पञ्चविंशब्राह्मणम्/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search
अभिचारप्रयोगार्थं ब्रह्मसामविधानं

8.1
आष्कारणिधनं काण्वंव्वषट्कारणिधनमभिचरणीयस्य ब्रह्मसाम कुर्यादभिनिधनं माध्यन्दिने पवमाने
देवेषुर्वा एषा यद्वषट्कारोऽभीति वा इन्द्रो वृत्राय वज्रं प्राहरदभीत्येवास्मै वज्रं प्रहृत्य देवेष्वा वषट्कारेण विध्यति
त्रैककुभं पशुकामाय ब्रह्मसाम कुर्यात् त्वमङ्ग प्रशंसिष इत्येतासु
इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त रायोवाजो बृहद्गिरिः पृथुरश्मिस्तेऽब्रुवन् को नः पुत्रान् भरिष्यन्तीत्यहमिन्तीन्द्रोऽब्रवीत् तांस्त्रिककुबधिनिधायाचरत् स एतत् सामापश्यद्यत् त्रिककुबपश्यत् तस्मात् त्रैककुभम्
स आत्मानमेव पुनरुपाधावत् त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यं न त्वदन्यो मघवन्नस्ति च मर्डितेन्द्र ब्रवीमि ते वच इति स एतेन च प्रगाथेनैतेन साम्ना सहस्रं पशूनसृजत तानेभ्यः प्रायच्छत् ते प्रत्यतिष्ठन्
यः पशुकामः स्याद्यह्प्रतिष्ठाकाम एतस्मिन् प्रगाथ एतेन साम्ना स्तुवीत प्र सहस्रं पशूनाप्नोति प्रतितिष्ठति
त्रिवीर्यं वा एतत् साम त्रीन्द्रियमैन्द्र्य ऋच ऐन्द्रं सामैन्द्रेति निधनमिन्द्रिय एव वीर्ये प्रतितिष्ठति
त्रैशोकं ज्योगामयाविने ब्रह्मसाम कुर्यात्
इमे वै लोकाः सहासंस्तेऽशोचन्तंस्तेषामिन्द्र एतेन साम्ना शुचमपाहन् यत् त्रयाणां शोचतामपाहंस्तस्मात् त्रैशोकम्
यास्मादपाहन् सा पुंश्चलीं प्राविशद्यामन्तरिक्षात् सा क्लीबं याममुष्मात् सैनस्विनम्
तस्मात् तेषां नाशैतव्या य एषामाशामेति तस्मा एव शुचोऽपभजते
शुचा वा एष विद्धो यस्य ज्योगामयति यत् त्रैशोकं ब्रह्मसाम भवति शुचमेवास्मादपहन्ति
दिवेति निधनमुपयन्ति व्युष्टिर्वै दिवा व्येवास्मै वासयति
8.2
आष्कारणिधनं काण्वं प्रतिष्ठाकामाय ब्रह्मसाम कुर्यात्
कण्वो वा एतत् सामर्ते निधनमपश्यत् स न प्रत्यतिष्ठत् स वृषदंशस्याषिति क्षुवत उपाशृणोत् स तदेव निधनमपश्यत् ततो वै स प्रत्यतिष्ठद्यदेतत् साम भवति प्रतिष्ठित्यै
वसिष्ठस्य जनित्रं प्रजाकामाय ब्रह्मसाम कुर्यात्
वसिष्ठो वा एतत् पुत्रहतः सामापश्यत् स प्रजया पशुभिः प्राजायत यदेतत् साम भवति प्रजात्यै
आथर्वणं लोककामाय ब्रह्मसाम कुर्यात्
अथर्वाणो वा एतल्लोकाकामाः सामापश्यंस्तेनामर्त्यंल्लोकमपश्यन् यदेतत् साम भवति स्वर्गस्य लोकस्य प्रजात्यै
अभीवर्तं भ्रातृव्यवते ब्रह्मसाम कुर्यात्
अभीवर्तेन वै देवा असुरानभ्यवर्तन्त यदभीवर्तो ब्रह्मसाम भवति भ्रातृव्यस्याभिवृत्यै
श्रायन्तीयं यज्ञविभ्रष्टाय ब्रह्मसाम कुर्यात्
प्रजापतिरुषसमध्यैत् स्वां दुहितरं तस्य रेतः परापतत् तदस्यां न्यषिच्यत तदश्रीणादिदं मे मा दुषदिति तत् सदकरोत् पशूनेव
यच्छ्रायन्तीयं ब्रह्मसाम भवति श्रीणाति चैवेनं सच्च करोति
8.3
देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त ते देवाः प्रजापतिमुपाधावंस्तेभ्य एतत् साम प्रायच्छदेतेनैनान् कालयिष्यद्धमिति तेनैनानेभ्यो लोकेभ्योऽकालयन्त यदकालयन्त तस्मात् कालेयम्
एभ्यो वै लोकेभ्यो भ्रातृव्यं कालयते य एवंव्वेद
स्तोमो वै देवेषु तरो नामासीद्यज्ञोऽसुरेषु विदद्वसुस्ते देवास्तरोभिर्वो विदद्वसुमिति स्तोमेन यज्ञमसुराणामावृञ्जत
स्तोमेन यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
साध्या वै नाम देवा आसंस्तेऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल्लोकमायंस्तद्देवाः कालेयेन समतन्वन् यत् कालेयं भवति तृतीयसवनस्य संतत्यै
विदद्वसु वै तृतीयसवनं यत् तरोभिर्वो विदद्वसुमिति प्रस्तौति तृतीयसवनमेव तदभ्यतिवदति
सर्वाणि वै रूपाणि कालेयं यत् पदप्रस्तावं तेन राथन्तरं यद्बृहतो रोहान् रोहति तेन बार्हतं यत् स्तोभवान् प्रतिहारस्तेन बार्हतं यद्द्रवदिडं तेन राथन्तरं सर्वेष्वेव रूपेषु प्रतितिष्ठति
8.4
साध्या वै नाम देवा आसंस्ते सर्वेण यज्ञेन सह स्वर्गंल्लोकमायंस्ते देवाशीछन्दांस्यब्रुवन् सोममाहरतेति ते जगतीं प्राहिण्वन् सा त्रीण्यक्षराणि हित्वैकाक्षरा भूत्वागच्छत् त्रिष्टुभं प्राहिण्वन् सैकमक्षरं हित्वा त्र्यक्षरा भूत्वागच्छद्गायत्रीं प्राहिण्वंश्चतुरक्षराणि वै तर्हि च्छन्दांस्यासन् सा तानि चाक्षराणि हरन्त्यागच्छदष्टाक्षरा भूत्वा त्रीणि च सवनानि हस्ताभ्यां द्वे सवने दन्तैर्दंष्ट्वा तृतीयसवनं तस्माद्द्वे अंशुमती सवने धीतं तृतीयसवनं दन्तैर्हि तद्दंष्ट्वा धयन्त्यहरत् तस्य ये ह्रियमाणस्यांशवः परापतंस्ते पूतीका अभवन् यानि पुष्पाण्यवाशीयन्त तान्यर्ज्जुनानि यत् प्राप्रोथत् ते प्रप्रोथास्तस्मात् तृतीयसवन आशिरमवनयन्ति यमेव तं गावः सोममदन्ति तस्य तं रसमवनयन्ति ससोमत्वाय
ते त्रिष्टुब्जगत्यै गायत्रीमब्रूतामुप त्वायावेति साब्रवीत् किं मे ततः स्यादिति यत् कामयस इत्यब्रूतां साब्व्रवीन्मम सर्वं प्रातःसवनमहमुत्तरे सवने प्रणयानीति तस्माद्गायत्रं प्रातःसवनं गायत्र्युत्तरे सवने प्रणयति
तान् त्रिष्टुप्त्रिभिरक्षरैरुपैत् सैकादशाक्षरा भूत्वा प्राजायत तां जगत्येकेनाक्षरेणोपैत् सा द्वादशाक्षरा भूत्वा प्राजायत
तस्मादाहुर्गायत्री वाव सर्वाणि च्छन्दांसि गायत्री ह्येतान् पोषान् पुष्यन्त्यैदिति
इन्द्रस्तृतीयसवनाद्बीभत्समान उदक्रामत् तद्देवाः स्वादिष्ठयेति अस्वदयन्मदिष्ठयेति मद्वदकुर्वन् पवस्व सोम धारयेत्यपावयन्निन्द्राय पातवे सुत इति ततो वै तदिन्द्र उपावर्तत यत् स्वादिष्ठया मदिष्ठयेति प्रस्तौति तृतीयसवनस्य सेन्द्रत्वाय
स्वादिष्ठा वै देवेषु पशव आसन्मदिष्ठा असुरेषु ते देवाः स्वादिष्ठया मदिष्ठयेति पशूनसुराणामवृञ्जत
पशून् भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
