नारदपुराणम्- पूर्वार्धः/अध्यायः ५९
सनन्दन उवाच ।।
ततः स राजा सहितो मंत्रिभिर्द्विजसत्तम ।।
पुरः पुरोहितं कृत्वा सर्वाण्यंतः पुराणि च ।। ५९-१ ।।
शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात् ।।
महदासनमादाय सर्वरत्न--तम् ।। ५९-२ ।।
प्रददौ गुरुपुत्राय शुकाय परमोचितम् ।।
तत्रोपविष्टं तं कार्ष्णिशास्त्रदृष्टेन कर्मणा ।। ५९-३ ।।
पाद्यं निवेद्य प्रथमं सार्ध्यं गां च न्यद्दे---।।
स च तांमंत्रतः पूजां प्रतिगृह्य द्विजोत्तमः ।। ५९-४ ।।
पर्यपृच्छन्महातेजाराज्ञः कुशलमव्ययम् ।।
उदारसत्त्वाभिजनो राजापि गुरुसूनवे ।। ५९-५ ।।
आवेद्य कुशलं भूमौ निषसाद तदाज्ञया ।।
सोऽपि वैयासकिं भूयः पृष्ट्वा कुशलमव्ययम् ।।
किमागमनिमित्येव पर्यपृच्छद्विधानवित् ।। ५९-६ ।।
शुक उवाच ।।
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः ।।
विदेहराजोह्याद्योमे जनको नाम विश्रुतः ।। ५९-७ ।।
तत्र त्वं गच्छ तूर्णं वै स ते हृदयसंशयम् ।।
प्रवृत्तौ च निवृत्तौ च सर्वं छेत्स्यत्यसंशयम् ।। ५९-८ ।।
सोऽहं पितुर्नियोगात्त्वा मुपप्रष्टुमिहागतः ।।
तन्मे धर्मभृतां श्रेष्ट यथावद्वक्तुमर्हसि ।। ५९-९ ।।
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः ।।
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ।। ५९-१० ।।
जनक उवाच ।।
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छुणु ।।
कृतोपनयनस्तात भवेद्वेदपरायणः ।। ५९-११ ।।
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चान्वितः ।।
देवतानां पितॄणां च ह्यतृष्णश्चानसूयकः ।। ५९-१२ ।।
वेदानधीत्य नियतो दक्षिणामपवर्त्य च ।।
अभ्यनुज्ञामनुप्राप्य समावर्तेत वै द्विजः ।। ५९-१३ ।।
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् ।।
अनसूयुर्यथान्यायमाहिताग्निरनादृते ।। ५९-१४ ।।
उत्पाद्य पुत्रपौत्रांश्च वन्याश्रमपदे वसेत् ।।
तानेवाग्नीन्यथान्यायं पूजयन्नतिथिप्रियः ।। ५९-१५ ।।
सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ।।
निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ।। ५९-१६ ।।
शुक उवाच ।।
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शश्वते ।।
न विना गुरुसंवासाज्ज्ञानस्याधिगमः स्मृतः ।। ५९-१७ ।।
किमवश्यं तु वस्तव्यमाश्रमेषु न वा नृप ।।
एतद्भवंतं पृच्छामि तद्भवान्वक्तुमर्हति ।। ५९-१८ ।।
जनक उवाच ।।
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् ।.
न विना गुरुसंबधाज्ज्ञानस्याधिगमस्तथा ।। ५९-१९ ।।
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते ।।
विज्ञाय कृतकृत्यस्तु तीर्णस्तत्रोभयं त्यजेत् ।। ५९-२० ।।
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् ।।
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ।। ५९-२१ ।।
भावितैः कारणैश्चार्यं बहुसंसारयोनिषु ।।
आसादयति शुद्धात्मा मोक्षं हि प्रथमाश्रमे ।। ५९-२२ ।।
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।।
त्रिधाश्रमेषु कोन्वर्थो भवेत्परमभीप्सतः ।। ५९-२३ ।।
राजसांस्तामसांश्चैव नित्यं दोषान्विसर्जयेत ।।
सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ।। ५९-२४ ।।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।।
संपश्यन्नैव लिप्येत जले वारिचरगो यथा ।। ५९-२५ ।।
पक्षीवत्पवनाद्वर्ध्वममुत्रानुंत्यश्नुते ।।
विहाय देहं निर्मुक्तो निर्द्वंद्वः शुभसंगतः ।। ५९-२६ ।।
अत्र गाथाः पुरा गीताः श्रृणु राज्ञा ययातिना ।।
