सामग्री पर जाएँ

नारदपुराणम्- पूर्वार्धः/अध्यायः ९

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


नारद उवाच ।।
शप्तः कथं वसिष्ठेन सौदासो नृपसत्तमः ।।
गङ्गाबिन्दूभिषेकेण पुनः शुद्धोऽबवत्कथम् ।। ९-१ ।।

सर्वमेतदशेषेण भ्रातर्मे वक्तुमर्हसि ।।
श्रृण्वतां वदतां चैव गङ्गाख्यानं शुभावहम् ।। ९-२ ।।

सनक उवाच ।।
सौदासः सर्वधर्मज्ञः सर्वज्ञो गुणवाञ्छुचिः ।।
बुभुजे पृथिवीं सर्वां पितृवद्रञ्जयन्प्रजाः ।। ९-३ ।।

सगेरण यथा पूर्वं महीयं सप्तसागरा ।।
रक्षिता तद्वदमुना सर्वधर्माविरोधिना ।। ९-४ ।।

पुत्रपौत्रसमायुक्तः सर्वैश्वर्यसमन्वितः ।।
त्रिंशदष्टसहस्त्राणि बुभुजे पृथिवीं युवा ।। ९-५ ।।

सौदासस्त्वेकदा राजा मृगयाभिरतिर्वनम् ।।
विवेज्ञ सबलः सम्यक् शोधितं ह्यासमन्त्रिभिः ।। ९-६ ।।

निषादैः सहितस्तत्र विनिघ्रन्मूगसंचयम् ।।
आससाद नदीं रेवां धर्मज्ञः स पिपासितः ।। ९-७ ।।

सुदासतनयस्तत्र स्नात्वा कृत्वाह्निकं मुने ।।
भुक्त्वा च मन्त्रिभिः सार्ध्दं तां निशां तत्र चावसत् ।। ९-८ ।।

ततः प्रातः समुथाय कृत्वा पौर्वाह्णिकीं क्रियाम् ।।
बभ्राम मन्त्रिसहितो नर्मदातीरजे वने ।। ९-९ ।।

वनाद्वनान्तरं गच्छन्नेक एव महीपत्तिः ।।
आकर्णकृष्टबाणः सत् कृष्णसारं समन्वगात् ।। ९-१० ।।

दूरसैन्योऽश्वमारूढः स राजानुव्रजन्मृगम् ।।
व्याघ्रद्वयं गुहासंस्थमपश्थमपश्यत्सुरते रतम् ।। ९-११ ।।

मृगपृष्टं परित्यज्य व्याघ्रयोः संमुखं ययौ ।।
धनुःसंहितबाणेन तेनासौ शरशास्त्रवित् ।। ९-१२ ।।

तां व्याघ्रीं पातयामास तीक्ष्णाग्रनतपर्वणा ।।
पतमाना तु साव्याघ्री षट्रत्रिंशद्योजनायता ।। ९-१३ ।।

तडित्वद्धोरनिर्घोषा राक्षसी विकृताभवत् ।।
पतितां स्वप्रियां वीक्ष्य द्विषन्स व्याघ्रराक्षसः ।। ९-१४ ।।

प्रतिक्रियां करिष्यामीत्युक्तवा चांतर्दधे तदा ।।
राजा तु भयसंविग्नो वनेसैन्यं समेत्य च ।। ९-१५ ।।

तद्रृत्तं कथयन्सर्वान्स्वां पुरीं स न्यवर्त्तत ।।
शङ्कमानस्तु तद्रक्षःकृत्या द्राजा सुदासजः ।। ९-१६ ।।

परितत्याज मृगयां ततः प्रभृति नारद ।।
गते बहुतिथे काले हयमेधमखं नृपः ।। ९-१७ ।।

समारेभे प्रसन्नात्मा वशिष्टाद्यमुनीश्वरैः ।।
तत्र ब्रह्मादिदेवेभ्यो हविर्दत्त्वा यथाविधि ।। ९-१८ ।।