तासु संहितम्
साध्या वै नामदेवा आसंस्तेऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल्लोकमायंस्तद्देवाः संहितेन समदधुर्यत् समदधुस्तस्मात् संहितम्
कालेयं पुरस्ताद्भवति संहितमुपरिष्टादेताभ्यां हि तृतीयसवनं संतायते
सर्वाणि वै रूपाणि संहितं यत् पदप्रस्तावं तेन राथन्तरं यद्बृहतो रोहान् रोहति तेन बार्हतं यद्पदनिधनं तेन राथन्तरं सर्वेष्वेव रूपेषु प्रतितिष्ठति
8.5
उष्णिक्ककुभावेते भवतः
उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रं प्राहरत् ककुभि पराक्रमतोष्णिहा प्राहरत् तस्मात् ककुभो मध्यमं पदं भूयिष्ठाक्षरं पराक्रमणं हि तदभि समौहत् तस्मादुष्णिह उत्तमं पदं भूयिष्ठाक्षरं पुरो गुरुरिव हि वज्रः
वज्रं भ्रातृव्याय प्रहरति य एवंव्वेद
नासिके वा एते यज्ञस्य यदुष्णिक्ककुभौ तस्मात् समानं छन्दः सती नाना यज्ञंव्वहतस्तस्मात् समानाया नासिकायाः सत्या नाना प्राणावुच्चरतः
प्राणा वा उष्णिक्ककुभौ तस्मात् ताभ्यां न वषट्कुर्वन्ति यद्वषट्कुर्युः प्राणानग्नौ प्रदध्युः
तासु सफं विफमिव वै तृतीयसवनं तृतीयसवनस्य सफत्वायाथौष्कलमेतेन वै प्रजापतिः पुष्कलान् पशूनसृजत तेषु रूपमदधाद्यदेतत् साम भवति पशुष्वेव रूपं दधाति
पुरोजिती वो अन्धस इति पद्या चाक्षर्या च विराजौ भवतः पद्यया वै देवाः स्वर्गंल्लोकमायन्नक्षर्यया ऋषयो नु प्राजानान् यदेते पद्या चाक्षर्या च विराजौ भवतः स्वर्गस्य लोकस्य प्रज्ञात्यै
तासु श्यावाश्वम्
श्यावाश्वमार्वनानसं सत्त्रमासीनं धन्वोदवहन् स एतत् सामापश्यत् तेन वृष्टिमसृजत ततो वै स प्रत्यतिष्ठत् ततो गातुमविन्दत गातुविद्वा एतत् साम
विन्दते गातुं प्रतितिष्ठत्येतेन तुष्टुवानः
इन्द्रस्तृतीयसवनाद्बीभत्समान उदक्रामत् तं देवाः श्यावाश्ल्वेनैहायि एहियेत्यन्वाह्वयन् स उपावर्तत यदेतत् साम भवति तृतीयसवनस्य सेन्द्रत्वाय
अथैतदान्धीगवमन्धीगुर्वा एतत् पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत यदेतत् साम भवति पशूनां पुष्ट्यै मध्ये निधनमैडं भवत्येतेन वै तृतीयसवनं प्रतिष्ठितं यन्मध्ये निधनमैडं न स्यादप्रतिष्ठितं तृतीयसवनं स्यात्
दशाक्षरं मध्यतो निधनमुपयन्ति दशाक्षरा विराड्विराज्येव प्रतितिष्ठति
अभि प्रियाणि पवत इति कावं प्राजापत्यं साम
प्रजा वै प्रियाणि पशवः प्रियाणि प्रजायामेव पशुषु प्रतितिष्त्शुषु प्रतितिष्ठति
रश्मी वा एतौ यज्ञस्य यदौशनकावे देवकोशो वा एष यज्ञमभिसमुब्जितो यदेते अन्ततो भवतो यज्ञस्यारिष्ट्यै
8.6
देवा वै ब्रह्म व्यभजन्त तस्य यो रसोऽत्यरिच्यत तद्यज्ञायज्ञीयमभवत्
ब्रह्मणो वा एष रसो यद्यज्ञायज्ञीयं यद्यज्ञायज्ञीयेन स्तुवन्ति ब्रह्मण एव रसे यज्ञं प्रतिष्ठापयति
योनिर्वै यज्ञायज्ञीयमेतस्माद्वै योनेः प्रजापतिर्यज्ञमसृजत तस्माद्यज्ञायज्ञीयम्
तस्माद्वा एतेन पुरा ब्राह्मणा बहिष्पवमानमस्तोषत योनेर्यज्ञं प्रतनवामहा इति यज्ञं ततः स्तुवन्ति योनौ यज्ञं प्रतिष्ठापयति
असुरेषु वै सर्वो यज्ञ आसीत् ते देवा यज्ञायज्ञीयमपश्यंस्तेषां यज्ञायज्ञा वो अग्नय इत्यग्निहोत्रमवृञ्जत गिरागिरा च दक्षस इति दर्शपूर्णमासौ प्रप्र वयममृतं जातवेदसमिति चातुर्मास्यानि प्रियं मित्रं न शंसिषमिति सौम्यमध्वरम्
यज्ञा वो अग्नये गिरा च दक्षसे प्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषमिति वै तर्हि च्छन्दांस्यासंस्ते देवा अभ्यारम्भमभिनिवर्त्यं च्छन्दोभिर्यज्ञमसुराणामवृञ्जत
छन्दोभिर्यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
एतद्ध स्म वा आह कूशाम्बः स्वायवो ब्रह्मा लातव्यः कं स्विदद्य शिशुमारी यज्ञपथेऽप्यस्ता गरिष्यति
एषा वै शिशुमारी यज्ञपथेऽप्यस्ता यज्ञायज्ञीयं यद्गिरागिरेत्याहात्मानं तदुद्गाता गिरति
ऐरं कृत्वोद्गेयमिरायां यज्ञं प्रतिष्ठापयत्यप्रमायुक उद्गाता भवति
वैश्वानरे वा एतदुद्गातात्मानं प्रदधाति यत् प्रप्र वयमित्याह प्रप्रीं वयमिति वक्तव्यंव्वैश्वानरमेव परिक्रामति
यो वै निह्नुवानं च्छन्द उपैति पापीयानुज्जगिवान् भवत्येतद्वै निह्नुवानं च्छन्दो यन्न शंसिषमिति नु शंसिषमिति वक्तव्यं सुशंसिषमिति वा न निह्नुवानं छन्द उपैति वसीयानुज्जगिवान् भवति
यस्य वै यज्ञा वागन्ता भवन्ति वाचश्छिद्रेण स्रवन्त्येते वै यज्ञा वागन्ता ये यज्ञायज्ञीयान्ता एतद्वाचश्छिद्रं यदनृतं यदग्निष्टोमयाज्यनृतमाह तदन्वस्य यज्ञः स्रवत्यक्षरेणान्ततः प्रतिष्ठाप्यमक्षरेणैव यज्ञस्य च्छिद्रमपि दधाति
विराजो वा एतद्रूपं यदक्षरं विराज्येवान्ततः प्रतितिष्ठति
8.7
इतो वै प्रातरूर्ध्वाणि च्छन्दांसि युज्यन्तेऽमुतोऽवाञ्चि यज्ञायज्ञीयस्य स्तोत्रे युज्यन्ते यज्ञा वो अग्नये गिरा च दक्षस इति द्वादशाक्षरं प्र वयममृतं जातवेदसमित्येकादशाक्षरं प्रियं मित्रंन्न शंसिषमित्यष्टाक्षरम्
अनुष्टुभमुत्तमां संपादयतीयं वा अनुष्टुबस्यामेव प्रतितिष्ठति
वाग्वा अनुष्टुब्वाच्येव प्रतितिष्ठति ज्यैष्ठ्यं वा अनुष्टुब्जैष्ठ्य एव प्रतितिष्ठति
कथमिव यज्ञायज्ञीयं गेयमित्याहुर्यथानड्वान् प्रस्रावयमाण इत्थमिव चेत्थमिव चेति
वैश्वानरं वा एतदुद्गातानु प्रसीदन्नेतीत्याहुर्यद्यज्ञायज्ञीयस्यर्चं संप्रत्याहेति परिक्रामतेवोद्गेयंव्वैश्वानरमेव परिक्रामति
वैश्वानरे वा एतदध्वर्युः सदस्यानभिसृजति यद्यज्ञायज्ञीयस्य स्तोत्रमुपावर्तयति प्रावृतेनोद्गेयंव्वैश्वानरेणानभिदाहाय
न ह तु वै पितरः प्रावृतं जानन्ति यज्ञायज्ञीयस्य वै स्तोत्रे पितरो यथायथं जिज्ञासन्त आकर्णाभ्यां प्रावृत्यं तदेव प्रावृतं तदप्रावृतं जानन्ति पितरो न वैश्वानरो हिनस्ति
अपः पश्चात् पत्न्य उपसृजन्ति वैश्वानरमेव तच्छमयन्त्यापो हि शान्तिः
