नारदपुराणम्- पूर्वार्धः/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नारद उवाच ।।
भगवन्सर्वमाख्यातं यत्पृष्टं विदुषा त्वया ।।
संसारपाशबद्धानां दुःखानि सुबहूनि च ।। ३३-१ ।।

अस्य संसारपाशस्य च्छेदकः कतमः स्मृतः ।।
येनोपायेन मोक्षः स्यात्तन्मे ब्रूहि तपोधन ।। ३३-२ ।।

प्राणिभिः कर्मजालानि क्रियंते प्रत्यहं भृशम् ।।
भुज्यंते च मुनिश्रेष्ठ तेषां नाशः कथं भवेत् ।। ३३-३ ।।

कर्मणा देहमाप्नोति देही कामेन बध्यते ।।
कामाल्लोभाभिभूतः स्याल्लोभात्क्रोधपरायणाः ।। ३३-४ ।।

क्रोधाञ्च धर्मनाशः स्याद्धर्मनाशान्मतिभ्रमः ।।
प्रनष्टबुद्धिर्मनुजः पुनः पापं करोति च ।। ३३-५ ।।

तस्माद्देहं पापमूलं पापकर्मरतं तथा ।।
यथा देहभ्रमत्यक्त्वा मोक्षभाक्स्यात्तथा वद ।। ३३-६ ।।

सनक उवाच ।।
साधु साधु महाप्राज्ञ मतिस्ते विमलोर्जिता ।।
यस्मात्संसारदुःखान्नो मोक्षोपायमभीप्ससि ।। ३३-७ ।।

यस्याज्ञया जगत्सर्वं ब्रह्म्ना सृजति सुव्रत ।।
हरिश्च पालको रुद्रो नाशकः स हि मोक्षदः ।। ३३-८ ।।

अहमादिविशेषांता जातायस्य प्रभावतगः ।।
तं विद्यान्मोक्षदं विष्णुं नारायणमनामयम् ।। ३३-९ ।।

यस्याभिन्नमिदं सर्वं यच्चेंगद्यञ्च नेंगति ।।
तमुग्रमजरं देवं ध्यात्वा दुःखात्प्रमुच्यते ।। ३३-१० ।।

अविकारमजं शुद्धं स्वप्रकाशं निरंजनम् ।।
ज्ञानरुपं सदानंदं प्राहुर्वैमोक्षसाधनम् ।। ३३-११ ।।

यस्यावताररुपाणि ब्रह्माद्या देवतागणाः ।।
समर्चयंति तं विद्याच्छाश्वतस्थानदं हरिम् ।। ३३-१२ ।।

जितप्राणा जिताहाराः सदा ध्यानपरायणाः ।।
हृदि पश्यंति यं सत्यं तं जामीहि सुखावहम् ।। ३३-१३ ।।

निर्गुणोऽपि गुणाधारो लोकानुग्रहरुपधृक् ।।
आकाशमध्यगः पूर्णस्तं प्राहुर्मोक्षदं नृणाम् ।। ३३-१४ ।।

अध्यक्षः सर्वकार्याणां देहिनो हृदये स्थितः ।।
अनूपमोऽखिलाधारस्तां देवं शरणं व्रजेत् ।। ३३-१५ ।।

सर्वं संगृह्य कल्पांते शेते यस्तु जले स्वयम् ।।
तं प्राहुर्मोक्षदं विष्णुं मुनयस्तत्त्वदर्शिनः ।। ३३-१६ ।।

वेदार्थविद्भिः कर्मज्ञैरिज्यते विविधैर्मखैः ।।
स एव कर्मफलदो मोक्षदोऽकामकर्मणाम् ।। ३३-१७ ।।

हव्यकव्यादिदानेषु देवतापितृरूपधृक् ।।
भुंक्ते य ईश्वरोऽव्यक्तस्तं प्राहुर्मोक्षदं प्रभुम् ।। ३३-१८ ।।

ध्यातः प्रणमितो वापि पूजितो वापि भक्तितः ।।
ददाति शाश्वतं स्थानं तं दयालुं समर्चयेत् ।। ३३-१९ ।।

आधारः सर्वभूतानांमेको यः पुरुषः परः ।।
जरामरणनिर्मुक्तो मोक्षदः सोऽव्ययो हरिः ।। ३३-२० ।।