समाप्य यज्ञनिष्क्रांतो वशिष्टः स्नातकोऽपि च ।।
अत्रान्तरे राक्षसोऽसौ नृपहिम्सितभार्यकः ।।
कर्तुं प्रतिक्रियां राज्ञे समायातोरुषान्वितः ।। ९-१९ ।।

स राक्षसस्तस्य गुरौ प्रयाते वशिष्टवेषं तु तदैव धृत्वा ।।
राजानमभ्येत्य जगाद भोक्ष्ये मांसं समिच्छाम्यहमित्युवाच ।। ९-२० ।।

भूयः समास्थाय स सूदवषं पक्त्वामिषं मानुपमस्य वादात् ।।
स्थितश्च राजापि हरि यपात्रे धृत्वा गुरोरागमनं प्रतीक्षन् ।। ९-२१ ।।

तन्मांसं हेमपात्रस्थं सौदासो विनयान्वितः ।।
समागताय गुरवे ददौ तस्मै ससादरम् ।। ९-२२ ।।

तं दृष्ट्वा चिन्तयामास गुरुः किमिति विस्मितः ।। ९-२३ ।।

अपश्यन्मानुषं मासं परमेण समाधिना ।।
अहोऽस्य राज्ञो दौःशील्यमभक्ष्यं दत्तवान्मम ।। ९-२४ ।।

इति विरमयमापन्नः प्रमन्युरभवन्मुनिः ।।
अभोऽज्यं मद्विघाताय दत्त हि पृथिवीपते ।। ९-२५ ।।

तस्मात्तवापि भवतु ह्येतदेव हि भोजनम् ।।
नृमांसं रक्षसामेव भोज्यं दत्तं मम त्वया ।। ९-२६ ।।

तद्याहि राक्षसत्वं त्वं तदाहारोचितं नृपा ।।
इति शापं ददत्यस्मिन्सौदासो भयविह्वूलः ।। ९-२७ ।।

आज्ञत्पो भवतैवेति सकंपोऽस्म व्यजिज्ञपत् ।।
भूश्च चिन्तयामास वशिष्टस्तेन नोदितः ।। ९-२८ ।।

रक्षसा वंचितं भूपं ज्ञातवान् दिव्यचक्षुषा ।।
राजापि जलमादाय वशिष्टं शप्तुमुद्यतः ।। ९-२९ ।।

समुद्यतं गुरुं शप्तं दृष्ट्वा भूयो रुपान्वितम् ।।
मदयंती प्रियातस्य प्रत्युवाचाथ सुव्रता ।। ९-३० ।।

मदयंत्युवाच ।।
भो भो क्षत्रियदायाद कोप संहर्तुमर्हसि ।।
त्वया यत्कर्म भोक्तव्यं तत्प्रात्पं नात्र संशयः ।। ९-३१ ।।

गुरु तुम्कृत्य हुंम्कृत्य यो वदेन्मृढधीर्नरः ।।
अरण्ये निर्जले देश स भवेद्बुह्यराक्षसः ।। ९-३२ ।।

जितेन्द्रिया जितक्रोधा गुरु शुश्रूषणे रताः ।।
प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः ।। ९-३३ ।।

तयोक्तो भूपतिः कोपं त्यक्त्वा भार्यां ननन्द च ।।
जलं कुत्र क्षिपामीति चिन्तयामास चात्मना ।। ९-३४ ।।

तज्जलं यत्र संसिक्तं तद्भवेद्भस्म निश्चितम् ।।
इति मत्वा जलं तत्तु पादयोर्न्यक्षिपत्स्वयम् ।। ९-३५ ।।

तज्जलस्पर्शमात्रेण पादौ कल्माषतां गतौ ।।
कल्माषपाद इत्येवं ततः प्रभृति विस्तृतः ।। ९-३६ ।।

