नारदपुराणम्- पूर्वार्धः/अध्यायः ११५
सनातन उवाच ।।
श्रृणु विप्र प्रवक्ष्यामि षष्ठ्याश्चैव व्रतानि ते ।।
यानि सम्यग्विधायात्र लभेत्सर्वान्मनोरथान् ।। ११५-१ ।।
चैत्रमासे शुक्लषष्ठ्यां कुमारव्रतमुत्तमम् ।।
तत्रेष्ट्वा षण्मुखं देवं नानापूजा विधानतः ।। ११५-२ ।।
पुत्रं सर्वगुणोपेतं प्राप्नुयाच्चिरजीविनम् ।।
वैशाखशुक्लषष्ठ्यां च पूजयित्वा च कार्तिकम् ।। ११५-३ ।।
लभते मातृजं सौख्यं नात्र कार्या विचारणा ।।
ज्येष्ठमासे शुक्लषष्ठ्यां विधिनेष्ट्वा दिवाकरम् ।। ११५-४ ।।
लभते वांछितान्कामांस्तत्प्रसादान्न संशयः ।।
आषाढशुक्लषष्ठ्यां वै स्कंदव्रतमनुत्तमम् ।। ११५-५ ।।
उपोष्य पूजयित्वैनं शिवोमाप्रियमात्मजम् ।।
लभतेऽभीप्सितान्कामान्पुत्रपौत्रादिसंततीः ।। ११५-६ ।।
श्रावणे शुक्लषष्ठ्यां तु शरजन्मानमर्चयेत् ।।
उपचारैः षोडशभिर्भक्त्या परमयान्वितः ।। ११५-७ ।।
लभतेऽभीप्सितानर्थान्षण्मुखस्य प्रसादतः ।।
भाद्रमासे कृष्णषष्ट्यां ललिताव्रतमुच्यते ।। ११५-८ ।।
प्रातः स्नात्वा विधानेन नारी शुक्लाम्बरावृता ।।
शुक्लमाल्ययधरा वापि नद्याः संगमवालुकाम् ।। ११५-९ ।।
गृहीत्वा वंशपात्रे तु धृत्वा पिंडाकृतिं च ताम् ।।
पञ्चधा ललितां तत्र ध्यायेद्वनविलासिनीम् ।। ११५-१० ।।
पङ्कजं करवीरं च नेपालीं मालतीं तथा ।।
नीलोत्पलं केतकीं च संगृह्य तगरं तथा ।। ११५-११ ।।
एकैकाष्टशतं ग्राह्यमष्टाविंशतिरेव च ।।
अक्षताः कलिका गृह्य ताभिर्देवीं प्रपूजयेत् ।। ११५-१२ ।।
प्रार्थयेदग्रतः स्थित्वा देवीं तां गिरिशप्रियाम् ।।
गंगाद्वारे कुशावर्त्ते विल्वके नीलपर्वते ।। ११५-१३ ।।
स्नात्वा कनखले देवि हरिं लब्धवती पतिम् ।।
ललिते सुभगं देवि सुखसौभाग्यदायिनि ।। ११५-१४ ।।
अनतं दहि सौभाग्येमह्यं तुभ्यं नमोऽनमनः ।।
मंत्रेणानेन कुसुमैश्वंपकस्य सुशोभनैः ।। ११५-१५ ।।
अभ्यर्च्य विधिवत्तस्या नवैद्यं पुरतो न्यसेत् ।।
त्रपुषैरपि कूष्माण्डैर्नालिकेरैः सुदाडिमैः ।। ११५-१६ ।।
बीजपूरैः सुतुडीरैः कारवल्लैः सचिर्भटैः ।।
फलैस्तत्कालसंभूतैः कृत्वा शोभां तदग्रतः ।। ११५-१७ ।।
विरूढधान्यांकुरकैः सुदीपावलिभिस्तथा ।।
साद्धै सर्गणकैधूपः सौहालककरंजकैः ।। ११५-१८ ।।