संपूज्य यस्य पादाब्जं देहिनोऽपि मुनीश्वर ।।
अमृतत्वं भजंत्याशु तं विदुः पुरुषोत्तमम् ।। ३३-२१ ।।

आनन्दमजरं ब्रह्म परं ज्योतिः सनातनम् ।।
परात्परतरं यञ्च तद्विष्णोः परमं पदम् ।। ३३-२२ ।।

अद्वयं निगुणं नित्यमद्वितीयमनौपमम् ।।
परिपूर्णं ज्ञानमयं विदुर्मोक्षप्रताधकम् ।। ३३-२३ ।।

एवंभूतं परं वस्तु योगमार्गविधानतः ।।
य उपास्ते सदा योगी स याति परमं पदम् ।। ३३-२४ ।।

परसर्वसंगपरित्यागी शमादिगुणसंयुतः ।।
कामर्द्यैवर्जितोयोगी लभते परमं पदम् ।। ३३-२५ ।।

नारद उवाच ।।
कर्मणा केन योगस्य सिद्धिर्भवति योगिनाम् ।।
तदुपायं यथातत्त्वं ब्रूहि मे वदतां वर ।। ३३-२६ ।।

सनक उवाच ।।
ज्ञानलभ्यं परं मोक्षं प्राहुस्तत्त्वार्थचिंतकाः ।।
यज्ज्ञानं भक्तिमूलं च भक्तिः कर्मवतां तथा ।। ३३-२७ ।।

दानानि यज्ञा विविधास्तीर्थयात्रादयः कृताः ।।
येन जन्मसहस्त्रेषु तस्य भक्तिर्भवेद्धरौ ।। ३३-२८ ।।

अक्षयः परमो धर्मो भक्तिलेशेन जायते ।।
श्रद्धया परया चैव सर्वं पापं प्रणश्यति ।। ३३-२९ ।।

सर्वपापेषु नष्टेषु बुद्धिर्भवति निर्मला ।।
सैव बुद्धिः समाख्याता ज्ञानशब्देन सूरिभिः ।। ३३-३० ।।

ज्ञानं च मोक्षदं प्राहुस्तज्ज्ञानं योगिनां भवेत् ।।
योगस्तु द्विविधः प्रोक्तः कर्मज्ञानप्रभेदतः ।। ३३-३१ ।।

क्रियायोगं विना नॄणां ज्ञानयोगो न सिध्यति ।।
क्रियायोगरतस्तस्माच्छ्रद्धया हरिमर्चयेत् ।। ३३-३२ ।।

द्विजभूम्यग्निसूर्याम्बुधातुहृञ्चित्रसंज्ञिताः ।।
प्रतिमाः केशवस्यैता पूज्य एतासु भक्तितः ।। ३३-३३ ।।

कर्मणा मनसा वाचा परिपीडापराङ्मुखः ।।
तस्मात्सर्वगतं विष्णुं पूजयेद्भक्तिसंयुतः ।। ३३-३४ ।।

अहिंसा सत्यमक्रोधो ब्रह्मचर्यापरिग्रहौ ।।
अनीर्ष्या च दया चैव योगयोरूभयोः समाः ।। ३३-३५ ।।

चराचरात्मकं विश्वं विष्णुरेव सनातनः ।।
इति निश्चित्य मनसा योगद्वितयमभ्यसेत् ।। ३३-३६ ।।

आत्मवत्सर्वभूतानि ये मन्यंते मनीषिणः ।।
ते जानंति परं भावं देवदेवस्य चक्रिणः ।। ३३-३७ ।।

यदि क्रोधादिदुष्टात्मा पूजाध्यानपरो भवेत् ।।
न तस्य तुष्यते विष्णुर्यतो धर्मपतिः स्मृतः ।। ३३-३८ ।।

यदि कामादिदुष्टात्मा देव पूजापरो भवेत् ।।
दंभाचारः स विज्ञेयः सर्वपातकिभिः समः ।। ३३-३९ ।।

तपः पूजाध्यानपरोयस्त्वसूयारतो भवेत् ।।
तत्तपः सा च पूजा च तद्ध्यानं हि निरर्थकम् ।। ३३-४० ।।