कल्माषपादो मतिमान् प्रिययाश्चासितस्तदा ।।
मनसा सोऽतिभीतस्तु ववन्दे चरणं गुरोः ।। ९-३७ ।।

उवाच च प्रपन्नस्तं प्राञ्जलिर्नयकोविदः ।।
क्षमस्व भगवन्सर्वं नापराधः कृतो मया ।। ९-३८ ।।

तच्छुत्वोवाच भूपालं मुनिर्निःश्वस्य दुःखितः ।।
आत्मानं गर्हयामास ह्यविवेकपरायणम् ।। ९-३९ ।।

अविवेको हि सर्वेषामापदां परमं पदम् ।।
विवेकरहितो लोके पशुरेव न संशयः ।। ९-४० ।।

राज्ञा त्वजानता नूनमेतत्कर्मोचितं कृतम् ।।
विवेकरहितोऽज्ञोऽहं यतः पापं समाचरेत् ।। ९-४१ ।।

विवेकनियतो याति यो वा को वापि निर्वृत्तिम् ।।
इत्युक्तवा चात्मनात्मानं प्रत्युवाच मुनिर्नृपम् ।।
नात्यन्तिंकं भवेदेतद्दादशाब्दं भविष्यति ।। ९-४३ ।।

गङ्गाबिन्दूभिषिक्तस्तु त्यक्त्त्वा वै राक्षसीं तनुम् ।।
पूर्वरुपं त्वमापन्नो भोक्ष्यसे मेदिनीमिमाम् ।। ९-४४ ।।

तद्बिंदुसेकसंभूतज्ञानेन गतकल्मषः ।।
हरिसेवापरो भूत्वा परां शान्तिं गमिष्यसि ।। ९-४५ ।।शुभावहम्

इत्युक्त्वाथर्वविद्भूपं वशिष्टः स्वाश्रमं ययौ ।।
राजापि दुःखसंपन्नो राक्षसीं तानुमाश्रितः ।। ९-४६ ।।

क्षुत्पपासाविशेषार्तो नित्यं क्रोधपरायणः ।।
कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने ।। ९-४७ ।।

मृगांश्च विविधांस्तत्र मानुषांश्च सरीसृपान् ।।
विहङ्गमान्प्लवङ्गांश्च प्रशस्तांस्तानभक्षयत् ।। ९-४८ ।।

अस्थिभिर्बहुभिर्भूयः पीतरक्तकलेवरैः ।।
रक्तान्तप्रेतकेशैशअच चित्रासीद्भूर्भयंकरी ।। ९-४९ ।।

ऋतुत्रये स पृथिवीं शतयो जनविस्तृताम् ।।
कृत्वातिदुःखितां पश्चाद्वनान्तरमुपागमत् ।। ९-५० ।।

तत्रापि कृतवान्नित्यं नरमांसाशनं सदा ।।
जगाम नर्मदातीरं मुनिसिद्धनिषेवितम् ।। ९-५१ ।।

विचरन्नर्मदातीरे सर्वलोकभयंकरः ।।
अपश्यत्कंचन मुनिं रमन्तं प्रियया सह ।। ९-५२ ।।

क्षुधानलेन संतत्पस्तं मुनिं समुपाद्रवत् ।।
जाग्राह चातिवेगेन व्याधो मृगशिशं यथा ।। ९-५३ ।।

ब्राह्मणी स्वपतिं वीक्ष्य निशाचरकरस्थितम् ।।
शिरस्यञ्जलिमाधाय प्रोवाच भयविह्वला ।। ९-५४ ।।

ब्राह्मण्युवाच ।।
भो भो नृपतिशार्दूल त्राहि मां भयविह्वलाम् ।।
प्राणप्रिय प्रदानेन कुरु पूर्णं मनोरथम् ।। ९-५५ ।।

नाम्ना मित्रसहस्त्वं हि सूर्यवंशसमुद्भवः ।।
न राक्षसस्ततोऽनाथां पाहि मां विजने वने ।। ९-५६ ।।

