नारदपुराणम्- पूर्वार्धः/अध्यायः ८८
सूत उवाच ॥
श्रुत्वेत्थं यजनं विप्रा मन्त्रध्यानपुरःसरम् ॥
सर्वासामवताराणां नारदो देवदर्शनः ॥ ८८-१ ॥
सर्वाद्याया जगन्मातुः श्रीराधायाः समर्चनम् ॥
अवतारकलानां हि पप्रच्छ विनयान्वितः ॥ ८८-२ ॥
नारद उवाच ॥
धन्योऽस्मिकृतकृत्योऽस्मि जातोऽहं त्वत्प्रसादतः ॥
पज्जगन्मातृमंत्राणां वैभवं श्रुतवान्मुने ॥ ८८-३ ॥
यथा लक्ष्मीमुखानां तु अवताराः प्रकीर्तिताः ॥
तथा राधावताराणां श्रोतुमिच्छामि वैभवम् ॥ ८८-४ ॥
यत्संख्याकाश्च यद्रूपा यत्प्रभावा विदांवर ॥
राधावतारास्तान्सत्यं कीर्तयाशेषसिद्धिदान् ॥ ८८-५ ॥
एतच्छुत्वा वचस्तस्य नारदस्य विधेः सुतः ॥
सनत्कुमारः प्रोवाच ध्यात्वा राधापदांबुजम् ॥ ८८-६ ॥
सनत्कुमार उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥
राधावतारचरितं भजतामिष्टिसिद्धिदम् ॥ ८८-७ ॥
चन्द्रावली च ललिता द्वे सख्यौ सुप्रिये सदा ॥
मालावतीमुखाष्टानां चन्द्रावल्यधिपास्मृता ॥ ८८-८ ॥
कलावतीमुखाष्टानामीश्वरी ललिता मता ॥
राधाचरणपूजायामुक्ता मालावतीमुखाः ॥ ८८-९ ॥
ललिताधीश्वरीणां तु नामानि श्रृणु सांप्रतम् ॥
कलावती मधुमती विशाखा श्यामलाभिधा ॥ ८८-१० ॥
शैब्या वृन्दा श्रीधराख्या सर्वास्तुत्तुल्यविग्रहाः ॥
सुशीलाप्रमुखा श्चान्याः सख्यो द्वात्रिंशदीरिताः ॥ ८८-११ ॥
ताः श्रृणुष्व महाभाग नामतः प्रवदामि ते ॥
सुशीलां शशिलेखा च यमुना माधवी रतिः ॥ ८८-१२ ॥
कदम्बमाला कुन्ती च जाह्नवी च स्वयंप्रभा ॥
चन्द्रानना पद्ममुखी सावित्री च सुधामुखी ॥ ८८-१३ ॥
शुभा पद्मा पारिजाता गौरिणी सर्वमंगला ॥
कालिका कमला दुर्गा विरजा भारती सुरा ॥ ८८-१४ ॥
गंगा मधुमती चैव सुन्दरी चन्दना सती ॥
अपर्णा मनसानन्दा द्वात्रिंशद्राधिकाप्रियाः ॥ ८८-१५ ॥
कदाचिद्छलिला देवी पुंरूपा कृष्णविग्रहा ॥
ससर्ज षोडशकलास्ताः सर्वास्तत्समप्रभाः ॥ ८८-१६ ॥
तासा मन्त्रं तथा ध्यानं यन्त्रार्चादिक्रमं तथा ॥
वर्णये सर्वतंत्रेषु रहस्यं मुनिसत्तम ॥ ८८-१७ ॥
वातो मरुच्चाग्रिवह्नी धराक्ष्मे जलचारिणी ॥
विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः ॥ ८८-१८ ॥
प्राणस्तेजः स्थिरा वायुर्वायुश्चापि प्रभा तथा ॥
ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ ॥ ८८-१९ ॥
व्योमरयः शिखी गोत्रा तोयं शून्यजवीद्युतिः ॥
भूमी रसो नमो व्याप्तं दाहश्चापि रसांबु च ॥ ८८-२० ॥
वियत्स्पर्शश्च हृद्धंसहलाग्रासो हलात्मिकाः ॥
चन्द्रावली च ललिता हंसेला नायके मते ॥ ८८-२१ ॥
ग्रासस्थिता स्वयं राधा स्वयं शक्तिस्वरूपिणी ॥
शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः ॥ ८८-२२ ॥
वाङ्मयं निखिलं व्याप्तमाभिरेव मुनीश्वर ॥
ललिताप्रमुखाणां तु षोडशीत्वमुपागता ॥ ८८-२३ ॥
श्रीराधा सुन्दरी देवी तांत्रिकैः परिकीर्त्यते ॥
कुरुकुल्ला च वाराही चन्द्रालिललिते उभे ॥ ८८-२४ ॥
संभूते मन्त्रवर्गं तेऽभिधास्येऽहं यथातथम् ॥
हृत्प्राणेलाहंसदावह्निस्वैर्ललितेरिता ॥ ८८-२५ ॥
त्रिविधा हंसभेदेव श्रृणु तां च यथाक्रमम् ॥
हंसाद्ययाऽद्या मध्या स्यादादिमध्यस्थहंसया ॥ ८८-२६ ॥
तृतीया प्रकृतिः सैव तुर्या तैरंत्यमायया ॥
आसु तुर्याभवन्मुक्त्यै तिस्रोऽन्याः स्युश्चसंपदे ॥ ८८-२७ ॥
इति त्रिपुरसुंदर्या विद्या सरुमतसमीरिता ॥
दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम् ॥ ८८-२८ ॥
प्राणो रसाशक्तियुतः कामेश्वर्यक्षरं महत् ॥
शून्यमंबुरसावह्निस्वयोगान्मोहनीमनुः ॥ ८८-२९ ॥
व्याप्तं रसाक्ष्मास्वयुतं विमलाबीजमीरितम् ॥
ज्यानभोदाहवह्निस्वयोगैः स्यादरुणामनुः ॥ ८८-३० ॥
जयिन्यास्तु समुद्दिष्टः सर्वत्र जयदायकः ॥
कं नभोदाहसहितं व्याप्तक्ष्मास्वयुतं मनुः ॥ ८८-३१ ॥
सर्वेश्वर्याः समाख्यातः सर्वसिद्धिकरः परः ॥
ग्रासो नभोदाहवह्निस्वैर्युक्तः कौलिनीमनुः ॥ ८८-३२ ॥
एतैर्मनुभिरष्टाभिः शक्तिभिर्वर्गसंयुक्तैः ॥