तस्मात्सर्वात्मकं विष्णुं शमादिगुणतत्परः ।।
मुक्तयर्थमर्चयेत्सम्यक् क्रियायोगपरो नरः ।। ३३-४१ ।।

कर्मणा मनसा वाचा सर्वलोकहिते रतः ।।
समर्चयति देवेशं क्रियायोगः स उच्यते ।। ३३-४२ ।।

नारायणं जगद्योनिं सर्वांतयर्यामिणं हरिम् ।।
स्तोत्राद्यैः स्तौति यो विष्णुं कर्मयोगी स उच्यते ।। ३३-४३ ।।

उपवासादिभिश्चैव पुराणश्रवणादिभिः ।।
पुष्पाद्यैश्चार्चनं विष्णोः क्रियायोग उदाहृतः ।। ३३-४४ ।।

एवं भक्तिमतां विष्णौ क्रियायोगरतात्मनाम् ।।
सर्वपापानि नश्यंति पूर्वजन्मार्जितानि वै ।। ३३-४५ ।।

पापक्षयाच्छुद्वमतिर्वांछति ज्ञानमुत्तमम् ।।
ज्ञानं हि मोक्षदं ज्ञेयं तदुपायं वदामि ते ।। ३३-४६ ।।

चराचरात्मके लोके नित्यं चानित्यमेव च ।।
सम्यग् विचारयेद्धीमान्सद्भिः शास्त्रार्थकोविदैः ।। ३३-४७ ।।

अनित्यास्तु पदार्था वै नित्यमेको हरिः स्मृतः ।।
अनित्यानि परित्यज्य नित्यमेव समाश्रयेत् ।। ३३-४८ ।।

इहामुत्र च भोगेषु विरक्तश्च तथा भवेत् ।।
अविरक्तो भवेद्यस्तु स संसारे प्रवर्तते ।। ३३-४९ ।।

अनित्येषु पदार्थेषु यस्तु रागी भवेन्नरः ।।
तस्य संसारविच्छित्तिः कदाचिन्नैव जायते ।। ३३-५० ।।

शमादिगुणसंपन्नो मुमुक्षुर्ज्ञानमभ्यसेत् ।।
शमादिगुणहीनस्य ज्ञानं नैव च सिध्यति ।। ३३-५१ ।।

रागद्वेषविहीनो यः शमादिगुणसंयुतः ।।
हरिध्यानपरो नित्यं मुमुक्षुरभिधीयते ।। ३३-५२ ।।

चतुर्भिः साधनैरेभिर्विशुद्धमतिरुच्यते ।।
सर्वगं भावयेद्विष्णुं सर्वभूतदयापरः ।। ३३-५३ ।।

क्षराक्षरात्मकं विश्वं व्याप्य नारायणः स्थितः ।।
इति जानाति यो विप्रतज्ज्ञानं योगजं विदुः ।। ३३-५४ ।।

योगोपायमतो वक्ष्ये संसारविनिवर्त्तकम् ।।
योगो ज्ञानं विशुद्धं स्यात्तज्ज्ञानं मोक्षदं विदुः ।। ३३-५५ ।।

आत्मानं द्विविधं प्राहुः परापरविभेदतः ।।
द्वे ब्रह्मणी वेदितव्ये इति चाथर्वर्णी श्रुतिः ।। ३३-५६ ।।

परस्तु निर्गुणः प्रोक्तो ह्यहंकारयुतोऽपरः ।।
तयोरभेदविज्ञानं योग इत्यभिधीयते ।। ३३-५७ ।।

पंचभूतात्मके देहे यः साक्षी हृदये स्थितः ।।
अपरः प्रोच्यते सद्भिः परमात्मा परः स्मृतः ।। ३३-५८ ।।

शरीरं क्षेव्रमित्याहुस्तत्स्थः क्षेत्रज्ञ उच्यते ।।
अव्यक्तः परमः शुद्धः परिपूर्ण उदाहृतः ।। ३३-५९ ।।

यदा त्वभेदविज्ञानं जीवात्मपरमात्मनोः ।।
भवेत्तदा मुनिश्रेष्ठ पाशच्छेदोऽपरात्मनः ।। ३३-६० ।।