या नारी भर्त्तृरहिता जीवत्यपि मृतोपमा ।।
तथापि बालवैधव्यं किं वक्ष्याम्यरिमर्दन ।। ९-५७ ।।

न मातापितरौ जाने नापि बंधुं च कंचन ।।
पतिरेव परो बंधुः परमं जीवनं मम ।। ९-५८ ।।

भवान्येत्त्यखिलान्धर्मान्योषितां वर्त्तनं यथा ।।
त्रायस्व बन्धुरहितां बालापत्यां जनेश्वर ।। ९-५९ ।।

कथं जीवामि पत्यास्मिन्हीना हि विजने वने ।।
दुहिताहं भगवतस्त्राहि मां पतिदानतः ।। ९-६० ।।

प्रणदानात्परं दानं न भूतं न भविष्यति ।।
वदन्तीति महाप्राज्ञाः प्राणदानं कुरुष्व मे ।। ९-६१ ।।

इत्युक्तावा सा पपातास्य राक्षसस्य पदाग्रतः ।।
एवं संप्रार्थ्यमानोऽपि ब्राह्मण्या राक्षसो द्विजम् ।। ९-६२ ।।

अभक्षयकृष्णसारशिशुं व्याघ्रो यथा बलात् ।। ९-६२ ।।
ततो विलप्य बहुधा तस्य पत्नी पतिव्रता ।।
पूर्वशापहतं भूपमशपत्क्रोधिता पुनः ।। ९-६३ ।।

पतिं मे सुरतासक्तं यस्माद्धिंसितवान्बलात् ।।
तस्मात्स्त्रीसङ्गमं प्रात्पस्त्वमपि प्राप्स्यसे मृतिम् ।। ९-६४ ।।

शप्त्वैवं ब्राह्मणी क्रुद्धा पुनः शापान्तरं ददौ ।।
राक्षसत्वं ध्रुवं तेऽस्तु मत्पतिर्भक्षितो यतः ।। ९-६५ ।।

सोऽपि शापद्वयं श्रुत्वा तया दत्तं निशाचरः ।।
प्रमन्युः प्राहि विसृजन्कोपादङ्गारसंचयम् ।। ९-६६ ।।

दुष्टे कस्मात्प्रदत्तं मेवृथा शापद्वयं त्वया ।।
एकस्यैवापराधस्य शापस्त्वेको ममोचितः ।। ९-६७ ।।

यस्मात्क्षिपसि दुष्टाग्येमयि शापन्तरं ततः ।।
पिशाचयोनिमद्यैव याहि पुत्रसमन्विता ।। ९-६८ ।।

तेनैवं ब्रह्मणी शत्पा पिशाचत्वं तदा गता ।।
क्षुधार्ता सुस्वरं भीमारुरोदापत्यसंयुता ।। ९-६९ ।।

राक्षसश्च पिशाची च क्रोशन्तौ निर्जने वने ।।
जग्मतुर्नर्मदातीरे वनं राक्षससेवितम् ।। ९-७० ।।

औदासीन्यं गुरौ कृत्वा राक्षसीं तनुमाश्रितः ।।
तत्रास्ते दुःखसंतत्पः कश्चिल्लोकविरोधकृत् ।। ९-७१ ।।

राक्षसं च पिशाचीं च दृष्ट्वा रववटमागतौ ।।
उवाच क्रोधबहुलो वटस्थो ब्रह्मराक्षसः ।। ९-७२ ।।

किमर्थमागतौ भीमौ युवां मत्स्थानमीप्सितम् ।।
ईदृशौ केन पापेन जातौ मे ब्रुवतां ध्रुवम् ।। ९-७३ ।।

सौदासस्तद्वचः श्रुत्वातया यच्चात्मना कृतम् ।।
सर्वं निवेदयित्वास्मै पश्चादेतदुवाच ह ।। ९-७४ ।।