अथो रेत एव तत् सिञ्चन्त्यापो हि रेतः
दक्षिणानूरूनभिषिञ्चन्ति दक्षिणतो हि रेतः सिच्यते
महदिव प्रत्यूह्यं मन एवास्य तज्जनयन्ति
उद्गात्रा पत्नीः संख्यापयन्ति रेतोधेयाय
हिङ्कारं प्रति संख्यापयन्ति हिङ्कृताद्धि रेतोऽधीयत
आतृतीयायाः संख्यापयन्ति त्रिवद्धि रेतः
8.8
देवा वा अग्निष्टोममभिजित्योक्थानि नाशक्नुवन्नभिजेतुं तेऽग्निमब्रुवंस्त्वया मुखेनेदं चयामेति सोऽब्रवीत् किं मे ततः स्यादिति यत् कामयस इत्यब्रुवन् सोऽब्रवीन्मद्देवत्यासूक्थानि प्रणयानिति
तस्मादाग्नेयीषूक्थानि प्रणयन्ति
तस्मादु गायत्रीषु गायत्रच्छन्दा ह्यग्निः
तेऽग्निं मुखं कृत्वा साकमश्वेनाभ्यक्रामन् यत् साकमश्वेनाभ्यक्रामंस्तस्मात् साकमश्वम्
तस्मात् साकमश्वेनोक्थानि प्रणयन्त्येतेन हि तान्यग्रेऽभ्यजयन्
स इन्द्रोऽब्रवीत् कश्चाहं चेदमन्ववैष्याव इत्यहं चेति वरुणस्तंव्वरुणोऽन्वतिष्ठदिन्द्र आहरत् तस्मादैन्द्रावरुणमनुशस्यते
स एवाब्रवीत् कश्चाहं चेदमन्ववैष्याव इत्यहं चेति बृहस्पतिस्तं बृहस्पतिरन्वतिष्टदिन्द्र आहरत् तस्मादैन्द्राबार्हस्पत्यमनुशस्यते स एवाब्रवीत् कश्चाहं चेदमन्ववैष्याव इत्यहं चेति विष्णुस्तं विष्णुरन्वतिष्टदिन्द्र आहरत् तस्मादैन्द्रावैष्णवमनुशस्यते
पशून् वा एभ्यस्तानाहरत् पशवो वा उक्थानि पशुकाम उक्थेन स्तुवीत पशुमान् भवति
बृहता वा इन्द्रो वृत्राय वज्रं प्राहरत् तस्य तेजः परापतत् तत् सौभरमभवत्
जामि वा एतद्यज्ञे क्रियत इत्याहुर्यद्रथन्तरं पृष्ठं रथन्तरं संधिर्नान्तरा बृहता स्तुवन्तीति यत् सौभरेण स्तुवन्ति बृहतैव तदन्तरा स्तुवन्ति बृहतो ह्येतत् तेजो यत् सौभरम्
यदि बृहत् सामातिरात्रः स्यात् सौभरमुक्थानां ब्रह्म साम कार्यं बृहदेव तत् तेजसा समर्धयति
यदि रथन्तरसाम्ना सौभरं कुर्यादजामितायै
देवानां वै स्वर्गंल्लोकं +यतां दिशोऽव्लीयन्त ताः सौभरेणो इत्युदस्तंभुवंस्ततो वै ता अदृंहन्त ततः प्रत्यतिष्ठंस्ततः स्वर्गंल्लोकं प्राजानन् यः स्वर्गकामः स्याद्यः प्रतिष्ठाकामः सौभरेण स्तुवीत प्र स्वर्गंल्लोकं जानाति प्रतित्ष्ठति
प्रजापतिः प्रजा असृजत ताः सृष्टा आशनायंस्ताभ्यः सौभरेणोर्गित्यन्नं प्रायच्छत् ततो वै ताः समैधन्त
समेधन्ते तां समां प्रजा यत्रैवंव्विद्वान् सौभरेणोद्गायति
ता अब्रुवन् सुभृतं नोऽभार्षीरिति तस्मात् सौभरम्
वृष्टिं वा अभ्यस्तां प्रायच्छदन्नमेव
यो वृष्टिकामः स्याद्योऽन्नाद्यकामो यः स्वर्गकामः सौभरेण स्तुवीत
हीषिति वृष्टिकामाय निधनं कुर्यादूर्गित्यन्नाद्यकामायो इति स्वर्गकामाय
सर्वे वै कामाः सौभरं सर्वेष्वेव कामेषु प्रतितिष्ठति
अथैतन्नार्मेधम्
नृमेधसमाङ्गिरसं सत्त्रमासीनं श्वभिरभ्याह्वयन् सोऽग्निमुपाधावत् पाहि नो अग्न एकयेति तंव्वैश्वानरः पर्युदतिष्ठत् ततो वै स प्रत्यतिष्ठत् ततो गातुमविन्दत
गातुविद्वा एतत् साम विन्दते गातुं प्रतितिष्ठत्येतेन तुष्टुवानः
नैव ह्येतदह्नो रूपं न रात्रेर्यदुक्थानाम्
ककुप्प्रथमाथोष्णिगथ पुरौष्णिगनुष्टुप्तेनानुष्टुभो नयन्त्यच्छावाकसाम्नः
8.9
हारिवर्णं भवति
असुरा वा एषु लोकेष्वासंस्तान् देवा हरिश्रियमित्यस्माल्लोकात् प्राणुदन्त विराजसीत्यन्तरिक्षाद्दिवोदिव इत्यमुष्मात्
तद्य एवं वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्येमांल्लोकानभ्यारोहति
हरिवर्णो वा एतत् पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत यदेतत् साम भवति पशूनां पुष्टैः
अङ्गिरसः स्वर्गंल्लोकं यतो रक्षांस्यन्वसचन्त तान्येतेन हरिवर्णोऽपाहन्त यदेतत् साम भवति रक्षसामपहत्यै
पृष्ठानि वा असृज्यन्त तेषां यत् तेजो रसोऽत्यरिच्यत तद्देवाः समभरंस्तदुद्वंशीयमभवत्
सर्वेषां वा एतत् पृष्ठानां तेजो यदुद्वंशीयं तस्माद्वा एतत् पुरा सजाताय नाक्रन् पापवसीयसो विधृत्यै
एष ह्येव पृष्ठैस्तुष्टुवानो य उद्वंशीयेन स्तुवते
सर्वाणि वै रूपाण्युद्वंशीयम्
गायन्ति त्वा गायत्रिण एति रथन्तरस्य रूपमेति हि रथन्तरम्
आदिर्बृहत ऊर्ध्वमिव हि बृहत्
परिष्टोभो वैरूपस्य परिष्टुभं हि वैरूपम्
अनुतोदो वैराजस्यानुतुन्नं हि वैराजम्
अर्धेडा शक्वरीणामतिस्वारो रेवतीनाम्
अर्धेडया वै देवा असुरानवहत्यातिस्वारेण स्वर्गंल्लोकमारोहन्
तद्य एवंव्वेदार्धेडयैव भ्रातृव्यमवहत्यातिस्वारेण स्वर्गंल्लोकमारोहति
अर्धेडया वै पूर्वं यज्ञं संस्थापयन्त्यतिस्वारेणोत्त्रमारभन्ते
उपैनमुत्तरो यज्ञो नमति य एवंव्वेद
पाङ्क्तं वा एतत् साम पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति
आष्टादंष्ट्रे ऋद्धिकामाय कुर्यात्
अष्टादंष्ट्रो वैरूपोऽपुत्रोऽप्रजा अजीर्यत् स इमांल्लोकान् विचिच्छिद्वां अमन्यत स एते जरसि सामनी अपश्यत् तयोरप्रयोगादबिभेत् सोऽब्रवीदृध्नवद्योभे सामभ्यां स्तवता इति
ऋषेर्वा एतत् प्राशोद्भूतं यदष्टादंष्ट्रे भवत ऋध्या एव
8.10
गायत्रीषु ब्रह्मवर्चसकामायोक्थानि प्रणयेयुर्गायत्र्यां ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषा गायत्री संपद्यते
तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे
गायत्रीषु पशुकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषोष्णिक्संपद्यते
पशवो वा उष्णिक्पशूनेवावरुन्धे
गायत्रीषु पुरुषकामायोक्थानि प्रणयेयुः ककुभि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषा ककुप्संपद्यते
पुरुषो वै ककुप्पुरुषानेवावरुन्धे
विराट्स्वन्नाद्यकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषा विराट्संपद्यते
अन्नं विराडन्नाद्यमेवावरुन्धे
अक्षरपङ्क्तिषु ज्यैष्ठ्यकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषानुष्टुप्संपद्यते
ज्यैष्ठ्यं वा अनुष्टुब्ज्यैष्ठ्यमवावरुन्धे