एकः शुद्धोऽक्षरो नित्यः परमात्मा जगन्मयः ।।
नृणां विज्ञानभेदेन भेदवानिव लक्ष्यते ।। ३३-६१ ।।

एकमेवाद्वितीयं यत्परं ब्रह्म सनातनम् ।।
गीयमानं च वेदांतैस्तस्मान्नास्ति परं द्विज ।। ३३-६२ ।।

न तस्य कर्म कार्यं वा रुपं वर्णमथापि वा ।।
कर्त्तृत्वं वापि भोक्तृत्वं निर्गुणस्य परात्मनः ।। ३३-६३ ।।

निदानं सर्वहेतूनां तेजो यत्तेजसां परम् ।।
किमप्यन्यद्यतो नास्ति तज्ज्ञेयं मुक्तिहेतवे ।। ३३-६४ ।।

शब्दब्रह्ममयं यत्तन्महावाक्यादिकं द्विज ।।
तद्विचारोद्भवं ज्ञानं परं मोक्षस्य साधनम् ।। ३३-६५ ।।

सम्यग्ज्ञानविहीनानां दृश्यते विविधं जगतग् ।।
परमज्ञानिनामेतत्परब्रह्मात्मकं द्विज ।। ३३-६६ ।।

एक एव परानन्दो निर्गुणः परतः परः ।।
भाति विज्ञानभेदेन बहुरुपधरोऽव्ययः ।। ३३-६७ ।।

मायिनो मायया भेदं पश्यन्ति परमात्मनि ।।
तस्मान्मायां त्यजेद्योगान्मुमुक्षुर्द्विजसत्तम् ।। ३३-६८ ।।

नासद्रूपान सद्रूपा माया नैवोभयात्मिका ।।
अनिर्वाच्या ततो ज्ञेया भेदबुद्धिप्रदार्यिनी ।। ३३-६९ ।।

मायैव ज्ञानशब्देन बुद्ध्यते मुनिसत्तम ।।
तस्मादज्ञानविच्छेदो भवेद्रौजितमायिनाम् ।। ३३-७० ।।

सनातनं परं ब्रह्म ज्ञानशब्देन कथ्यते ।।
ज्ञानिनां परमात्मा वै हृदि भाति निरन्तरम् ।। ३३-७१ ।।

अज्ञानं नाशयेद्योगी योगेन मुनिसत्तम ।।
अष्टांगैः सिद्ध्यते योगस्तानि वक्ष्यामि तत्त्वतः ।। ३३-७२ ।।

यमाश्च नियमाश्चैव आसनानि च सत्तम ।।
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च ।। ३३-७३ ।।

समाधिश्च मुनिश्रेष्ट योगाङ्गानि यथाक्रमम् ।।
एषां संक्षेपतो वक्ष्ये लक्षणानि मुनीश्वर ।। ३३-७४ ।।

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।।
अक्रोधस्चानसूया च प्रोक्ताः संक्षेपतो यमाः ।। ३३-७५ ।।

सर्वेषामेव भूतानामक्लेशजननं हि यत् ।।
अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी ।। ३३-७६ ।।

यथार्थकथनं यञ्च धर्माधर्मविवेकतः ।।
सत्यं प्राहुर्मुनिश्रेष्ट अस्तेयं श्रृणु साम्प्रतम् ।। ३३-७७ ।।

चौर्येण वा बलेनापि परस्वहरणं हि यत् ।।
स्तेयमित्युच्यते सद्भिरस्तेयं तद्विपर्ययम् ।। ३३-७८ ।।

सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रकीर्त्तितम् ।।
ब्रह्मचर्यपरित्यागाज्ज्ञानवानपि पातकी ।। ३३-७९ ।।

सर्वसंगपरित्यागी मैथुनेयस्तु वर्त्तते ।।
स चंडालसमो ज्ञेयः सर्ववर्णबहिष्कृतः ।। ३३-८० ।।

यस्तु योगरतो विप्र विषयेषु स्पृहान्वितः ।।
तत्संभाषणमात्रेण ब्रह्महत्या भवेन्नृणाम् ।। ३३-८१ ।।

सर्वसंगपरित्यागी पुनः संगी भवेद्यदि ।।
तत्संगसंगिनां संगान्महापातकदोषभाक् ।। ३३-८२ ।।