वाग्देवतांतैर्न्यासः स्याद्येन देव्यात्मको भवेत् ॥ ८८-३३ ॥
रंध्रे भाले तथाज्ञायां गले हृदि तथा न्यसेत् ॥
नाभावाधारके पादद्वये मूलाग्रकावधि ॥ ८८-३४ ॥
षड्दीर्घाढ्येन बीजेन कुर्याश्चैव षडंगकम् ॥
लोहितां ललितां बाणचापपाशसृणीः करैः ॥ ८८-३५ ॥
दधानां कामराजांके यन्त्रीतां मुदुतां स्मरेत् ॥
मध्यस्थदेवी त्वेकैव षोडशाकारतः स्थाता ॥ ८८-३६ ॥
यतस्तस्मात्तनौ तस्यास्त्वन्याः पंचदशार्चयेत् ॥
ऋषिः शिवश्छंद उक्ता देवता ललितादिकाः ॥ ८८-३७ ॥
सर्वासामपि नित्यानामावृतीर्नामसंचये ॥
पटले तु प्रयोगांश्च वक्ष्याम्यग्रे सविस्तरम् ॥ ८८-३८ ॥
अथ षोडशनित्यासु द्वितीया या समीरिता ॥
कामेश्वरीति तां सर्वकामदां श्रृणु नारद ॥ ८८-३९ ॥
शुचिः स्वेन युतस्त्वाद्यो ललिता स्याद्द्वितीयकः ॥
शून्यमग्नियुतं पश्चाद्रयोव्याप्तेन संयुतम् ॥ ८८-४० ॥
प्राणो रसाग्निसहितः शून्ययुग्मं चरान्वितम् ॥
नभोगोत्रा पुनश्चैषां दाहेन समयोजिता ॥ ८८-४१ ॥
अंबु स्याच्चरसंयुक्तं नवशक्तियुतं च हृत् ॥
एषा कामेश्वरी नित्या कामदैकादशाक्षरी ॥ ८८-४२ ॥
मूलविद्याक्षरैरेव कुर्यादंगानि षट् क्रमात् ॥
एकेन हृदयं शीर्षं तावताथो द्वयं द्वयात् ॥ ८८-४३ ॥
चतुर्भिर्नयनं तद्वदस्त्रमेकेन कीर्तितम् ॥
दृक्श्रोत्रनासाद्वितये जिह्वाहृन्नाभिगुह्यके ॥ ८८-४४ ॥
व्यापकत्वेन सर्वांगे मूर्द्धादिप्रपदावधि ॥
न्यसेद्विद्याक्षराण्येषु स्थानेषु तदनंतरम् ॥ ८८-४५ ॥
समस्तेन व्यापकं तु कुर्यादुक्तक्रमेण तु ॥
अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम् ॥ ८८-४६ ॥
येन देवी सुप्रसन्ना ददातीष्टमयत्नतः ॥
बालार्ककोटिसंकाशां माणिक्यमुकुटोज्ज्वलाम् ॥ ८८-४७ ॥
हारग्रैवेयकांचीभिरूर्मिकानूपुरादिभिः ॥
मंडितां रक्तवसनां रत्नाभरणशोभिताम् ॥ ८८-४८ ॥
षड्भुजां त्रीक्षणामिंदुकलाकलितमौलिकाम् ॥
पञ्चाष्टषोडशद्वंद्वषट्कोणचतुरस्रगाम् ॥ ८८-४९ ॥
मंदस्मितलसद्वक्त्रां दयामंथरवीक्षणाम् ॥
पाशांकुशौ च पुंड्रेक्षुचापं पुष्पशिलीमुखम् ॥ ८८-५० ॥
रत्नपात्रं सीधुपूर्णं वरदं बिभ्रतीं करैः ॥
ततः प्रयोगान्कुर्वीत सिद्धे मत्रे तु साधकः ॥ ८८-५१ ॥
तृतीयामथ वक्ष्यामि नाम्ना तु भगमालिनी ॥
कामेश्वर्यादिरादिः स्याद्रसश्चापस्थिरारसः ॥ ८८-५२ ॥
धरायुक्सचरा पश्चात्स्थिरा पश्चाद्रसः स्मृतः ॥
स्थिराशून्येऽग्निसंयुक्ते रसः स्यात्तदनंतरम् ॥ ८८-५३ ॥
स्थिरा भूसहिता गोत्रा सदाहोऽग्निरसः स्थिरा ॥
नभश्च मरुता युक्तं रसवर्णसमन्वितम् ॥ ८८-५४ ॥
ततो रसः स्थिरा पश्चान्मरुता सह योजिता ॥
अंबहंसचरोऽथिक्तो रसोऽथ स्यात्स्थिरा पुनः ॥ ८८-५५ ॥
स्थिराधरान्विता हंसो व्याप्तेन च चरेण च ॥
रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक् ॥ ८८-५६ ॥
रसः स्थिरा ततः साग्निशून्यं तवियुतो मरुत् ॥
रयः शून्यं चाग्नियुतं हृदाहंसाच्च तत्परम् ॥ ८८-५७ ॥
रसः स्थिरांबु च वियत्स्वयुतं प्राण एव च ॥
दाहोऽग्रियुग्रसस्तस्मास्थिराक्ष्मा दाहसंयुता ॥
सचरः स्याज्जवीपूर्वविद्या तर्तीयतः क्रमात् ॥ ८८-५८ ॥
चतुष्टयमथार्णानां रसस्तदनु च स्थिरा ॥
हृदंबुयुक् क्ष्मया दाहः सचरः स्याज्जवी च हृत् ॥ ८८-५९ ॥
दाहोंऽबुमरुता युक्तो व्योम्नि साग्निरसस्तुतः ॥
स्थिरा तु मरुता युक्ता शून्यं साग्निनभश्चरौ ॥ ८८-६० ॥
हंसो व्याप्तमरुद्युक्तः शून्यं व्याप्तमतोंऽबु च ॥
दाहो गोत्राचरयुता तथा दाहस्तथा रयः ॥ ८८-६१ ॥
हृद्धरासहितं दाहरयौ चरसमन्वितौ ॥
रसः स्थिरा ततः प्राणो रसाग्निसहितो भवेत् ॥ ८८-६२ ॥
शून्ययुग्मं चरयुतं ततः पूर्वमतः परम् ॥
शून्ययुग्मं च गोत्रा स्याद्वाहयुक्तांबुना चरः ॥ ८८-६३ ॥
प्राणो रसा चरयुतो गोत्रव्यसिमतः परम् ॥
गोत्रादाहमरुद्युक्ता त्वंबुन्यासमतो भवेत् ॥ ८८-६४ ॥
युक्तोनांभश्च भूयुक्तं वाश्चरेण समन्वितम् ॥
ग्रासो धरायुतः पश्चाद्रसः शक्त्या समन्वितः ॥ ८८-६५ ॥