धार्यते या द्विजैस्तात मोक्षशास्त्रविशारदैः ।। ५९-२७ ।।
ज्योतिश्चात्मनि नान्यत्र रत्नं तत्रैव चैव तत् ।।
स्वयं च शक्यं तद्द्रष्टुं सुसमाहितर्चतसा ।। ५९-२८ ।।
न बिभेति परो यस्मान्न बिभेति पराच्च यः ।।
यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते स तु ।। ५९-२९ ।।
यदा भावं न कुरुते सर्वभूतेषु पापकम् ।।
पूर्वैराचरितो धर्मश्चतुराश्रमसंज्ञकः ।। ५९-३० ।।
अनेन क्रमयोगेन बहुजातिसुकर्मणाम् ।।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ।। ५९-३१ ।।
संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् ।।
त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते ।। ५९-३२ ।।
यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाव्ययम् ।।
समो भवति निर्द्वुद्वो ब्रह्म संपद्यते तदा ।। ५९-३३ ।।
यदा स्तुति च र्निदां च समत्वेन च पश्यति ।।
कांचनं चाऽयसं चैव सुखदुःखे तथैव च ।। ५९-३४ ।।
शीतमुष्णं तथैवार्थमनंर्थं प्रियमप्रियम् ।।
जीवितं मरणं चैव ब्रह्म संपद्यते तदा ।। ५९-३५ ।।
प्रसार्येह यथांगानि कूर्मः संहरते पुनः ।।
तर्थेद्रियाणि मनसा संयंतव्यानि भिक्षुणा ।। ५९-३६ ।।
तमः परिगतं वेश्य यथा दीपेन दृश्यते ।।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ।। ५९-३७ ।।
एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतांवर ।।
यञ्चान्यदपि वेत्तव्यं तत्त्वतो वेत्ति तद्भवान् ।। ५९-३८ ।।
ब्रह्मर्षे विदितश्वासि विषयांतमुपागतः ।।
गुरोश्चैव प्रसादेन तव चैवोपशिक्षया ।। ५९-३९ ।।
तस्य चैव प्रसादेन प्रादुर्भूतं महामुनेः ।।
ज्ञानं दिव्यं समादीप्तं तेनासि विदितो विदितो मम ।। ५९-४० ।।
अर्धिकं तव विज्ञानमधि कावगतिस्तव ।।
अधिकं च तवैश्वर्यं तञ्च त्वं नावबुध्यसे ।। ५९-४१ ।।
बाल्याद्वा संशयाद्वापि भयाद्वापि विमेषजात् ।।
उत्पन्ने चापि विज्ञा ने नाधिगच्छंति तांगतिम् ।। ५९-४२ ।।
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयाः ।।
विमुच्य हृदयग्रंथीनार्तिमासादयंति ताम् ।। ५९-४३ ।।
मवांश्चोत्पन्नविज्ञानः स्थिरबगुद्धिरलोलुपः ।।
व्यवसायादृते ब्रह्यन्नासादयति तत्पदम् ।। ५९-४४ ।।
नास्ति ते सुखदुःखेषु विशेषो नास्ति वस्तुषु ।।
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते ।। ५९-४५ ।।
न बंधुषु निबंधस्ते न भयेष्वस्ति ते भयम् ।।
पश्यामित्वां महाभाग तुल्यनिंदात्मसंस्तुतिम् ।। ५९-४६ ।।
अहं च त्वानुपश्यामि ये चान्येऽपि मनीषिणः ।।
आस्थितं परमं मार्गे अक्षयं चाप्यनामयम् ।। ५९-४७ ।।
यत्फलं ब्राह्मणस्येह मोक्षार्थश्चापदात्मकः ।।
तस्मिन्वै वर्तसे विप्रकिमन्यत्परिपृच्छसि ।। ५९-४८ ।।
सनंदन उवाच ।।
एतच्छ्रुत्वा तु वचनं कतात्मा कृतनिश्चयः ।।
आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना ।। ५९-४९ ।।
कृतकार्यः सुखी शांतस्तूष्णीं प्रायादुदङ्मुखः ।।
शैशिरं गिरिमासाद्य पाराशर्यं ददर्श च ।। ५९-५० ।।
शिष्यानध्यापयंतं च पैलादीन्वेदसंहिताः ।।
आरर्णेयो विशुद्धात्मा दिवाकरसमप्रभः ।। ५९-५१ ।।
पितुर्जग्राह पादौ चज सादरं हृष्टमानसः ।।
ततो निवेदयामास पितुः सर्वमुदारधीः ।। ५९-५२ ।।
शुको जनकराजेन संवादं मोक्षसाधनम् ।।
तच्छ्रत्वा वेदकर्तासौ प्रहृष्टेनांतरात्मना ।। ५९-५३ ।।
समालिंग्य सुतं व्यासः स्वपार्श्वस्थं चकार च ।। ५९-५४ ।।
ततः पैलादयो विप्रा वेदान् व्यासादधीत्य च ।।
शैलश्रृंगाद्भुवं प्राप्ता याजनाध्यापने रताः ।। ५९-५५ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने एकोनषष्टितमोऽध्यायः ।।