविद्रावणं परम् ।। ७५-९८ ।।
तारः काशींकुक्षिपरवराहश्चांजनापदम् ।।
पवनो वनपुत्रांते आवेशिद्वयमीरयेत् ।। ७५-९९ ।।
तारः श्रीहनुमत्यश्चादस्त्ररचभुजाक्षरः ।।
ब्रह्मा मुनिः स्याद्गायत्री छंदोऽत्र देवता पुनः ।। ७५-१00 ।।
हनुमान्कमला बीजं फट् शक्तिः परिकीर्तितः ।।
षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत् ।। ७५-१0१ ।।
आंजनेय पाटलास्यं स्वर्णाद्रिसमविग्रहम् ।।
पारिजातद्रुमूलस्थं चिंतयेत्साधकोत्तमः ।। ७५-१0२ ।।
एवं ध्यात्वा जपेल्लक्षं दशांशं जुहुयात्तिलैः ।।
त्रिमध्वक्तैर्यंजत्पीठे पूर्वोक्तेपूर्ववत्सुधीः ।। ७५-१0३ ।।
अनेन मनुना मंत्री ग्रहग्रस्तं प्रमार्जयेत् ।।
आक्रंदंस्तं विमुच्याथ ग्रहः शीघ्रं पलायते ।। ७५-१0४ ।।
मनवोऽमी सदागोप्या न प्रकाश्या यतस्ततः ।।
परीक्षिताय शिष्याय देया वा निजसूनवे ।। ७५-१0५ ।।
हनुमद्भजनासक्तः कार्तवीर्यार्जुनं सुधीः ।।
विशेषतः समाराध्य यथोक्तं फलमाप्नुयात् ।। ७५-१0६ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दीपविधिनिरूपणं नाम पञ्चसप्ततितमोऽध्यायः ।। ७५ ।।