अनादानं हि द्रव्याणामापद्यपि मुनीश्वर ।।
अपरिग्रह इत्युक्तो योगसंसिद्धिकारकः ।। ३३-८३ ।।

आत्मनस्तु समुत्कर्षादतिनिष्ठुरभाषणम् ।।
क्रोधमाहुर्धर्मविदो ह्यक्रोधस्तद्विपर्ययः ।। ३३-८४ ।।

धनाद्यैरधिकं दृष्ट्वा भृशं मनसि तापनम् ।।
असूया कीर्तिता सद्भिस्तत्त्यागो ह्यनसूयता ।। ३३-८५ ।।

एवं संक्षेपतः प्रोक्ता यमा विबुधसत्तम ।।
नियमानपि वक्ष्यामितुभ्यं ताञ्छृणु नारद ।। ३३-८६ ।।

तपःस्वाध्यायसंतोषाः शौचं च हरिपूजनम् ।।
संध्योपासनमुख्याश्च नियमाः परिकीर्त्तिताः ।। ३३-८७ ।।

चांद्रायणादिभिर्यत्र शरीरस्य विशोषणम् ।।
तपो निगदितं सद्भिर्योगसाधनमुत्तमम् ।। ३३-८८ ।।

प्रणवस्योपनिषदां द्वादशार्णस्य च द्विज ।।
अष्टाक्षरस्य मंत्रस्य महावाक्यचयस्य च ।। ३३-८९ ।।

जपः स्वाध्याय उदितो योगसाधनमुत्तमम् ।।
स्वाध्यायं यस्त्यजेन्मूढस्तस्य योगो न सिध्यति ।। ३३-९० ।।

योगं विनापि स्वाध्यायात्पापनाशो भवेन्नृणाम् ।।
स्वाध्यायैस्तोष्यमाणाश्च प्रसीदंति हि देवताः ।। ३३-९१ ।।

जपस्तु त्रिविधः प्रोक्तो वाचिकोपांशुमानसः ।।
त्रिविधेऽपि च विप्रेन्द्र पूर्वात्पूर्वात्परो वरः ।। ३३-९२ ।।

मंत्रस्योच्चारणं सम्यक्स्फुटाक्षरपदं यथा ।।
जपस्तु वाचिकः प्रोक्तः सर्वयज्ञफलप्रदः ।। ३३-९३ ।।

मंत्रस्योच्चारणे किंचित्पदात्पदविवेचनम् ।।
स तूपांशुर्जपः प्रोक्तः पूर्वस्माद्द्विगुणोऽधिकः ।। ३३-९४ ।।

विधाय ह्यक्षरश्रेण्यां तत्तदर्थविचारणम् ।।
स जपोमानसः प्रोक्तो योगसिद्धिप्रदायकः ।। ३३-९५ ।।

जपेन देवता नित्यं स्तुवतः संप्रसीदति ।।
तस्मात्स्वाध्यायसंपन्नो लभेत्सर्वान्मनोरथान् ।। ३३-९६ ।।

यदृच्छालाभसंतुष्टिः संतोष इति गीयते ।।
संतोषहीनः पुरुषो न लभेच्छर्म कुत्रचित् ।। ३३-९७ ।।

न जातुकामः कामानामुपभोगेन शाम्यति ।।
इतोऽधिकं कदा लप्स्य इति कामस्तु वर्द्धते ।। ३३-९८ ।।

तस्मात्कामं परित्यज्य देहसंशोषकारणम् ।।
यदृच्छालाभसंतुष्टो भवेद्धर्मपरायणः ।। ३३-९९ ।।

बाह्याभ्यन्तरभेदेन शौचं तु द्विविधं स्मृतम् ।।
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम् ।। ३३-१०० ।।

अन्तःशुद्धिविहीनैस्तु येऽध्वरा विविधाः कृताः ।।
न फलंति मुनीश्रेष्ट भस्मनि न्यस्तहव्यवत् ।। ३३-१ ।।

भावशुद्धिविहीनानां समस्तं कर्मनिष्फलम् ।।
तस्माद्रागादिकं सर्वं परित्यज्य सुखी भवेत् ।। ३३-२ ।।