८.१.१ ब्रह्मसामस्वरूपकथनं

आष्कारणिधनं काण्वंव्वषट्कारणिधनं अभिचरणीयस्य ब्रह्मसाम कुर्यादभिनिधनं माध्यन्दिने पवमाने

८.१.२ उक्तोभयसामप्रशंसा

देवेषुर्वा एषा यद्वषट्कारोऽभीति वा इन्द्रो वृत्राय वज्रं प्राहरदभीत्येवास्मै वज्रं प्रहृत्य देवेष्वा वषट्कारेण विध्यति

८.१.३ त्रैककुभविधानं

त्रैककुभं पशुकामाय ब्रह्मसाम कुर्यात्त्वं अङ्ग प्रशंसिष इत्येतासु

८.१.४ निर्व्वचनद्वारा तस्य प्रशंसा ।

इन्द्रो यतीन्सालावृकेभ्यः प्रायच्छत्तेषां त्रय उदशिष्यन्त रायोवाजो बृहद्गिरिः पृथुरश्मिस्तेऽब्रुवन्को नः पुत्रान्भरिष्यन्तीत्यहं इन्तीन्द्रोऽब्रवीत्तांस्त्रिककुबधिनिधायाचरत्स एतत्सामापश्यद्यत्त्रिककुबपश्यत्तस्मात्त्रैककुभम्

८.१.५ तेषां जीवनकल्पने वक्तव्यता

स आत्मानं एव पुनरुपाधावत्त्वं अङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यं न त्वदन्यो मघवन्नस्ति च मर्डितेन्द्र ब्रवीमि ते वच इति स एतेन च प्रगाथेनैतेन साम्ना सहस्रं पशूनसृजत तानेभ्यः प्रायच्छत्ते प्रत्यतिष्ठन्

८.१.६ तस्योपसंहारः

यः पशुकामः स्याद्यह्प्रतिष्ठाकाम एतस्मिन्प्रगाथ एतेन साम्ना स्तुवीत प्र सहस्रं पशूनाप्नोति प्रतितिष्ठति

८.१.७ तस्य पुनःप्रशंसा

त्रिवीर्यं वा एतत्साम त्रीन्द्रियं ऐन्द्र्य ऋच ऐन्द्रं सामैन्द्रेति निधनं इन्द्रिय एव वीर्ये प्रतितिष्ठति

८.१.८ दीर्घरोगिनः प्रयोगे ब्रह्मसाम

त्रैशोकं ज्योगामयाविने ब्रह्मसाम कुर्यात्

८.१.९ तस्य प्रशंसा

इमे वै लोकाः सहासंस्तेऽशोचन्तंस्तेषां इन्द्र एतेन साम्ना शुचं अपाहन्यत्त्रयाणां शोचतां अपाहंस्तस्मात्त्रैशोकम्

८.१.१० शुचामन्यत्र प्राप्तिं दर्शयति

यास्मादपाहन्सा पुंश्चलीं प्राविशद्यां अन्तरिक्षात्सा क्लीबं यां अमुष्मात्सैनस्विनम्

८.१.११ धनादीच्छानिर्व्वचनं

तस्मात्तेषां नाशैतव्या य एषां आशामेति तस्मा एव शुचोऽपभजते

८.१.१२ असङ्गत्वप्रदर्शनेनोपसंहारः

शुचा वा एष विद्धो यस्य ज्योगामयति यत्त्रैशोकं ब्रह्मसाम भवति शुचं एवास्मादपहन्ति

८.१.१३ निधनमपि उक्तविषये अनुकूलं

दिवेति निधनं उपयन्ति व्युष्टिर्वै दिवा व्येवास्मै वासयति

८.२.१ प्रतिष्ठार्थिनः प्रयोगे ब्रह्मसामविधानं

आष्कारणिधनं काण्वं प्रतिष्ठाकामाय ब्रह्मसाम कुर्यात्

८.२.२ निधनद्वारास्य प्रशंसा

कण्वो वा एतत्सामर्ते निधनं अपश्यत्स न प्रत्यतिष्ठत्स वृषदंशस्याषिति क्षुवत उपाशृणोत्स तदेव निधनं अपश्यत्ततो वै स प्रत्यतिष्ठद्यदेतत्साम भवति प्रतिष्ठित्यै

८.२.३ अप्रजार्थिनः प्रयोगे ब्रह्मसामविधानं

वसिष्ठस्य जनित्रं प्रजाकामाय ब्रह्मसाम कुर्यात्

८.२.४ अस्य प्रजासम्बन्धकथनं

वसिष्ठो वा एतत्पुत्रहतः सामापश्यत्स प्रजया पशुभिः प्राजायत यदेतत्साम भवति प्रजात्यै

८.२.५ स्वर्गार्थिनः प्रयोगे ब्रह्मसामविधानं

आथर्वणं लोककामाय ब्रह्मसाम कुर्यात्

८.२.६ अस्य साम्नः प्रशंसा

अथर्वाणो वा एतल्लोकाकामाः सामापश्यंस्तेनामर्त्यंल्लोकं अपश्यन्यदेतत्साम भवति स्वर्गस्य लोकस्य प्रजात्यै