गुडपुष्पैः कर्णवेष्टडैर्मोदकैरुपमोदकैः ।।
बहुप्रकारैर्नैवेद्यैर्यथा विभवसारतः ।। ११५-१९ ।।
एवमभ्यर्च्य विधिवद्रात्रौ जागरणोत्सवम् ।।
गीतवाद्यनटैर्नृत्यैः प्रोक्षणीयैरनेकधा ।। ११५-२० ।।
सखीभिः सहिता साध्वी तां रात्रिं प्रसभं नयेत् ।।
न च संमीलयेन्नेत्रे नारीयामचतुष्टयम् ।। ११५-२१ ।।
दुर्भगा दुष्कृता वंध्या नेत्रसंमीलनाद्भवेत् ।।
एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत् ।। ११५-२२ ।।
गन्धपुष्पैस्तथाभ्यर्च्य गीतवाद्यपुरःसरैः ।।
तच्च दद्याद्द्विजेन्द्राय नैवेद्यादि द्विजोत्तम ।। ११५-२३ ।।
स्नात्वा गृहं समागत्य हुत्वा वैश्वानरं ततः ।।
देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीः ।। ११५-२४ ।।
कन्यकाश्चैव संभोज्य ब्राह्मणान्दश पंच च ।।
भक्ष्यभोज्यैर्बहुविधैर्दत्वा दानानि भूरिशः ।। ११५-२५ ।।
ललिता मेऽस्तु सुप्रीता इत्युक्त्वा तान्विसर्जयेत् ।।
यः कश्चिदाचरेदेतद्व्रतं सौभाग्यदं परम् ।। ११५-२६ ।।
नरो वा यदि वा नारी तस्य पुण्यफलं श्रृणु ।।
यद्व्रतैश्च तपोभिश्च दानैर्वा नियमैरपि ।। ११५-२७ ।।
तदेतेनेह लभ्येत किं बहूक्तेन नारद ।।
मृतेरनंतरं प्राप्य शिवलोकं सनातनम् ।। ११५-२८ ।।
मोदते ललितादेव्या शैवे वै सखिवच्चिरम् ।।
नभस्ये मासि या शुक्ला षष्ठी सा चंदनाह्वया ।। ११५-२९ ।।
तस्यां देवीं समभ्यर्च्य लभते तत्सलोकताम् ।।
रोहिणी पातभौमैस्तु संयुता कपिला भवेत् ।। ११५-३० ।।
तस्यां रविं समभ्यर्च्य व्रती नियमतत्परः ।।
लभते वांछितान्कामान्भास्करस्य प्रसादतः ।। ११५-३१ ।।
अन्नदानं जपो होमं पितृदेवर्षितर्पणम् ।।
सर्वमेवाक्षयं ज्ञेयं कृतं देवर्षिसत्तम ।। ११५-३२ ।।
कपिलां धेनुमभ्यर्च्य वस्त्रमाल्यानुलेपनैः ।।
प्रदद्याद्वेदविदुषे द्वादशात्मप्रतुष्टये ।। ११५-३३ ।।
अथेषुशुक्लषष्ठ्यां तु पूज्या कात्यायनी द्विज ।।
गंधाद्यैर्मंङ्गलद्रव्यैर्नैवेद्यैर्विविधैस्तथा ।। ११५-३४ ।।
ततः क्षमाप्य देवेशीं प्रणिपत्य विसर्जयेत् ।।
पूज्यात्र सैकती मूर्तिर्यद्वा द्विजसती मुदा ।। ११५-३५ ।।
वस्त्रालंकरणैर्भव्यैः कात्यायिन्याः प्रतुष्टये ।।
कन्या वरं प्राप्नुयाच्च वांचितं पुत्रमंगना ।। ११५-३६ ।।
कात्यायिनीप्रसादाद्वै नात्र कार्या विचारणा ।।
