नारदपुराणम्- पूर्वार्धः/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य चक्रिणः ।।
पठतां शुण्वतां सद्यः पापराशिः प्रणश्यति ।। ३५-१ ।।

शांता जितारिषड्वर्गा योगेनाप्यनहंकृताः ।।
यजंति ज्ञानयोगेन ज्ञानरूपिणमव्ययम् ।। ३५-२ ।।

तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः ।।
यजंति कर्मयोगेन सर्वधातारमच्युतम् ।। ३५-३ ।।

लुब्धा व्यसनितोऽज्ञाश्च न यजंति जगत्पतिम् ।।
अजरामरवन्मूढास्तिष्टंति नरकीटकाः ।। ३५-४ ।।

तडिल्लेखाश्रिया मत्ता वृथाहंकारद्विषिताः ।।
न यजंति जगन्नाथं सर्वश्रैयोविधायकम् ।। ३५-५ ।।

हरिधर्मरताः शांता हरिपादाब्जसेवकाः ।।
दैवात्केऽपीह जायंते लोकानुग्रहतत्पराः ।। ३५-६ ।।

कर्मणा मनसा वाचा यो यजेद्भक्तितो हरिम् ।।
स याति परमं स्थानं सर्वलोकोत्तमोत्तमम् ।। ३५-७ ।।

अत्रैवोदाहरंतीममितिहासं पुरातनम् ।।
पठतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ।। ३५-८ ।।

तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः ।।
यस्य श्रवणमात्रेण वाचिमेध फलं लभेत् ।। ३५-९ ।।

कश्चिदासीत्पुरा विप्र ब्रह्मणो रैवतेंऽतरे ।।
वेदमालिरिति ख्यातो वेदवेदांगपारगः ।। ३५-१० ।।

सर्वभूतदयायुक्तो हरिपूजापरायणः ।।
पुत्रमित्रकलत्रार्थं धनार्जनपरोऽभवत् ।। ३५-११ ।।

अपण्यंविक्रयं चक्रे तथा च रसिविक्रयम् ।।
चंडालाद्यैरपि तथा संभषी तत्प्रतिग्रही ।। ३५-१२ ।।

तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा ।।
परार्थं तीर्थगमनं कलत्रार्थमकारयत् ।। ३५-१३ ।।

कालेन गच्छता विप्र जातौ तस्य सुतावुभो ।।
यज्ञमाली सुमाली च यमलावतिशोभनौ ।। ३५-१४ ।।

ततः पिता कुमारौ तावतिस्नेहसमन्वितः ।।
पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा ।। ३५-१५ ।।

वेदमालिर्बहूपायैर्धनं संपाद्य यत्नतः ।।
स्वधनं गणयामास कियत्स्यादिति वेदितुम् ।। ३५-१६ ।।

निधिकोटिसहस्त्राणां कोटिकोटिगुणान्वितम् ।।
विगणय्य स्वयं दृष्टो विस्मितश्चार्थचिंतया ।। ३५-१७ ।।

असत्प्रतिग्रहैश्चैव अपण्यानां च विक्रयैः ।।
मेया तपो विक्रयाद्यैरेतद्धनमुपार्जितम् ।। ३५-१८ ।।

नाद्यापि शांतिमापन्ना मम तृष्णातिदुःसहा ।।
मेरुतुल्यसुवर्णानि ह्यसंख्यातानि वांछति ।। ३५-१९ ।।

अहो मन्ये महाकष्टं समस्तक्लेशसाधनम् ।।
सर्वान्कामानवांप्नोति पुनरन्यञ्च कांक्षति ।। ३५-२० ।।

जीर्यंति जीर्यतः केशाः दंता जीर्यंति जीर्यतः ।।
चक्षुःश्रोत्रे च जीर्येते तृष्णेका तरुणायते ।। ३५-२१ ।।

ममेद्रियाणि सर्वाणि मंदभावं व्रजंति च ।।
बलं हतं च जरसा तृष्णा तरुणतां गता ।। ३५-२२ ।।

कष्टाशा वर्त्तते यस्य स विद्रानथ पंडितः ।।
सुशांतोऽपि प्रमन्युः स्याद्धीमानप्यतिमूढधीः ।। ३५-२३ ।।

आशा भंगकरी पुंसामजेयारातिसन्निभा ।।
तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्छाश्वतं सुखम् ।। ३५-२४ ।।