सौदास उवाच ।।
कस्त्वं वद महाभाग त्वया वै किं कृतं पुरा ।।
सख्युर्ममाति स्नेहेन तत्सर्वं वक्तुमर्हसि ।। ९-७५ ।।

करोति वञ्चनं मित्रे यो वा को वापि दुष्टधीः ।।
स हि पापपालं भुंक्ते यातनास्तु युगायुतम् ।। ९-७६ ।।

जन्तूनां सर्वदुःखानि क्षीयन्ते मित्रदर्शनात् ।।
तस्मान्मित्रेषु मतिमान्न कुर्याद्वंचनं कदा ।। ९-७७ ।।

कल्माषपादेनेत्युक्तो वटस्थो ब्रह्मराक्षसः ।।
उवाच प्रीतिमापन्नो धर्मवाक्यानि नारद ।। ९-७८ ।।

ब्रह्मराक्षस उवाच ।।
।। अहमासं पुरा विप्रो मागधो वेदपारगः ।।
सोमदत्त इति ख्यातो नाम्ना धर्मपरायणः ।। ९-७९ ।।

प्रमत्तोऽहं महाभाग विद्यया वयसा धनैः ।।
औदासीन्यं गुरोः कृत्वा प्रात्पवानीदृशीं गतिम् ।। ९-८० ।।

नलभेऽहं सुखं किं चिज्जिताहारोऽतिदुःखितः ।।
मया तु भक्षिता विप्राः शतशोऽथ सहस्रशः ।। ९-८१ ।।

क्षुत्पिपासापरो नित्यमन्तस्तापेन पीडितः ।।
जगत्रासकरो नित्यं मांसाशनपरायणः ।। ९-८२ ।।

गुर्ववज्ञा मनुष्याणां राक्षसत्वप्रदायिनी ।।
मयानुभूतमेतद्धि ततः श्रीमान्न चाचरेत् ।। ९-८३ ।।

कल्माषपाद उवाच ।।
।। गुरुस्तु कीदृशः प्रोक्तः कस्त्वयाश्लाघितः पुरा ।।
तद्वदस्व सरवे सर्वं परं कौतूहलं हि मे ।। ९-८४ ।।

ब्रह्मराक्षस उवाच ।।
।। गुरवः सन्ति बहवः पूज्या वन्द्याश्च सादरम् ।।
यातानहं कथयिष्यामि श्रृणुष्वैकमनाः सरवे ।। ९-८५ ।।

अध्यापकश्च वेदानां वेदार्थयुतिबोधकः ।।
शास्त्रवक्ता धर्मवक्ता नीतिशास्त्रोपदेशकः ।। ९-८६ ।।

मन्त्रोपदेशव्याख्याख्याकृद्वेदसदंहहृत्तथा ।।
व्रतोपदेशकश्चैव भयत्रातान्नदो हि च ।। ९-८७ ।।

श्वशुरो मातुलश्चैव ज्येष्ठभ्राता पिता तथा ।।
उपनेता निषेक्ता च संस्कर्त्ता मित्रसत्तम ।। ९-८८ ।।

एते हि गुरवः प्रोक्ताः पूज्या वन्द्यश्च सादरम् ।। ९-८९ ।।

कल्माषपाद उवाच ।।
गुरवो बहवः प्रोक्ता एतेषां कतमो वरः ।।
तुल्याः सर्वेऽप्युत सरवे तद्यथावद्धि ब्रूहि मे ।। ९-९० ।।

ब्रह्मराक्षस उवाच ।।
।। साधु साधु महाप्राज्ञ यत्पृष्टं तद्वदामि ते ।।
गुरुमाहात्म्यकथनं श्रवणं चानुमोदनम् ।। ९-९१ ।।

सर्वेषां श्रेय आधत्ते तस्माद्वक्ष्यामि सांप्रतम् ।।
एते समानपूजार्हाः सर्वदा नात्र संशयः ।। ९-९२ ।।

