नारदपुराणम्- पूर्वार्धः/अध्यायः १०३
ब्रह्मोवाच ।।
श्रृणु वत्स प्रवक्ष्यामि वाराहं वै पुराणकम् ।।
भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम् ।। १०३-१ ।।
मानवस्य तु कल्पस्य प्रसंगं मत्कृतं पुरा ।।
निबबंध पुराणेऽस्मिंश्चतुर्विंशसहस्रके ।। १०३-२ ।।
व्यासो हि विदुषां श्रेष्ठः साक्षान्नारायणो भुवि ।।
तत्रादौ शुभसंवादः स्मृतोभूमिवराहयोः ।। १०३-३ ।।
अथादिकृतवृत्तांते रंभस्य चरितं ततः ।।
दुर्जयस्य च तत्पश्चाच्छ्राद्धकल्प उदीरितः ।। १०३-४ ।।
महातपस आख्यानं गौर्युत्पत्तिस्ततः परा ।।
विनायकस्य नागानां सेनान्यादित्ययोरपि ।। १०३-५ ।।
गणानां च तथा देव्या धनदस्य वृषस्य च ।।
आख्यानं सत्यतपसो व्रताख्यानसमन्वितम् ।। १०३-६ ।।
अगस्त्यगीता तत्पश्चाद्रुद्रगीता प्रकीर्तिता ।।
महिषासुरविध्वंसमाहात्म्यं च त्रिशक्तिजम् ।। १०३-७ ।।
पर्वाध्यायस्ततः श्वेतोपाख्यानं गोप्रदानिकम् ।।
इत्यादि कृतवृत्तांतं प्रथमे दर्शितं मया ।। १०३-८ ।।
भगवद्धर्मके पश्चाद्वततीर्थकथानकम् ।।
द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरगम् ।। १०३-९ ।।
तीर्थानां चापि सर्वेषां माहात्म्यं पृथगीरितम् ।।
मथुराया विशेषेण श्राद्धादीनां विधिस्ततः ।। १०३-१० ।।
वर्णनं यमलोकस्य ऋषिपुत्रप्रसंगतः ।।
विपाकः कर्मणां चैव विष्णुव्रतनिरूपणम् ।। १०३-११ ।।
गोकर्णस्य च माहात्म्यं कीर्तितं पापनाशनम् ।।
इत्येवं पूर्वभागोऽयं पुराणस्य निरूपितः ।। १०३-१२ ।।
उत्तरे प्रविभागे तु पुलस्त्यकुरुराजयोः ।।
संवादे सर्वतीर्थानां माहात्म्यं विस्तरात्पृथक् ।। १०३-१३ ।।
अशेषधर्माश्चाख्याताः पौष्करं पुण्यपर्व च ।।
इत्येवं तव वाराहं प्रोक्तं पापविनाशनम् ।। १०३-१४ ।।
पठतां श्रृण्वतां चैव भगवद्भक्तिवर्धनम् ।।
कांचनं गरुड कृत्वा तिलधेनुसमन्वितम् ।। १०३-१५ ।।
लिखित्वैतच्च यो दद्याच्चैत्र्यां विप्राय भक्तितः ।।
स लभेद्वैष्णवं धाम देवर्षिगणवंदितः ।। १०३-१६ ।।
यो वानुक्रमणीमेंतां श्रृणोत्यपि पठत्यपि ।।
सोऽपि भक्तिं लभेद्विष्णौ संसारोच्छेदकारिणीम् ।। १०३-१७ ।।
इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वाराहपुराणानुक्रमणीवर्णनं नाम त्र्युत्तरशततमोऽध्यायः ।। १०३ ।।