बलं तेजोः यशश्वैव विद्यां मानं च वृद्धताम् ।।
तथैव सत्कुले जन्म आशा हत्यतिवेगतः ।। ३५-२५ ।।

नृणामाशाभिभूतानामाश्चर्यमिदसुच्यते ।।
किंचिद्दातापि चांडालस्तस्मादधिकतां गतः ।। ३५-२६ ।।

आशाभिभूता ये मर्त्या महामोहा महोद्धताः ।।
अवमानादिकं दुःखं न जानंति कदाप्यहो ।। ३५-२७ ।।

मयाप्येवं बहुक्लिशैरेतद्धनमुपार्जितम् ।।
शरीरमपि जीर्णं च जरसापहतं बलम् ।। ३५-२८ ।।

इतः परं यतिष्यामि परलोकार्थमादरात् ।।
एवं निश्चित्य विप्रेंद्र धर्ममार्ग रतोऽभवत् ।। ३५-२९ ।।

तदैव तद्धनं सर्वं चतुर्द्धा व्यभजत्तथा ।।
स्वयं तु भाग द्वितय स्वार्जितार्थादपाहरत् ।। ३५-३० ।।

शेषं च भागद्वितयं पुत्रयोरुभयोर्ददौ ।।
स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा ।। ३५-३१ ।।

प्रपातडागारामांश्च तथा देवगृहान्बहून् ।।
अन्नादीनां च दानानि गंगातीरे चकार सः ।। ३५-३२ ।।

एवं धनमशेषं च विश्राण्य हरिभक्तिमान् ।।
नारनारायण स्थानं जगाम तपसे वनम् ।। ३५-३३ ।।

तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितम् ।।
फलितैः पुष्पितैश्चैव शोभितं वृक्षसंचयैः ।। ३५-३४ ।।

गृणद्भिः परमं ब्रह्म शास्त्रचिंतापरैस्तथा ।।
परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम् ।। ३५-३५ ।।

शिष्यैः परिवृतं तत्र मुनिं जानंति संज्ञकम् ।।
गृणंतं परमं ब्रह्म तेजोराशिं ददर्‌श ह ।। ३५-३६ ।।

शमादिगुणसंयुक्तं रागादिरहितं मुनिम् ।।
शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम् ।। ३५-३७ ।।

तस्य जानन्तिरागंतोः कल्पयामास चार्हणम् ।।
कंदमूलफलाद्यैस्तु नारायणधिया मुने ।। ३५-३८ ।।

कृतातिथ्यक्रियस्तेन वेदमाली कृतांजलिः ।।
विनयावनतो भूत्वा प्रोवाच वदतां वरम् ।। ३५-३९ ।।

भगवन्कृतकृत्योऽस्मि विगतं कल्मषं मम ।।
मामुद्धर महाभाग ज्ञानदानेन पंडित ।। ३५-४० ।।

एवमुक्तस्ततस्तेन जानंतिर्मुनिसत्तमः ।।
प्रोवाच प्रहसन्वाग्मी वेदमालिं गुणान्वितम् ।। ३५-४१ ।।

जानंतिरुवाच ।।
श्रृणष्व विप्रशार्दूल संसारच्छेदकारणम् ।।
प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम् ।। ३५-४२ ।।

भज विष्णुं परं नित्यं स्मर नारायणं प्रभुम् ।।
परापवादं पैशुन्यं कदाचिदपि मा कृथाः ।। ३५-४३ ।।

परोपकारनिरतः स दा भव महामते ।।
हरिपूजापरश्चैव त्यज मूर्खसमागमम् ।। ३५-४४ ।।

कामं क्रोधं च लोभं च मोहं च मदमत्सरौ ।।
परित्यज्यात्मवल्लोकं दृष्ट्वा शांतिं गमिष्यसि ।। ३५-४५ ।।

असूयां परनिंदां च कदाचिदपि मा कुरु ।।
द्रंभाचारमहंकारं नैष्ठुर्यं च परित्यज ।। ३५-४६ ।।

दयां कुरुष्व भुतेषु शुश्रूषां च तथा सताम् ।।
त्वया कृतांश्च धर्मान्वै मा प्रकाशय पुच्छताम् ।। ३५-४७ ।।

अनाचारपरान्दृष्ट्वा नोपेक्षां कुरु शक्तितः ।।
पूजयस्वातियिं नित्यं स्वकुटुंबाविरोधतः ।। ३५-४८ ।।