तथापि श्रुणु वक्ष्यामि शास्त्राणां सारनिश्चयम् ।।
अध्यापकाश्च वेदानां मन्त्रव्याख्याकृतस्तथा ।। ९-९३ ।।

पिता च धर्मवक्ता च विशेषगुरवः स्मृताः
एतेषामपि भूपाल श्रृणुष्व प्रवरं गुरुम् ।। ।। ९-९४ ।।

सर्वशास्त्रार्थतत्वज्ञैर्भाषितं प्रवदामि ते ।।
यः पुराणानि वदति धर्मयुक्तानि पणडितः ।। ९-९५ ।।

संसारपाशविच्छेदकरणानि स उत्तमः ।।
देवपूजार्हकर्माणि देवतापूजने फलम् ।। ९-९६ ।।

जायते च पुराणेभ्यस्तस्मात्तानीह देवताः ।।
सर्ववेदार्थसाराणि पुराणानीति भूपते ।। ९-९७ ।।

वदन्ति मुनयश्चैव तदूक्ता परमो गुरुः ।।
यः संसारार्णत्वं तर्त्तुमुद्योगं कुरुते नरः ।। ९-९८ ।।

श्रुणुयात्स पुराणानि इति शास्त्रविभागकृत् ।।
प्रोक्तवान्सर्वधर्माश्च पुराणेषु महीपते ।। ९-९९ ।।

तर्कस्तु वादहेतुः स्यान्नीतिस्त्वैहिकसाधनम् ।।
पुराणानि महाबुद्धे इहामुत्र सुखाय हि ।। ९-१०० ।।

यः श्रृणोति पुराणानि सततं भक्तिसंयुतः ।।
तस्य स्यान्निर्मला बुद्धिर्भूयो धर्मपरायणः ।। ९-१ ।।

पुराणश्रवणाद्भक्तिर्जायते श्रीपतौ शुभा ।।
विष्णुभक्तनृणां भूप धर्मे बुद्धिः प्रवर्त्तते ।। ९-२ ।।

धर्मात्पापानि नश्यन्ति ज्ञानं शुद्धं च जायते ।।
धर्मार्थकाममोक्षाणां ये फलान्यभिलिप्सवः ।। ९-३ ।।

श्रुणुयुस्ते पुराणानि प्राहुरित्थं पुराविदः ।।
अहं तु गौतममुनेः सर्वज्ञाद्ब्रह्यवादिनः ।। ९-४ ।।

श्रुतवान्सर्वधर्मार्थ गङ्गातीरे मनोरमे ।।
कदाचित्परमेशस्य पूजां कर्त्तुमहं गतः ।। ९-५ ।।

उपस्थितायापि तस्मै प्रणामं न ह्यकारिषम् ।।
स तु शान्तो महाबुद्धिर्गौतमस्तेजसां निधिः ।। ९-६ ।।

मन्त्रोदितानि कर्मणि करोतीतिमुदं ययौ ।।
यस्त्वर्चितो मया देवः शिवः सर्वजगद्गुरुः ।। ९-७ ।।

गुर्ववज्ञा कृतायेन राक्षसंत्वे नियुक्तवान् ।।
ज्ञानतोऽज्ञानतो वापि योऽवज्ञां कुरुते गुरोः ।। ९-८ ।।

तस्यैवाशु प्रणश्यन्ति धीविद्यार्थात्मजक्रियाः ।।
शुश्रूषां कुरुते यस्तु गुरुणां सादरं नरः ।। ९-९ ।।

तस्य संपद्भवेद्भूप इति प्राहुर्विपश्चितः ।।
तेन शापेन दग्धोऽहमन्तश्चैव क्षधाग्निना ।। ९-१० ।।

मोक्षं कदा प्रयास्यामि न जाने नृपसत्तम ।।
एवं वदति विप्रेन्द्र वटस्थेऽस्मिन्निशाचरे ।। ९-११ ।।