८.२.७ शत्रूणामपमानार्थं प्रयोगे ब्रह्मसामविधानं

अभीवर्तं भ्रातृव्यवते ब्रह्मसाम कुर्यात्

८.२.८ तस्य प्रशंसा

अभीवर्तेन वै देवा असुरानभ्यवर्तन्त यदभीवर्तो ब्रह्मसाम भवति भ्रातृव्यस्याभिवृत्यै

८.२.९ यज्ञविभ्रष्टाय ब्रह्मसामविधानं

श्रायन्तीयं यज्ञविभ्रष्टाय ब्रह्मसाम कुर्यात्

८.२.१० पाकार्थत्वात् स्रायन्तीयसंज्ञा

प्रजापतिरुषसं अध्यैत्स्वां दुहितरं तस्य रेतः परापतत्तदस्यां न्यषिच्यत तदश्रीणादिदं मे मा दुषदिति तत्सदकरोत्पशूनेव

८.२.११ प्रकृतोपसंहारः

यच्छ्रायन्तीयं ब्रह्मसाम भवति श्रीणाति चैवेनं सच्च करोति

८.३.१ कालेयनामनिर्व्वचनं

देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त ते देवाः प्रजापतिं उपाधावंस्तेभ्य एतत्साम प्रायच्छदेतेनैनान्कालयिष्यद्धं इति तेनैनानेभ्यो लोकेभ्योऽकालयन्त यदकालयन्त तस्मात्कालेयम्

८.३.२ विदुषः फलं

एभ्यो वै लोकेभ्यो भ्रातृव्यं कालयते य एवंव्वेद

८.३.३ एतस्य प्रशंसा

स्तोमो वै देवेषु तरो नामासीद्यज्ञोऽसुरेषु विदद्वसुस्ते देवास्तरोभिर्वो विदद्वसुं इति स्तोमेन यज्ञं असुराणां आवृञ्जत

८.३.४ पुनर्व्विदुषः फलं

स्तोमेन यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद

८.३.५ सन्ततिरूपत्वेनास्य प्रशंसा

साध्या वै नाम देवा आसंस्तेऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल्लोकं आयंस्तद्देवाः कालेयेन समतन्वन्यत्कालेयं भवति तृतीयसवनस्य संतत्यै

८.३.६ तृतीयसवनकालेययोः सम्बन्धः

विदद्वसु वै तृतीयसवनं यत्तरोभिर्वो विदद्वसुं इति प्रस्तौति तृतीयसवनं एव तदभ्यतिवदति

८.३.७ सर्व्वपृष्ठस्वरूपत्वेनास्य प्रशंसाः

सर्वाणि वै रूपाणि कालेयं यत्पदप्रस्तावं तेन राथन्तरं यद्बृहतो रोहान्रोहति तेन बार्हतं यत्स्तोभवान्प्रतिहारस्तेन बार्हतं यद्द्रवदिडं तेन राथन्तरं सर्वेष्वेव रूपेषु प्रतितिष्ठति

८.४.१ तृतीयसवनस्य गायत्रीसम्बन्धः

साध्या वै नाम देवा आसंस्ते सर्वेण यज्ञेन सह स्वर्गंल्लोकं आयंस्ते देवाशीछन्दांस्यब्रुवन्सोमं आहरतेति ते जगतीं प्राहिण्वन्सा त्रीण्यक्षराणि हित्वैकाक्षरा भूत्वागच्छत्त्रिष्टुभं प्राहिण्वन्सैकं अक्षरं हित्वा त्र्यक्षरा भूत्वागच्छद्गायत्रीं प्राहिण्वंश्चतुरक्षराणि वै तर्हि च्छन्दांस्यासन्सा तानि चाक्षराणि हरन्त्यागच्छदष्टाक्षरा भूत्वा त्रीणि च सवनानि हस्ताभ्यां द्वे सवने दन्तैर्दंष्ट्वा तृतीयसवनं तस्माद्द्वे अंशुमती सवने धीतं तृतीयसवनं दन्तैर्हि तद्दंष्ट्वा धयन्त्यहरत्तस्य ये ह्रियमाणस्यांशवः परापतंस्ते पूतीका अभवन्यानि पुष्पाण्यवाशीयन्त तान्यर्ज्जुनानि यत्प्राप्रोथत्ते प्रप्रोथास्तस्मात्तृतीयसवन आशिरं अवनयन्ति यं एव तं गावः सोमं अदन्ति तस्य तं रसं अवनयन्ति ससोमत्वाय

८.४.२ सवनसम्बन्धकथनं

ते त्रिष्टुब्जगत्यै गायत्रीं अब्रूतां उप त्वायावेति साब्रवीत्किं मे ततः स्यादिति यत्कामयस इत्यब्रूतां साब्व्रवीन्मम सर्वं प्रातःसवनं अहं उत्तरे सवने प्रणयानीति तस्माद्गायत्रं प्रातःसवनं गायत्र्युत्तरे सवने प्रणयति

८.४.३ गायत्रीप्राप्तिप्रकारः

तान्त्रिष्टुप्त्रिभिरक्षरैरुपैत्सैकादशाक्षरा भूत्वा प्राजायत तां जगत्येकेनाक्षरेणोपैत्सा द्वादशाक्षरा भूत्वा प्राजायत

८.४.४ गायत्र्या सर्व्वच्छन्दोव्याप्तिः

तस्मादाहुर्गायत्री वाव सर्वाणि च्छन्दांसि गायत्री ह्येतान्पोषान्पुष्यन्त्यैदिति

८.४.५ गायत्रसंहिताधारभूतं स्वादिष्टयेति तृचं विदधाति

इन्द्रस्तृतीयसवनाद्बीभत्समान उदक्रामत्तद्देवाः स्वादिष्ठयेति अस्वदयन्मदिष्ठयेति मद्वदकुर्वन्पवस्व सोम धारयेत्यपावयन्निन्द्राय पातवे सुत इति ततो वै तदिन्द्र उपावर्तत यत्स्वादिष्ठया मदिष्ठयेति प्रस्तौति तृतीयसवनस्य सेन्द्रत्वाय

८.४.६ अस्य प्रशंसा

स्वादिष्ठा वै देवेषु पशव आसन्मदिष्ठा असुरेषु ते देवाः स्वादिष्ठया मदिष्ठयेति पशूनसुराणां अवृञ्जत

८.४.७ विदुषः फलं

पशून्भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद

८.४.८ संहितविधानं

तासु संहितम्

८.४.९ तस्य प्रशंसा

साध्या वै नाम देवा आसंस्तेऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल्लोकं आयंस्तद्देवाः संहितेन समदधुर्यत्समदधुस्तस्मात्संहितम्

८.४.१० कालेयेन सहास्य स्तुतिः

कालेयं पुरस्ताद्भवति संहितं उपरिष्टादेताभ्यां हि तृतीयसवनं संतायते

८.४.११ कालेयवदस्यापि सर्व्वपृष्ठत्वं

सर्वाणि वै रूपाणि संहितं यत्पदप्रस्तावं तेन राथन्तरं यद्बृहतो रोहान्रोहति तेन बार्हतं यद्पदनिधनं तेन राथन्तरं सर्वेष्वेव रूपेषु प्रतितिष्ठति

८.५.१ सफपौष्कलछन्दोविधानं

उष्णिक्ककुभावेते भवतः

८.५.२ तस्य स्तुतिः

उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रं प्राहरत्ककुभि पराक्रमतोष्णिहा प्राहरत्तस्मात्ककुभो मध्यमं पदं भूयिष्ठाक्षरं पराक्रमणं हि तदभि समौहत्तस्मादुष्णिह उत्तमं पदं भूयिष्ठाक्षरं पुरो गुरुरिव हि वज्रः