मृदाभारसहस्त्रैस्तु कुम्भकोटिजलैस्तथा ।।
कृतशौचोऽपि दुष्टात्मा चंडालसदृशः स्मृतः ।। ३३-३ ।।

अंतःशुद्धिविहीनस्तु देवपूजापरो यदि ।।
तमेव दैवतं हंति नरकं च प्रपद्यते ।। ३३-४ ।।

अंतःशुद्धिविहीनश्च बहिःशुद्धिं करोति यः ।।
अलंकृतः सुराभाण्ड इव शांतिं न गच्छति ।। ३३-५ ।।

मनश्शुद्धिविहीना ये तीर्थयात्रां प्रकुर्वते ।।
न तान्पुंनति तीर्थानि सुराभांडमिवापगा ।। ३३-६ ।।

वाचा धर्मान्प्रवलदति मनसा पापमिच्छति ।।
जानीयात्तं मुनिश्रेष्ट महापातकिनां वरम् ।। ३३-७ ।।

विशुद्धमानसा ये तु धर्ममात्रमनुत्तमम् ।।
कुर्वंति तत्फलं विद्यादक्षयं सुखदायकम् ।। ३३-८ ।।

कर्मणा मनसा वाचा स्तुतिश्रवण पूजनैः ।।
हरिभक्तिर्दृढा यस्य हरिपूजेति गीयते ।। ३३-९ ।।

यमाश्च नियमाश्चैव संक्षेपेण प्रबोधिताः ।।
एभिर्विशुद्धमनसां मोक्षं हस्तगतं विदुः ।। ३३-१० ।।

यमैश्च नियमैश्चैव स्थिरबुद्धिर्जितेन्द्रियः ।।
अभ्यसेदासनंसम्यग्योगसाधनमुत्तमम् ।। ३३-११ ।।

पद्मकं स्वस्तिकं पीठं सैंहं कौक्कुटकौंजरे ।।
कौर्मंवज्रासनं चैव वाराहं मृगचैलिकम् ।। ३३-१२ ।।

क्रौञ्चं च नालिकं चैव सर्वतोभद्रमेव च ।।
वार्षभं नागमात्स्ये च वैयान्घं चार्द्धचंद्रकम् ।। ३३-१३ ।।

दंडवातासनं शैलं स्वभ्रं मौद्गरमेव च ।।
माकरं त्रैपथं काष्ठं स्थाणुं वैकर्णिकं तथा ।। ३३-१४ ।।

भौमं वीरासनं चैव योगसाधनकारणम् ।।
त्रिंशत्संख्यान्यासनानि मुनीन्द्रैः कथितानि वै ।। ३३-१५ ।।

एषामेकतमं बद्धा गुरुभक्तिपरायणः ।।
उपासको जयेत्प्राणान्द्वन्द्वातीतो विमत्सरः ।। ३३-१६ ।।

प्राङ्मुखोदङ्मुखो वापि तथा प्रत्यङ्मुखोऽपि वा ।।
अभ्यासेन जयेत्प्राणान्निःशब्दे जनवर्जिते ।। ३३-१७ ।।

प्राणो वायुः शरीरस्थ आयामस्तस्य निग्रहः ।।
प्राणायाम इति प्रोक्तो द्विविधः स प्रकीर्त्तितः ।। ३३-१८ ।।

अगर्भश्च सगर्भश्च द्वितीयस्तु तयोर्वरः ।।
जयध्यानं विनागर्भः सगर्भस्तत्समन्वितः ।। ३३-१९ ।।

रेचकः पूरकश्चैव कुंभकः शून्यकस्तथा ।।
एवं चतुर्विधः प्रोक्तः प्राणायामो मनीषिभिः ।। ३३-२० ।।

जंतूनां दक्षिणा नाडी पिंगला परिकीर्तिता ।।
सूर्यदैवतका चैव पितृयोनिरिति श्रुता ।। ३३-२१ ।।

देवयोनिरिति ख्याता इडा नाडी त्वदक्षिणा ।।
तत्राधिदैवत चंद्रं जानीहि मुनिसत्तमं ।। ३३-२२ ।।

एतयोरुभयोर्मध्ये सुषुम्णा नाडिका स्मृता ।।
अतिसूक्ष्मा गुह्यतमा ज्ञेया सा ब्रह्मदैवता ।। ३३-२३ ।।