ग्रासो भूसहितो विप्र रसो व्याप्तं ततश्च हृत् ॥
दाहोनांबु च हृत्पश्चाद्रयेंऽबुमरुदन्वितः ॥ ८८-६६ ॥
शून्यं च केवलं चैव रसश्च सचरस्थिरा ॥
वियदंबुयुतं दाहस्त्वग्नियुक्सयुतः शुचिः ॥ ८८-६७ ॥
भूमी रसाक्ष्मास्वयुता पंचैकांतरिताः स्थिराः ॥
तदंतरित बीजानि स्वसंयुक्तानि पंच वै ॥ ८८-६८ ॥
तानि क्रमाज्ज्यासचरो रसो भूश्च नभोयुता ॥
हंसश्चरयुतो द्विः स्यात्ततः प्राणो रसाग्नियुक् ॥ ८८-६९ ॥
शून्ययुग्मं चरयुतं हृद्दाहोंबुमरुद्युतः ॥
व्योमाग्निसहितं पश्चाद्रसश्च मरुता स्थिरा ॥ ८८-७० ॥
शून्यं साग्निनभश्चैव चरेण सहितं तथा ॥
अंबु पश्चाद्वियत्तस्मान्नभश्च मरुदन्वितम् ॥ ८८-७१ ॥
शून्यं व्याप्तं च दद्युक्तं रयदाहस्ववह्निभिः ॥
हंसः सदाहोंबगुरसा चरस्वैः संयुतो भवेत् ॥ ८८-७२ ॥
हंसः सदाहवह्निस्वैर्युक्तमंत्यमुदीरितम् ॥
सप्तत्रिंशच्छतार्णैः स्यान्नित्या सौभागमालिनी ॥ ८८-७३ ॥
अंगानि मंत्रवर्णैः स्युराद्येन हृदुदीरितम् ॥
ततश्चतृर्भिः शीर्षं स्याच्छिखा त्रिभिरुदीरिता ॥ ८८-७४ ॥
गुणवेदाक्षरैः शेषाण्यंगानि षडिति क्रमात् ॥
अरुणामरुणाकल्पां सुंदरीं सुस्मिताननाम् ॥ ८८-७५ ॥
त्रिनेत्रां बाहुभिः षड्भिरुपेतां कमलासनाम् ॥
कह्लारपाशपुंड्रेक्षुकोदंडान्वामबाहुभिः ॥ ८८-७६ ॥
दधानां दक्षिणैः पद्ममंकुशं पुष्पसायकम् ॥
तथाविधाभिः परितो युतां शक्तिगणैः स्तुतैः ॥ ८८-७७ ॥
अक्षरोक्ताभिरन्याभिः स्मरोन्मादमदात्मभिः ॥
एषा तृतीया कथिता वनिता जनमोहिनी ॥ ८८-७८ ॥
चतुर्थीं श्रृणु विप्रेन्द्र नित्यक्लिन्नासमाह्वयाम् ॥
हंसस्तु दाहवह्निस्वैर्युक्तः प्रथममुच्यते ॥ ८८-७९ ॥
कामेश्वर्यास्तृतीयादिवर्णानामष्टकं भवेत् ॥
हृदंबुमरुता युक्तः स एवैकादशाक्षरः ॥ ८८-८० ॥
एकादशाक्षरी चेयं विद्यार्णैरंगकल्पनम् ॥
आद्येन मन्त्रवर्णेन हृदयं समुदीरितम् ॥ ८८-८१ ॥
द्वाभ्यां द्वाभ्यां तु शेषाणि अंगानि परिकल्पयेत् ॥
न्यसेदंगुष्ठमूलादिकनिष्ठाग्रांतमूर्द्ध्वगम् ॥ ८८-८२ ॥
शेषं तद्वलये न्यस्य हृद्दृक्छ्रोत्रे नसोर्द्वयोः ॥
त्वचि ध्वजे च पायौ च पादयो रर्णकान्न्यसेत् ॥ ८८-८३ ॥
अरुणामरुणाकल्पामरुणांशुकधारिणीम् ॥
अरुणस्रग्विलेपां तां चारुस्मेरमुखांबुजाम् ॥ ८८-८४ ॥
नेत्रत्रयोल्लसद्वक्त्रां भालेघर्मांबुमौक्तिके ॥
विराजमानां मुकुटलसदर्द्धेंदुशेखराम् ॥ ८८-८५ ॥
चतुर्भिर्बाहुभिः पाशमंकुशं पानपात्रकम् ॥
अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् ॥ ८८-८६ ॥
ध्यात्वैवं पूजयेन्नित्यक्किन्नां नित्यां स्वशक्तिभिः ॥
पुण्या चतुर्थी गदिता नित्याक्किन्नाह्वया मुने ॥ ८८-८७ ॥
वनिता नवनीतस्य दाविकाग्निर्जयादिना ॥
भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतः ॥ ८८-८८ ॥
रसो दाहेन तद्युक्तं प्रभादाहेन तद्युता ॥
ज्या च दाहेन तद्युक्ता नित्याक्लिन्नांतगद्वयम् ॥ ८८-८९ ॥
एषा नवाक्षरी नित्या भेरुण्डा सर्वसिद्धिदा ॥
प्रणवं ठद्वयं त्यक्त्वा मध्यस्थैः षड्भिरक्षरैः ॥ ८८-९० ॥
षडंगानि प्रकुर्वीत वर्णन्यासं ततः परम् ॥
रंध्राद्यामुखकंठेषु हन्नाभ्यां धारयद्वयम् ॥ ८८-९१ ॥
न्यसेन्मंत्रार्णनवकं मातृकान्यासपूर्वकम् ॥
अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसिद्धिदम् ॥ ८८-९२ ॥
तप्तकांचनसंकाशदेहां नेत्रत्रयान्विताम् ॥
चारुस्मितां चितमुखीं दिव्यालंकारभूषिताम् ॥ ८८-९३ ॥
ताटंकहारकेयूररत्नस्तबकमंडिताम् ॥
रसनानूपुरोर्म्यादिभूषणैरतिसुन्दरीम् ॥ ८८-९४ ॥
पाशांकुशौ चर्मखङ्गौ गदावह्निधनुःशरान् ॥
करैर्दधानामासीना पूजायां मत्पसस्थिताम् ॥ ८८-९५ ॥
शक्तीश्च तत्समाकारतेजोहेतिभिरन्विताः ॥
पूजयेत्तद्वदभितः स्मितास्या विजयादिकाः ॥ ८८-९६ ॥
पंचमीय समाख्याता भेरुंडाख्या मुनीश्वर ॥
यस्याः स्मरणतो नश्येद्गरलं त्रिविधं क्षणात् ॥ ८८-९७ ॥
या तु षष्ठी द्विजश्रेष्ठ सा नित्या वह्निवासिनी ॥
तद्विधानं श्रृणुष्वाद्य साधकानां सुसिद्धिदम् ॥ ८८-९८ ॥