८.५.३ उक्तार्थस्य फलकथनं

वज्रं भ्रातृव्याय प्रहरति य एवंव्वेद

८.५.४ पुनस्तस्य प्रशंसा

नासिके वा एते यज्ञस्य यदुष्णिक्ककुभौ तस्मात्समानं छन्दः सती नाना यज्ञंव्वहतस्तस्मात्समानाया नासिकायाः सत्या नाना प्राणावुच्चरतः

८.५.५ अनयोर्नियमविशेषकथनं

प्राणा वा उष्णिक्ककुभौ तस्मात्ताभ्यां न वषट्कुर्वन्ति यद्वषट्कुर्युः प्राणानग्नौ प्रदध्युः

८.५.६ सामद्वयविधानं

तासु सफं विफं इव वै तृतीयसवनं तृतीयसवनस्य सफत्वायाथौष्कलं एतेन वै प्रजापतिः पुष्कलान्पशूनसृजत तेषु रूपं अदधाद्यदेतत्साम भवति पशुष्वेव रूपं दधाति

८.५.७ तदुभयस्य स्तोत्रीयविधानं

पुरोजिती वो अन्धस इति पद्या चाक्षर्या च विराजौ भवतः पद्यया वै देवाः स्वर्गंल्लोकं आयन्नक्षर्यया ऋषयो नु प्राजानान्यदेते पद्या चाक्षर्या च विराजौ भवतः स्वर्गस्य लोकस्य प्रज्ञात्यै

८.५.८ श्यावाश्वविधानं

तासु श्यावाश्वम्

८.५.९ एतस्य प्रशंसा

श्यावाश्वं आर्वनानसं सत्त्रं आसीनं धन्वोदवहन्स एतत्सामापश्यत्तेन वृष्टिं असृजत ततो वै स प्रत्यतिष्ठत्ततो गातुं अविन्दत गातुविद्वा एतत्साम

८.५.१० विदुषः फलं

विन्दते गातुं प्रतितिष्ठत्येतेन तुष्टुवानः

८.५.११ स्तोमद्वयप्रशंसनं

इन्द्रस्तृतीयसवनाद्बीभत्समान उदक्रामत्तं देवाः श्यावाश्ल्वेनैहायि एहियेत्यन्वाह्वयन्स उपावर्तत यदेतत्साम भवति तृतीयसवनस्य सेन्द्रत्वाय

८.५.१२ आन्धीगवविधानं

अथैतदान्धीगवं अन्धीगुर्वा एतत्पशुकामः सामापश्यत्तेन सहस्रं पशूनसृजत यदेतत्साम भवति पशूनां पुष्ट्यै मध्ये निधनं ऐडं भवत्येतेन वै तृतीयसवनं प्रतिष्ठितं यन्मध्ये निधनं ऐडं न स्यादप्रतिष्ठितं तृतीयसवनं स्यात्

८.५.१३ निधनप्रशंसनं

दशाक्षरं मध्यतो निधनं उपयन्ति दशाक्षरा विराड्विराज्येव प्रतितिष्ठति

८.५.१४ कावविधानं

अभि प्रियाणि पवत इति कावं प्राजापत्यं साम

८.५.१५ तस्य स्तुतिः

प्रजा वै प्रियाणि पशवः प्रियाणि प्रजायां एव पशुषु प्रतितिष्त्शुषु प्रतितिष्ठति

८.५.१६ औशनकावे सह स्तौति

रश्मी वा एतौ यज्ञस्य यदौशनकावे देवकोशो वा एष यज्ञं अभिसमुब्जितो यदेते अन्ततो भवतो यज्ञस्यारिष्ट्यै

८.६.१ यज्ञायज्ञीयोत्पत्तिविवरणं

देवा वै ब्रह्म व्यभजन्त तस्य यो रसोऽत्यरिच्यत तद्यज्ञायज्ञीयं अभवत्

८.६.२ यज्ञायज्ञोविधानं

ब्रह्मणो वा एष रसो यद्यज्ञायज्ञीयं यद्यज्ञायज्ञीयेन स्तुवन्ति ब्रह्मण एव रसे यज्ञं प्रतिष्ठापयति

८.६.३ तस्य प्रशंसा

योनिर्वै यज्ञायज्ञीयं एतस्माद्वै योनेः प्रजापतिर्यज्ञं असृजत तस्माद्यज्ञायज्ञीयम्

८.६.४ तस्य सामप्रयुक्तप्रशंसनं

तस्माद्वा एतेन पुरा ब्राह्मणा बहिष्पवमानं अस्तोषत योनेर्यज्ञं प्रतनवामहा इति यज्ञं ततः स्तुवन्ति योनौ यज्ञं प्रतिष्ठापयति

८.६.५ सर्व्वयज्ञात्मकत्वेनास्य प्रशंसा

असुरेषु वै सर्वो यज्ञ आसीत्ते देवा यज्ञायज्ञीयं अपश्यंस्तेषां यज्ञा-यज्ञा वो अग्नय इत्यग्निहोत्रं अवृञ्जत गिरा-गिरा च दक्षस इति दर्शपूर्णमासौ प्र-प्र वयं अमृतं जातवेदसं इति चातुर्मास्यानि प्रियं मित्रं न शंसिषं इति स्ॐयं अध्वरम्

८.६.६ स्तोत्रीयगतपदवीप्साद्वारेणास्य प्रशंसा

यज्ञा वो अग्नये गिरा च दक्षसे प्र वयं अमृतं जातवेदसं प्रियं मित्रं न शंसिषं इति वै तर्हि च्छन्दांस्यासंस्ते देवा अभ्यारम्भं अभिनिवर्त्यं च्छन्दोभिर्यज्ञं असुराणां अवृञ्जत

८.६.७ वेदितुं फलं

छन्दोभिर्यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद

८.६.८ अक्षरव्यतिक्रमेण पाठः

एतद्ध स्म वा आह कूशाम्बः स्वायवो ब्रह्मा लातव्यः कं स्विदद्य शिशुमारी यज्ञपथेऽप्यस्ता गरिष्यति

८.६.९ का शिशुमारो कथं गरिष्यतीति विवरणं

एषा वै शिशुमारी यज्ञपथेऽप्यस्ता यज्ञायज्ञीयं यद्गिरा-गिरेत्याहात्मानं तदुद्गाता गिरति

८.६.१० तस्य परिहारमाह

ऐरं कृत्वोद्गेयं इरायां यज्ञं प्रतिष्ठापयत्यप्रमायुक उद्गाता भवति

८.६.११ शब्दव्यतिक्रमेण पाठः

वैश्वानरे वा एतदुद्गातात्मानं प्रदधाति यत्प्र-प्र वयं इत्याह प्रप्रीं वयं इति वक्तव्यंव्वैश्वानरं एव परिक्रामति

८.६.१२ शब्दपरित्यागेन पाठः

यो वै निह्नुवानं च्छन्द उपैति पापीयानुज्जगिवान्भवत्येतद्वै निह्नुवानं च्छन्दो यन्न शंसिषं इति नु शंसिषं इति वक्तव्यं सुशंसिषं इति वा न निह्नुवानं छन्द उपैति वसीयानुज्जगिवान्भवति

८.६.१३ यज्ञायज्ञीयनिधनस्य प्रथमाक्षरप्रयोगः

यस्य वै यज्ञा वागन्ता भवन्ति वाचश्छिद्रेण स्रवन्त्येते वै यज्ञा वागन्ता ये यज्ञायज्ञीयान्ता एतद्वाचश्छिद्रं यदनृतं यदग्निष्टोमयाज्यनृतं आह तदन्वस्य यज्ञः स्रवत्यक्षरेणान्ततः प्रतिष्ठाप्यं अक्षरेणैव यज्ञस्य च्छिद्रं अपि दधाति