कार्तिके शुक्लषष्ठ्यां तु षण्मुखेन महात्मना ।। ११५-३७ ।।
देवसेना महाभागा लब्धा सर्वुसुरार्पिता ।।
अतस्तस्यां सुरश्रेष्ठां देवसेनां च षण्मुखम् ।। ११५-३८ ।।
संपूज्य निखिलैरेव उपचारैर्मनोहरैः ।।
प्राप्नुयादतुलां सिद्धिं मनोभीष्टां द्विजोत्तम ।। ११५-३९ ।।
अत्रैव वह्निपूजोक्तां तां च सम्पक्समाचरेत् ।।
विविधद्रव्यहोमैश्च वह्निपूजापुरः सरम् ।। ११५-४० ।।
मार्गशीर्षे शक्लषष्ठ्यां निहतस्तारकासुरः ।।
स्कंदेन सत्कृतिः प्राप्ता ब्रहमाद्यैः परिकल्पिता ।। ११५-४१ ।।
ततोऽस्यां पूजयेत्स्कंदं गंधपुष्पाक्षतैः फलैः ।।
वस्त्रैराभूषणश्चापि नैवेद्यैर्विविधैस्तथा ।। ११५-४२ ।।
रविवारेण संयुक्ता तथा शतभिषान्विता ।।
यदि चेत्सा समुद्दिष्टा चंपाह्वा मुनिसत्तम ।। ११५-४३ ।।
तस्यां विश्वेश्वरो देवो द्रष्टव्यः पापनाशनः ।।
पूजनीयो वेदनीयः स्मर्तव्यः सौख्यमिच्छता ।। ११५-४४ ।।
स्नानदानादिकं चात्र सर्वमक्षय्यमुच्यते ।।
पौषमासे शुक्लषष्ठ्यां देवो दिनपतिर्द्विज ।। ११५-४५ ।।
विष्णुरूपी जगत्त्राता प्रदुर्भूताः सनातनः ।। ११५-४६ ।।
स तस्मात्पूजनीयोऽस्यां द्रव्यैर्गंधपुरस्कृतैः ।।
नैवेद्यैर्वस्त्त्रभूषाद्यैः सर्वसौख्यमभीप्सुभिः ।। ११५-४७ ।।
माघमासे सिता षष्ठी वरुणाह्वा स्मृता तु सा ।।
तस्यां वरुणमभ्यर्च्येद्विष्णुरूपं सनातनम् ।। ११५-४८ ।।
रक्तैर्गंधांशुकैः पुष्पैर्नैवेद्यैर्धूपदीपकैः ।।
एवमभ्यर्च्य विधिवद्यद्यच्चाभिलषेन्नरः ।। ११५-४९ ।।
तत्तच्च फलतो लब्ध्वा मोदते तत्प्रसादतः ।।
फाल्गुने शुक्लषष्ठ्यां तु देवं पशुपतिं द्विज ।। ११५-५० ।।
मृन्मयं विधिना कृत्त्वा पूजयेदुपचारकैः ।।
संस्नाप्य शतरुद्रेण पृथक्पंचामृतैर्जलैः ।। ११५-५१ ।।
गन्धैरालिप्य सुश्वेतैरक्षतैः श्वेतपुष्पकैः ।।
बिल्वपत्रैश्च धत्तूरकुसुमैश्च फलैस्तथा ।। ११५-५२ ।।
सम्पूज्य नानानैवेद्यैर्नीराज्य विधिवत्ततः ।।
क्षमाप्य प्रणिपत्यैनं कैलासाय विसर्जयेत् ।। ११५-५३ ।।
एवं कृत शिवार्चस्तु नरो नार्यथवा मुने ।।
इह भुक्त्वा वरान्भोगानन्ते शिवगतिं लभेत् ।। ११५-५४ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितषष्ठीव्रतनिरूपणं नाम पञ्चदशाधिकशततमोऽध्यायः ।। ११५ ।।