भेरुंडाद्यमिहाद्यं स्यान्नित्यक्लिन्नाद्यनंतरम् ॥
ततोंऽबुशून्ये हंसाग्निह्युत्तमंबुमरुद्युतम् ॥ ८८-९९ ॥
हृदग्निना युतं शून्यं व्याप्तेन शुचिना च युक् ॥
शून्यं नभः शक्तियुतं नवार्णेयमुदाहृता ॥ ८८-१०० ॥
विद्या द्वितीयबीजेन स्वरान्दीर्घान्नियोजयेत् ॥
मायांतान्षड्भिरेवां गान्याचरेत्सकरांगयोः ॥ ८८-१०१ ॥
नवाक्षराणि विद्याया नवरंध्रेषु विन्यसेत् ॥
व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये ॥ ८८-१०२ ॥
सर्वास्वपि च विद्यासु व्यापकन्यासमाचरेत् ॥
तप्तकांचनसंकाशां नवयौवनसुन्दरीम् ॥ ८८-१०३ ॥
चारुस्मेरमुखांभोजां विलसन्नयनत्रयाम् ॥
अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् ॥ ८८-१०४ ॥
पद्मरागकिरीटांशुसंभेदारुणितांबराम् ॥
पीतकौशेयवसनां रत्नमंजीरमेखलाम् ॥ ८८-१०५ ॥
रक्तमौक्तिकसकंभिन्नस्तबकाभरणोज्ज्वलाम् ॥
रत्नाब्जकंबुपुंड्रेक्षुचापपूर्णेन्दुमंडलम् ॥ ८८-१०६ ॥
दधानां बाहुभिर्वामैः कह्लारं हेमश्रृंगकम् ॥
पुष्पेषुं मातुलिंगं च दधानां दक्षिणैः करैः ॥ ८८-१०७ ॥
स्वस्वनामाभिरभितः शक्तिभिः परिवारिताम् ॥
एवं ध्यात्वार्चयेद्वह्निवासिनीं वह्निविग्रहम् ॥ ८८-१०८ ॥
यस्याः स्मरपतो वश्यं जायते भुवनत्रयम् ॥
अथ या सप्तमी नित्या महावज्रेश्वरी मुने ॥ ८८-१०९ ॥
तस्या विद्यां प्रवक्ष्यामि साधकानां सुसिद्धिदाम् ॥
द्वितीयं वह्विवासिन्या नित्यक्लिन्ना चतुर्थकम् ॥ ८८-११० ॥
पंचमं भगमालाद्यं भेरुंडाया द्वितीयकम् ॥
नित्यक्लिन्नाद्वितीयं च तृतीयं षष्ठसप्तमौ ॥ ८८-१११ ॥
अष्टमं नवमं चापि पूर्वं स्यादंतिमं पुनः ॥
द्वयमेकैकमथ च द्वयद्वयमथ द्वयम् ॥ ८८-११२ ॥
मायया पुटितं कृत्वा कुर्यादंगानि षट् क्रमात् ॥
प्रत्येकं शक्तिपुटुतैर्मंत्रार्णैर्दशभिर्न्यसेत् ॥ ८८-११३ ॥
दृक्छ्रोत्रनासावाग्वक्षोनाभिगुह्येषु च क्रमात् ॥
रक्तां रक्तांबरां रक्तगंघमालाविभूषणाम् ॥ ८८-११४ ॥
चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् ॥
पाशांकुशामिक्षुचापं दाडिमीशायकं तथा ॥ ८८-११५ ॥
दधानां बाहुभिर्नेत्रैर्दयासुप्रीतिशीतलैः ॥
पश्यंती साधके अस्त्रषट्कोणाब्जमहीपुरे ॥ ८८-११६ ॥
चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् ॥
शक्तिभिः स्वस्वरूपाभिरावृतां पीतमध्यगाम् ॥ ८८-११७ ॥
सिंहासनेऽभितः प्रेंखत्पोतस्थाभिश्च शक्तिभिः ॥
वृतां ताभिर्विनोदानि यातायातादिभिः सदा ॥ ८८-११८ ॥
कुर्वाणामरुणांभोधौ चिंतयेन्मन्त्रनायकम् ॥
एषा तु सप्तमीप्रोक्ता दूतिं चाप्यष्टमीं श्रृणु ॥ ८८-११९ ॥
वज्रेश्वर्याद्यमाद्यं स्याद्वियदग्नियुतं ततः ॥
अंबु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः ॥ ८८-१२० ॥
रयोव्यासेन शुचिना युतः स्यात्तदनंतरम् ॥
अत्यार्णां वह्निवासिन्या दूती नित्या समीरिताः ॥ ८८-१२१ ॥
षड्दीर्घस्वरयुक्तेन विद्यायाः स्यात्षडंगकम् ॥
तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसु ॥ ८८-१२२ ॥
षष्ठकं नसि विन्यस्य व्यापकं विद्यया न्यसेत् ॥
निदाघकालमध्याह्नदिवाकरसमप्रभाम् ॥ ८८-१२३ ॥
नवरत्नकिरीटां च त्रीक्षणामरुणांबराम् ॥
नानाभरणसंभिन्नदेहकांतिविराजिताम् ॥ ८८-१२४ ॥
शुचिस्मितामष्टभुजा स्तूयमानां महर्षिभिः ॥
पाशं खेटं गदां रत्नचषकं वामबाहुभिः ॥ ८८-१२५ ॥
दक्षिणैरंकुशं खड्गं कट्टारं कमलं तथा ॥
दधानां साधकाभीष्टदानोद्यमसमन्विताम् ॥ ८८-१२६ ॥
ध्यात्वैवं पृनयेद्देवीं दूतीं दुर्न्नीतिनाशिनीम् ॥
इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी ॥ ८८-१२७ ॥
श्रीकरी शिवतावासकारिणी सर्वसिद्धिदा ॥
अथ ते नवमीं नित्यां त्वरितां नाम नारद ॥ ८८-१२८ ॥
प्रवक्ष्यामि यशोविद्याधनारोग्यसुखप्रदाम् ॥
आद्यं तु वह्निवासिन्या दूत्यादिस्तदनन्तरम् ॥ ८८-१२९ ॥
हंसो धरा स्वयं युक्तस्तेजश्चरसमन्वितम् ॥
वायुः प्रभाचरयुता ग्रासशक्तिसमन्वितः ॥ ८८-१३० ॥