८.६.१४ तस्य स्तुतिः

विराजो वा एतद्रूपं यदक्षरं विराज्येवान्ततः प्रतितिष्ठति

८.७.१ छन्दोऽवरोहेण सवनप्रशंसा

इतो वै प्रातरूर्ध्वाणि च्छन्दांसि युज्यन्तेऽमुतोऽवाञ्चि यज्ञायज्ञीयस्य स्तोत्रे युज्यन्ते यज्ञा वो अग्नये गिरा च दक्षस इति द्वादशाक्षरं प्र वयं अमृतं जातवेदसं इत्येकादशाक्षरं प्रियं मित्रंन्न शंसिषं इत्यष्टाक्षरम्

८.७.२ अनुष्टुप्सम्पन्नेनास्य प्रशंसा

अनुष्टुभं उत्तमां संपादयतीयं वा अनुष्टुबस्यां एव प्रतितिष्ठति

८.७.३ अनुष्टुभं द्वेधा प्रशंसति

वाग्वा अनुष्टुब्वाच्येव प्रतितिष्ठति ज्यैष्ठ्यं वा अनुष्टुब्जैष्ठ्य एव प्रतितिष्ठति

८.७.४ यज्ञायज्ञीयगानप्रदर्शनं

कथं इव यज्ञायज्ञीयं गेयं इत्याहुर्यथानड्वान्प्रस्रावयमाण इत्थं इव चेत्थं इव चेति

८.७.५ इत्थमिवेत्यादेर्व्विवरणं

वैश्वानरं वा एतदुद्गातानु प्रसीदन्नेतीत्याहुर्यद्यज्ञायज्ञीयस्यर्चं संप्रत्याहेति परिक्रामतेवोद्गेयंव्वैश्वानरं एव परिक्रामति

८.७.६ शिरः प्रावृत्य गानविधानं

वैश्वानरे वा एतदध्वर्युः सदस्यानभिसृजति यद्यज्ञायज्ञीयस्य स्तोत्रं उपावर्तयति प्रावृतेनोद्गेयंव्वैश्वानरेणानभिदाहाय

८.७.७ प्रावरणे विशेषकथनं

न ह तु वै पितरः प्रावृतं जानन्ति यज्ञायज्ञीयस्य वै स्तोत्रे पितरो यथायथं जिज्ञासन्त आकर्णाभ्यां प्रावृत्यं तदेव प्रावृतं तदप्रावृतं जानन्ति पितरो न वैश्वानरो हिनस्ति

८.७.८ पत्नीकर्तृकमपामुपसर्ज्जनं

अपः पश्चात्पत्न्य उपसृजन्ति वैश्वानरं एव तच्छमयन्त्यापो हि शान्तिः

८.७.९ अस्य प्रजननहेतुत्वं

अथो रेत एव तत्सिञ्चन्त्यापो हि रेतः

८.७.१० तत्र विशेषकथनं

दक्षिणानूरूनभिषिञ्चन्ति दक्षिणतो हि रेतः सिच्यते

८.७.११ अंशुकसङ्कोचनं

महदिव प्रत्यूह्यं मन एवास्य तज्जनयन्ति

८.७.१२ पत्नीसंख्यापनं

उद्गात्रा पत्नीः संख्यापयन्ति रेतोधेयाय

८.७.१३ पत्नीसंख्यापनान्तरं

हिङ्कारं प्रति संख्यापयन्ति हिङ्कृताद्धि रेतोऽधीयत

८.७.१४ संख्यापनस्य विचारः

आतृतीयायाः संख्यापयन्ति त्रिवद्धि रेतः

८.८.१ अग्निटोमसंस्थाभेदस्तोत्राणि

देवा वा अग्निष्टोमं अभिजित्योक्थानि नाशक्नुवन्नभिजेतुं तेऽग्निं अब्रुवंस्त्वया मुखेनेदं चयामेति सोऽब्रवीत्किं मे ततः स्यादिति यत्कामयस इत्यब्रुवन्सोऽब्रवीन्मद्देवत्यासूक्थानि प्रणयानिति

८.८.२ उक्तस्तोत्रीयासु आग्नेयत्वविधानं

तस्मादाग्नेयीषूक्थानि प्रणयन्ति

८.८.३ तत्स्तोत्रीयाया गायत्रीच्छन्दस्त्वं

तस्मादु गायत्रीषु गायत्रच्छन्दा ह्यग्निः

८.८.४ साकमश्वसामप्रशंसनं

तेऽग्निं मुखं कृत्वा साकं अश्वेनाभ्यक्रामन्यत्साकं अश्वेनाभ्यक्रामंस्तस्मात्साकमश्वम्

८.८.५ साकमश्वसामविधानं

तस्मात्साकमश्वेनोक्थानि प्रणयन्त्येतेन हि तान्यग्रेऽभ्यजयन्

८.८.६ इन्द्रावरुणदेवतावैलक्षण्यपरिहारः

स इन्द्रोऽब्रवीत्कश्चाहं चेदं अन्ववैष्याव इत्यहं चेति वरुणस्तंव्वरुणोऽन्वतिष्ठदिन्द्र आहरत्तस्मादैन्द्रावरुणं अनुशस्यते

८.८.७ एवमैन्द्राबार्हस्पत्येन्द्रावैष्णवयोरपि

स एवाब्रवीत्कश्चाहं चेदं अन्ववैष्याव इत्यहं चेति बृहस्पतिस्तं बृहस्पतिरन्वतिष्टदिन्द्र आहरत्तस्मादैन्द्राबार्हस्पत्यं अनुशस्यते स एवाब्रवीत्कश्चाहं चेदं अन्ववैष्याव इत्यहं चेति विष्णुस्तं विष्णुरन्वतिष्टदिन्द्र आहरत्तस्मादैन्द्रावैष्णवं अनुशस्यते

८.८.८ तेषामभिप्रायभेदात् पशुकामत्वं

पशून्वा एभ्यस्तानाहरत्पशवो वा उक्थानि पशुकाम उक्थेन स्तुवीत पशुमान्भवति

८.८.९ सौभरसामविधानं

बृहता वा इन्द्रो वृत्राय वज्रं प्राहरत्तस्य तेजः परापतत्तत्सौभरं अभवत्

८.८.१० रथंतरपृष्ठे अतिरात्रस्य स्तुतिः

जामि वा एतद्यज्ञे क्रियत इत्याहुर्यद्रथन्तरं पृष्ठं रथन्तरं संधिर्नान्तरा बृहता स्तुवन्तीति यत्सौभरेण स्तुवन्ति बृहतैव तदन्तरा स्तुवन्ति बृहतो ह्येतत्तेजो यत्सौभरम्

८.८.११ अतिरात्रे सौभरकथनं

यदि बृहत्सामातिरात्रः स्यात्सौभरं उक्थानां ब्रह्म साम कार्यं बृहदेव तत्तेजसा समर्धयति

८.८.१२ रथन्तरपक्षे ब्रह्मसामकथनं

यदि रथन्तरसाम्ना सौभरं कुर्यादजामितायै

८.८.१३ स्वर्गप्रतिष्ठार्थप्रयोगः

देवानां वै स्वर्गंल्लोकं +यतां दिशोऽव्लीयन्त ताः सौभरेणो इत्युदस्तंभुवंस्ततो वै ता अदृंहन्त ततः प्रत्यतिष्ठंस्ततः स्वर्गंल्लोकं प्राजानन्यः स्वर्गकामः स्याद्यः प्रतिष्ठाकामः सौभरेण स्तुवीत प्र स्वर्गंल्लोकं जानाति प्रतित्ष्ठति

८.८.१४ उर्गितिनिधनेनान्वार्थत्वं

प्रजापतिः प्रजा असृजत ताः सृष्टा आशनायंस्ताभ्यः सौभरेणोर्गित्यन्नं प्रायच्छत्ततो वै ताः समैधन्त