वामेन रेचयेद्वायुं रेचनाद्रेचकः स्मृतः ।।
पूरयेद्दक्षिणेनैव पूरणात्पूरकः स्मृतः ।। ३३-२४ ।।

स्वदेहपूरितं वायं निगृह्य न विमृंचति ।।
संपूर्णकुंभवत्तिष्टेत्कुम्भकः स हि विश्रुतः ।। ३३-२५ ।।

न गृह्णाति न त्यजति वायुमंतर्बहिः स्थितम् ।।
विद्धि तच्छून्यकं नाम प्राणायामं यथास्थितम् ।। ३३-२६ ।।

शनैःशनैर्विजेतव्यः प्राणो मत्तगजेन्द्रवत् ।।
अन्यथा खलु जायन्ते महारोगा भयंकराः ।। ३३-२७ ।।

क्रमेण योजयेद्वायुं योगी विगतकल्मषः ।।
स सर्वपापनिर्मुक्तो ब्रह्मणः पदमाप्नुयात् ।। ३३-२८ ।।

विषयेषु प्रसक्तानि चेन्द्रियाणि मुनीश्वरः ।।
समामाहृत्य निगृह्णाति प्रत्याहारस्तु स स्मृतः ।। ३३-२९ ।।

जितेन्द्रिया महात्मानो ध्यानशून्या अपि द्विज ।।
प्रयान्ति परमं ब्रह्म पुनरावृत्तिदुर्लभम् ।। ३३-३० ।।

अनिर्जितेंद्रियग्रामं यस्तु ध्यानपरो भवेत् ।।
मूढात्मानं च तं विद्याद्ध्यानं चास्य न सिध्यति ।। ३३-३१ ।।

यद्यत्पश्यति तत्सर्वं पश्येदात्मवदात्मनि ।।
प्रत्याहृतानीन्द्रियाणि धारयेत्सा तु धारणा ।। ३३-३२ ।।

योगाज्जितेंद्रियग्रामस्तानि हृत्वा दृढं हृदि ।।
आत्मानं परमं ध्यायेत्सर्वधातारमच्युतम् ।। ३३-३३ ।।

सर्वविश्वात्मकं विष्णुं सर्वलोकैककारणम् ।।
विकसत्पद्यपत्राक्षं चारुकुण्डलभूषितम् ।। ३३-३४ ।।

दीर्घबाहुमुदाराङ्गं सर्वालङ्कारभृषितम् ।।
पीताम्बरधरं देवं हेमयज्ञोपवीतिनम् ।। ३३-३५ ।।

बिभ्रतं तुलसीमालां कौस्तुभेन विराजितम् ।।
श्रीवत्सवक्षसं देवं सुरासुरनमस्कृतम् ।। ३३-३६ ।।

अष्टारे हृत्सरोजे तु द्वादशांगुलविस्तृते ।।
ध्यायेदात्मानमव्यक्तं परात्परतरं विभुम् ।। ३३-३७ ।।

ध्यानं सद्भिनिर्गदितं प्रत्ययस्यैकतानता ।।
ध्यानं कृत्वा मुहुर्त्तं वा परं मोक्षं लभेन्नरः ।। ३३-३८ ।।

ध्यानात्पापानि नश्यन्ति ध्यानान्मोक्षं च विंदति ।।
ध्यानात्प्रसीदति हरिद्धर्यानात्सर्वार्थसाधनम् ।। ३३-३९ ।।

यद्यद्रूपं महाविष्णोस्तत्तद्ध्यायेत्समाहितम् ।।
तेन ध्यानेन तुष्टात्मा हरिर्मोक्षं ददाति वै ।। ३३-४० ।।

अचञ्चलं मनः कुर्याद्ध्येये वस्तुनि सत्तम ।।
ध्यानं ध्येयं ध्यातृभावं यथा नश्यति निर्भरम् ।। ३३-४१ ।।

ततोऽमृतत्वं भवति ज्ञानामृतनिषेवणात् ।।
भवेन्निरन्तरं ध्यानादभेदप्रतिपादनम् ।। ३३-४२ ।।

सुषुत्पिवत्परानन्दयुक्तश्चोपरतेन्द्रियः ।।
निर्वातदीपवत्संस्थः समाधिरभिधीयते ।। ३३-४३ ।।