हृदार येण दाहेन वह्निस्वाष्टमं तथा ॥
हंसः क्ष्माखंयुतो ग्रासश्चरयुक्तो द्वितीयकः ॥ ८८-१३१ ॥
द्वितिर्नादयुता नित्या त्वरिता द्वादशाक्षरी ॥
विद्या चतुर्थवर्णादिसप्तभिस्त्वक्षरैस्तथा ॥ ८८-१३२ ॥
कुर्यादंगानि युग्मार्णैः षट्क्रमेण करांगयोः ॥
शिरोललाटकंठेषु हृन्नाभ्याधारके तथा ॥ ८८-१३३ ॥
ऊरुयुग्मे तथा जानुद्वये जंघाद्वये तथा ॥
पादयुग्मे तथा वर्णान्मंत्रजान्दश विन्यसेत् ॥ ८८-१३४ ॥
द्वितीयोपांत्यमध्यस्थैर्मंत्रार्णैरितरैरपि ॥
ताराद्यैः श्रृणु तद्ध्यानं सर्वसिद्धिविधायकम् ॥ ८८-१३५ ॥
श्यामवर्णशुभाकारां नवयौवनशोभिताम् ॥
द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलैः ॥ ८८-१३६ ॥
ताटंकमंगदं तद्वद्रसना नूपुरं च तैः ॥
विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः ॥ ८८-१३७ ॥
पल्लवांशुकसंवीतां शिखिपिच्छकृतैः शुभैः ॥
वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम् ॥ ८८-१३८ ॥
बर्हिबर्हिकृतापीडां तच्छत्रां तत्पताकिनीम् ॥
गुंजागुणलसद्वक्षः कुचकुंकुममंडलाम् ॥ ८८-१३९ ॥
त्रिनेत्रां चारुवदनां मंदस्मितमुखांबुजाम् ॥
पाशांकुशवराभीतिलसद्भुजचतुष्टयाम् ॥ ८८-१४० ॥
ध्यात्वैवं तोतलां देवीं पूजयेच्छक्तिभिर्वृताम् ॥
तदग्रस्था लु फट्कारी शरचापकरोज्ज्वला ॥ ८८-१४१ ॥
प्रसीदेत्फलदाने च साधकानां त्वरान्वितां ॥
एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वर ॥ ८८-१४२ ॥
विध्नदुःस्वप्रशमनी सर्वाभीष्टप्रदायिनी ॥
शुचिः स्वेन युतस्त्वाद्यो रसावह्निसमन्वितः ॥ ८८-१४३ ॥
प्राणो द्वितीयः स्वयुतो वनदुच्छक्तिभिः परः ॥
इतीरिता त्र्यक्षराख्या नित्येयं कुलसुंदरी ॥ ८८-१४४ ॥
यस्याः स्मरण मात्रेण सर्वज्ञत्वं प्रजायते ॥
त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडंगकम् ॥ ८८-१४५ ॥
आदिमध्यावसानेषु पूजाजपविधिक्रमात् ॥
प्रत्येक तैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः ॥ ८८-१४६ ॥
कुर्यात्करांगवक्त्राणां न्यासं प्रोक्तं यथाविधि ॥
ऊर्द्ध्वप्राग्दक्षिणोदक्च पश्चिमाधस्नाग्नभिः (?)॥ ८८-१४७ ॥
सुविनद्यंतरस्थैस्तन्नदात्मसु यथाक्रमम् ॥
आधाररंध्रहृत्स्वेकं द्वितीयं लोचनत्रये ॥ ८८-१४८ ॥
तृतीयं श्रोत्रचिबुके चतुर्थं घ्राणतालुषु ॥
पंचमं चांसनाभीषु ततः पाणिपदद्वये ॥ ८८-१४९ ॥
मूलमध्याग्रतो न्यस्येन्नवधा मूलवर्णकैः ॥
लोहितां लोहिताकारशक्तिंबृदनिषेविताम् ॥ ८८-१५० ॥
लोहितांशुकभूषास्रग्लेपनां षण्मुखांबुजाम् ॥
अनर्घ्यरत्नघटितमाणिक्यमुकुटोज्वलाम् ॥ ८८-१५१ ॥
रत्नस्तबकसंभिन्नलसद्वक्षःस्थलां शुभाम् ॥
कारुण्यानंदपरमा मरुणांबुजविष्टराम् ॥ ८८-१५२ ॥
भुजैर्द्वादशभिर्युक्तां सर्वेषां सर्ववाङ्मयीम् ॥
प्रवालाक्षस्रजं पद्मं कुंडिकां रत्ननिर्मिताम् ॥ ८८-१५३ ॥
रत्नपूर्णं तु चषकं लुंगीं व्याख्यानमुद्रिकाम् ॥
दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम् ॥ ८८-१५४ ॥
हैमीं च लेखनीं रत्नमालां कंबुवरं भुजैः ॥
अभितः स्तूयमानां च देवगंधर्वकिन्नरैः ॥ ८८-१५५ ॥
यक्षराक्षसदैत्यर्षिसिद्धविद्याधरादिभिः ॥
ध्यात्वैवमर्चयेन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये ॥ ८८-१५६ ॥
सितां केवलवाक्सिद्ध्यै लक्ष्म्यै हेमप्रभामपि ॥
धूमाभां वैरिविद्विष्ट्यै मृतये निग्रहाय च ॥ ८८-१५७ ॥
नीलां च मूकीकरणे स्मरेत्तत्तदपेक्षया ॥
इत्येषा दशमी नित्या प्रोक्ता ते कुलसुन्दरी ॥ ८८-१५८ ॥
नित्यानित्यां तु दशमीं त्रिकुटां वच्मि सांप्रतम् ॥
हंसश्च हृत्प्राणरसादाहकर्णैः समन्वितः ॥ ८८-१५९ ॥
विद्यया कुलसुंदर्या योजितः संप्रदायतः ॥
नित्यानित्यत्रिवर्णेयं ष़ड्भिः कूटाक्षरैर्युता ॥ ८८-१६० ॥
प्रतिलोमादिभी रूपैर्द्विसप्ततिभिदा मता ॥
यस्या भजनतः सिद्धो नरः स्यात्खेचरः सुखी ॥ ८८-१६१ ॥
निग्रहानुग्रहौ कर्तुं क्षमः स्याद्भुवनत्रये ॥