पत्रैः पुष्पैः फलैर्वापि दूर्वाभिः पल्लवैरथ ।।
पूजयस्व जगन्नाथं नारायणमकां मतः ।। ३५-४९ ।।

देवानृपीन्पितॄश्चापि तर्पयस्व यथाविधि ।।
अग्रेश्च विधिवद्वप्र परिचर्यापरो भव ।। ३५-५० ।।

देवतायतने नित्यं संमार्जनपरो भव ।।
तथोपलेपनं चैव कुरुष्व सुसमाहितः ।। ३५-५१ ।।

शीर्णस्फटितसंधानं कुरु देवगृहे सदा ।।
मार्गशोभां च दीपं च विष्णोरायतने कुरु ।। ३५-५२ ।।

कंदमूलफलैर्वापि सदा पूजय माधवम् ।।
प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा ।। ३५-५३ ।।

पुराणश्रवणं चैव पुराणपठनं तथा ।।
वेदांतपठनं चैव प्रत्यहं कुरु शक्तितः ।। ३५-५४ ।।

एवं स्थिति तव ज्ञानं भघविष्यत्युत्तमोत्तमम् ।।
ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम् ।। ३५-५५ ।।

एवं प्रबोधितस्तेन वेदमालिर्महामतिः ।।
तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान् ।। ३५-५६ ।।

वेदमालिः कदाचित्तु ज्ञानलेशप्रचोदितः ।।
कोऽहं मम क्रिया केति स्वयमेव व्यक्तिंतयत् ।। ३५-५७ ।।

मम जन्म कथं जातं रूपं कीदृग्विधं मम ।।
एवं विचारणपरोः दिवानिशमतंद्रितः ।। ३५-५८ ।।

अनिश्चितमतिर्भूत्वा वेदमालिर्द्धिजोत्तमः ।।
पुनर्जानंतिमागम्य प्रणम्येदमुवाच ह ।। ३५-५९ ।।

वेदमालिरूवाच ।।
मम चित्तमतिभ्रातं गुरो ब्रह्मविदां वर ।।
कोऽहं मम क्रिया का च मम जन्म कथं वद ।। ३५-६० ।।

जानंतिरुवाच ।।
 सत्यं सत्यं महाभागं चित्तं भ्रातं सुनिश्चितम् ।।
अविद्यानिलर्य चित्तं कथं सद्भावमेष्यति ।। ३५-६१ ।।

ममेति गदितं यत्तु तदपि भ्रांतिरिष्यते ।।
अहंकारो मनोधर्म आत्मनो नहि पंडित ।। ३५-६२ ।।

पुनश्च कोऽहमित्युक्तं वेदमाले त्वया तु यत् ।।
मम जात्यादि शून्यस्य कथं नाम करोम्यहम् ।। ३५-६३ ।।

अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः ।।
नीरूपस्याप्रमेयस्य कथं नाम करोम्यहम् ।। ३५-६४ ।।

परज्योतिः स्वरूपस्य परिपूर्णाव्ययात्मनः ।।
अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ।। ३५-६५ ।।

स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः ।।
अनंतस्य क्रिया चैव कथं जन्म च कथ्यते ।। ३५-६६ ।।

ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम् ।।
परिपूर्णं परानंदं तस्मान्नान्यदिह द्विज ।। ३५-६७ ।।

तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम् ।।
ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ।। ३५-६८ ।।

एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर ।।
मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ।। ३५-६९ ।।

उपाधिरहितं ब्रह्म स्वप्रकाशं निरंजनम् ।।
अहमेवेति निश्चित्य परां शांतिमवाप्तवान् ।। ३५-७० ।।

ततश्च व्यवहारार्थं वेदमालिर्मुनीश्वरम् ।।
गुरुं प्रणम्य जानंति सदा ध्यानपरोऽभवत् ।। ३५-७१ ।।

गते बहुतिथे काले वेदमालिर्मुनीश्व ।।
वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान् ।। ३५-७२ ।।

य इमं पठतेऽध्यायं श्रृणुयाद्वा समाहितः ।।
स कर्मपाशविच्छेदं प्राप्य सौख्यमवान्पुयात् ।। ३५-७३ ।।

इति श्रीबृहन्नारादीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपण नाम पंचत्रिंशोऽध्यायः ।।