योगी समाध्यवस्थायां न श्रृणोति न पश्यति ।।
न जिघ्रति न स्पृशति न किंचद्वक्ति सत्तम ।। ३३-४४ ।।

आत्मा तु निर्मलः शुद्धः सञ्चिदानन्दविग्रहः ।।
सर्वोपाधिविनिर्मुक्तो योगिनां भात्यचञ्चलः ।। ३३-४५ ।।

निर्गुणोऽपि परो देवो ह्यज्ञानाद्गुणवानिव ।।
विभात्यज्ञाननाशे तु यथापूर्वं व्यवस्थितम् ।। ३३-४६ ।।

परं ज्योतिरमेयात्मा मायावानिव मायिनाम् ।।
तन्नाशे निर्मलं ब्रह्म प्रकाशयति पंडितं ।। ३३-४७ ।।

एकमेवाद्वितीयं च परं ज्योतिर्निरंजनम् ।।
सर्वेषामेव भूतानामंतर्यामितया स्थितम् ।। ३३-४८ ।।

अणोरणीयान्महतो महीयान्सनातनात्माखिलविश्वहेतुः ।।
पश्यंति यज्ज्ञानविदां वरिष्टाः परात्परस्मात्परमं पवित्रम् ।। ३३-४९ ।।

अकारादिक्षकारांतवर्णभेदव्यवस्थितः ।।
पुराणपुरुषोऽनादिः शब्दब्रह्मेति गीयते ।। ३३-५० ।।

विशुद्दमक्षरं नित्यं पूर्णमाकाशमध्यगम् ।।
आनन्दं निर्मलशांतं परं ब्रह्मेति गीयते ।। ३३-५१ ।।

योगिनो हृदि पश्यन्ति परात्मानं सनातनम् ।।
अविकारमजं शुद्धं परं ब्रह्मेति गीयते ।। ३३-५२ ।।

ध्यानमन्यत्प्रवक्ष्यामि श्रृणुष्व मुनि सत्तम ।।
संसारतापतप्तानां सुधावृष्टिसमं नृणाम् ।। ३३-५३ ।।

नारायणं परानन्दं स्मरेत्प्रणवसंस्थितम् ।।
नादरुपमनौपम्यमर्द्धमात्रोपरिस्थितम् ।। ३३-५४ ।।

अकारं ब्रह्मणो रुपमुकारं विष्णुरुपवत् ।।
मकारं रुद्ररुपं स्यादर्ध्दमात्रं परात्मकम् । ३३-५५ ।।

मात्रास्तिस्त्रः समाख्याता ब्रह्मविष्णु शिवाधिपाः ।।
तेषां समुच्चयं विप्र परब्रह्मप्रबोधकम् ।। ३३-५६ ।।

वाच्यं तु परमं ब्रह्म वाचकः प्रणवः स्मृतः ।।
वाच्यवाचकसंबन्धो ह्युपचारात्तयोर्द्विजा ।। ३३-५७ ।।

जपन्तः प्रणवं नित्यं मुच्यन्ते सर्वपातकैः ।।
तदभ्यासेन संयुक्ताः परं मोक्षं लभन्ति च ।। ३३-५८ ।।

जपंश्च प्रणवं मन्त्रं ब्रह्मविष्णुशिवात्मकम् ।।
कोटिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलम् ।। ३३-५९ ।।

शालग्रामशिलारुपं प्रतिमारुपमेव वा ।।
यद्यत्पापहरं वस्तु तत्तद्वा चिन्तयेद्धृदि ।। ३३-६० ।।

यदेतद्दैष्णवं ज्ञानं कथितं ते मुनीश्वर ।।
एतद्विदित्वा योगीन्द्रो लभते मोक्षमुत्तमम् ।। ३३-६१ ।।

यस्त्वेतच्छॄणुयाद्वापि पठेद्वापि समाहितः ।।
स सर्वपापनिर्मुक्तो हरिसालोक्यमान्पुयात् ।। ३३-६२ ।।

इति श्रीबृन्नारदीयपुराणे पूर्वभागे प्रथमपादे योगनिरुपणं नाम त्रयस्त्रिंशोऽध्यायः ।।