दीर्घस्वरसमेताभ्यां हंसहृभ्द्यां षडंगकम् ॥ ८८-१६२ ॥
भ्रूमध्ये कण्ठहृन्नाभिगुह्याधारेषु च क्रमात् ॥
विद्याक्षराणि क्रमशो न्यसेद्विंदुयुतानि च ॥ ८८-१६३ ॥
व्यापकं च समस्तेन विधाय विधिना पुनः ॥
ध्यायेत्समस्तसंपत्तिहेतोः सर्वात्मिकां शिवाम् ॥ ८८-१६४ ॥
उद्यद्भास्करबिंबाभां माणिक्यमुकुटोज्ज्वलाम् ॥
पद्मरागकृताकल्पामरुणांशुकधारिणीम् ॥ ८८-१६५ ॥
चारुस्मितलसद्वक्त्रषट्सरोजविराजिताम् ॥
प्रतिवक्त्रं त्रिनयनां भुजैर्द्वादशभिर्युताम् ॥ ८८-१६६ ॥
पाशाक्षगुणपुंड्रेक्षुचापखेटत्रिशूलकान् ॥
करैर्वामैर्दधानां च अङ्कुशं पुस्तकं तथा ॥ ८८-१६७ ॥
पुष्पेषुमंबुजं चैव नृकपालाभये तथा ॥
दधानां दक्षिणैर्हस्तैर्ध्यायेद्देवीमनन्यधीः ॥ ८८-१६८ ॥
इत्येषैकादशी प्रोक्ता द्वादशीं श्रृणु नारद ॥
त्वरितोयांत्यमाद्यं स्याद्युतिदोहचरस्वयुक् ॥ ८८-१६९ ॥
हृञ्च दाहक्ष्मास्वयुतं वज्रेशीपञ्चमं तथा ॥
मरुत्स्वयुक्तो मध्याढ्यो दशम्याः परतः पुनः ॥ ८८-१७० ॥
भूमी रसाक्ष्मास्वयुता वज्रेशीत्यष्टमः क्रमात् ॥
षडक्षराणि त्वरिता तृतीयं तदनंतरम् ॥ ८८-१७१ ॥
द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम् ॥
उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी ॥ ८८-१७२ ॥
द्विद्विपक्षाक्षिषड्वर्णैर्मंत्रोत्थैरंगकल्पनम् ॥
श्रोत्रादिनासायुगले वाचि कण्ठे हृदि क्रमात् ॥ ८८-१७३ ॥
नाभावाधारकेऽथापि पादसंधिषु च क्रमात् ॥
मन्त्राक्षराणि क्रमशो न्यसेत्सप्तदशापि च ॥ ८८-१७४ ॥
व्यापकं च समस्तेन विदध्याञ्च यथाविधि ॥
इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम् ॥ ८८-१७५ ॥
पञ्चवक्त्रां त्रिनयनामरुणांशुकधारिणीम् ॥
दशहस्तां लसन्मुक्तामण्याभरणमंडिताम् ॥ ८८-१७६ ॥
रत्नस्तबकसंपन्नदेहां चारुस्मिताननाम् ॥
पाशं पताकां चर्मापि शार्ङ्गचापं वरं करैः ॥ ८८-१७७ ॥
दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः ॥
अंकुशे च तथा शर्क्ति खङ्गं बाणं तथाभयम् ॥ ८८-१७८ ॥
दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे ॥
स्वाकारवर्णवेषास्यपाण्यायुधविभूषणैः ॥ ८८-१७९ ॥
शक्तिवृन्दैर्वृतां ध्यायेद्देवीं नित्यार्चनक्रमे ॥
त्रिषट्कोणयुतं पद्ममष्टपत्रं ततो बहिः ॥ ८८-१८० ॥
अष्टास्रं भूपुरद्वन्द्वावृतं तत्पुरयुग्मकम् ॥
चतुर्द्वारयुतं दिक्षु शाखाभिश्च समन्वितम् ॥ ८८-१८१ ॥
कृत्वा नामावृतां शक्तिं गणैस्तत्रार्चयेच्छिवाम् ॥
एषा ते द्वादशी नित्या प्रोक्ता नीलपताकिनी ॥ ८८-१८२ ॥
समरे विजयं खङ्गपादुकांजनसिद्धिदा ॥
वेतालयक्षिणीचेटपिशाचादिप्रसाधिनी ॥ ८८-१८३ ॥
निधानबिलसिद्धान्नसाधिनी कामचोदिता ॥
अथ त्रयोदेशीं नित्यां वक्ष्यामि श्रृणु नारद ॥ ८८-१८४ ॥
रसो नभस्तथा दाहो व्याप्तक्ष्मावनपूर्विका ॥
खेन युक्ता भवेन्नित्या विजयैकाक्षरा मुने ॥ ८८-१८५ ॥
विद्याया व्यंजनैर्दीर्घस्वरयुक्तैश्चतुष्टयम् ॥
शेषाभ्यां च द्वयं कुर्यात्षडंगानि करांगयोः ॥ ८८-१८६ ॥
ज्ञानेंद्रियेषु श्रोत्रादिष्वथ चित्ते च विन्यसेत् ॥
अक्षराणि क्रमाद्बिन्दुयुतान्यन्यत्तु पूर्ववत् ॥ ८८-१८७ ॥
पञ्च वक्त्रां दशभुजां प्रतिवक्त्रं त्रिलोचनाम् ॥
भास्वन्मुकुटविन्यासचन्द्रलेखाविराजिताम् ॥ ८८-१८८ ॥
सर्वाभरणसंयुक्तां पीतांबरसमुज्ज्वलाम् ॥
उद्यद्भास्वद्बिंबतुल्यदेहकांतिं शुचिस्मिताम् ॥ ८८-१८९ ॥
शंखं पाशं खेटचापौ कह्लारं वामबाहुभिः ॥
चक्रं तथांकुशं खङ्गं सायकं मातुलुं गकम् ॥ ८८-१९० ॥
दधानां दक्षिणैर्हस्तैः प्रयोगे भीमदर्शनाम् ॥
उपासनेति सौम्यां च सिंहोपरि कृतासनाम् ॥ ८८-१९१ ॥
व्याघ्रारूढाभिरभितः शक्तिभिः परिवारिताम् ॥
समरे पूजनेऽन्येषु प्रयोगेषु सुखासनाम् ॥ ८८-१९२ ॥
शक्तयश्चापि पूजायां सुखासनसमन्विताः ॥
सर्वा देव्याः समाकारमुखपाण्यायुधा अपि ॥ ८८-१९३ ॥
चतुरस्रद्वयं कृत्वा चतुर्द्वारोपशोभितम् ॥
शाखष्टकसमोपेतं तत्र प्राग्वत्समर्चयेत् ॥ ८८-१९४ ॥