८.८.१५ उक्तस्य विधानं

समेधन्ते तां समां प्रजा यत्रैवंव्विद्वान्सौभरेणोद्गायति

८.८.१६ अस्य प्रशंसनं

ता अब्रुवन्सुभृतं नोऽभार्षीरिति तस्मात्सौभरम्

८.८.१७ वृष्टिद्वारेणान्नप्राप्तिः

वृष्टिं वा अभ्यस्तां प्रायच्छदन्नं एव

८.८.१८ पृथक्त्वस्य समुच्चयः

यो वृष्टिकामः स्याद्योऽन्नाद्यकामो यः स्वर्गकामः सौभरेण स्तुवीत

८.८.१९ कामनाभेदेन सामव्यवस्था

हीषिति वृष्टिकामाय निधनं कुर्यादूर्गित्यन्नाद्यकामायो इति स्वर्गकामाय

८.८.२० तत्र विशेषं दर्शयति

सर्वे वै कामाः सौभरं सर्वेष्वेव कामेषु प्रतितिष्ठति

८.८.२१ तृतीयोक्थविधानं

अथैतन्नार्मेधम्

८.८.२२ अस्य प्रतिष्ठासाधनत्वं

नृमेधसं आङ्गिरसं सत्त्रं आसीनं श्वभिरभ्याह्वयन्सोऽग्निं उपाधावत्पाहि नो अग्न एकयेति तंव्वैश्वानरः पर्युदतिष्ठत्ततो वै स प्रत्यतिष्ठत्ततो गातुं अविन्दत

८.८.२३ प्रतिष्ठार्थिभिरेतत् कर्त्तव्यं

गातुविद्वा एतत्साम विन्दते गातुं प्रतितिष्ठत्येतेन तुष्टुवानः

८.८.२४ तस्य नानाच्छन्दस्वं

विच्छन्दसऋचो भवन्त्यहोरात्रयो रूपं

८.८.२५ अहोरात्रयोरुपक्लृप्तिः

नैव ह्येतदह्नो रूपं न रात्रेर्यदुक्थानाम्

८.८.२६ विच्छन्दस्त्वप्रदर्शनं

ककुप्प्रथमाथोष्णिगथ पुरौष्णिगनुष्टुप्तेनानुष्टुभो नयन्त्यच्छावाकसाम्नः

८.९.१ साकमश्वादौ ब्रह्मसामकथनं

हारिवर्णं भवति

८.९.२ तस्य प्रशंसनं

असुरा वा एषु लोकेष्वासंस्तान्देवा हरिश्रियं इत्यस्माल्लोकात्प्राणुदन्त विराजसीत्यन्तरिक्षाद्दिवो-दिव इत्यमुष्मात्

८.९.३ वेदितुः फलं

तद्य एवं वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्येमांल्लोकानभ्यारोहति

८.९.४ प्रकारान्तरेणास्य प्रशंसा

हरिवर्णो वा एतत्पशुकामः सामापश्यत्तेन सहस्रं पशूनसृजत यदेतत्साम भवति पशूनां पुष्टैः

८.९.५ रक्षोपहतिसाधनत्वेनास्य प्रशंसा

अङ्गिरसः स्वर्गंल्लोकं यतो रक्षांस्यन्वसचन्त तान्येतेन हरिवर्णोऽपाहन्त यदेतत्साम भवति रक्षसां अपहत्यै

८.९.६ अच्छावाकसाम्नः सामोत्पत्तिकथनं

पृष्ठानि वा असृज्यन्त तेषां यत्तेजो रसोऽत्यरिच्यत तद्देवाः समभरंस्तदुद्वंशीयं अभवत्

८.९.७ अस्य तेजोरूपत्वेन प्रशस्तत्वं

सर्वेषां वा एतत्पृष्ठानां तेजो यदुद्वंशीयं तस्माद्वा एतत्पुरा सजाताय नाक्रन्पापवसीयसो विधृत्यै

८.९.८ सजाताप्रयोगनिमित्तमस्य प्राशस्त्यं

एष ह्येव पृष्ठैस्तुष्टुवानो य उद्वंशीयेन स्तुवते

८.९.९ अस्य सर्व्वरूपत्वं

सर्वाणि वै रूपाण्युद्वंशीयम्

८.९.१० रथन्तररूपप्रदर्शनं

गायन्ति त्वा गायत्रिण एति रथन्तरस्य रूपं एति हि रथन्तरम्

८.९.११ बृहतीरूपप्रदर्शनं

आदिर्बृहत ऊर्ध्वं इव हि बृहत्

८.९.१२ वैरूपरूपप्रदर्शनं

परिष्टोभो वैरूपस्य परिष्टुभं हि वैरूपम्

८.९.१३ वैराजरूपप्रदर्शनं

अनुतोदो वैराजस्यानुतुन्नं हि वैराजम्

८.९.१४ शाक्वररैवतयोरूपप्रदर्शनं

अर्धेडा शक्वरीणां अतिस्वारो रेवतीनाम्

८.९.१५ अर्द्धेडातिस्वारयोः स्तुतिः

अर्धेडया वै देवा असुरानवहत्यातिस्वारेण स्वर्गंल्लोकं आरोहन्

८.९.१६ वेदितुः प्रशंसनं

तद्य एवंव्वेदार्धेडयैव भ्रातृव्यं अवहत्यातिस्वारेण स्वर्गंल्लोकं आरोहति

८.९.१७ प्रकारान्तरेणास्य प्रशंसा

अर्धेडया वै पूर्वं यज्ञं संस्थापयन्त्यतिस्वारेणोत्त्रं आरभन्ते

८.९.१८ उक्तार्थवेदितुः प्रशंसा

उपैनं उत्तरो यज्ञो नमति य एवंव्वेद

८.९.१९ पशुसाधनत्वेनास्य प्रशंसा

पाङ्क्तं वा एतत्साम पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति

८.९.२० समृद्धिकामस्य कर्त्तव्यताविधानं

आष्टादंष्ट्रे ऋद्धिकामाय कुर्यात्

८.९.२१ तस्य प्रशंसनं

अष्टादंष्ट्रो वैरूपोऽपुत्रोऽप्रजा अजीर्यत्स इमांल्लोकान्विचिच्छिद्वां अमन्यत स एते जरसि सामनी अपश्यत्तयोरप्रयोगादबिभेत्सोऽब्रवीदृध्नवद्योभे सामभ्यां स्तवता इति

८.९.२२ समृद्ध्यार्थिभिः प्रायोक्तव्यविधानं

ऋषेर्वा एतत्प्राशोद्भूतं यदष्टादंष्ट्रे भवत ऋध्या एव

८.१०.१ ब्रह्मवर्च्चसकामस्य उक्थानि

गायत्रीषु ब्रह्मवर्चसकामायोक्थानि प्रणयेयुर्गायत्र्यां ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषा गायत्री संपद्यते

८.१०.२ ततः किमिति तत्राह

तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसं अवरुन्धे

८.१०.३ पशुकामस्योक्थानि

गायत्रीषु पशुकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषोष्णिक्संपद्यते

८.१०.४ उष्णिक्सम्पत्तेः प्रयोजनं

पशवो वा उष्णिक्पशूनेवावरुन्धे

८.१०.५ पुरुषकामस्योक्थानि

गायत्रीषु पुरुषकामायोक्थानि प्रणयेयुः ककुभि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषा ककुप्संपद्यते

८.१०.६ तत्फलकथनं

पुरुषो वै ककुप्पुरुषानेवावरुन्धे

८.१०.७ अन्नाद्यकामस्योक्थानि

विराट्स्वन्नाद्यकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषा विराट्संपद्यते

८.१०.८ तस्य प्रयोजनं

अन्नं विराडन्नाद्यं एवावरुन्धे

८.१०.९ ज्येष्ठत्वकामस्य उक्थानि

अक्षरपङ्क्तिषु ज्यैष्ठ्यकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषानुष्टुप्संपद्यते

८.१०.१० अनुष्टुप् सम्पत्तेः फलं

ज्यैष्ठ्यं वा अनुष्टुब्ज्यैष्ठ्यं अवावरुन्धे