धर्मशास्त्रप्रसंगेन तयोः पापं क्षयं गतम् ।।
एतस्मिन्नन्तरे प्राप्तः कश्चिद्विप्रोऽतिधार्मिकः ।। ९-१२ ।।

कलिङ्गदेशसम्भूतो नान्म्रा गर्ग इति स्मृतः ।।
वहन्गङ्गाजलं स्कंधे स्तुवन् विश्वेश्वरं प्रभुम् ।। ९-१३ ।।

गायन्नामानि तस्यैव मुदा हृष्टतनू रुहः ।।
तमागतं मुनिं दृष्ट्वा पिशाचीराक्षसौ च तौ ।। ९-१४ ।।

प्राप्तं नः पारणेत्युक्त्वा प्राद्ववन्नूर्ध्वबाहवः ।।
तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थिताः ।।
अशक्तास्तं धर्षयितुमिदमूचुश्च राक्षसाः ।। ९-१५ ।।

अहो विप्र महाभाग नमस्तुभ्यं महात्मने ।।
नामकीर्तनमाहात्म्याद्राक्षसा दूरगावयम् ।। ९-१६ ।।

अस्माभिर्भक्षिताः पूर्वं विप्राः कोटिसहस्रशः ।।
नामप्रावरणं विप्र रक्षति त्वां महाभयात् ।। ९-१७ ।।

नामश्रवणमात्रेण राक्षसा अपि भो वयम् ।।
परां शान्तिं समापन्ना महिम्ना ह्यच्युतस्य वै ।। ९-१८ ।।

सर्वथा त्वं महाभाग रागादिरुहितोह्यसि ।।
गंगाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात् ।। ८-१९ ।।

हरिसे वापरो भूत्वा यश्चात्मानं तु तारयेत् ।।
स तारयेज्जगत्सर्वमिति शंसन्ति सूरयः ।। ९-२० ।।

अवहाय हरेर्नाम घोरसंसारभेषजम् ।।
केनोपायेन लभ्येत मुक्तिः सर्वत्र दुर्लभा ।। ९-२१ ।।

लोहोडुपेन प्रतरन्निमजत्युदके यथा ।।
ततैवाकृतपुण्यास्तु तारयन्ति कथं परान् ।। ९-२२ ।।

अहो चरित्रं महतां सर्वलोकसुखा वहम् ।।
यथा हि सर्वलोकानामानन्दाय कलानिधिः ।। ९-२३ ।।

पृथिव्यां यानि तीर्थानि पवित्राणि द्विजोत्तम् ।।
तानि सर्वाणि गङ्गायाः कणस्यापि समानि न ।। ९-२४ ।।

तुलसीदलप्रदलसंम्मिश्रमपि सर्षपमात्रकम् ।।
गङ्गाजलं पुनात्येव कुलानामेकविंशतिम् ।। ९-२५ ।।

तस्माद्विप्र महाभाग सर्वशास्त्रार्थकोविद ।।
गङ्गाजलप्रदानेन पाह्मस्मान्पापकर्मिणः ।। ९-२६ ।।

इत्याख्यातं राक्षसैस्तैर्गङ्गामाहात्म्यमुत्तमम् ।।
निशम्य विस्मया विष्टो बभूव द्विजसतमः ।। ९-२७ ।।

एषामपीद्दशी भक्तिर्गङ्गायां लोकमातरि ।।
किमु ज्ञानप्रभावाणां महतां पुण्यशालिनाम् ।। ९-२८ ।।

अथासौ मनसा धर्मं विनिश्चित्य द्विजोत्तमः ।।
सर्वपूतहितो भक्तः प्राप्नोतीति परं पदम् ।। ९-२९ ।।

ततो विप्रः कृपाविष्टो गङ्गाजलप्रनुत्तममम् ।।
तुलसीदलसंमिश्रं तेषु रक्षःस्वसेचयत् ।। ९-३० ।।