तदंतर्वृतयुग्मांतरष्टकोणं विधाय तु ॥
तदंतश्च तथा पद्मं षोडशच्छदसंयुतम् ॥ ८८-१९५ ॥
तथैवाष्टच्छद पद्मं विधायावाह्य तत्र ताम् ॥
तत्तच्छक्त्या वृतां सम्यगुपचारैस्तथार्चयेत् ॥ ८८-१९६ ॥
एषा त्रiयोदशी प्रोक्ता वादेयुद्धे जयप्रदा ॥
चतुर्दशीं प्रवक्ष्येऽथ नित्यां वै सर्वमंगलाम् ॥ ८८-१९७ ॥
हृदंबुवनयुक्तं खं नित्या स्यात्सर्वमंगला ॥ ८८-१९८ ॥
एकाक्षर्यनया सिद्धो जायते खेचरः क्षणात् ॥
षड्दीर्घाढ्यां मूलविद्यां षडंगेषु प्रविन्यसेत् ॥ ८८-१९९ ॥
तां नित्यां जातरूपाभां मुक्तामाणिक्यभूषणाम् ॥
माणिक्यमुकुटां नेत्रद्वयप्रेंखद्दयापराम् ॥ ८८-२०० ॥
द्विभुजां शासनां पद्मे त्वष्टषोडशतद्द्वयैः ॥
पत्रैरुपेते सचतुद्वारंभूसद्मयुग्मके ॥ ८८-२०१ ॥
मातुलुंगफलं दक्षे दधानां करपंकजे ॥
वामेन निजभक्तानां प्रयच्छंतीं धनादिकम् ॥ ८८-२०२ ॥
स्वसमानाभिरभितः शक्तिभिः परिवारिताम् ॥
षट्सप्तातीभिरन्याभिरप्सरोत्थाभिरन्विताम् ॥ ८८-२०३ ॥
प्रयोगेष्वन्यदा नित्यं सपर्यासूक्तशक्तिकाम् ॥
एषा चतुर्दशी प्रोक्ता तथा पंचदशीं श्रृणु ॥ ८८-२०४ ॥
भूः शून्यं नभसा भूश्च रसश्चाथ स्थिरांबु च ॥
रयोग्निना युतीज्यांबुमरुद्युक्तारसा मरुत् ॥ ८८-२०५ ॥
नभश्च मरुता युक्तं रसा शून्येऽपि संयुते ॥
गोत्रा चरेण सहिता अंबुपूर्वाक्षरस्तथा ॥ ८८-२०६ ॥
अंब्वग्नी हृञ्च दाहांबुरसक्ष्मारयहृत्स्वयुक् ॥
हंसश्च मरुता दाहः प्राणश्च मरुता युतः ॥ ८८-२०७ ॥
दाहः साग्निप्राणचरौ ज्यामरुत्सहितारयः ॥
चरेणांबु च गोत्राहृत्साग्निर्ज्यांबुरसा स्वयुक् ॥ ८८-२०८ ॥
रयः साग्निर्ज्यांबुरसा पुनरेते जवी ततः ॥
दाहेनानेन ते द्विः स्याद्भस्वो दाहमरुत्स्वयुक् ॥ ८८-२०९ ॥
हंसः सदाहवह्निस्वो दाहक्ष्मास्वयुतश्च सः ॥
सप्तदाहास्ततोऽस्याः स्युरष्टमाद्यास्तु पंच ते ॥ ८८-२१० ॥
उपांत्याधः स्थितं नीलपताकाया अनंतरम् ॥
त्वरिता त्वं च भेरुंडाष्टमं च नवनं तथा ॥ ८८-२११ ॥
सा ज्वालामालिनीनित्या त्रिषष्ट्यर्णा समीरिता ॥
एकद्वयचतुःपंचचतुष्टयदशाक्षरैः ॥ ८८-२१२ ॥
कुर्यादंगानि मूलार्णैरादितः षट्करांगयोः ॥
शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत्सनातनीम् ॥ ८८-२१३ ॥
ज्वलज्ज्वलनसंकाशां माणिक्यमुकुटोज्ज्वलाम् ॥
षड्वक्त्रां द्वादशभुजां सर्वाभरणभूषिताम् ॥ ८८-२१४ ॥
पाशांकुशौ खङ्गखेटौ चापबाणौ गदादरौ ॥
शूलवह्नी वराभीती दधानां कपपंकजैः ॥ ८८-२१५ ॥
स्वप्रमाणाभिरभितः शक्तिभिः परिवारिताम् ॥
चारुस्मितलसद्वक्त्र सरोजां त्रीक्षणान्वताम् ॥ ८८-२१६ ॥
ध्यात्वैवमुपचारैस्तैरर्चयेत्तां तु नित्यशः ॥
चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितम् ॥ ८८-२१७ ॥
सशाखमष्टपत्राब्जमंतरा त्र्यस्रकं ततः ॥
षट्कोणं मध्यतस्त्र्यस्रं विधायात्र शिवां जयेत् ॥ ८८-२१८ ॥
एषा पंचदशी प्रोक्ता षोडशीं श्रृणु नारद ॥
वायुप्रणवतत्त्वैस्तु चित्रास्यादक्षरद्वया ॥ ८८-२१९ ॥
या सिद्धा धनधान्यात्मनिधिलाभाय कल्प्यते ॥
विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात् ॥ ८८-२२० ॥
षडंगानि यथापूर्वं मातृकां विद्यया न्यसेत् ॥
उद्यदादित्यबिंबाभां नवरत्नविभूषणाम् ॥ ८८-२२१ ॥
नवरत्नकिरीटां च चित्रपट्टांशुकोज्ज्वलाम् ॥
चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम् ॥ ८८-२२२ ॥
सर्वानंदमयीं नित्यां समस्तेप्सितदायिनीम् ॥
चतुर्भुजेषु वै पाशमंकुशं वरदाभये ॥ ८८-२२३ ॥
दधानां मंगलां पद्मकर्णिकायोनिमध्यगाम् ॥
तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम् ॥ ८८-२२४ ॥
प्राणदाहौ धरायुक्तो पुनराद्यं रसे मरुत् ॥
व्यासं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम् ॥ ८८-२२५ ॥
अस्या आद्यां रसायुग्मं चरणेन प्रयोजितम् ॥
दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम् ॥ ८८-२२६ ॥
नभोदिर्हृत्सदाहांबुज्या शून्यं स्वेन संयुतम् ॥
अंबु पश्चाद्विषयुक्तं मरुता तु नभोयुतम् ॥ ८८-२२७ ॥
शून्यं व्याप्तं भुवा हंसः पूर्वांत्यौ स्यान्मनुत्रयम् ॥
अस्याः षष्ठादिपंचार्णा दैत्यास्यादाद्य ईरितः ॥ ८८-२२८ ॥
एकादशाक्षरादंत्या द्वितीयः खंड ईरितः ॥
तृतीयः पंचविंशार्णः प्रोक्ता मंत्रा इति क्रमात् ॥ ८८-२२९ ॥
बाला बीजत्रयाद्यैर्द्विस्त्रिभिर्मंत्रैः षडगंकम् ॥
विकीर्णकुंतलां नग्रां रक्तामानंदविग्रहाम् ॥ ८८-२३० ॥
दधानां चिंतयेद्बाणचापपाशसृणीकरैः ॥
तत्समानायुधाकारवर्णा देव्यास्तु बा ॥ ८८-२३१ ॥
ऋतुस्राताः स्फुरद्योन्यः सदानंदारुणेक्षणाः ॥
इत्येषा कुरुकुल्लांते प्रोक्ता चंद्रावलीस्वयम् ॥ ८८-२३२ ॥
वाराहीमभिधास्यामि ललितायाः परा तनुः ॥
शुचिः स्वेनाथ शून्यं स्यान्नभसाभ्ररसिस्थिरा ॥ ८८-२३३ ॥
अंबु पश्चाद्रयः साग्निर्मरुतांबुरयौ तथा ॥
इलसायुतोऽग्निरेतानि पुनरंबुमरुद्युतम् ॥ ८८-२३४ ॥
दाहांबुमरुताहंसस्त्वग्निनैतत्त्रयं पुनः ॥
अम्बुदाहौ मरुद्युक्तौ हंसोऽथ धरया नभः ॥ ८८-२३५ ॥
तेजोग्निना पुनः पंच वातः स्वेन समायुतः ॥
तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः ॥ ८८-२३६ ॥
शून्यं व्याप्तेन शुचिना शून्यं शक्त्या नभो युतम् ॥
दाहो धरा स्वसहरितस्तोयं चरसमन्वितम् ॥ ८८-२३७ ॥
एतत्पूर्वमधुः प्रोक्तं चतुष्टयमतः परम् ॥
ज्याख्येन युक्ता सचरो रभश्चैतस्य पूर्वकम् ॥ ८८-२३८ ॥
रसोऽग्निना पुनः प्रोक्तं चतुष्का अपयं ततः ॥
शुभोभ्रता चरेणापि हंसः स्वेन सपूर्वकम् ॥ ८८-२३९ ॥
हंसोऽग्निना प्राक् त्रितयं हृदयं स्वसमायुतम् ॥
रसश्चरेण तत्पूर्वमग्निना च रसो युतः ॥ ८८-२४० ॥
पश्चादुक्तस्त्रयं वातो धरया च नभोन्वितम् ॥
प्राणः स्वेन युतः पश्चाद्धृदयस्वयुतं रसः ॥ ८८-२४१ ॥
व्याप्तमेतत्त्रयं पश्चाद्दाहेनांबु समन्वितम् ॥
गोत्राभरायुता स्पर्शो नादयुक्तो जवीयुतः ॥ ८८-२४२ ॥
दाहेन पूर्वपूर्वं च पूर्वं च मरुता युतम् ॥
शून्यं मरुत्स्वसहितं हृद्दाहेनांबुना चरः ॥ ८८-२४३ ॥
स्पर्शो मरुत्स्वसहितो हृद्दाहेनांबुसंयुतम् ॥
ज्याग्निः स्वसंयुतो हंसस्तथांबु मरुता सह ॥ ८८-२४४ ॥
हृद्रूप्रेण स्वेन युतं रसश्च स्वेन संयुतः ॥
प्राणदाहौ धरायुक्तौ पुनस्तौ वह्निना वियत् ॥ ८८-२४५ ॥
वार्द्दाहयुक्तमंबु स्यादिषष्ट्यासस्वसंयुतम् ॥
पूर्वद्विरुक्तवर्णौ च शुद्धिः स्वेन युतस्तथा ॥ ८८-२४६ ॥
स्थिरा रसा वतस्वेन दावौ हंसौ धरा स्वयुक् ॥
युतिर्नादवती पश्चाद्धृदंबुमरुता युतम् ॥ ८८-२४७ ॥
हंसश्च मरुता विद्यः दशोत्तरशताक्षरी ॥
वाराही पंचमी विश्वविजया भद्रकौमुदी ॥ ८८-२४८ ॥
वार्तालीति च विख्याता स्तंभनाद्यखिलेष्टदा ॥
अंगानि कुर्यान्मंत्रार्णैः सप्तभिषड्भिरेव च ॥ ८८-२४९ ॥
दशभिः सप्तभिः सप्तसंख्यैर्जातिभिर्दिताः ॥
त्रिकोणवृत्तषट्कोणवृत्तद्वयसमन्वितम् ॥ ८८-२५० ॥
विधाय चक्रं तत्रैव स्वनामालिख्यपूजयेत् ॥
ध्यायेच्च देवीं कीलास्यां ततः कांचनसन्निभाम् ॥ ८८-२५१ ॥
आकंठं वनितारूपां ज्वलत्पिंगसरोरुहाम् ॥
त्रिनेत्रामष्टहस्तां च चक्रं शंखमथांकुशम् ॥ ८८-२५२ ॥
पाशं च मुशलं शीर्षमभयं वरदं तथा ॥
दधानां गरुडस्कन्धे सुखासीनां विचिंतयेत् ॥ ८८-२५३ ॥
नित्यपूजासु तच्छक्तीस्तत्समानाः स्मरेन्मुने ॥
प्रयोगेषु स्मरेद्देवीं सिंहस्थां व्याघ्रगामपि ॥ ८८-२५४ ॥
गजारूढां हयारूढां तर्श्यारूढां च शक्तिभिः ॥
श्यामामप्यरुणां पीतामसितांभोजविग्रहाम् ॥ ८८-२५५ ॥
तत्तत्त्प्रयोगेषु तथा ध्यायेत्तत्तदवाप्तये ॥
अरुणां पंचमीं वश्ये पीतां स्तंभनके स्मरेत् ॥ ८८-२५६ ॥
श्यामां च दुर्गमे मार्गे सितां युद्धेऽरिनष्टये ॥
धूम्रामुच्चाटने ध्यायेत्साधको द्विजसत्तमः ॥ ८८-२५७ ॥
एताः षोडश नित्यास्ते संक्षपात्समुदीरिताः ॥
भजतामिष्टदाः सद्यः सर्वपापक्षयंकराः ॥ ८८-२५८ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधादिमन्त्रनिरूपणं नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