राक्षसास्तेन सिक्तास्तु सर्षपोपमबिंदुना ।।
विमृज्य राक्षसं भावमभवन्देवतोपमाः ।। ९-३१ ।।

ब्राह्मणी पुत्र सम्यक्ते जग्मुर्हस्तथैव च ।।
कोटिसूर्यप्रतीकाशा बभूवुर्विवुधर्पभाः ।। ९-३२ ।।

शंखचक्रगदाचिह्ना हरिसारुप्यमागताः ।।
स्तुवंतो ब्राह्मणं सम्यक्ते जग्मुर्हरिमन्दिरम् ।। ९-३३ ।।

राजा कल्माषपादस्तु निजरुपं समास्थितः ।।
जगाम महतीं चिन्तां दृष्ट्वा तान्मुक्तिगानधान् ।। ९-३४ ।।

तस्मिन् राज्ञि सुदुःखार्ते गूढरुपा सरस्वती ।।
धर्ममूलं महावाक्यं बभाषेऽगाधया गिरा ।। ९-३५ ।।

भो भो राजन्महाभाग न दुःखं गन्तुमर्हसि ।।
राजस्तवापि भोगान्ते महच्छ्रेयो भविष्यति ।। ९-३६ ।।

सत्कर्मधूतपापा ये हरिभक्तिपरायणाः ।।
प्रयान्ति नात्र संदेहस्तद्विष्णोः परमं पदम् ।। ९-३७ ।।

सर्वभूतदयायुक्ता धर्ममार्गप्रवर्तिनः ।।
प्रयान्ति परमं स्थानं गुरुपूजापरायणाः ।। ९-३८ ।।

इतीरितं समाकर्ण्य भारत्या नृपसतमः ।।
मनसा निर्वृत्तिं प्राप्यसस्मार च गुरोर्वचः ।। ९-३९ ।।

स्तुवन्गुरुं च तं विग्नं हरिं चैवातिहर्षितः ।।
पीर्ववृत्तं च विप्राय सर्वं तस्मै न्यवेदयत् ।। ९-४० ।।

ततो नृपस्तु कालिंगं प्रणम्य विधिर्वमुने ।।
नामानि व्याहरन्विष्णोः सद्यो वाराणसीं ययौ ।। ९-४१ ।।

षण्मासं तत्र गङ्गायां स्नात्वा दृष्ट्वा सदाशिवम् ।।
ब्राह्मणीदत्तश पात्तु मुक्तो मित्रसहोऽभवत् ।। ९-४२ ।।

ततस्तु स्वपुरीं प्राप्तो वसिष्ठेन महात्मना ।।
अभिषिक्तो मुनुश्रेष्ट स्वकं राज्यमपालयत् ।। ९-४३ ।।

पालयित्वा महीं कृत्स्त्रां भुक्त्वा भोगान्स्त्रियं विना ।।
वशिष्टात्प्राप्य सन्तानं गतो मोक्षं नृपोत्तमः ।। ९-४४ ।।

नैतच्चित्रं द्विजश्रेष्ट विष्णोर्वाराणसीगुणान् ।।
गृणञ्छृण्वन्स्मरन्गङ्गां पीत्वा मुक्तो भवेन्नरः ।। ९-४५ ।।

तस्मान्माहिम्ने विप्रेन्द्र गङ्गायाः शक्यते नहि ।।
पारं गन्तुं सुराधीशैर्ब्रह्मविष्णुशिवरपि ।। ९-४६ ।।

यन्नामस्मरणादेव महापातककोटिभिः ।।
विमुक्तो ब्रह्मसदनं नरो याति न संशयः ।। ९-४७ ।।

गङ्गा गङ्गेति यन्नाम सकृदप्युच्यते यदा ।।
तदैव पापनिमुक्तो ब्रह्मलोके महीयते ।। ९-४८ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गा माहात्म्ये नवमोऽध्यायः ।। ९।।